शुक्लयजुर्वेदीय काण्व नित्यविधि का अङ्ग।
श्रीशुक्लयजुर्वेदकण्वशाखीयः नित्यविधिः
( आचारमार्तण्ड : )
श्रीमत्पूज्य मज्ञेश्वराध्वरिसुरिसूनवः श्रीचिदम्बर सोमयाजिनः
( बडली ) इत्येतैः परिष्कृत्य सुसंस्कृतः ।
॥ अन्नसमर्पणविधिः ॥
पात्राघो भागे मण्डलं कृत्वा तदुपारि भोजनपात्रं निघाय तत्र मध्ये ओदनं वामे भक्ष्यभोज्य दक्षिणे घृतपा यसं पुरतः शाकादीन् इति परिवेषणं कारयित्त्वा ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒० इत्यन्नं प्रोक्ष्य नानापात्रस्थमन्नं तस्मै तस्मै सम्प्रददे इति सङ्कल्प्य प्रजापत इत्यस्य हिरण्यगर्भ ऋषिः त्रिष्टुप् छन्द: प्रजापतिर्देवता अन्नसमर्पणे वि ० ॥
ॐ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣳ स्या॑म॒ पत॑यो रयी॒णाम् ॥४॥ (४) ॥ यजुर्वेद का० २९-३६ ॥
एकोविष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ॥
त्रीन्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ शरभोपनिषद २४ ॥
अनेन ब्राह्मणभोजनेनामुक देवताः प्रीयन्ताम् ॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै मद्रायै नियताः प्रणताः स्मताम् ॥ देव्युपनिषद् ८ ॥
अनेन सुवासिनीभोजनेनामुकदेवताः प्रियन्ताम् ॐ तत्सद्ब्रह्मार्पणमस्तु ॥
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ ।
प्र प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥
(यजुर्वेद का० १२-८४ modified ॥)
यन्तु नदयो वर्षन्तु पर्जन्याः ॥ सुपिप्पला ओषधयो भवन्तु ॥ अन्न वतामोदनवतामामिक्षवतां ॥ एषाँꣳ राजा भूयासम्।
यन्तु॑ न॒दयो॒ वर्ष॑न्तु प॒र्जन्याः᳚ ॥ सु॒पि॒प्प॒ला ओष॑धयो भवन्तु ॥ अन्न॑वता मोद॒नव॑ता मा॒मिक्ष॑वताम् । ए॒षाँꣳ राजा॑ भूयासम् ॥॥ तैत्तिरीयब्राह्मणम् २-७-१६-४ ॥ बौधायनश्रौतसूत्रम्/प्रश्नः १८-१८ ॥
ओदन मुदब्रुवते ॥ परमेष्ठीवा एषः ॥ यदोदनः ॥ परमामेवैनँꣳ श्रियं गमयति ॥ तैत्तिरीयब्राह्मणम् १-७-१०-६ ॥
ओ॒द॒न मुदब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मा मे॒वैनँ॒ꣳ॒ श्रिय॑ ङ्गमयति ॥ तैत्तिरीयब्राह्मणम् १-७-१०-६ ॥
पार्वतीपते हर हर महादेव ॥
॥ सूत्रानुसारी भोजनविधिः ॥
प्रक्षालितपाणिपाद आचान्तः धृतोत्तरयिवस्त्रः धृत श्रीखण्डगन्धपुण्ड्रः भोजनशालामागत्य गोमयेनोपलिप्ते प्रदेशे विहितपीठाधिष्ठितः प्राङ्मुखः (श्रीकामश्चेत्प्रत्यङ्मुखः सत्य कामश्चेदुदङ्मुखः यशस्कामश्चेद्दक्षिणामुखः – पारस्करगृह्यसूत्रम्) जीवन्मातृकवर्ज हस्तपादास्येषु पञ्चस्वार्द्रः नीवारचूर्णैर्गौग्मृदा भस्मनोदकेन वा ॐ यथा चक्रायुषो विष्णुस्त्रैलोक्यं परिरक्षति ॥ एवं मण्डलमेताद्धि सर्वभूतानि रक्षतु ॥ इति चतुरस्रं मण्डलं कृत्वा तत्र निहिते विहिते पात्रे परिवेषणं कारयित्वा
ॐ पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् ।
यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥ यजुर्वेद० का० ३३-२ ॥
इत्यन्नं स्तुत्वा
ॐ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित् त्वा॑ हवामहे ॥ यजुर्वेद० का० १७-१६ ॥
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ ।
नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ॥ यजुर्वेद० का० १७- ४६ ॥
नमः॑ शम्भ॒वे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ ।
च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ यजुर्वेद० का० १७-४१ ॥
इत्याभिमन्त्र्य प्रोक्षयेत् ॥
ॐ सत्यं त्वर्तेन परिषिञ्चामि ॥ इति दिवा प्रदक्षिणं परिषिञ्चेत् ॥
रात्रौ ॐ ऋतं त्वा सत्येन परिषिञ्चामि ॥ इति ॥ ततः अन्नमभिमृश्य
ॐ तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि।
प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नम्॥४॥४॥९॥ ॥ यजुर्वेद० का० १-९ ॥
इति जप्त्वा –
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं ॥
इत्यात्मानमाग्निं विचित्य पात्राद्दक्षिणतो भुवि प्राक्संस्थां उदकधारां कृत्वा तत्र क्रमेण दिवा बलित्रयं दद्यात् ॥
ॐ भूपतये स्वाहा नमः।
ॐ भुवनपतये स्वाहा नमः।
ॐ भूतानां पतये स्वाहा नमः। इति ॥
( ॐ चित्राय स्वाहा नमः। ॐ चित्रगुप्ताय स्वाहा नमः। ॐ सर्वेभ्यो भूतेभ्यः स्वाहा नमः। इति वा ॥ )
ततः उपर्युदकं दत्वा बलीनुद्धुत्य हस्तं प्रक्षाल्य गोकर्णाकृतिदक्षिणहस्तनापोशनार्थं जलमादाय वाममध्यमानामिकाङ्गुष्ठैर्भोजनपात्रमालभ्य ॐ अन्तश्चरति भूतेषु गुहायां विश्वतो मुखः ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोकारस्त्वं विष्णोः परमं पदं ॥ इति विष्णुमन्त्रमभिध्यायन् – ॐ अमृतोपस्तरणमसि स्वाहा ॥ इत्याचम्यामृतं ध्यायन् मौनी हस्तचापल्यादि रहितो मुखे पञ्चप्राणाहुतीर्जुहुयात् ॥ अङ्गुष्ठतर्जनीमध्यमाभिः ॐ प्राणाय स्वाहा ॥ अङ्गुष्ठानामामध्यमाभिः ॐ अपानाय स्वाहा ॥ अङ्गुष्ठानामाकनिष्ठिकाभिः ॐ व्यानाय स्वाहा कनिष्ठिकातर्जन्यंगुष्ठैः ॐ समानाय स्वाहा ॥ सर्वांगुलीभिः ॐ उदानाय स्वाहा ॥ इति ॥ जलं स्पृष्ट्वा मौनं त्यक्त्वा प्राक्द्रवरूपं मध्ये कठिणं अश्नुवानः अन्ते पुनद्रनाशी स्यात् ॥ एवं यथारूचि भुक्त्वा भुक्तशेषमन्नमादाय मद्भुक्तोच्छिष्टशेष ये भुञ्जते पितरोऽधमाः ॥ तेषामन्नं मया दत्तमक्षय्यमुपतिष्ठतु ॥ इति पितृतीर्थेन भूमौ विसृज्य उत्तरापोशनार्थ उदकं गृहीत्वा ॐ अमृता पिधानमसि स्वाहा ॥ इत्यर्द्धं पीत्वा रौरवे पूयनिलये पद्मार्बुदनिवासिनां ॥ अर्थिनां सर्वभूतानामक्षय्यमुपतिष्ठतु ॥ इति अवशिष्टजलं पितृतीर्थेन भूमौ निषिच्य तस्माद्देशादपसृत्याङ्गणादौ गङ्डूषशलाकादिभिस्तर्जनीवर्जं आस्यं शोधयित्वा हस्तौ पादौ प्रक्षाल्याचम्य – ॐ अङ्गुष्ठमात्रः पुरुषो ह्यङ्गुष्ठं च समाश्रितः ॥ ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् ॥ इति दक्षिणपादाङ्गुष्ठे पाणिं निःस्राव्य
ॐ श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑ ।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गसः॒ स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृधः॑ ॥ यजुर्वेद० का० ४-१७ ॥
इति नाभिमालभ्य –
अगस्त्यं वैनतेयञ्च शनिञ्च वडवानलं ।
आहारपरिणामार्थं स्मरेद्भीमञ्च पञ्चमं ॥ इत्युदरमालभ्य –
शर्यातिञ्च सुकन्याञ्च च्यवनं शुक्रमश्विनौ ॥
भोजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न हीयते ॥
इति स्मृत्वा शतपदानि गत्वा मुखशुद्धिं कुर्यात् ॥
Yajurveda (Yajurved) Kanva Shakha Bhojana Vidhi