ब्रह्मसूत्रम् चतुर्थः अध्यायः द्वितीयः पादः

वागधिकरणम्

वाङ्मनसि दर्शनाच् छब्दाच् च । ( ब्रसू-४,२.१ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति प्रायणविषया श्रुतिः अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति। किमिह वाच एव वृत्तिमत्त्या मनसि संपत्तिरुच्यते उत वाग्वृत्तेरिति विशयः। तत्र वागेव तावत् मनसि संपद्यत इति प्राप्तम् तथा हि श्रुतिरनुगृहीता भवति इतरथा लक्षणा स्यात् श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा तस्मात् वाच एव अयं मनसि प्रलय इति।।

एवं प्राप्ते ब्रूमः वाग्वृत्तिर्मनसि संपद्यत इति। कथं वाग्वृत्तिरिति व्याख्यायते यावता वाङ्मनसि इत्येव आचार्यः पठति सत्यमेतत् पठिष्यति तु परस्तात् अविभागो वचनात् इति तस्मादत्र वृत्त्युपशममात्रं विवक्षतीति गम्यते। तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अविभागसाम्यात् किं परत्रैव विशिंष्यात् अविभागः इति तस्मादत्र वृत्त्युपसंहारविवक्षा। वाग्वृत्तिः पूर्वमुपसंह्रियते मनोवृत्ताववस्थितायामित्यर्थः। कस्मात् दर्शनात् दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् न तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते। ननु श्रुतिसामर्थ्यात् वाच एवायं मनस्यप्ययो युक्त इत्युक्तम् नेत्याह अतत्प्रकृतित्वात् यस्य हि यत उत्पत्तिः तस्य तत्र प्रलयो न्याय्यः मृदीव शरावस्य न च मनसो वागुत्पद्यत इति किंचन प्रमाणमस्ति। वृत्त्युद्भवाभिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति अप्सु च उपशाम्यति। कथं तर्हि अस्मिन्पक्षे शब्दः वाङ्मनसि संपद्यते इति अत आह शब्दाच्चेति शब्दोऽप्यस्मिन्पक्षेऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः।।

अत एव सर्वाण्यनु । ( ब्रसू-४,२.२ । )

भाष्यम्

शाङ्करभाष्यम्॥

तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि संपत्तिः श्रूयते तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासंभवात् शब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते। सर्वेषां करणानां मनस्युपसंहाराविशेषे सति वाचः पृथग्ग्रहणम् वाङ्मनसि संपद्यते इत्युदाहरणानुरोधेन।।

मनोऽधिकरणम्

तन्मनः प्राण उत्तरात् । ( ब्रसू-४,२.३ । )

भाष्यम्

शाङ्करभाष्यम्॥

समधिगतमेतत् वाङ्मनसि संपद्यते इत्यत्र वृत्तिसंपत्तिविवक्षेति अथ यदुत्तरं वाक्यम् मनः प्राणे इति किमत्रापि वृत्तिसंपत्तिरेव विवक्ष्यते उत वृत्तिमत्संपत्तिः इति विचिकित्सायाम् वृत्तिमत्संपत्तिरेव अत्र इति प्राप्तम् श्रुत्यनुग्रहात् तत्प्रकृतित्वोपपत्तेश्च तथा हि अन्नमयं हि सोम्य मन आपोमयः प्राणः इत्यन्नयोनि मन आमनन्ति अब्योनिं च प्राणम् आपश्चान्नमसृजन्त इति श्रुतिः। अतश्च यन्मनः प्राणे प्रलीयते अन्नमेव तदप्सु प्रलीयते अन्नं हि मनः आपश्च प्राणः प्रकृतिविकाराभेदादिति। एवं प्राप्ते ब्रूमः तदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्तराद्वाक्यादवगन्तव्यम् तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम् मनोवृत्तीनामुपशमो दृश्यते न च मनसः स्वरूपाप्ययः प्राणे संभवति अतत्प्रकृतित्वात्। ननु दर्शितं मनसः प्राणप्रकृतित्वम् नैतत्सारम् न हि ईदृशेन प्राणाडिकेन तत्प्रकृतित्वेन मनः प्राणे संपत्तुमर्हति एवमपि हि अन्ने मनः संपद्येत अप्सु चान्नम् अप्स्वेव च प्राणः न ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽद्भ्यो मनो जायत इति किंचन प्रमाणमस्ति तस्मात् न मनसः प्राणे स्वरूपाप्ययः। वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारात् इति दर्शितम्।।

अध्यक्षाधिकरणम्

सोऽध्यक्षे तदुपगमादिभ्यः । ( ब्रसू-४,२.४ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्थितमेतत् यस्य यतो नोत्पत्तिः तस्य तस्मिन्वृत्तिप्रलयः न स्वरूपप्रलय इति इदमिदानीम् प्राणस्तेजसि इत्यत्र चिन्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति। तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इत्येवं प्राप्ते प्रतिपद्यते सोऽध्यक्ष इति। स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः कुतः तदुपगमादिभ्यः एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोंच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति विशेषेण च तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति तदनुवृत्तितां च इतरेषाम् प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति सविज्ञानो भवति इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति। ननु प्राणस्तेजसि इति श्रूयते कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते नैष दोषः अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीयत्वात्।।

कथं तर्हि प्राणस्तेजसि इति श्रुतिरित्यत आह

भूतेषु तच्छ्रुतेः । ( ब्रसू-४,२.५ । )

भाष्यम्

शाङ्करभाष्यम्॥

स प्राणसंपृक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् प्राणस्तेजसि इति श्रुतेः। ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्याध्यक्षस्य नैष दोषः सोऽध्यक्षे इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सोऽपि स्रुघ्नात्पाटलिपुत्रं यातीति शक्यते वदितुम् तस्मात् प्राणस्तेजसि इति प्राणसंपृक्तस्याध्यक्षस्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम्।।

कथं तेजःसहचरितेषु भूतेष्वित्युच्यते यावता एकमेव तेजः श्रूयते प्राणस्तेजसि इति अत आह

नैकस्मिन् दर्शयतो हि । ( ब्रसू-४,२.६ । )

भाष्यम्

शाङ्करभाष्यम्॥

न एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोऽवतिष्ठते कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात्। दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने आपः पुरुषवचसः इति तद्व्याख्यातम् त्र्यात्मकत्वात्तु भूयस्त्वात् इत्यत्र। श्रुतिस्मृती च एतमर्थं दर्शयतः श्रुतिः पृथ्वीमय आपोमयो वायुमय आकाशमयस्तेजोमयः इत्याद्या स्मृतिरपि अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः। ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः इत्याद्या। ननु च उपसंहृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् क्वायं तदा पुरुषो भवति इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः इति अत्रोच्यते तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता इह पुनः भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम् प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम् न त्वाश्रयान्तरं निवारितम् तस्मादविरोधः।।

आसृत्युपक्रमाधिकरणम्

समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य । ( ब्रसू-४,२.७ । )

भाष्यम्

शाङ्करभाष्यम्॥

सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना किं वा विशेषवती इति विशयानानां विशेषवतीति तावत्प्राप्तम्। भूताश्रयविशिष्टा ह्येषा पुनर्भवाय च भूतान्याश्रीयन्ते न च विदुषः पुनर्भवः संभवति अमृतत्वं हि विद्वानश्नुते इति स्थितिः तस्मादविदुष एव एषा उत्क्रान्तिः। ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् न स्वापादिवत् यथाप्राप्तानुकीर्तनात् यथा हि यत्रैतत्पुरुषः स्वपिति नाम अशिशिषति नाम पिपासति नाम इति च सर्वप्राणिसाधारणा एव स्वापादयोऽनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते एवम् इयमपि उत्क्रान्तिः महाजनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः संपद्यते स आत्मा तत्त्वमसि इत्येतत्प्रतिपादयितुम्। प्रतिषिद्धा च एषा विदुषः न तस्य प्राणा उत्क्रामन्ति इति। तस्मात् अविदुष एवैषेति।।

एवं प्राप्ते ब्रूमः समाना चैषा उत्क्रान्तिः वाङ्मनसि इत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति अविशेषश्रवणात् अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो देहग्रहणमनुभवन् संसरति विद्वांस्तु ज्ञानप्रकाशितं मोक्षनाडीद्वारमाश्रयते तदेतत् आसृत्युपक्रमात् इत्युक्तम्। ननु अमृतत्वं विदुषा प्राप्तव्यम् न च तद्देशान्तरायत्तम् तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति अत्रोच्यते अनुपोष्य च इदम् अदग्ध्वा अत्यन्तमविद्यादीन्क्लेशान् अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते संभवति तत्र सृत्युपक्रमः भूताश्रयत्वं च न हि निराश्रयाणां प्राणानां गतिरुपपद्यते तस्माददोषः।।

संसारव्यपदेशाधिकरणम्

तदापीतेः संसारव्यपदेशात् । ( ब्रसू-४,२.८ । )

भाष्यम्

शाङ्करभाष्यम्॥

तेजः परस्यां देवतायाम् इत्यत्र प्रकरणसामर्थ्यात् तत् यथा प्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां संपद्यत इत्येतदुक्तं भवति कीदृशी पुनरियं संपत्तिः स्यादिति चिन्त्यते। तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् तत्प्रकृतित्वोपपत्तेः सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् तस्मात् आत्यन्तिकी इयमविभागापत्तिरिति। एवं प्राप्ते ब्रूमः तत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीतेः आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठते योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् इत्यादिसंसारव्यपदेशात् अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म संपद्येत तत्र विधिशास्त्रमनर्थकं स्यात् विद्याशास्त्रं च मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्रंसितुमर्हति तस्मात् तत्प्रकृतित्वेऽपि सुषुप्तिप्रलयवत् बीजभावावशेषैव एषा सत्संपत्तिरिति।।

सूक्ष्मं प्रमाणतश् च तथोपलब्धेः । ( ब्रसू-४,२.९ । )

भाष्यम्

शाङ्करभाष्यम्॥

तच्च इतरभूतसहितं तेजो जीवस्य अस्माच्छरीरात्प्रवसत आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुमर्हति। तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यते। तत्र तनुत्वात्संचारोपपत्तिः स्वच्छत्वाच्च अप्रतिघातोपपत्तिः अत एव च देहान्निर्गच्छत् पार्श्वस्थैर्नोपलभ्यते।।

नोपमर्देनातः । ( ब्रसू-४,२.१० । )

भाष्यम्

शाङ्करभाष्यम्॥

अत एव च सूक्ष्मत्वात् नास्य स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते।।

अस्यैव चोपपत्तेर् ऊष्मा । ( ब्रसू-४,२.११ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्यैव च सूक्ष्मस्य शरीरस्य एष ऊष्मा यमेतस्मिञ्जीवच्छरीरे संस्पर्शेनोष्माणं विजानन्ति। तथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु न ऊष्मा उपलभ्यते जीवदवस्थायामेव तु उपलभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्मेति। तथा च श्रुतिः उष्ण एव जीविष्यञ्शीतो मरिष्यन् इति।।

प्रतिषेधाधिकरणम्

प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम् । ( ब्रसू-४,२.१२ । )

भाष्यम्

शाङ्करभाष्यम्॥

अमृतत्वं चानुपोष्य इत्यतो विशेषणात् आत्यन्तिकेऽमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः तत्रापि केनचित्कारणेन उत्क्रान्तिमाशङ्क्य प्रतिषेधति अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति इति। अतः परविद्याविषयात्प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानामुत्क्रान्तिरस्तीति चेत् नेत्युच्यते यतः शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानाम् न शरीरात्। कथमवगम्यते न तस्मात्प्राणा उत्क्रामन्ति इति शाखान्तरे पञ्चमीप्रयोगात् संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते तस्मात् इति च प्राधान्यात् अभ्युदयनिःश्रेयसाधिकृतो देही संबध्यते न देहः न तस्मादुच्चिक्रमिषोर्जीवात् प्राणा अपक्रामन्ति सहैव तेन भवन्ति इत्यर्थः। सप्राणस्य च प्रवसतो भवत्युत्क्रान्तिर्देहादिति।।

एवं प्राप्ते प्रत्युच्यते

स्मर्यते च । ( ब्रसू-४,२.१३ । )

भाष्यम्

शाङ्करभाष्यम्॥

स्मर्यतेऽपि च महाभारते गत्युत्क्रान्त्योरभावः सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः। देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः इति। ननु गतिरपि ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते शुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्राव इति न सशरीरस्यैव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्ग इति द्रष्टव्यम् सर्वभूतदृश्यत्वाद्युपन्यासात् न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः तथा च तत्रैवोपसंहृतम् शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः। दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत् इति। तस्मादभावः परब्रह्मविदो गत्युत्क्रान्त्योः गतिश्रुतीनां तु विषयमुपरिष्टाद्व्याख्यास्यामः।।

वागादिलयाधिकरणम्

तानि परे तथा ह्य् आह । ( ब्रसू-४,२.१४ । )

भाष्यम्

शाङ्करभाष्यम्॥

तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते कस्मात् तथा हि आह श्रुतिः एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति इति। ननु गताः कलाः पञ्चदश प्रतिष्ठाः इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयम् आह स्म न सा खलु व्यवहारापेक्षा पार्थिवाद्याः कलाः पृथिव्यादीरेव स्वप्रकृतीरपियन्तीति इतरा तु विद्वत्प्रतिपत्त्यपेक्षा कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव संपद्यत इति तस्माददोषः।।

अविभागाधिकरणम्

अविभागो वचनात् । ( ब्रसू-४,२.१५ । )

भाष्यम्

शाङ्करभाष्यम्॥

स पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो भवति आहोस्विन्निरवशेष इति। तत्र प्रलयसामान्यात् शक्त्यवशेषताप्रसक्तौ ब्रवीति अविभागापत्तिरेवेति कुतः वचनात् तथा हि कलाप्रलयमुक्त्वा वक्ति भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलो़ऽमृतो भवति इति। अविद्यानिमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिः। तस्मादविभाग एवेति।।

तदोकोधिकरणम्

तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् । ( ब्रसू-४,२.१६ । )

भाष्यम्

शाङ्करभाष्यम्॥

समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता संप्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयति। समाना च आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिः इत्युक्तम् तम् इदानीं सृत्युपक्रमं दर्शयति। तस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः ओकः आयतनं हृदयम् स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति इति श्रुतेः तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना च उत्क्रान्तिः श्रूयते तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः इति। सा किमनियमेनैव विद्वदविदुषोर्भवति अथास्ति कश्चिद्विदुषो विशेषनियमः इति विचिकित्सायाम् श्रुत्यविशेषादनियमप्राप्तौ आचष्टे समानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे च मूर्धस्थानादेव विद्वान्निष्क्रामति स्थानान्तरेभ्यस्तु इतरे कुतः विद्यासामर्थ्यात् यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् नैव उत्कृष्टं लोकं लभेत तत्र अनर्थिकैव विद्या स्यात्। तच्छेषगत्यनुस्मृतियोगाच्च विद्याशेषभूता च मूर्धन्यनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम्। तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिरितरे। तथा हि हार्दविद्यां प्रकृत्य समामनन्ति शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति इति।।

रश्म्यधिकरणम्

रश्म्यनुसारी । ( ब्रसू-४,२.१७ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति हार्दविद्या अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म इत्युपक्रम्य विहिता तत्प्रक्रियायाम् अथ या एता हृदयस्य नाड्यः इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धमुक्त्वा उक्तम् अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते इति पुनश्चोक्तम् तयोर्ध्वमायन्नमृतत्वमेति इति तस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते। तत् किम् अविशेषेणैव अहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम् आहोस्विदहन्येव इति संशये सति अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते।।

निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च । ( ब्रसू-४,२.१८ । )

भाष्यम्

शाङ्करभाष्यम्॥

अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम् रात्रौ तु प्रेतस्य न स्यात् नाडीरश्मिसंबन्धविच्छेदात् इति चेत् न नाडीरश्मिसंबन्धस्य यावद्देहभावित्वात् यावद्देहभावी हि शिराकिरणसंपर्कः दर्शयति चैतमर्थं श्रुतिः अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः इति निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्यदर्शनात् स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेष्विव दुर्दिनेषु अहरेवैतद्रात्रौ दधाति इति च एतदेव दर्शयति। यदि च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत रश्म्यनुसारानर्थक्यं भवेत् न ह्येतत् विशिष्य अभिधीयते यो दिवा प्रैति स रश्मीनपेक्ष्योर्ध्वमाक्रमते यस्तु रात्रौ सोऽनपेक्ष्यैवेति अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् मृत्युकालानियमात् अथापि रात्रावुपरतोऽहरागमम् उदीक्षेत अहरागमेऽप्यस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति इति च श्रुतिः अनुदीक्षां दर्शयति। तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसारित्वम्।।

दक्षिणायनाधिकरणम्

अतश् चायनेऽपि दक्षिणे । ( ब्रसू-४,२.१९ । )

भाष्यम्

शाङ्करभाष्यम्॥

अत एव च उदीक्षानुपपत्तेः अपाक्षिकफलत्वाच्च विद्यायाः अनियतकालत्वाच्च मृत्योः दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम्। उत्तरायणमरणप्राशस्त्यप्रसिद्धेः भीष्मस्य च प्रतीक्षादर्शनात् आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान् इति च श्रुतेः अपेक्षितव्यमुत्तरायणम् इतीमामाशङ्काम् अनेन सूत्रेणापनुदति प्राशस्त्यप्रसिद्धिः अविद्वद्विषया भीष्मस्य प्रतिपालनम् आचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च। श्रुतेस्तु अर्थं वक्ष्यति आतिवाहिकास्तल्लिङ्गात् इति।।

ननु च यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतावनावृत्तये नियतः कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायात् इत्यत्रोच्यते

योगिनः प्रति स्मर्येते स्मार्ते चैते । ( ब्रसू-४,२.२० । )

भाष्यम्

शाङ्करभाष्यम्॥

योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते स्मार्ते चैते योगसांख्ये न श्रौते अतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः। ननु अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति उच्यते तं कालं वक्ष्यामि इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्क्य अयं परिहारः उक्तः। यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते तदा न कश्चिद्विरोध इति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः।।

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.