अद्वयतारकोपनिषत्
अद्वयतारकोपनिषत् Adwaya Tarakopanishad. Adwaya Taraka Upanishad. Adway Tarak. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ॐ शान्तिः शान्तिः शान्तिः । (व्याख्येयो विषयः तदधिकारी च। तारकयोगाधिकारः ।) अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः ।यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय ॥ १॥ (अद्वयतारकपदार्थौ) चित्स्वरूपोऽहमिति सदा भवयन् सम्यङ्निमीलिताक्षः किञ्चिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो भवति ॥ २॥ गर्भजन्मजरामरणभयात्संतारयति तस्मात्तारकमिति ॥ ३॥ जीवेश्वरौ मायिकौ […]