गोपथब्राह्मणम् उत्तर

Gopatha Brahmanam Uttara, Atharva Veda

अथ यद्ब्रह्मसदनात्तृणं निरस्यति शोधयत्येवैनं तत् अथोपविशतीदं अहं अर्वाग्वसोः सदने सीदामीति अर्वाग्वसुर्ह वै देवानां ब्रह्मा पराग्वसुरसुराणाम् तमेवैतत्पूर्वं सादयति अरिष्टं यज्ञं तनुतादिति अथोपविश्व जपति बृहस्पतिर्ब्रह्मेति बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा तस्मिन्नेवैतदनुज्ञां इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनात् एतद्वै यज्ञस्य द्वारम् तदेतदशून्यं करोति इष्टे च स्विष्टकृत्यानुयाजानां प्रसवादिति एतद्वै यज्ञस्य द्वितीयं द्वारम् तदेवैतदशून्यं करोति यत्परिधयः परिधीयन्ते यज्ञस्य गोपीथाय परिधीन्परिधत्ते यज्ञस्य सात्मत्वाय परिधीन्त्संमार्ष्टि पुनात्येवैनान् त्रिर्मध्यमम् त्रय इमे प्राणाः प्राणानेवाभिजयति त्रिर्दक्षिणार्ध्यम् त्रयो वै लोकाः लोकानेवाभिजयति त्रिरुत्तरार्ध्यं त्रयो वै देवलोकाः देवलोकानेवाभिजयति त्रिरुपवाजयति त्रयो वै देवयानाः पन्थानस् तानेवाभिजयति ते वै द्वादश भवन्ति द्वादश ह वै मासाः संवत्सरः संवत्सरं एव तेन प्रीणाति अथो संवत्सरं एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥

प्रजापतिर्वै रुद्रं यज्ञान्निरभजत् सोऽकामयत मेयं अस्मा आकूतिः समर्धि यो मा यज्ञान्निरभाक्षीदिति स यज्ञं अभ्यायम्याविध्यत् तदाविद्धं निरकृन्तत् तत्प्राशित्रं अभवत् तदुदयच्छत् तद्भगाय पर्यहरन् तत्प्रत्यैक्षत तस्य चक्षुः परापतत् तस्मादाहुरन्धो वै भग इति अपि ह तं नेच्छेद्यं इच्छति तत्सवित्रे पर्यहरन् तत्प्रत्यगृहात्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रत्यदधुस् तस्माद्धिरण्यपाणिरिति स्तुतस् तत्पूष्णे पर्यहरन् तत्प्राश्नात् तस्य दन्ताः परोप्यन्त तस्मादाहुरदन्तकः पूषा पिष्टभाजन इति तदिध्मायाङ्गिरसाय पर्यहरन् तत्प्राश्नात् तस्य शिरो व्यपतत् तं यज्ञ एवाकल्पयत् स एष इध्मः समिधो ह पुरातनस् तद्बर्हय आङ्गिरसाय पर्यहरन् तत्प्राश्नात् तस्याङ्गा पर्वाणि व्यस्रंसन्त तं यज्ञ एवाकल्पयत् तदेतद्बर्हिः प्रस्तरो ह पुरातनस् तद्बृहस्पतय आङ्गिरसाय पर्यहरन् सोऽबिभेद्बृहस्पतिरित्थं वाव स्य आर्तिं आरिष्यतीति स एतं मन्त्रं अपश्यत् <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [PS२०.५७.११, Kऔश्S९१.२, Vऐत्S३.८]> इत्यब्रवीत् न हि सूर्यस्य चक्षुः किं चन हिनस्ति सोऽबिभेत्प्रतिगृह्णन्तं मा हिंसिष्यतीति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्यब्रवीत् सवितृप्रसूत एवैनं तद्देवताभिः प्रत्यगृह्णात् तद्व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयामीति पृथिवी वा अन्नानां शमयित्री तयैवैनच्छमयां चकार सोऽबिभेत्प्राश्नन्तं मा हिंसिष्यतीति अग्नेष्ट्वास्येन प्राश्नामीत्यब्रवीत् न ह्यग्नेरास्यं किं चन हिनस्ति सोऽबिभेत्प्राशितं मा हिंसिष्यतीति इन्द्रस्य त्वा जठरे सादयामीत्यब्रवीत् न हीन्द्रस्य जठरं किं चन हिनस्ति वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति ॥ २ ॥

अथो आहुर्ब्राह्मणस्योदर इति आत्मास्यात्मन्नात्मानं मे मा हिंसीः स्वाहेति अन्नं वै सर्वेषां भूतानां आत्मा तेनैवैनच्छमयां चकार प्राशितं अनुमन्त्रयते <योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एतत्सुहुतं अस्तु प्राशित्रं तन्मा मा हिंसीत्परमे व्योमन्[PS२०.५७.१५]> इति तत्सर्वेण ब्रह्मणा प्राश्नात् तत एनं नाहिनत् तस्माद्यो ब्रह्मिष्ठः स्यात्तं ब्रह्माणं कुर्वीत बृहस्पतिर्वै सर्वं ब्रह्म सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते अप वा एतस्मात्प्राणाः क्रामन्ति य आविद्धं प्राश्नाति अद्भिर्मार्जयित्वा प्राणान्त्संस्पृशते वाङ्म आस्यन्निति अमृतं वै प्राणाः अमृतं आपः प्राणानेव यथास्थानं उपाह्वयते तदु हैक आहुरिन्द्राय पर्यहरन्निति ते देवा अब्रुवन्निन्द्रो वै देवानां ओजिष्ठो बलिष्ठस् तस्मा एनत्परिहरतेति तत्तस्मै पर्यहरन् तत्स ब्रह्मणा शयमां चकार तस्मादाहुरिन्द्रो ब्रह्मेति यवमात्रं भवति यवमात्रं वै विषस्य न हिनस्ति यदधस्तादभिधारयति तस्मादधस्तात्प्रक्षरणं प्रजा अरुर्न हिनस्ति यदुपरिष्टादभिधारयति तस्मादुपरिष्टात्प्रक्षरणं प्रजा अरुर्न हिनस्ति यदुभयतोऽभिघारयत्युभयतोऽभिघारि प्रजा अरुर्घातुकं स्यात् यत्समयाभिहरेदनभिविद्धं यज्ञस्याभिविध्येत् ॥ ३ ॥

अग्रेण परिहरति तीर्थेनैव परिहरति वि वा एतद्यज्ञश्छिद्यते यत्प्राशित्रं परिहरति यदाह ब्रह्मन्प्रस्थास्यामीति बृहस्पतिर्वै सर्वं ब्रह्म सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणतः संदधाति अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस् तत एवैनं आलभते यद्धस्तेन प्रमीवेद्वेपनः स्यात् यच्छीर्ष्णा शीर्षक्तिमान्त्स्यात् यत्तूष्णीं आसीतासंप्रत्तो यज्ञः स्यात् प्रतिष्ठेत्येव ब्रूयात् वाचि वै यज्ञः श्रितः यत्र ब्रह्मा यत्रैव यज्ञः श्रितस्तत एवैनं संप्रयच्छति अग्नीध आदधाति अग्निमुखानेवर्तून्प्रीणाति अथोत्तरासां आहुतीनां प्रतिष्ठित्या अथो समिद्वत्यव जुहोति परिधीन्त्संमार्ष्टि पुनात्येवैनान् सकृत्सकृत्संमार्ष्टि पराङेव ह्येतर्हि यज्ञः चतुः संपद्यते अथो चतुष्पादः पशवः पशूनां आप्त्यै देव सवितरेतत्ते प्राहेत्याह प्रसूत्यै बृहस्पतिर्ब्रह्मेत्याह स हि ब्रह्मिष्ठः स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्याह यज्ञाय च यजमानाय च पशूनां आप्त्यै ॥ ४ ॥

न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै इष्टी वा एतेन यद्यजतेऽथो वा एतेन पूर्ती य एष ओदनः पच्यते एष ह वा इष्टापूर्ती य एनं पचति ॥ ५ ॥

द्वया वै देवा यजमानस्य गृहं आगच्छन्ति सोमपा अन्येऽसोमपा अन्ये हुतादोऽन्येऽहुतादोऽन्ये एते वै देवा अहुतादो यद्ब्राह्मणाः एतद्देवत्य एष यः पुरानीजानः एते ह वा एतस्य प्रजायाः पशूनां ईशते तेऽस्याप्रीता इषं ऊर्जं आदायापक्रामन्ति यदन्वाहार्यं अन्वाहरति तानेव तेन प्रीणाति दक्षिणतःसद्भ्यः परिहर्तवा आह दक्षिणावतैव यज्ञेन यजते आहुतिभिरेव देवान्हुतादः प्रीणाति दक्षिणाभिर्मनुष्यदेवान् तेऽस्मै प्रीता इषं ऊर्जं नियच्छन्ति ॥ ६ ॥

देवाश्च ह वा असुराश्चास्पर्धन्त ते देवाः प्रजापतिं एवाभ्ययजन्त अन्योऽन्यस्यासन्नसुरा अजुहवुस् ते देवा एतं ओदनं अपश्यन् तं प्रजापतये भागं अनुनिरवपन् तं भागं पश्यन्प्रजापतिर्देवानुपावर्तत ततो देवा अभवन्परासुराः स य एवंविद्वानेतं ओदनं पचति भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति प्रजापतिर्वै देवेभ्यो भागधेयानि व्यकल्पयत् सोऽमन्यतात्मानं अन्तरगां इति स एतं ओदनं अभक्तं अपश्यत् तं आत्मने भागं निरवपत् प्रजापतेर्वा एष भागः अपरिमितः स्यात् अपरिमितो हि प्रजापतिः प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान् अक्षितोऽसि अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च प्राणापनौ मे पाहि समानव्यानौ मे पाहि उदानरूपे मे पाहि ऊर्गसि ऊर्जं मे धेहि कुर्वतो मे मा क्षेष्ठाः ददतो मे मोपदसः प्रजापतिं अहं त्वया समक्षं ऋध्यासं इति प्रजापतिं एव समक्षं ऋध्नोति य एवं वेद य एवं वेद ॥ ७ ॥

ये वा इह यज्ञैरार्ध्नुवंस्तेषां एतानि ज्योतींषि यान्यमूनि नक्षत्राणि तन्नक्षत्राणां नक्षत्रत्वं यन्न क्षीयन्ति दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषां एतानि ज्योतींषि यान्यमूनि नक्षत्राणि पतन्तीव तद्यथा ह वा इदं अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैतेऽमुष्मांल्लोकान्नोनुद्यन्ते त एते प्रच्यवन्ते ॥ ८ ॥

यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्तांस्त्रेधा ताण्डुलान्विभजेत् ये मध्यमास्तानग्नये दात्रेऽष्टाकपालं निर्वपेत् ये स्थविष्ठास्तानिन्द्राय प्रादात्रे दधनि चरुम् ये क्षोदिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम् [एद्. क्षोदिस्थास्, चोर्र्. Pअत्यल्] पशवो वा एतेऽतिरिच्यन्ते तानेवाप्नोति तानवरुन्द्धे अग्निर्वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता यदेवेदं क्षुद्रं पशूनां तद्विष्णोः शिपिविष्टम् तदेवाप्नोति पशूनेवावरुन्द्धे ॥ ९ ॥

या पूर्वा पौर्णमासी सानुमतिः योत्तरा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः चन्द्रमा एव धाता च विधाता च यत्पूर्णोऽन्यां वसत्यपूर्णोऽन्यां तन्मिथुनम् यत्पश्यत्यन्यां नान्यां तन्मिथुनम् यदमावास्यायाश्चन्द्रमा अधि प्रजायते तन्मिथुनम् तस्मादेवास्मै मिथुनात्पशून्प्रजनयति ॥ १० ॥

न द्वे यजेत यत्पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात् यदुत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात् नेष्टिर्भवति न यज्ञस् तदनु ह्रीतमुख्यपगल्भो जायते एकां एव यजेत प्रगल्भो हैव जायते अनादृत्य तद्द्वे यजेत यज्ञमुखं एव पूर्वयालभते यजत उत्तरया देवता एवं पूर्वयाप्नोतीन्द्रियं उत्तर्या देवलोकं एव पूर्वयावरुन्द्धे मनुष्यलोकं उत्तरया भूयसो यज्ञक्रतूनुपैत्य एषा ह वै सुमना नामेष्टिः यं अद्येजानं पश्चाच्चन्द्रमा अभ्युदियादस्मा अस्मिंल्लोक आर्धुकं भवति ॥ ११ ॥

अग्नावैष्णवं एकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समाणः अग्निर्वै सर्वा देवता विष्णुर्यज्ञः देवताश्चैव यज्ञं चारभत ऋद्ध्यै ऋध्नोत्येव उभौ सहारम्भावित्याहुः उदिन्नु शृङ्गे सितो मुच्यत इति दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः अथ यत्परस्तात्पौर्णमास आरभ्यते तद्यथा पूर्वं क्रियते तद्यत्पौर्णमासं आरभमाणः सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालं अमावास्या वै सरस्वती पौर्णमासः सरस्वानिति उभावेवैनौ सहारभत ऋद्ध्यै ऋध्नोत्येव ॥ १२ ॥

अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य प्रज्ञातेष्टिरतिपद्यते बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिरतिपद्यते अग्निर्वै देवानां पथिकृत् तं एव भागधेयेनोपासरत् स एनं पन्थानं अपिनयति अनड्वान्दक्षिणा स हि पन्थानं अभिवहति ॥ १३ ॥

अग्नये व्रतपतयेऽष्टाकपालं निर्वपेद्य आहिताग्निः सन्प्रवसेत् बहु वा एष व्रतं अतिपातयति य आहिताग्निः सन्प्रवसति व्रत्येऽहनि स्त्रियं वोपैति मांसं वाश्नाति अग्निर्वै देवानां व्रतपतिः अग्निं एतस्य व्रतं अगात् तस्मादेतस्य व्रतं आलम्भयते ॥ १४ ॥

अग्नये व्रतभृतेऽष्टाकपालं निर्वपेद्य आहिताग्निरार्तिजं अश्रु कुर्यात् आनीतो वा एष देवानां य आहिताग्निस् तस्मादेतेनाश्रु न कर्तव्यम् न हि देवा अश्रु कुर्वन्ति अग्निर्वै देवानां व्रतभृत् अग्निं एतस्य व्रतं अगात् तस्मादेतस्य व्रतं आलम्भयते ॥ १५ ॥

ऐन्द्राग्नं उस्रं अनुसृष्टं आलभेत यस्य पिता पितामहः सोमं न पिबेत् इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति यदैन्द्र इन्द्रियेणैवैनं तद्वीर्येण समर्धयति देवताभिर्वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति यदाग्नेयोऽग्निर्वै सर्वा देवताः सर्वाभिरेवैनं तद्देवताभिः समर्धयति अनुसृष्टो भवति अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति तस्मादेष एव तस्या देवतायाः पशूनां समृद्धः ॥ १६ ॥

देवा वा ओषधीषु पक्वास्वाजिं अयुः स इन्द्रोऽवेदग्निर्वावेमाः प्रथम उज्जेष्यतीति सोऽब्रवीद्यतरो नौ पूर्व उज्जयात्तन्नौ सहेति ता अग्निरुदजयत् तदिन्द्रोऽनूदजयत् स एष ऐन्द्राग्नः सन्नाग्नेन्द्रः एका वै तर्हि यवस्य श्नुष्टिरासीदेका व्रीहेरेका माषस्यैका तिलस्य तद्विश्वे देवा अब्रुवन्वयं वा एतत्प्रथयिष्यामो भागो नोऽस्त्विति तद्भूम एव वैश्वदेवः अथो प्रथयत्येतेनैव पयसि स्याद्वैश्वदेवत्वाय वैश्वदेवं हि पयः अथेमावब्रूतां न वा ऋत आवाभ्यां एवैतद्यूयं प्रथयत मयि प्रतिष्ठितं असौ वृष्ट्या पचति नैतदितोऽभ्युज्जेष्यतीति भागो नावस्त्विति ताभ्यां वा एष भागः क्रियत उज्जित्या एव अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः स्ॐईर्वा ओषधीः सोम ओषधीनां अधिराजः याश्च ग्राम्या याश्चारण्यास्तासां एष उद्धारो यच्छ्यामाकः यच्छ्यामाकः स्ॐयस्तं एव भागिनं कृणुते यदकृत्वाग्रयणं नवस्याश्नीयाद्देवानां भागं प्रतिक्ळ्प्तं अद्यात् संवत्सराद्वा एतदधिप्रजायते यदाग्रयणम् संवत्सरं वै ब्रह्मा तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्वावपेत एकहायनी दक्षिणा स हि संवत्सरस्य प्रतिमा रेत एव ह्येषोऽप्रजातः प्रजात्यै ॥ १७ ॥

अथ हैतदप्रतिरथं <इन्द्रस्य बाहू स्थविरौ वृषाणौ> इति एतेन ह वा इन्द्रोऽसुरान्प्रत्यजयत् [एद्.ऽसुरान] अप्रति ह भवत्येतेन यजमानो भ्रातृव्यं जयति संग्रामे जुहुयादप्रति ह भवति एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत् स राष्ट्र्यभवत् यं कामयेत राष्ट्री स्यादिति तं एतेन संनह्येत् राष्ट्री ह भवति एतेन ह वा इन्द्रो विराजं अभ्यजयत् दशैवान्वाह दशाक्षरा विराड्वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते तदु हैक एकादशान्वाहुः एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वज्रः वज्रेणैवैतद्रक्षांस्यपसेधति दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् तान्यप्रतिरथेनापाघ्नत तस्माद्ब्रह्माप्रतिरथं जपन्नेति यद्ब्रह्माप्रतिरथं जपन्नेति यज्ञस्याभिजित्यै रक्षसां अपहत्यै रक्षसां अपहत्यै ॥ १८ ॥

अथातश्चातुर्मास्यानां प्रयोगः फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुखं उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व] तद्यथा प्रवृत्तस्यान्तौ समेतौ स्यातां एवं एवैतत्संवत्सरस्यान्तौ समेतौ भवतस् तद्यत्फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर्यजते मुखत एवैतत्संवत्सरं प्रयुङ्क्ते अथो भैषज्ययज्ञा वा एते यच्चातुर्मास्यानि तस्मादृतुसंधिषु प्रयुज्यन्ते ऋतुसंधिषु वै व्याधिर्जायते तान्येतान्यष्टौ हवींस्षि भवन्ति अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः अथ यदग्निं मन्थन्ति प्रजापतिर्वै वैश्वदेवम् प्रजात्या एव अथैतं दैवं गर्भं प्रजनयति अथ यत्सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै अथ यत्सद्वन्तावाज्यभागावसिसंतीति वै सद्वन्तौ भवतः अथ यद्विराजौ संयाज्ये अन्नं वै श्रीर्विराडन्नाद्यस्य श्रियोऽवरुद्ध्यै [एद्.ऽवरुद्ध्याऽथ] अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन्नक्षत्रीयां विराजं आप्नोति अथो आहुर्दशनीं विराजं इति प्रयाजानुयाजा हवींष्याघारावाज्यभागाविति ॥ १९ ॥

अथ यदग्नीषोमौ प्रथमं देवतानां यजत्यग्नीषोमौ वै देवानां मुखम् मुखत एव तद्देवान्प्रीणाति अथ यत्सवितारं यजत्यसौ वै सविता योऽसौ तपति एतं एव तेन प्रीणाति अथ यत्सरस्वतीं यजति वाग्वै सरस्वती वाचं एतेन प्रीणाति अथ यन्पूषणं यजत्यसौ वै पूषा योऽसौ तपति एतं एव तेन प्रीणाति अथ यन्मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस् तानेव तेन प्रीणाति अथ यद्विश्वान्देवान्यजत्येते वै विश्वे देवा यत्सर्वे देवास् तानेव तेन प्रीणाति अथ यद्द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ प्रतिष्ठित्या एव अथ यद्वाजिनो यजति पशवो वै वाजिनः पशूनेव तेन प्रीणाति अथो ऋतवो वै वाजिनः ऋतूनेव तेन प्रीणाति अथो छन्दांसि वै वाजिनः छन्दांस्येव तेन प्रीणाति अथो देवाश्वा वै वाजिनः अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥ २० ॥

वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ताः सृष्टा अप्रसूता वरुणस्य यवाञ्जक्षुस् ता वरुणो वरुणपाशैः प्रत्यबन्धात् ताः प्रजाः प्रजापतिं पितरं एत्योपावदन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणं अप्रीणात् स प्रीतो वरुणः वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यन्त इति तत एतं प्रजापतिर्यज्ञक्रतुं अपश्यद्वरुणप्रघासान् तं आहरत् तेनायजत तेनेष्ट्वा वरुणं अप्रीणात् स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत् प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनो मुच्यन्ते य एवं वेद अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति यन्मथ्यते तस्योक्तं ब्राह्मणम् अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषां उक्तं ब्राह्मणम् अथ यन्नव प्रयाजा नवानुयाजा नवैतानि हवींषि समानानि त्वेव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि तेषां उक्तं ब्राह्मणं ॥ २१ ॥

अथ यदैन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी बलं एव तत्तेजसि प्रतिष्ठापयति अथ यद्वारुण्यामिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. Pअत्यल्] स उ वै पयोभाजनस् तस्माद्वारुण्यामिक्षा [एद्. अमिक्षा] अथ यन्मारुती पयस्याप्सु वै मरुतः श्रिताः [एद्. श्रितः. चोर्र्. Pअत्यल्] आपो हि पयः अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस् तस्मान्मारुती पयस्या अथ यत्काय एककपालः प्रजापतिर्वै कः प्रजापतेराप्त्या अथो सुखस्य वा एतन्नामधेयं कं इति [एद्. नामघेयम्] सुखं एव तदध्यात्मन्धत्ते अथ यन्मिथुनौ गावौ ददाति तत्प्रजात्यै रूपम् उक्थ्या वाजिनः अथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणाति अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैरिष्टं भवति ॥ २२ ॥

ऐन्द्रो वा एष यज्ञक्रतुर्यत्साकमेधास् तद्यथा महाराजः पुरस्तात्सेनानीकानि व्युह्याभयं पन्थानं अन्वियादेवं एवैतत्पुरस्ताद्देवता यजति [एद्. सैनानीकानि, चोर्र्. Pअत्यल्] तद्यथैवादः सोमस्य महाव्रतं एवं एवैतदिष्टिमहाव्रतम् अथ यदग्निं अनीकवन्तं प्रथमं देवतानां यजत्यग्निर्वै देवानां मुखम् मुखत एव तद्देवान्प्रीणाति अथ यन्मध्यंदिने मरुतः सांतपनान्यजतीन्द्रो वै मरुतः संतपनाः ऐन्द्रं माध्यंदिनम् तस्मादेतानिन्द्रेणोपसंहितान्यजति अथ यत्सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः सायं पोषः पशूनाम् तस्मात्सायं गृहमेधीयेन चरन्ति अतह्यच्छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत्प्रातः कर्मोपसंतन्वन्ति अथ यत्प्रातर्मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस् तस्मादेनानिन्द्रेणोपसंहितान्यजति अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति यन्मथ्यते तस्योक्तं ब्राह्मणम् अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषां उक्तं ब्राह्मणम् अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्वेव षट्संचराणि हवींषि भवन्त्यैन्द्राग्नान्तानि तेषां उक्तं ब्राह्मणम् अथ यन्महेन्द्रं अन्ततो यजत्यन्तं वै श्रेष्ठी भजते तस्मादेनं अन्ततो यजति अथ यद्वैश्वकर्मण एककपालोऽसौ वै विश्वकर्मा योऽसौ तपति एतं एव तेन प्रीणाति अथ यदृषभं ददात्यैन्द्रो ह यज्ञक्रतुः ॥ २३ ॥

अथ यदपराह्णे पितृयज्ञेन चरन्त्यपराह्णभाजो वै पितरस् तस्मादपराह्णे पितृयज्ञेन चरन्ति तदाहुर्यदपरपक्षभाजो वै पितरः कस्मादेनान्पूर्वपक्षे यजन्तीति देवा वा एते पितरस् तस्मादेनान्पूर्वपक्षे यजन्तीति अथ यदेकां सामिधेनीं त्रिरन्वाह सकृद्ह वै पितरस् तस्मादेकां सामिधेनीं त्रिरन्वाह अथ यद्यजमानस्यार्षेयं नाह नेद्यजमानं प्रवृणजानीति अथ यत्सोमं पितृमन्तं पितॄन्वा सोमवतः पितॄन्बर्हिषदः पितॄनग्निष्वात्तानित्यावाहयति न हैके स्वं महिमानं आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेदिति त्वेव स्थितम् अग्नेर्ह्येष महिमा भवति ओं स्वधेत्याश्रावयति अस्तु स्वधेति प्रत्याश्रावयति स्वधाकारो हि पितॄणाम् अथ यत्प्रयाजानुयाजेभ्यो बर्हिष्मन्तावुद्धरति प्रजा वै बर्हिर्नेत्प्रजां पितृषु दधानीति ते वै षट्संपद्यन्ते षड्वा ऋतवः ऋतवः पितरः पितॄणां आप्त्यै ॥ २४ ॥

अथ यज्जीवनवन्तावाज्यभागौ भवतो यजमानं एव तज्जीवयति अथ यदेकैकस्य हविषस्तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्येवैनान्प्रथमया द्वितीयया गमयति प्रैव तृतीयया यच्छति अथो देवयज्ञं एवैतत्पितृयज्ञेन व्यावर्तयति अथो दक्षिणासंस्थो वै पितृयज्ञस् तं एवैतदुदक्संस्थं कुर्वन्ति अथ यदग्निं कव्यवाहनं अन्ततो यजत्येतत्स्विष्टकृतो पितरस् तस्मादग्निं कव्यवाहनं अन्ततो यजति अथ यदिडां उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा नेत्पशून्प्रवृणजानीति अथ यत्सूक्तवाके यजमानस्याशिषोऽन्वाह नेद्यजमानं प्रवृणजानीति अथ यत्पत्नीं न संयाजयन्ति नेत्पत्नीं प्रवृणजानीति अथ यत्पवित्रवति मार्जयन्ते शान्तिर्वै भेषजं आपः शान्तिरेवैषा भेषजं अन्ततो यज्ञे क्रियते अथ यदध्वर्युः पितृभ्यो निपृणाति जीवानेव तत्पितॄननु मनुष्याः पितरोऽनुप्रवहन्ति अथो देवयज्ञं एवैनं पितृयज्ञेन व्यावर्तयन्ति अथो दक्षिणासंस्थो वै पितृयज्ञस् तं एवैतदुदक्संस्थं कुर्वन्ति अथ यत्प्राञ्चोऽभ्युत्क्रम्यादित्यं उपतिष्ठन्ते देवलोको वा आदित्यः पितृलोकः पितरः देवलोकं एवैतत्पितृलोकादुपसंक्रामन्तीति अथ यद्दक्षिणाञ्चोऽभ्युत्क्रम्याग्नीनुपतिष्ठन्ते प्रीत्यैव तद्देवेष्वन्ततोऽर्धं चरन्ति अथ यदुदञ्चोऽभ्युत्क्रम्य त्रैयंबकैर्यजन्ते रुद्रं एव तत्स्वस्यां दिशि प्रीणन्ति [एद्. स्वायां बुत्सी चोर्रिगेन्द प्. ३०२] अथो देवयज्ञं एवैतत्पितृयज्ञेन व्यावर्तयन्ति अथो दक्षिणासंस्थो वै पितृयज्ञस् तं एवैतदुदक्संस्थं कुर्वन्ति अथ यदन्तत आदित्येष्ट्या यजतीयं वा अदितिः अस्यां एवैनं अन्ततः प्रतिष्ठापयति अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैरिष्टं भवति ॥ २५ ॥

त्रयोदशं वा एतं मासं आप्नोति यच्छुनासीर्येण यजते एतावान्वै संवत्सरो यावानेष त्रयोदशो मासः अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति यन्मथ्यते तस्योक्तं ब्राह्मणम् यद्यु न मथ्यते पौर्णमासं एव तन्त्रं भवति प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एवाथ यद्वायुं यजति प्राणो वै वायुः प्राणं एव तेन प्रीणाति अथ यच्छुनासीरं यजति संवत्सरो वै शुनासीरः संवत्सरं एव तेन प्रीणाति अथ यत्सूर्यं यजत्यसौ वै सूर्यो योऽसौ तपति एतं एव तेन प्रीणाति अथ यच्छ्वेतां दक्षिणां ददात्येतस्यैव तद्रूपं क्रियते अथ यत्प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनं एव तत्कुर्वन्ति यज्ञस्यैव शान्तिर्यजमानस्य भैषज्याय तैर्वा एतैश्चातुर्मास्यैर्देवाः सर्वान्कामानाप्नुवंत्सर्वा इष्टीः सर्वं अमृतत्वम् स वा एष प्रजापतिः संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि तस्य मुखं एव वैश्वदेवम् बाहू वरुणप्रघासाः प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टयः [एद्. प्रणो] आत्मा महाहविः प्रतिष्ठा शुनासीरम् स वा एष प्रजापतिरेव संवत्सरो यच्चातुर्मास्यानि सर्वं वै प्रजापतिः सर्वं चातुर्मास्यानि तत्सर्वेणैव सर्वं आप्नोति य एवं वेद यश्चैवं विद्वांश्चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥ ओं मांसीयन्ति वा आहिताग्नेरग्नयस् त एनं एवाग्रेऽभिध्यायन्ति यजमानम् य एतं ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितं आत्मानं निरवदयते आयुष्काम आलभेत प्राणापानौ वा इन्द्राग्नी प्राणापानावेवात्मनि धत्ते आयुष्मान्भवति प्रजाकाम आलभेत प्राणापानौ वा इन्द्राग्नी प्राणापानौ प्रजा अनुप्रजायन्ते प्रजावान्भवति पशुकाम आलभेत प्राणापानौ वा इन्द्राग्नी प्राणापानौ पशवोऽनुप्रजायन्ते पशुमान्भवति यामं शुकं हारितं आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्यां इति [एद्. शुकहरितं, चोर्र्. Pअत्यल्] एतेन ह वै यमोऽमुष्मिंल्लोक आर्ध्नोत् पितृलोक एवार्ध्नोति त्वाष्ट्रं वडवं आलभेत प्रजाकामः प्रजापतिर्वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत्[एद्. सिसृक्समाणः, चोर्रेच्तेद्प्. ३०२; Pअत्यलः रेअद्नाविन्दत?] स त्वाष्ट्रं वडवं अपश्यत् त्वष्टा हि रूपाणां प्रजनयिता तेन प्रजा असृजत तेन मिथुनं अविन्दत् प्रजावान्मिथुनवान्भवति य एवं वेद यश्चैवंविद्वानेतं आलभते योनीन्वा एष काम्यान्पशूनालभते योऽनिष्ट्वैन्द्राग्नेन काम्यं पशुं आलभत इष्ट्वालम्भः समृद्ध्यै ॥ १ ॥

पञ्चधा वै देवा व्युदक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस् ते देवा अब्रुवन्नसुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मः या न इमाः प्रियास्तन्वस्ताः समवद्यामहा इति ताः समवाद्यन्त ताभ्यः स निरृच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति यत्तन्वः समवाद्यन्त तत्तानूनप्त्रस्य तानूनप्त्रत्वम् ततो देवा अभवन्परासुरास् तस्माद्यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिं आर्छति यत्तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति ॥ २ ॥

पञ्च कृत्वोऽवद्यति पाङ्क्तो यज्ञः पञ्चधा हि ते ताः समवाद्यन्त आपतये त्वा गृह्णामीत्याह प्राणो वा आपतिः प्राणं एव तेन प्रीणाति परिपतये त्वेत्याह मनो वै परिपतिः मन एव तेन प्रीणाति तनूनप्त्र इत्याह तन्वो हि ते ताः समवाद्यन्त शाक्वरायेत्याह शक्त्यै हि ते ताः समवाद्यन्त शक्मन ओजिष्ठायेत्याह ओजिष्ठं हि ते तदात्मनः समवाद्यन्त अनाधृष्टं इत्याह अनाधृष्टं ह्येतत् अनाधृष्यं इत्याह अनाधृष्यं ह्येतत् देवानां ओज इत्याह देवानां ह्येतदोजः अभिशस्तिपा इत्याह अभिशस्तिपा ह्येतत् अनभिशस्तेन्यं इत्याह अनभिशस्तेन्यं ह्येतत् [एद्. अनभिशस्तेनं, चोर्र्. Pअत्यल्] अनु मे दीक्षां दीक्षापतिर्मन्यतां अनु तपस्तपस्पतिरञ्जसा सत्यं उप गेषं स्विते मा धा इत्याह यथायजुरेवैतत् ॥ ३ ॥

घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन् स्रुचौ बाहू तस्मात्स्रुचौ स्ॐईं आहुतिं नाशाते अवधीयेत सोमस् तस्मात्स्रुचौ चाज्यं चान्तिकं आहार्षीत् अन्तिकं इव खलु वा अस्यैतत्प्रचरन्ति यत्तानूनप्त्रेण प्रचरन्ति अंशुरंशुष्टे देव सोमाप्यायतां इन्द्रायैकधनविद इत्याह यदेवास्यापवायते यन्मीयते तदेवास्यैतेनाप्याययन्ति आ तुभ्यं इन्द्रः प्यायतां आ त्वं इन्द्राय प्यायस्वेत्याह उभावेवेन्द्रं च सोमं चाप्याययन्ति आप्याययास्मान्त्सखीन्त्सन्या मेधया प्रजया धनेनेत्याह ऋत्विजो वा एतस्य सखायस् तानेवास्यैतेनाप्याययन्ति स्वस्ति ते देव सोम सुत्यां उदृचं अशीयेत्याह आशिषं एवैतां आशास्ते प्र वा एतस्माल्लोकाच्च्यवन्ते ये सोमं आप्याययन्ति अन्तरिक्षदेवत्यो हि सोम आप्यायितः एष्टा राय एष्टा वामानि प्रेषे भगाय ऋतं ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति द्यावापृथिवीभ्यां एव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥

मख इत्येतद्यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात् छिद्रं खं इत्युक्तम् तस्य मेति प्रतिषेधः मा छिद्रं करिष्यतीति छिद्रो हि यज्ञो भिन्न इवोदधिर्विस्रवति तद्वै खलु छिद्रं भवत्यृत्विग्यजमानविमानाद्वा अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानां अप्रयोगाद्यथोक्तानां वा दक्षिणानां अप्रदानाद्धीनाद्वातिरिक्ताद्वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमादिति एतद्वै सर्वं ब्रह्मण्यर्पितम् ब्रह्मैव विद्वान्यद्भृग्वङ्गिरोवित्सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनानतिरिक्ताङ्गोऽप्रमत्तो यज्ञं रक्षति तस्य प्रमादाद्यदि वाप्यसांनिध्याद्यथा भिन्ना नौरगाधे महत्युदके संप्लवेन्मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां एवं खल्वपि यज्ञश्छिन्नभिन्नोऽपध्वस्त उत्पाताद्भुतो बहुलोऽथर्वभिरसंस्कृतोऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां तदपि श्लोकाः छिन्नभिन्नोऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥ ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद्यत्र यज्ञो विरिष्यते ॥ [एद्. विरष्यते, चोर्रेच्तेद्प्. ३०२] दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदादसंस्कृतः ॥ चतुष्पात्सकलो यज्ञश्चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैरृत्विग्भिर्वेदपारगैः ॥ प्रायश्चित्तैरनुध्यानैरनुज्ञानानुमन्त्रणैः । होमैश्च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति तस्माद्यजमानो भृग्वङ्गिरोविदं एव तत्र ब्रह्माणं वृणीयात् स हि यज्ञं तारयतीति ब्राह्मणं ॥ ५ ॥

यज्ञो वै देवेभ्य उदक्रामन्न वोऽहं अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. Pअत्यल्] नेति देवा अब्रुवन्नन्नं एव नो भविष्यसीति तं देवा विमेथिरे स एभ्यो विहृतो न प्रबभूव ते होचुर्देवाः न वै न इत्थं विहृतोऽलं भविष्यति हन्तेमं संभरां एति तं संजभ्रुस् तं संभृत्योचुरश्विनाविमं भिषज्यतं इति [एद्. अश्विणाव्, चोर्र्. Pअत्यल्] अश्विनौ वै देवानां भिषजौ अश्विनावध्वर्यू तस्मादध्वर्यू घर्मं संभरतस् तं संभृत्योचतुर्ब्रह्मन्घर्मेण प्रचरिष्यामो होतर्घर्मं अभिष्टुह्युद्गातः सामानि गायेति प्रचरत घर्मं इत्यनुजानाति ब्रह्मप्रसूता हि प्रचरन्ति ब्रह्म हेदं प्रसवानां ईशे सवितृप्रसूततायै <घर्मं तपामि [PS५.१६.२, सकल अत्Vऐत्S१४.१]> <ब्रह्म जज्ञानं [PS५.२.२, ऋS४.१.१, Vऐत्S१४.१]> <इयं पित्र्या राष्ट्र्येत्वग्रे [PS५.२.१, ऋS४.१.२, Vऐत्S१४.१]>इति घर्मं ताप्यमानं उपासीत शस्त्रवदर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धम् यत्कर्म क्रियमाणं ऋग्यजुर्वाभिवदति स्वस्ति तस्य यज्ञस्य पारं अश्नुते य एवं वेद देवमिथुनं वा एतद्यद्घर्मस् तस्मादन्तर्धाय प्रचरन्ति अन्तर्हिता वै मिथुनं चरन्तीति तदेतद्देवमिथुनं इत्याचक्षते तस्य यो घर्मस्तच्छिश्नम् यौ शफौ तावाण्ड्यौ योपयमनी ते श्रोणिकपाले यत्पयस्तद्रेतस् तदग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय सोऽग्निर्देवयोनिरृङ्मयो यजुर्मयः साममयो ब्रह्ममयोऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकं एति तदाहुर्न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनं उत्तरे यज्ञक्रतवो भवन्तीति कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यात् आत्मा वै स यज्ञस्येति विज्ञायते अपशिरसा ह वा एष यज्ञेन यजते योऽप्रवर्ग्येण यजते शिरो ह वा एतद्यज्ञस्य यत्प्रवर्ग्यस् तस्मात्प्रवर्ग्यवतैव याजयेन्नाप्रवग्येण तदप्येषाभ्यनूक्ता <चत्वारि शृङ्गा [PS८.१३.३, सकल अत्ङ्B्र्१,२.१६फ़्]>इति ॥ ६ ॥

देवाश्च ह वा ऋषयश्चासुरैः संयत्ता आसन् [एद्. चिआसुरैः] तेषां असुराणां इमाः पुरः प्रत्यभिजिता आसन्नयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस् ते देवाः संघातंसंघातं पराजयन्त तेऽविदुरनायतना हि वै स्मस् तस्मात्पराजयामहा इति [एद्. पराजयामह, चोर्र्. Pअत्यल्] त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रं अन्तरिक्षात्सदः पृथिव्यास् ते देवा अब्रुवन्नुपसदं उपायाम उपसदा वै महापुरं जयन्तीति त एभ्यो लोकेभ्यो निरघ्नन् एकयामुष्माल्लोकादेकयान्तरिक्षादेकया पृथिव्यास् तस्मादाहुरुपसदा वै महापुरं जयन्तीति त एभ्यो लोकेभ्यो निर्हता ऋतून्प्राविशन् ते षडुपायन् तानुपसद्भिरेवर्तुभ्यो निरघ्नन् द्वाभ्यां अमुष्माल्लोकाद्द्वाभ्यां अन्तरिक्षाद्द्वाभ्यां पृथिव्यास् त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन् ते द्वादशोपायन् तानुपसद्भिरेव संवत्सरान्निरघ्नन् चतसृभिरमुष्माल्लोकाच्चतसृभिरन्तरिक्षाच्चतसृभिः पृथिव्यास् ते संवत्सरान्निर्हता अहोरात्रे प्राविशन् ते यत्सायं उपायंस्तेनैनान्रात्र्या अनुदन्त यत्प्रातस्तेनाह्नस् तस्माद्गौः सायं प्रातस्तनं आप्यायते प्रातः सायन्तनम् तानुपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयन् ततो देवा अभवन्परासुराः सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वानुपसदं उपैति ॥ ७ ॥

न द्वादशाग्निष्टोमस्योपसदः स्युः अशान्ता निर्मृज्युर्न तिस्रोऽहीनस्य उपरिष्टाद्यज्ञक्रतुर्गरीयानभिषीदेद्यथा गुरुर्भारो ग्रीवा निःशृणीयादार्तिं आर्छेत् द्वादशाहीनस्य कुर्यात् प्रत्युत्तब्ध्यै सयत्वाय तिस्रोऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय ते देवा असुर्यानिमांल्लोकान्नान्ववैतुं अधृष्णुवन् तानग्निना मुखेनान्ववायन् यदग्निं अन्त्युपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रेऽन्ववनयत्येवं एवैतदग्निना मुखेनेमांल्लोकानभिनयन्तो यन्ति [एद्.ऽन्ववनयन्त्य्, चोर्र्. Pअत्यल्] यो ह वै देवान्साध्यान्वेद सिध्यत्यस्मै इमे वाव लोका यत्साध्या देवाः स य एवं एतान्त्साध्यान्वेद सिध्यत्यस्मै सिध्यत्यमुष्मै सिध्यत्यस्मै लोकाय य एवंविद्वानुपसदं उपैति ॥ ८ ॥

अथ यत्राहाध्वर्युरग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यां आह्वयेति तदपरेण गार्हपत्यं प्राङ्मुखस्तिष्ठन्ननवानन्नाग्नीध्रो देवपत्नीर्व्याचष्टे पृथिव्यग्नेः पत्नी वाग्वातस्य पत्नी सेनेन्द्रस्य पत्नी धेना बृहस्पतेः पत्नी पथ्या पूष्णः पत्नी गायत्री पसूनां पत्नी त्रिष्टुब्रुद्राणां पत्नी जगत्यादित्यानां पत्नी अनुष्टुं मित्रस्य पत्नी विराड्वरुणस्य पत्नी पङ्क्तिर्विष्णोः पत्नी दीक्षा सोमस्य राज्ञः पत्नीति अति भ्रातृव्यानारोहति नैनं भ्रातृव्या आरोहन्त्युपरि भ्रातृव्यानारोहति य एवंविद्वानाग्नीध्रो देवपत्नीर्व्याचष्टे ॥ ९ ॥

[एद्. आरुओहन्त्य्, आरुओहति] यथा वै रथ एकैकं अरं अभिप्रतितिष्ठन्वर्तत एवं यज्ञ एकैकां तन्वं अभिप्रतितिष्ठन्नेति पुरा प्रचरितोराग्नीध्रीये होतव्याः एतद्ध वा उवाच वासिष्ठः सात्यहव्योऽस्कन्सोम इत्युक्ते मा सूर्क्षत प्रचरत प्रातर्वावाद्याहं सोमं समस्थापयं इति नास्य सोम स्कन्दति य एवंविद्वान्त्सोमं पिबति स ह स्म वै स आसन्द्यां आसीनः सक्तुभिरुपमथ्य सोमं पिबति अहं वाव सर्वतो यज्ञं वेद य एतान्वेद न मां एष हिंसिष्यतीति नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त्सोमं पिबति तं ह स्म यदाहुः कस्मात्त्वं इदं आसन्द्यां आसीनः सक्तुभिरुपमथ्य सोमं पिबसीति देवतास्वेव यज्ञं प्रतिष्ठापयामीत्यब्रवीद्ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान्यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद्ब्रह्मणो, चोर्र्. Pअत्यल्] देवतास्वेव यज्ञं प्रतिष्ठापयति यज्ञार्तिं प्रतिजुहुयात् सयोनित्वाय त्रयस्त्रिंशद्वै यज्ञस्य तन्व इति एकान्नत्रिंशत्स्तोमभागास् त्रीणि सवनानि यज्ञश्चतुर्थः स्तोमभागैरेवैतत्स्तोमभागान्प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम् सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन् सवितृप्रसूता एव स्तुवन्ति ऋध्नुवन्ति ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे ऋध्यते यजमान ऋध्यते प्रजायाः [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद्प्. ३०२] ऋध्यते पशुभ्यः ऋध्यते ब्रह्मणे यस्यैवंविद्वान्ब्रह्मा भवति ॥ १० ॥

देवाश्च ह वा असुराश्चास्पर्धन्त ते देवाः समावदेव यज्ञे कुर्वाणा आसन् यदेव दवा अकुर्वत तदसुरा अकुर्वत ते न व्यावृतं अगच्छन् ते देवा अब्रुवन्नयतेमं यज्ञं तिर उपर्यसुरेभ्यस्तंस्यामह इति तं एताभिराच्छाद्योदक्रामन्यजूंषि यज्ञे समिधः स्वाहेति तं तिर उपर्यसुरेभ्यो यज्ञं अतन्वत तं एषां यज्ञं असुरा नान्ववायन् ततो देवा अभवन्परासुराः स य एवंविद्वांस्तिर उपर्यसुरेभ्यो यज्ञं तनुते भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति एतैरेव जुहुयात्समृतयज्ञे चतुर्भिश्चतुर्भिरन्वाख्यायम् पुरस्तात्प्रातरनुवाकस्य जुहुयात् एतावान्वै यज्ञो यावानेष यज्ञस्तं वृङ्क्ते सयज्ञो भवति अयज्ञ इतरः एतैरेव जुहुयात्पुरस्ताद्द्वादशाहस्य एष ह वै प्रत्यक्षं द्वादशाहस् तं एवालभ्यैतैरेव जुहुयात् पुरस्ताद्दीक्षायाः एषा ह वै प्रत्यक्षं दीक्षा तां एवालभ्यैतैरेवातिथ्यं अभिमृशेद्<यज्ञेन यज्ञं अयजन्त देवाः [ऋS७.५.१, PS२०.२.२, Vऐत्S१६.१५]> इति ॥ ११ ॥

यत्र विजानाति ब्रह्मन्त्सोमोऽस्कन्निति तं एतयालभ्याभिमन्त्रयते<अभूद्देवः सविता वन्द्यो नु न इदानीं अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत्[èV४.५४.१]>इति <ये अग्नयो अप्स्वन्तर्[ऋS३.२१.१, Vऐत्S१६.१६, च्फ़्. PS१०.९.१?]> इति सप्तभिरभिजुहोति यदेवास्यावस्कन्नं भवति तदेवास्यैतदग्नौ स्वगाकरोति अग्निर्हि सुकृतीनां हविषां प्रतिष्ठा अथ विसृप्य वैप्रुषान्होमाञ्जुहोति <द्रप्सश्चस्कन्द [èV१०.१७.११, PS२०.१३.७, ऋS१८.४.२८, Vऐत्S१६.१७]>इति [एद्. जुह्वति, चोर्र्. Pअत्यल्] या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्यंशुर्वा ता एवास्यैतदाहवनीये स्वगाकरोति [एद्. आहवणीये] आहवनीयो ह्याहुतीनां प्रतिष्ठा <यस्ते द्रप्स स्कन्दति [èV१०.१७.१२अ, PS२०.१३.८अ, Vऐत्S१६.१७]>इति स्तोको वै द्रप्सः <यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्[èV१०.१७.१२ब्, PS२०.१३.८ब्, Vऐत्S१६.१७]>इति बाहुभिरभिच्युतोऽंशुरधिषवणाभ्यां अधिस्कन्दति <अध्वर्योर्वा परि यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतं [PS२०.१३.८च्द्, èV१०.१७.१२च्द्, Vऐत्S१६.१७]> इति तद्यथा वषट्कृतं स्वाहाकृतं हुतं एवं भवति ॥ १२ ॥

ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् तं वसिष्ठ एव प्रत्यक्षं अपश्यत् सोऽबिभेदितरेभ्य ऋषिभ्यो मा प्रवोचदिति सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान्स्तोमभागानुवाच ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त स्तोमो वा एते एतेषां भागस् तत्स्तोमभागानां स्तोमभागत्वम् रश्मिरसि क्षयाय त्वेति क्षयो वै देवाः देवेभ्य एव यज्ञं प्राह प्रेतिरसि धर्मणे त्वेति धर्मो मनुष्याः मनुष्येभ्य एव यज्ञं प्राह अन्वितिरसि संधिरसि प्रतिधिरसीति [एद्. अनितिर्, चोर्र्. Pअत्यल्] त्रयो वै लोकाः लोकेष्वेव यज्ञं प्रतिष्ठापयति विष्टम्भोऽसीति वृष्टिं एवावरुन्द्धे प्रावोऽस्यह्नांसीति मिथुनं एव करोति उशिगसि प्रकेतोऽसि सुदितिरसीति अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग्द्वात्रिंशी स्वरस्त्रयस्त्रिंशस्त्रयस्त्रिंशद्देवाः देवेभ्य एव यज्ञं प्राह ओजोऽसि पितृभ्यस्त्वेति बलं एव तत्पितॄननुसंतनोति तन्तुरसि प्रजाभ्यस्त्वेति प्रजा एव पशूननुसंतनोति रेवदस्योषधीभ्यस्त्वेति ओषधीष्वेव यज्ञं प्रतिष्ठापयति पृतनाषाडसि पशुभ्यस्त्वेति प्रजा एव पशूननुसंतनोति अभिजिदसीति वज्रो वै षोडशी व्यावृत्तोऽसौ वज्रस् तस्मादेषोऽन्यैर्व्यावृत्तः नाभुरसीति प्रजापतिर्वै सप्तदशः प्रजापतिं एवावरुन्द्धे ॥ १३ ॥

अधिपतिरसि धरुणोऽसि संसर्पोऽसि वयोधा असीति प्राणोऽपानश्चक्षुः श्रोत्रं इत्येतानि वै पुरुषं अकरन्प्रणानुपैति प्रजात्या एव त्रिवृदसि प्रवृदसि स्ववृदस्यनुवृदसीति मिथुनं एव करोति आरोहोऽसि प्ररोहोऽसि संरोहोऽस्यनुरोहोऽसीति [एद्. आरुओहो] प्रजापतिरेव वसुकोऽसि वस्यष्टिरसि वेषश्रीरसीति प्रतिष्ठितिरेव आक्रमोऽसि संक्रमोऽस्युत्क्रमोऽस्युत्क्रान्तिरसीति ऋद्धिरेव यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन् सवितृप्रसूता एव स्तुवन्ति ऋध्नुवन्ति बृहस्पतये स्तुतेति बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा तदनुमत्यैवों भूर्जनदिति प्रातःसवने ऋग्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेति एवों भुवो जनदिति माध्यंदिने सवने यजुर्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तैः स्तुतेत्येवों स्वर्जनदिति तृतीयसवने सामभिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेत्येव अथ यद्यहीन उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामा वा स्यात्सर्वाभिः सर्वाभिरत ऊर्ध्वं व्याहृतिभिरनुजानाति ओं भूर्भुवः स्वर्जनद्वृधत्करद्रुहन्महत्तच्छं ओं इन्द्रवन्त स्तुतेति सेन्द्रान्मापगायत सेन्द्रान्स्तुतेत्येव इन्द्रियवानृद्धिमान्वशीयान्भवति य एवं वेद यश्चैवंविद्वान्त्स्तोमभागैर्यजते ॥ १४ ॥

यो ह वा आयतांश्च प्रतियतांश्च स्तोमभागान्विद्यात्स विष्पर्धमानयोः समृतसोमयोर्ब्रह्मा स्यात् <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून्वो देवान्रुद्रान्वो देवानादित्यान्वो देवान्साध्यान्वो देवानाप्त्यान्वो देवान्विश्वान्वो देवान्सर्वान्वो देवान्विश्वतस्परि हवामहे [Vऐत्S१७.७]> <जनेभ्योऽस्माकं अस्तु केवलः [Vऐत्S१७.७ ]> <इतः कृणोतु वीर्यं [Vऐत्S१७.७ ]> इति एते ह वा आयताश्च प्रतियताश्च स्तोमभागास् ताञ्जपन्नुपर्युपरि परेषां ब्रह्माणं अवेक्षेत तत एषां अधःशिरा ब्रह्मा पतति ततो यज्ञस् ततो यजमानः यजमानेऽधःशिरसि पतिते स देशोऽधःशिराः पतति यस्मिन्नर्धे यजन्ते देवाश्च ह वा असुराश्च समृतसोमौ यज्ञावतनुताम् अथ बृहस्पतिराङ्गिरसो देवानां ब्रह्मा स आयतांश्च प्रतियतांश्च स्तोमभागाञ्जपन्नुपर्युपर्यसुराणां ब्रह्माणं अवैक्षत तत एषां अधःशिरा ब्रह्मापतत् ततो यज्ञस् ततोऽसुरा इति ॥ १५ ॥

देवा यज्ञं पराजयन्त तं आग्नीध्रात्पुनरुपाजयन्त तदेतद्यज्ञस्यापराजितं यदाग्नीध्रम् यदाग्नीध्राद्धिष्ण्यान्विहरति तत एवैनं पुनस्तनुते पराजित्यै अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति बहिष्पवमाने स्तुत आह अग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशानलंकुर्विति यज्ञं एवापराजित्य पुनस्तन्वाना आयन्ति अङ्गारैर्द्वे सवने विहरति शलाकाभिस्तृतीयसवनं सश्रुक्रत्वाय अथो संभवत्येवं एवैतत् दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् [एद्. अजिधांसन्] तान्याग्नीध्रेणापाघ्नत तस्माद्दक्षिणामुखस्तिष्ठन्नग्नीत्प्रत्याश्रावयति यज्ञस्याभिजित्यै रक्षसां अपहत्यै रक्षसां अपहत्यै ॥ १६ ॥

तदाहुरथ कस्मात्स्ॐय एवाध्वरे प्रवृताहुतीर्जुह्वति न हविर्यज्ञ इति अकृत्स्ना वा एषा देवयज्या यद्धविर्यज्ञः अथ हैषैव कृत्स्ना देवयज्या यत्स्ॐयोऽध्वरस् तस्मात्स्ॐय एवाध्वरे प्रवृताहुतीर्जुह्वति जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यद्वाचो मधुमत्तमं तस्मिन्मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात्स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण] तस्माद्वागत ऊर्ध्वं उत्सृष्टा यज्ञं वहति मनसोत्तराम् मनसा हि मनः प्रीतम् तदु हैके सप्ताहुतीर्जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रं इति वदन्तः यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम् तस्मात्सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः जनं ह्येतत् देवलोकं ह्यध्यारोहन्ति तेषां एतदायतनं चोदयनं च यदाग्नीध्रं च सदश्च तद्योऽविद्वान्त्संचरत्यार्तिं आर्छत्यि अथ यो विद्वान्त्संचरति न स धिष्णीयां आर्तिं आर्छति ॥ १७ ॥

[एद्. विद्वन्त्] प्रजापतिर्वै यज्ञस् तस्मिन्त्सर्वे कामाः सर्वा इष्टीः सर्वं अमृतत्वम् तस्य हैते गोप्तारो यद्धिष्ण्यास् तान्त्सदः प्रस्रप्स्यन्नमस्करोति नमो नम इति न हि नमस्कारं अति देवास् ते ह नमसिताः कर्तारं अतिसृजन्तीति तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति न हि नमस्कारं अति देवाः स तत्रैव यजमानः सर्वान्कामानाप्नोति सर्वान्कामानाप्नोति ॥ १८ ॥

यो वै सदस्यान्गन्धर्वान्वेद न सदस्यां आर्तिं आर्छति सदः प्रस्रप्स्यन्ब्रूयादुपद्रष्ट्रे नम इति अग्निर्वै द्रष्टा तस्मा उ एवात्मानं परिददाति सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद सदः प्रसृप्य ब्रूयादुपश्रोत्रे नम इति वायुर्वा उपश्रोता तस्मा उ एवात्मानं परिददाति सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद सदः प्रसर्पन्ब्रूयादनुख्यात्रे नम इति आदित्यो वा अनुख्याता तस्मा उ एवात्मानं परिददाति सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद सदः प्रसृप्तो ब्रूयादुपद्रष्ट्रे नम इति ब्राह्मणो वा उपद्रष्टा तस्मा उ एवात्मानं परिददाति सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद ते वै सदस्या गन्धर्वाः स य एवं एतान्त्सदस्यान्गन्धर्वानविद्वान्त्सदः प्रसर्पति स सदस्यां आर्तिं आर्छति अथ यो विद्वान्त्संचरति न सदस्यां आर्तिं आर्छति एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस् ते न सदस्यां आर्तिं आर्छन्ति अथ यान्कामयेत न सदस्यां आर्तिं आर्छेयुरिति तेभ्य एतेन सर्वं सदः परिब्रूयात् ते न सदस्यां आर्तिं आर्छन्ति अथ यं कामयेत प्रमीयतेति तं एतेभ्य आवृश्चेत् प्रमीयते ॥ १९ ॥

तदाहुर्यदैन्द्रो यज्ञोऽथ कस्माद्द्वावेव प्रातःसवने प्रस्थितानां प्रत्यक्षादैन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च [एद्. ऐद्रीभ्यां] <इदं ते सोम्यं मधु [èV८.६५.८]>इति होता यजति <इन्द्र त्वा वृषभं वयं [èV३.४०.१, Vऐत्S१९.६]> इति ब्राह्मणाच्छंसी नानादेवत्याभिरितरे कथं तेषां ऐन्द्र्यो भवन्ति <मित्रं वयं हवामहे [èV१.२३.४अ]>इति मैत्रावरुणो यजति <वरुणं सोमपीतये [èV१.२३.४ब्]>इति यद्वै किं च पीतवत्तदैन्द्रं रूपम् तेनेन्द्रं प्रीणाति <मरुतो यस्य हि क्षये [èV१.८६.१अ, ऋS२०.१.२अ]>इति पोता यजति <स सुगोपातमो जनः [èV१.८६.१च्, ऋS२०.१.२च्]>इति [एद्. सुगोपतमो, चोर्रेच्तेद्प्. ३०२] इन्द्रो वै गोपास् तदैन्द्रं रूपम् तेनेन्द्रं प्रीणाति <अग्ने पत्नीरिहा वह [èV१.२२.९अ]>इति नेष्टा यजति <त्वष्टारं सोमपीतये [èV१.२२.९च्]>इति यद्वै किं च पीतवत्तदैन्द्रं रूपम् तेनेन्द्रं प्रीणाति <उक्षान्नाय वशान्नाय [èV८.४३.११अ, PS३.१२.६अ, ऋS३.२१.६अ ।२०.१.३ अ]>इत्याग्नीध्रो यजति <सोमपृष्ठाय वेधसे [èV८.४३.११ब्, PS३.१२.६ब्, ऋS३.२१.६ब् ।२०.१.३ ब्]>इति इन्द्रो वै वेधास् तदैन्द्रं रूपम् तेनेन्द्रं प्रीणाति <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [èV८.३८.७]>इति स्वयंसमृद्धा अच्छावाकस्य एवं उ हैता ऐन्द्र्यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यद्गायत्र्यस्तेनाग्नेय्यस् तस्मादेताभिस्त्रयं अवाप्तं भवति ॥ २० ॥

ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षादैन्द्रीभिर्यजन्ति अभितृणवतीभिरेके <पिबा सोमं अभि यं उग्र तर्दः [èV६.१७.१]>इति होता यजति <स ईं पाहि य ऋजीषी तरुत्रः [èV६.१७.२]>इति मैत्रावरुणः <एवा पाहि प्रत्नथा मन्दतु त्वा [èV६.१७.३]>इति ब्राह्मणाच्छंसी <अर्वाङेहि सोमकामं त्वाहुः [èV१.१०४.९]>इति पोता <तवायं सोमस्त्वं एह्यर्वाङ्[èV३.३५.६]> इति नेष्टा <इन्द्राय सोमाः प्रदिवो विदानाः [èV३.३६.२]>इत्यच्छावाकः <आपूर्णो अस्य कलशः स्वाहा [èV३.३२.१५]>इत्याग्नीध्रः [एद्. स्वहोत्य्] एवं उ हैता अभितृणवत्यो भवन्ति इन्द्रो वै प्रातःसवनं नाभ्यजयत् स एताभिर्माध्यंदिनं सवनं अभ्यतृणत् तद्यदेताभिर्माध्यंदिनं सवनं अभ्यतृणत्तस्मादेता अभितृणवत्यो भवन्ति ॥ २१ ॥

तदाहुर्यदैन्द्रार्भवं तृतीयसवनं अथ कस्मादेक एव तृतीयसवने प्रस्थितानां प्रत्यक्षादैन्द्रार्भव्या यजति <इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं [èV३.६०.५]> इति होतैव नानादेवत्याभिरितरे कथं तेषां ऐन्द्रार्भव्यो भवन्ति <इन्द्रावरुणा सुतपाविमं सुतं [èV६.६८.१०, PS२०.७.५अ, ऋS७.५८.१अ]> इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद्प्. ३०२] <युवो रथो अध्वरो देववीतये [PS२०.७.५च्, ऋS७.५८.१च्, èV६.६८.१०च्]>इति बहूनि वाह तदृभूणां रूपम् <इन्द्रश्च सोमं पिबतं बृहस्पतये [èV४.५०.१०अ, Vऐत्S२२.११]>इति ब्राह्मणाच्छंसी यजति <आ वां विशन्त्विन्दवः स्वाभुवः [èV४.५०.१०च्]>इति बहूनि वाह तदृभूणां रूपम् <आ वो वहन्तु सप्तयो रघुष्यदः [èV१.८५.६अ]>इति पोता यजति <रघुपत्वानः प्र जिगात बाहुभिः [èV१.८५.६ब्]>इति बहूनि वाह तदृभूणां रूपम् <अमेव नः सुहवा आ हि गन्तन [èV२.३६.३]>इति नेष्टा यजति गन्तनेति बहूनि वाह तदृभूणां रूपम् <इन्द्राविष्णू पिबतं मध्वो अस्य [èV६.६९.७अ]>इत्यच्छावाको यजति <आ वां अन्धांसि मदिराण्यग्मन्[èV६.६९.७च्]>इति बहूनि वाह तदृभूणां रूपम् <इमं स्तोमं अर्हते जातवेदसे [èV१.९४.१अ]>इत्याग्नीध्रो यजति <रथं इव सं महेमा मनीषया [èV१.९४.१ब्]>इति बहूनि वाह तदृभूणां रूपम् एवं उ हैता ऐन्द्रार्भव्यो भवन्ति यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति यदु जगत्प्रासाहा जागतं उ वै तृतीयसवनम् तृतीयसवनस्य समष्ट्यै ॥ २२ ॥

विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् विचक्षयन्ति ब्राह्मणम् चनसयन्ति प्राजापत्यम् सत्यं वदन्ति एतद्वै मनुष्येषु सत्यं यच्चक्षुस् तस्मादाहुराचक्षाणं अद्रागिति स यदाहाद्राक्षं इति तथाहास्य श्रद्दधति यद्यु वै स्वयं वै दृष्टं भवति न बहूनां जनानां एष श्रद्दधाति तस्माद्विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् सत्योत्तरा हैवैषां वागुदिता भवति ॥ २३ ॥

समृतयज्ञो वा एष यद्दर्शपूर्णमासौ कस्य वाव देवा यज्ञं आगच्छन्ति कस्य वा न बहूनां वा एतद्यजमानानां सामान्यं अहस् तस्मात्पूर्वेद्युर्देवताः परिगृह्णीयात् यो ह वै पूर्वेद्युर्देवताः परिगृह्णाति तस्य श्वो भूते यज्ञं आगच्छन्ति तस्माद्विहव्यस्य चतस्र ऋचो जपेत् यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ २४ ॥

इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥ ओं देवपात्रं वै वषट्कारः यद्वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति अथो यदाभितृष्यन्तीरभिसंस्थं तर्पयत्येवं एव तद्देवतास्तर्पयति यदनुवषट्करोति तद्यथैवादोऽश्वान्वा गा वा पुनरभ्याकारं तर्पयत्येवं एव तद्देवतास्तर्पयति यदनुवषट्करोति इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यान् अथ कस्मात्पूर्वस्मिन्नेवाग्नौ जुह्वति पूर्वस्मिन्वषट्करोति यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान्प्रीणाति अथ संस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति तदाहुः को नु सोमस्य स्विष्टकृद्भाग इति यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव संस्थितान्सोमान्भक्षयन्तीत्याहुः स उ एष सोमस्य स्विष्टकृद्भागो यदनुवषट्करोति ॥ १ ॥

वज्रो वै वषट्कारः स यं द्विष्यात्तं मनसा ध्यायन्वषट्कुर्यात् तस्मिंस्तद्वज्रं आस्थापयति षडिति वषट्करोति षड्वा ऋतवः ऋतूनां आप्त्यै वौषडिति वषट्करोति असौ वाव वावृतवः षट् एतं एव तदृतुष्वादधाति ऋतुषु प्रतिष्ठापयति तदु ह स्माह वैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठिता अन्तरिक्षं पृथिव्याम् पृथिव्यप्सु आपः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसीति एता एव तद्देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीरिदं सर्वं अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. Pअत्यल्] प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ २ ॥

त्रयो वै वषट्काराः वज्रो धामच्छद्रिक्तः स यदेवोच्चैर्बलं वषट्करोति स वज्रस् तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तरीतवे तस्मात्स भ्रातृव्यवता वषट्कृत्यः अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत् तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्यः अथ येनैव षडपराध्नोति स रिक्तः रिणक्त्यात्मानं रिणक्ति यजमानम् पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात् किं स्वित्स यजमानस्य पापभद्रं आद्रियेतेति ह स्माह योऽस्य वषट्कर्ता भवति अत्रैवैनं यथा कामयेत तथा कुर्यात् यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्यर्चं ब्रूयात्तथैवास्य वषट्कुर्यात् समानं एवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरां अस्यर्चं ब्रूयान्नीचैस्तरां वषट्कुर्यात् पापीयांसं एवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति नीचैस्तरां अस्यर्चं ब्रूयादुच्चैस्तरां वषट्कुर्यात् श्रेयांसं एवैनं तत्करोति श्रिय एवैनं तच्छ्रियं आदधाति ॥ ३ ॥

यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायन्वषट्कुर्यात्[एद्. दवतायै] साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां परिगृह्णाति संततं ऋचा वषट्कृत्यम् संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद ॥ ४ ॥

वज्रो वै वषट्कारः स उ एष प्रहृतोऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम् तस्माद्धाप्येतर्हि भूयानिव मृत्युस् तस्य हैषैव शान्तिरेषा प्रतिष्ठा यद्वागिति वषट्कृत्य वागित्यनुमन्त्रयते वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेदिति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद्प्. ३०२] तदु स्माह दीर्घं एवैतैत्सदप्रभ्वोजः सह ओज इत्यनुमन्त्रयेत ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ प्रियाभ्यां एव तत्तनूभ्यां समर्धयति प्रियया तन्वा समृध्यते य एवं वेद ॥ ५ ॥

वाक्च वै प्राणापानौ च वषट्कारस् ते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयते वागोजः सह ओजो मयि प्राणापानाविति वाचं चैव तत्प्राणापानौ च होतात्मनि प्रतिष्ठापयति सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः [èV८.४८.४, Vऐत्S१९.१८]>इत्यात्मानं प्रत्यभिमृशति ईश्वरो वा एषोऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुं अनर्हन्मा भक्षयेदिति तद्यदेतेन प्रत्यभिमृशत्यायुरेवास्मै तत्प्रतिरते आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसानाप्याययन्त्यभिरूपाभ्याम् यद्यज्ञेऽभिरूपं तत्समृद्धं ॥ ६ ॥

प्राणा वा ऋतुयाजास् तद्यदृतुयाजैश्चरन्ति प्राणानेव तद्यजमाने दधति षडृतुनेति यजन्ति प्राणं एव तद्यजमाने दधति चत्वार ऋतुभिरिति यजन्ति अपानं एव तद्यजमाने दधति द्विरृतुनेत्युपरिष्टात् व्यानं एव तद्यजमाने दधति स चासु संभृतस्त्रेधा विहृतः प्राणोऽपानो व्यान इति [एद्.ऽपाणो] ततोऽन्यत्र गुणितस् तथा ह यजमानः सर्वं आयुरेत्यस्मिंल्लोक आर्ध्नोति आप्नोत्यमृतत्वं अक्षितं स्वर्गे लोके ते वा एते प्राणा एव यदृतुयाजास् तस्मादनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. Pअत्यल्] प्राणानां सन्तत्यै सन्तन्ता इव हीमे प्राणाः अथो ऋतवो वा ऋतुयाजाः संस्थानुवषट्कारः [एद्. अनुवषट्कुआरो] योऽत्रानुवषट्कुर्यादसंस्थितानृतून्संस्थापयेत् यस्तं तत्र ब्रूयादसंस्थितानृतून्समतिष्ठिपद्दुःषमं भविष्यतीति शश्वत्तथा स्यात् ॥ ७ ॥

तदाहुर्यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति वाग्वै होता वाक्सर्व ऋत्विजः वाग्यक्षद्वाग्यक्षदिति अथो सर्वे वा एते सप्त होतारोऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति अथ य उपरिष्टाद्द्वादशर्चजामितायै ते वै द्वादश भवन्ति द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. Pअत्यल्] संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स योऽत्र भक्षयेद्यस्तं तत्र ब्रूयादशान्तो भक्षोऽननुवषट्कृत आत्मानं अन्तरगान्न जीविष्यतीति तथा ह स्यात् [एद्.ऽनानुवषट्कृत, चोर्र्. Pअत्यल्] यो वै भक्षयेत्प्राणो भक्षः प्राण आत्मानं अन्तरगादिति तथैव भवति लिम्पेदिवैवावजिघ्रेदत्र च द्विदेवत्येषु चेति तदु तत्र शासनं वेदयन्ते अथ यदभू व्यभिचरतो नान्योन्यं अनुप्रपद्येते अध्वर्यू तस्मादृतुरृतुं नानुप्रपद्यते ॥ ८ ॥

प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत ता हिंकारेणैवाभ्यजिघ्रत्[एद्. हिंकारेन, चोर्र्. Pअत्यल्] ताः प्रजा अश्वं आरंस्तद्बध्यते वा एतद्यज्ञो यद्धवींषि पच्यन्ते यत्सोमः सूयते यत्पशुरालभ्यते हिंकारेण वा एतत्प्रजापतिर्हतं अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति तस्मादु हिंक्रियते तस्मादु य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति प्रजापतिर्हि तं अभिजिघ्रति यच्छकुनिराण्डं अध्यास्ते यन्न सूयते तद्धि सापि हिंकृणोति अथो खल्वाहुर्महर्षिर्वा एतद्यज्ञस्याग्रे गेयं अपश्यत् तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस् तं देवाश्च ऋषयश्चाब्रुवन्वसिष्ठोऽयं अस्तु यो नो यज्ञस्याग्रे गेयं अद्रागिति तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस् ततो वै स देवानां श्रेष्ठोऽभवत् येन वै श्रेष्ठस्तेन वसिष्ठस् तस्माद्यस्मिन्वासिष्ठो ब्राह्मणः स्यात्तं दक्षिणाया नान्तरीयात्[एद्. स्यांत्] तथा हास्य प्रीतो हिंकारो भवति अथ देवाश्च ह वा ऋषयश्च यदृक्सामे अपश्यंस्ते ह स्मैते अपश्यन् ते यत्रैते अपश्यंस्तत एवैनं सर्वं दोहं अदुहन् ते वा एते दुग्धे यातयामे ये ऋक्सामे ते हिंकारेणैवाप्यायेते हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते तस्मादु हिंकृत्याध्वर्यवः सोमं अभिषुण्वन्ति हिंकृत्योद्गातारः साम्ना स्तुवन्ति हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति तस्मादु हिंक्रियते प्रजापतिर्हि तं अभिजिघ्रति अथो खल्वाहुरेको वै प्रजापतेर्व्रतं बिभर्ति गौरेव तदुभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति ॥ ९ ॥

देवविशः कल्पयितव्या इत्याहुः छन्दश्छन्दसि प्रतिष्ठाप्यं इति शंसावों इत्याह्वयते प्रातःसवने त्र्यक्षरेण शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं संपद्यते अष्टाक्षरा वै गायत्री गायत्रीं एवैतत्पुरस्तात्प्रातःसवनेऽचीक्ळ्पताम् उक्थं वाचीत्याह शस्त्वा चतुरक्षरम् ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति चतुरक्षरम् तदष्टाक्षरं संपद्यते अष्टाक्षरा वै गायत्री गायत्रीं एवैतदुभयतः प्रातःसवनेऽचीक्ळ्पताम् अध्वर्यो शंसावों इत्याह्वयते माध्यंदिने षडक्षरेण शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं संपद्यते एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभं एवैतत्पुरस्तान्माध्यंदिनेऽचीक्ळ्पताम् उक्थं वाचीन्द्रायेत्याह शस्त्वा षडक्षरम् ओमुक्थशा यजेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम् तदेकादशाक्षरं संपद्यते एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभं एवैतदुभयतो माध्यंदिनेऽचीक्ळ्पताम् अध्वर्यो शंशंसावों इत्याह्वयते तृतीयसवने सप्ताक्षरेण शंसवो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम् तद्द्वादशाक्षरं संपद्यते द्वादशाक्षरा वै जगती जगतीं एवैतत्पुरस्तात्तृतीयसवनेऽचीक्ळ्पताम् उक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वा नवाक्षरम् ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति त्र्यक्षरम् तद्द्वादशाक्षरं संपद्यते द्वादशाक्षरा वै जगती जगतीं एवैतदुभयतस्तृतीयसवनेऽचीक्ळ्पतां इति एतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयत्येव देवविशो य एवं वेद तदप्येषाभ्यनूक्ता यद्गायत्रे अधि गायत्रं आहितं इति ॥ १० ॥

अथैतन्नाना छन्दांस्यन्तरेण गर्ता इव अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते ताभ्यां प्रतिपद्यते तद्गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम् तदनवानं संक्रामेत् अमृतं वै प्रणवः अमृतेनैव तन्मृत्युं तरति तद्यथा मत्येन वा वंशेन वा गर्तं संक्रामेदेवं तत्प्रणवेनोपसंतनोति ब्रह्म ह वै प्रणवः ब्रह्मणैवास्मै तद्ब्रह्मोपसंतनोति शुद्धः प्रणवः स्यात्प्रजाकामानाम् मकारान्तः प्रतिष्ठाकामानाम् मकारान्तः प्रणवः स्यादिति हैक आहुः शुद्ध इति त्वेव स्थितः मीमांसितः प्रणवः अथात इह शुद्ध इह पूर्ण इति शुद्धः प्रणवः स्यात् शस्त्रानुवचनयोर्मध्य इति ह स्माह कौषीतकिस् तथा संहितं भवति मकारान्तोऽवसानार्थे प्रतिष्ठा वा अवसानम् प्रतिष्ठित्या एव अथोभयोः कामयोराप्त्यै एतौ वै छन्दःप्रवाहाववरं छन्दः परं छन्दोऽतिप्रवहतस् तस्यायुर्न हिनस्ति छन्दसां छन्दोऽतिप्रोढं स्यात्तत्रैव यं द्विष्यात्तं मनसा प्रैव विध्येत् छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति त्रिः प्रथमां त्रिरुत्तमां अन्वाह यज्ञस्यैव तद्बर्हिसो नह्यति स्थेम्ने बलायाविस्रंसाय यद्यपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण अथो प्रातःसवनरूपेणेति न त्रिष्टुब्जगत्यावेतस्मिन्स्थानेऽर्धर्चशस्ये यत्किं चिच्छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यं इति सा स्थितिः ॥ ११ ॥

अथात एकाहस्य प्रातःसवनम् प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर्मृत्युपाशेन प्रत्युपाक्रामत स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत् तं सामाज्येष्ठसीदत् स वायव्या प्र”उगं प्रत्यपद्यत मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत् तं माध्यंदिने पवमानेऽसीदत् स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत् स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियं आसीदत् तं अस्तृणोत् तस्मादु य एव पूर्वं आसीदति स तत्स्तृणुते विद्वान् मृत्युरनवकाशं अपाद्रवदशंसदितरो निष्केवल्यम् तस्मादेकं एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यं एव अत्र हि प्रजापतिं मृत्युर्व्यजहात् ॥ १२ ॥

मित्रावरुणावब्रवीद्युवं न इमं यज्ञस्याङ्गं अनुसमाहरतं मैत्रावरुणीयाम् तथेत्यब्रूताम् तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां मैत्रावरुणीयाम् तस्मान्मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम् यद्वेव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः [èV७.६३.५]><उत वां उषसो बुधि साकं सूर्यस्य रश्मिभिः [èV१.१३७.२]>इत्यृचाभ्यनूक्तम् <आ नो मित्रावरुणा [èV३.६२.१६]><आ नो गन्तं रिशादसा [èV५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ <प्र वो मित्राय गायत [èV५.६८.१]>इत्युक्थमुखम् <प्र मित्रयोर्वरुणयोः [èV७.६६.१]>इति पर्यासः <आ यातं मित्रावरुणा [èV७.६६.१९]>इति यजति एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १३ ॥

इन्द्रं अब्रवीत्त्वं न इमं यज्ञस्याङ्गं अनुसमाहर ब्राह्मणाच्छंसीयाम् केन सहेति सूर्येनेति तथेत्यब्रूताम् तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां ब्राह्मणाच्छंसीयाम् तस्माद्ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम् यद्वेवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः [èV१०.११२.१]>इत्यृचाभ्यनूक्तम् <आ याहि सुषुमा हि ते [èV८.१७.१, Vऐत्S२१.१]><आ नो याहि सुतावतः [èV८.१७.४, Vऐत्S२१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ <अयं उ त्वा विचर्षणे [èV८.१७.७, Vऐत्S२१.२]>इत्युक्थमुखम् <उद्घेदभिश्रुतामघं [èV८.९३.१, Vऐत्S२१.२]> इति पर्यासः <इन्द्र क्रतुविदं [èV३.४०.२]> इति यजति एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १४ ॥

इन्द्राग्नी अब्रवीद्युवं न इमं यज्ञस्याङ्गं अनुसमाहरतं अच्छावाकीयाम् तथेत्यब्रूताम् तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां अच्छावाकीयाम् तस्मादच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम् यद्वेवैन्द्राग्नानि शंसति <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [èV८.३८.७]>इत्यृचाभ्यनूक्तम् <इन्द्राग्नी आ गतं [èV३.१२.१]><तोशा वृत्रहणा हुवे [èV३.१२.४]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद्प्. ३०२] <इन्द्राग्नी अपसस्परि [èV३.१२.७]>इत्युक्थमुखम् <इहेन्द्राग्नी उपह्वये [èV१.२१.१]>इति पर्यासः <इन्द्राग्नी आ गतम्> इति यजति एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १५ ॥

अथ शंसावों इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते चतस्रो वै दिशः [एद्. चसस्रो] दिक्षु तत्प्रतितिष्ठन्ति अथो चतुष्पादः पशवः पशूनां आप्त्यै अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास् तस्माच्चतुः सर्वे गायत्राणि शंसन्ति गायत्रं हि प्रातःसवनम् सर्वे समवतीभिः परिदधति तद्यत्समवतीभिः परिदधति अन्तो वै पर्यासः अन्त उदर्कः अन्तेनैवान्तं परिदधति सर्वे मद्वतीभिर्यजन्ति तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति यद्यज्ञेऽभिरूपं तत्समृद्धम् सर्वेऽनुवषट्कुर्वन्ति स्विष्टकृत्वानुवषट्कारः नेत्स्विष्टकृतं अन्तरयामेति अयं वै लोकः प्रातःसवनम् तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति ॥ १६ ॥

घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति यज्ञं वा एतद्धन्ति यद्दक्षिणा नीयन्ते यज्ञं वा एतद्दक्षयन्ति तद्दक्षिणानां दक्षिणात्वम् स्वर्गो वै लोको माध्यंदिनं सवनम् यन्माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै बहु देयम् सेतुं वा एतद्यजमानः संस्कुरुते स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै द्वाभ्यां गार्हपत्ये जुहोति अध्वर्युरस्याक्रान्तेनाक्रामयति आग्नेय्याग्नीध्रीये अन्तरिक्षं तेन यन्माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके हिरण्यं हस्ते भवति अथ नयति सत्यं वै हिरण्यम् सत्येनैवैनं तन्नयति अग्रेण गार्हपत्यं जघनेन सदोऽन्तराग्नीध्रीयं च सदश्च ता उदीचीरन्तराग्नीध्रीयं च सदश्च चात्वालं चोत्सृजन्ति एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकं आयन् ता वा एताः पन्थानं अभिवहन्ति ॥ १७ ॥

अग्नीधेऽग्रे ददाति यज्ञमुखं वा अग्नीत् यज्ञमुखेनैव तद्यज्ञमुखं समर्धयति ब्रह्मणे ददाति प्राजापत्यो वै ब्रह्मा प्रजापतिं एव तया प्रीणाति ऋत्विग्भ्यो ददाति होत्रा एव तया प्रीणाति सदस्येभ्यो ददाति सोमपीथं तया निष्क्रीणीते न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात् यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति यां अश्रुश्रुवुषेऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति यां अप्रसृप्ताय ददाति वनस्पतस्तया प्रथन्ते यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते यां भीषा क्षत्रं तया ब्रह्मातीयात् यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा यस्तां पुनः प्रतिगृह्णीयाद्व्याघ्र्येनं भूत्वा प्रव्लीनीयात् अन्यया सह प्रतिगृह्णीयात् अथ हैनं न प्रव्लीनाति ॥ १८ ॥

यद्गां ददाति वैश्वदेवी वै गौः विश्वेषां एव तद्देवानां तेन प्रियं धामोपैति यदजं ददात्याग्नेयो वा अजः अग्नेरेव तेन प्रियं धामोपैति यदविं ददात्याव्यं तेनावजयति यत्कृतान्नं ददाति मांसं तेन निष्क्रीणीते यदनो वा रथो वा ददाति शरीरं तेन यद्वासो ददाति ब्रृहस्पतिं तेन यद्धिरण्यं ददात्यायुस्तेन वर्षीयः कुरुते यदश्वं ददाति सौर्यो वा अश्वः सूर्यस्यैव तेन प्रियं धामोपैति अन्ततः प्रतिहर्त्रे देयम् रौद्रौ वै प्रतिहर्ता रुद्रं एव तन्निरवजयति यन्मध्यतः प्रतिहर्त्रे दद्यान्मध्यतो रुद्रं अन्ववयजेत् स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् तदत्रिरपनुनोद तदत्रिरन्वपश्यत् यदात्रेयाय हिरण्यं ददाति तम एव तेनापहते अथो ज्योतिरुपरिष्टाद्धारयति स्वर्गस्य लोकस्य समष्ट्यै ॥ १९ ॥

अथात एकाहस्यैव माध्यंदिनम् ऋक्च वा इदं अग्ने साम चास्तां सैव नामर्गासीत् अमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदताम् ते न प्रति चन समवदत तास्तिस्रो भूत्वोपावदन् यत्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवत् यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं भवति तस्मादेकस्य बह्व्यो जाया भवन्ति न हैकस्या बहवः सह पतयः यद्वै तत्सा चामश्च समवदतां तत्सामाभवत् तत्साम्नः सामत्वम् सामन्भवति श्रेष्ठतां गच्छति यो वै भवति स सामन्भवति असामन्य इति ह निन्दन्ते ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां आहावश्च हिंकारश्च प्रस्तावश्च प्रथमा चर्गुद्गीथश्च मध्यमा च प्रतीहारश्चोत्तमा च निधनं च वषट्कारश्च ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति यदु विराजं दशिनीं अभिसंपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति यदु बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति तदेनं स्वेन रूपेण समर्धयति [एद्. रुपेण] द्वे तिस्रः करोति पुनरादायम् प्रजात्यै रूपम् द्वाविवाग्रे भवतस् तत उपप्रजायेते ॥ २० ॥

आत्मा वै स्तोत्रियः प्रजा अनुरूपः पत्नी धाय्या पशवः प्रगाथः गृहाः सूक्तम् यदन्तरात्मंस्तन्निवित् प्रतिष्ठा परिधानीयान्नं याज्या सोऽस्मिंश्च लोके भवत्यमुष्मिंश्च प्रजया च पशुभिश्च गृहेषु भवति य एवं वेद ॥ २१ ॥

स्तोत्रियं शंसति आत्मा वै स्तोत्रियः स मध्यमया वाचा शंस्तव्यः आत्मानं एवास्य तत्कल्पयत्यनुरूपं शंसति प्रजा वा अनुरूपः तस्मात्प्रतिरूपं अनुरूपं कुर्वन्ति प्रतिरूपो हैवास्य प्रजायां आजायते नाप्रतिरूपः तस्मात्प्रतिरूपं अनुरूपं कुर्वन्ति स उच्चैस्तरां इव शंस्तव्यः प्रजां एवास्य तच्छ्रेयसीं करोति धाय्यां शंसति पत्नी वै धाय्या सा नीचैस्तरां इव शंस्तव्या अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान्नीचैस्तरां धाय्यां शंसति प्रगाथं शंसति पशवो वै प्रगाथः सः स्वरवत्या वाचा शंस्तव्यः पशवो वै प्रगाथः पशवः स्वरः पशूनां आप्त्यै सूक्तं शंसति गृहा वै सूक्तम् प्रतिवीतम् तत्प्रतिवीततमया वाचा शंस्तव्यम् स यद्यपि ह दूरात्पशूंल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा निविदं शंसति यदन्तरात्मंस्तन्निवित् तदेवास्य तत्कल्पयति परिधानीयां शंसति प्रतिष्ठा वै परिधानीया प्रतिष्ठायां एवैनं ततः प्रतिष्ठापयति याज्यया यजति अन्नं वै याज्या अन्नाद्यं एवास्य तत्कल्पयति मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्या अन्या धाय्याश्च याज्याश्च कुर्युरुन्मूलं एव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः ॥ २२ ॥

तदाहुः किंदेवत्यो यज्ञ इति ऐन्द्र इति ब्रूयात् ऐन्द्रे वाव यज्ञे सति यथाभागं अन्या देवता अन्वायंस्ताः प्रातःसवने मरुत्वतीये तृतीयसवने च अथ हैतत्केवलं एवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात् तस्मात्सर्वे निष्केवल्यानि शंसन्ति यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम् यद्वेव निष्केवल्यान्येकं ह वा अग्रे सवनं आसीत्प्रातःसवनं एव अथ हैतं प्रजापतिरिन्द्राय ज्येष्ठाय पुत्रायैतत्सवनं निरमिमीत यन्माध्यंदिनं सवनम् तस्मान्माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम् यद्वेव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनोऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽउगे होता शंसति तदुभयं मैत्रावरुणं मैत्रावरुणोऽनुशंसति ऐन्द्रं तृचं प्रऽउगे होता शंसति तदुभयं ऐन्द्रम् ऐन्द्रं ब्राह्मणाच्छंस्यनुशंसति ऐन्द्राग्नं तृचं प्रऽउगे होता शंसति तदुभयं ऐन्द्राग्नाग्नं अच्छावाकोऽनुशंसति अथ हैतत्केवलं एवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात् तस्मात्सर्वे निष्केवल्यानि शंसन्ति यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम् यद्वेव निष्केवल्यानि <यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य [èV७.९८.५, ऋS२०.८७.५]>इत्यृचाभ्यनूक्तम् देवान्ह यज्ञं तन्वानानसुररक्षांस्यजिघांसन् तेऽब्रुवन्वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति मध्यतो वसिष्ठम् उत्तरतो भरद्वाजम् सर्वाननु विश्वामित्रम् तस्मान्मैत्रावरुणो वामदेवान्न प्रच्यवते वसिष्ठाद्ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात् एत एवास्मै तदृषयोऽहरहर्नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद ॥ २३ ॥

इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥ ओं <कया नश्चित्र आ भुवत्[èV४.३१.१, ऋS२०.१२४.१]> <कया त्वं न ऊत्या [èV८.९३.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ <कस्तं इन्द्र त्वावसुं [èV७.३२.१४]> इति बार्हतः प्रगाथस् तस्योपरिष्टाद्ब्राह्मणम् <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>इत्युक्थमुखम् <एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]>इति पर्यासः <उशन्नु षु णः सुमना उपाके [èV४.२०.४]>इति यजति एतां एव तद्देवतां यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते [एद्. सीम्स्तो गिवे एवाभिमृशन्त] नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १ ॥

<तं वो दस्मं ऋतीषहं [èV८.८८.१, ऋS२०.९.१]> <तत्त्वा यामि सुवीर्यं [èV८.३.९, ऋS२०.९.४]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ <उदु त्ये मधुमत्तमा गिरः [èV८.३.१५, ऋS२०.५९.१]>इति बार्हतः प्रगाथः पशवो वै प्रगाथः पशवः स्वरः पशूनां आप्त्यै अतो मध्यं वै सर्वेषां छन्दसां बृहती मध्यं माध्यंदिनं सवनानाम् तन्मध्येनैव मध्यं समर्धयति <इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>इत्युक्थमुखम् <उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>इति पर्यासः <एवेदिन्द्रं वृषणं वज्रबाहुं [èV७.२३.६अ, ऋS२०.१२.६अ]> इति परिदधाति <वसिष्ठासो अभ्यर्चन्त्यर्कैः [èV७.२६.६ब्, ऋS२०.१२.६ब्]>इति अन्नं वा अर्कः अन्नाद्यं एवास्मै तत्परिदधाति <स न स्तुतो वीरवद्धातु गोमत्[èV७.२६.६च्, ऋS२०.१२.६च्]>इति अन्नं वा अर्कःइति प्रजां चैवास्मै तत्पशूंश्चाशास्ते <यूयं पात स्वस्तिभिः सदा नः [èV७.२६.६द्, ऋS२०.१२.६द्]>इति स्वस्तिमती रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणं ऋग्यजुर्वाभिवदति स्वस्ति तस्य यज्ञस्य पारं अश्नुते य एवं वेद यश्चैवंविद्वान्ब्राह्मणाच्छंस्येतया परिदधाति <ऋजीषी वज्री वृषभस्तुराषाट्[èV५.४०.४, ऋS२०.१२.७]>इति यजति [एद्. ऋजिषी, चोर्रेच्तेद्प्. ३०२] एतां एव तद्देवतां यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ २ ॥

<तरोभिर्वो विदद्वसुं [èV८.६६.१]><तरणिरित्सिषासति [èV७.३२.२०]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ <उदिन्न्वस्य रिच्यते [èV७.३२.१२, ऋS२०.५९.३]>इति बार्हतः प्रगाथस् तस्योक्तं ब्राह्मणम् <भूय इद्वावृधे वीर्याय [èV६.३०.१]>इत्युक्थमुखम् <इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>इति पर्यासस् तस्य दशमीं उद्धरति घोरस्य वा आङ्गिरसस्यैतदार्षं नेद्यज्ञं निर्दहेच्छस्यमानम् <पिबा वर्धस्व तव घा सुतासः [èV३.३६.३]>इति यजति एतां एव तद्देवतां यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ ३ ॥

अथाध्वर्यो शंसावों इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम् सर्वे समवतीभिः परिदधति तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कः अन्तेनैवान्तं परिदधति सर्वे मद्वतीभिर्यजन्ति तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति यद्यज्ञेऽभिरूपं तत्समृद्धम् सर्वेऽनुवषट्कुर्वन्ति स्विष्टकृत्वानुवषट्कारः नेत्स्विकृत अन्तरयामेति अन्तरिक्षलोको माध्यंदिनं सवनम् तस्य पञ्च दिशः पञ्चोक्थानि माध्यंदिनस्य सवनस्य स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति ॥ ४ ॥

अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄनेव तेन प्रीणाति उपांशु पात्नीवतस्याग्नीध्रो यजति रेतो वै पात्नीवतः उपांश्विव वै रेतः सिच्यते तन्नानुवषट्करोति नेद्रेतः सिक्तं संस्थापयानीति असंस्थितं इव वै रेतः सिक्तं समृद्धम् संस्था वा एषा यदनुवषट्कारस् तस्मान्नानुवषट्करोति नेष्टुरुपस्थे धिष्ण्यान्ते वासीनो भक्षयति पत्नीभाजनं वै नेष्टा अग्नीत्पत्नीषु रेतो धत्ते रेतसः सिक्ताः प्रजाः प्रजायन्ते प्रजानां प्रजननाय प्रजावान्प्रजनयिष्णुर्भवति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ॥ ५ ॥

अथ शाकलाञ्जुह्वति तद्यथाहिर्जीर्णायास्त्वचो निर्मुच्येतेषीका वा मुञ्जादेवं हैवैते सर्वस्मात्पाप्मनः संप्रमुच्यन्ते ये शाकलाञ्जुह्वति द्रोणकलशे धाना भवन्ति तासां हस्तैरादधति पशवो वै धानास् ता आहवनीयस्य भस्मान्ते निवपन्ति योनिर्वै पशूनां आहपनीयः स्व एवैनांस्तद्गोष्ठे निरपक्रमे निदधति अथ सव्यावृतोऽप्सु सोमानाप्याययन्ति तान्हान्तर्वेद्यां सादयन्ति तद्धि सोमस्यायतनम् चात्वालादपरेणाध्वर्युश्चमसानद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति यदा वा आपश्चौषधयश्च संगच्छन्तेऽथ कृत्स्नः सोमः संपद्यते ता वैष्णव्यर्चा निनयन्ति यज्ञो वै विष्णुः यज्ञ एवैनं अन्ततः प्रतिष्ठापयति अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद्भक्षेण दैवं भक्षं अन्तर्दधति ॥ ६ ॥

पूतिर्वा एषोऽमुष्मिंल्लोकेऽध्वर्युं च यजमानं चाभिवहति तद्यदेनं दध्नानभिहुत्यावभृथं उपहरेयुर्यथा कुणपं वात्येवं एवैनं तत्करोति अथ यदेनं दध्नाभिहुत्यावभृथं उपहरन्ति सर्वं एवैनं सयोनिं संतनुते समृद्धिं संभरन्ति <अभूद्देवः सविता वन्द्यो नु नः [èV४.५४.१]>इति जुहोति सर्वं एवैनं सपर्वाणं संभरति [एद्. अवैनं] तिसृभिस् त्रिवृद्धि यज्ञः द्रप्सवतीभिरभिजुहोति सर्वं एवैनं सर्वाङ्गं संभरति स्ॐईभिरभिजुहोति सर्वं एवैनं सात्मानं संभरति पञ्चभिरभिजुहोति पाङ्क्तो यज्ञः यज्ञं एवावरुन्द्धे पाङ्क्तः पुरुषः पुरुषं एवाप्नोति पाङ्क्ताः पशवः पशुष्वेव प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ७ ॥

अग्निर्वाव यम इयं यमी कुसीदं वा एतद्यमस्य यजमान आदत्ते यदोषधीभिर्वेदिं स्तृणाति तां यदनुपोष्य प्रयायाद्यातयेरन्नेनं अमुष्मिंल्लोके यमे यत्कुसीदं <अपमित्यं अप्रतीत्तं [PS१६.४९.१०, ऋS६.११७.१, Vऐत्S२४.१५]> इति वेदिं उपोषति इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकं एति <विश्वलोप विश्वदावस्य त्वासञ्जुहोमि [ठ्S३.३.८.२, Vऐत्S२४.१६]>इत्याह होताद्वा यजमानस्यापराभावाय यदु मिश्रं इव चरन्त्यञ्जलिना सक्तून्प्रदाव्ये जुहुयात् एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः स्वस्यां एवैनं तद्योन्यां सादयति ॥ ८ ॥

अह्नां विधान्यां एकाष्टकायां अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षं उपोषेत् यदि दहति पुण्यसमं भवति यति न दहति पापसमं भवति एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रं उपयन्ति यो ह वा उपद्रष्टारं उपश्रोतारं अनुख्यातारं एव विद्वान्यजते सं अमुष्मिंल्लोक इष्टापूर्तेन गच्छते अग्निर्वा उपद्रष्टा वायुर्वा उपश्रोता आदित्यो वा अनुख्याता तान्य एवंविद्वान्यजते सं अमुष्मिंल्लोक इष्टापूर्तेन गच्छते <अयं नो नभसस्पतिः [PS१९.१६.१७, ऋS६.७९.१, च्फ़्. ठ्S३.३.८.५]>इत्याह अग्निर्वै नभसस्पतिः अग्निं एव तदाहैतं नो गोपायेति <स त्वं नो नभसस्पतिः [च्फ़्. ठ्S३.३.८.६]>इत्याह वायुर्वै नभसस्पतिः वायुं एव तदाहैतं नो गोपायेति <देव संस्फान [ठ्S३.३.८.६]>इत्याह आदित्यो वै देवः संस्फानः आदित्यं एव तदाहैतं नो गोपायेति <अयं ते योनिः [PS३.३४.१, ऋS३.२०.१]>इत्यरण्योरग्निं समारोपयेत् तदाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत् पुनराधेयः स्यादिति या ते अग्ने यज्ञिया तनूस्तया मे ह्यारोह तया मे ह्याविश अयं ते योनिरित्यात्मन्नग्नीन्समारोपयेत् एष ह वा अग्नेर्योनिः स्वस्यां एवैनं तद्योन्यां सादयति ॥ ९ ॥

यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकतां अश्नुते य एवं वेद यो ह वा एष तपत्येषोऽग्निष्टोम एष साह्नस् तं सहैवाह्ना संस्थापयेयुः साह्नो वै नामैषः तेनासंत्वरमाणाश्चरेयुः यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टाः अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने एवं उ ह यजमानोऽप्रमायुको भवति तेनासंत्वरमाणाश्चरेयुः यदा वा एष प्रातरुदेत्यथ मन्द्रतमं तपति तस्मान्मन्द्रतमया वाचा प्रातःसवने शंसेत् अथ यदाभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा माध्यंदिने सवने शंसेत् अथो यदाभितरां एत्यथो बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेत् एवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रम् यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत एतत्सुशस्ततरं इव भवति स वा एष न कदा चनास्तं अयति नोदयति तद्यदेनं पश्चादस्तं अयतीति मन्यन्तेऽह्न एव तदन्तं गत्वाथात्मानं विपर्यस्यते अहरेवाधस्तात्कृणुते रात्रीं परस्तात् स वा एष न कदा चनास्तं अयति नोदयति तद्यदेनं पुरस्तादुदयतीति मन्यते रात्रेरेव तदन्तं गत्वाथात्मानं विपर्यस्यते रात्रिं एवाधस्तात्कृणुतेऽहः परस्तात् स वा एष न कदा चनास्तं अयति नोदयति न ह वै कदा चन निम्रुचति एतस्य ह सायुज्यं सलोकतां अश्नुते य एवं वेद ॥ १० ॥

अथात एकाहस्यैव तृतीयसवनम् देवासुरा वा एषु लोकेषु समयतन्त ते देवा असुरानभ्यजयम् ते जिता अहोरात्रयोः संधिं समभ्यवागुः स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः कश्चाहं चेमानसुरानभ्युत्थास्यामहा इति अहं चेत्यग्निरब्रवीत् अहं चेति वरुणः अहं चेति बृहस्पतिः अहं चेति विष्णुस् तानभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुः यदभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुस्तस्मादुत्था अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद सोऽग्निरश्वो भूत्वा प्रथमः प्रजिगाय यदग्निरश्वो भूत्वा प्रथमः प्रजिगाअय तस्मादाग्नेयीभिरुक्थानि प्रणयन्ति यदग्निरश्वो भूत्वा प्रथमः प्रजिगाय तस्मात्साकं अश्वम् यत्पञ्च देवता अभ्युत्तस्थुस्तस्मात्पञ्च देवता उक्थे शस्यन्ते या वाक्सोऽग्निः यः प्राणः स वरुणः यन्मनः स इन्द्रः यच्चक्षुः स बृहस्पतिः यच्छ्रोत्रं स विष्णुः एते ह वा एतान्पञ्चभिः प्राणैः समीर्योदस्थापयन् [एद्. समीर्युदस्थापयन्, चोर्र्. Pअत्यल्] तस्मादु एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ ११ ॥

प्रजापतिर्ह्येतेभ्यः पञ्चभ्यः प्राणेभ्योऽन्यान्देवान्ससृजे यदु चेदं किं च पाङ्क्तम् तत्सृष्ट्वा व्याज्वलयत् ते होचुर्देवा म्लानोऽयं पिता मयोभूः [एद्. पितामयोऽभूः, चोर्र्. Pअत्यल्] पुनरिमं समीर्योत्थापयामेति स ह सत्त्वं आख्यायाभ्युपतिष्ठते यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते यो वै प्रजापतिः स यज्ञः स एतैरेव पञ्चभिः प्राणैः समीर्योत्थापितः ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन् ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ १२ ॥

तदाहुर्यद्द्वयोर्देवतयो स्तुवत इन्द्राग्न्योरित्यथ कस्माद्भूयिष्ठा देवता उक्थे शस्यन्त इति [एद्. भूयिष्ठो, चोर्र्. Pअत्यल्] अन्तो वा आग्निमारुतं अन्तरुक्थान्यन्त आश्विनम् कनीयसीषु देवतासु स्तुवते तिष्ठेति अथ कस्माद्भूयिष्ठो देवता उक्थे शस्यन्त इति द्वे द्वे उक्थमुखे भवतस्तद्यद्द्वे द्वे ॥ १३ ॥

अथ यदैन्द्रावारुणं मैत्रावरुस्योक्थं भवत्यैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्यैन्द्रावैष्णावं अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकं ऐन्द्रावारुणं भवति द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकं ऐन्द्राबार्हस्पत्यं भवति द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकं ऐन्द्रावैष्णवं भवति द्वे द्वे उक्थमुखे भवतस् तद्यद्द्वे द्वे ॥ १४ ॥

अथ यदैन्द्रावरुणं मैत्रावरुणस्योक्थं भवति<इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [ऋS७.५८.१, èV६.६८.१०]>इत्यृचाभ्यनूक्तम् मद्वद्धि तृतीयसवनम् <एह्यू षु ब्रवाणि ते [èV६.१६.१६]><आग्निरगामि भारतः [èV६.१६.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ <चर्षणीधृतं मघवानं उक्थ्यं [èV३.५१.१]> इत्युक्थमुखम् तस्योपरिष्टाद्ब्राह्मणम् <अस्तभ्नाद्द्यां असुरो विश्ववेदाः [èV८.४२.१]>इति वारुणं सांशंसिकं [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद्प्. ३०२] अहं चेति वरुणोऽब्रवीत् देवतयोः संशंसायानतिशंसाय <इन्द्रावरुणा युवं अध्वराय नः [èV७.८२.१]>इति पर्यास ऐन्द्रावरुणे ऐन्द्रावरुणं अस्यैतन्नित्यं उक्थम् तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त विजित्या एव अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै सैकपादिनी भवति एकपादिन्या होता परिदधाति यत्र होतुर्होत्रकाणां युञ्जन्ति तत्समृद्धम् तद्वै खल्व्<आ वां राजानावध्वरे ववृत्यां [èV७.८४.१]> इति [एद्. आवां, चोर्रेच्तेद्प्. ३०३] एवं एव केवलपर्यासं कुर्यात्केवलसूक्तम् केवलसूक्तं एवोत्तरयोर्भवति <इन्द्रावरुणा मधुमत्तमस्य [PS२०.७.६, ऋS७.५८.२, èV६.६८.११]>इति यजति एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १५ ॥

अथ यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति<इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू [èV४.५०.१०]> इत्यृचाभ्यनूक्तम् मद्वद्धि तृतीयसवनम् <वयं उ त्वां अपूर्व्य [èV८.२१.१, ऋS२०.१४.१ ।२०.६२.१ ]> <यो न इदमिदं पुरा [èV८.२१.९, ऋS२०.१४.३ ।२०.६२.३ , Vऐत्S२५.३]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ <प्र मंहिष्ठाय बृहते बृहद्रये [èV१.५७.१, ऋS२०.१५.१]>इत्युक्थमुखम् ऐन्द्राजागतम् जागताः पशवः पशूनां आप्त्यै जागतं उ वै तृतीयसवनम् तृतीयसवनस्य रूपम् <उदप्रुतो न वयो रक्षमाणाः [èV१०.६८.१, ऋS२०.१६.१]>इति बार्हस्पत्यं सांशंसिकम् अहं चेति बृहस्पतिरब्रवीत् देवतयोः संशंसायनतिशंसाय <अच्छा म इन्द्रं मतयः स्वर्विदः [èV१०.४३.१, ऋS२०.१७.१]>इति पर्यास ऐन्द्राबार्हस्पत्यः ऐन्द्राबार्हस्पत्यं अस्यैतन्नित्यं उक्थम् तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त विजित्या एव अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै <बृहस्पतिर्नः परि पातु पश्चात्[èV१०.४२ ।४३ ।४४.११अ, PS१५.११.१ ।१६.८.११ अ, ऋS७.५१.१ ।२०.१७.११ । २०.८९.११ ।२०.९४.११ अ]>इत्यैन्द्राबार्हस्पत्या परिदधाति इन्द्राबृहस्पत्योरेव यज्ञं प्रतिष्ठापयति <उतोत्तरस्मादधरादघायोरिन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [èV१०.४२ ।४३ ।४४.११ब्च्द्, PS१५.११.१ ।१६.८.११ ब्च्द्, ऋS७.५१.१ ।२०.१७.११ । २०.८९.११ ।२०.९४.११ ब्च्द्]>इति सर्वाभ्य एव दिग्भ्य आशिषं आशास्ते नार्त्वी यं कामं कामयते सोऽस्मै कामः समृध्यते य एवं वेद यश्चैवंविद्वान्ब्राह्मणाच्छंस्येतया परिदधाति [एद्. एतस्या, चोर्र्. Pअत्यल्; एद्. ब्राह्मणाच्छंय्] <बृहस्पते युवं इन्द्रश्च वस्वः [èV७.९७.१०]>इति यजति एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १६ ॥

अथ यदैन्द्रावैष्णवं अच्छावाकस्योक्थं भवति<इन्द्राविष्णू मदपती मदानां आ सोमं यातं द्रविणो दधाना [èV६.६९.३]>इत्यृचाभ्यनूक्तम् [एद्. अच्छावाकस्योक्तं] मद्वद्धि तृतीयसवनम् <अधा हीन्द्र गिर्वणः [èV८.९८.७]><इयं त इन्द्र गिर्वणः [èV८.१३.४]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ <ऋतुर्जनित्री तस्या अपस्परि [èV२.१३.१]>इत्युक्थमुखम् तस्योक्तं ब्राह्मणम् <नू मर्तो दयते सनिष्यन्[èV७.१००.१]>इति वैष्णवं सांशंसिकं [एद्. सांशंसिकंम्] अहं चेति विष्णुरब्रवीत् देवतयोः संशंसायानतिशंसाय <सं वां कर्मणा सं इषा हिनोमि [èV६.६९.१]>इति पर्यास ऐन्द्रावैष्णवः ऐन्द्रावैष्णवं अस्यैतन्नित्यं उक्थम् [एद्. उखं] तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त विजित्या एव अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै <उभा जिग्यथुर्न परा जयेथे [èV६.६९.८, PS२०.१६.३, ऋS७.४४.१]> इत्यैन्द्रावैष्णव्यर्चा परिदधाति इन्द्राविष्णोरेव यज्ञं प्रतिष्ठापयति <इन्द्राविष्णू पिबतं मध्वो अस्य [èV६.६९.७]>इति यजति एते एव तद्देवते यथाभागं प्रीणाति वषट्कृत्यानुवषट्करोति प्रत्येवाभिमृशन्ते नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १७ ॥

अथाध्वर्यो शंशंसावों इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते चतस्रो वै दिशः दिक्षु तत्प्रतितिष्ठन्ते अथो चतुष्पादः पशवः पशूनां आप्त्यै अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास् तस्माच्चतुः सर्वे त्रैष्टुभं जागतानि शंसन्ति जागतं हि तृतीयसवनम् अथ हैतत्त्रैष्टुभानि अप्रतिभूतं इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम् धीतरसं वा एतत्सवनं यत्तृतीयसवनम् अथ हैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुबयातयाम सवनस्यैव तत्सरसतायै सर्वे समवतीभिः परिदधति तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कोऽन्तः सजाया उ ह वा अवैनाय अन्तेनैवान्तं परिदधति सर्वे मद्वतीभिर्यजन्ति तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति यद्यज्ञेऽभिरूपं तत्समृद्धम् सर्वेऽनुवषट्कुर्वन्ति स्विष्टकृत्वानुवषट्कारः नेत्स्विष्टकृत अन्तरयामेति असौ वै लोकस्तृतीयसवनम् तस्य पञ्च दिशः पञ्चोक्थानि तृतीयसवनस्य स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोति तद्यदेषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल्लोकानृध्नोतीमांल्लोकानृध्नोतीति ॥ १८ ॥

तदाहुः किं षोडशिनः षोडशित्वम् षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिरक्षरैरादत्ते द्वे वा अक्षरे अतिरिच्येते षोडशिनोऽनुष्टुभं अभिसंपन्नस्य वाचो वा एतौ स्तनौ सत्यानृते वाव ते अवत्येनं सत्यं नैनं अनृतं हिनस्ति य एवं वेद य एवं वेद ॥ १९ ॥

[एद्. वेद य एवं वेइ] इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥ ओं अहर्वै देवा आश्रयन्त रात्रीं असुरास् ते समावद्वीर्या एवासन् नो व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानसुरान्रात्रीं अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. Pअत्यल्] स देवेषु न प्रत्यविन्दत् अबिभयू रात्रेस्तमसो मृत्योस् तम इव हि रात्रिः मृत्युर्वै तमस् तस्माद्धाप्येतर्हि भूयानिव नक्तं स यावन्मात्रं इवापक्रम्य बिभेति तं वै छन्दांस्येवान्ववायन् तद्यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्रश्च छन्दांसि च रात्रिं वहन्ति न निविच्छस्यते न पुरोरुङ्न धाय्या नान्या देवता इन्द्रश्च ह्येव छन्दांसि च रात्रिं वहन्ति तान्वै पर्यायैः पर्यायं अनुदन्त यत्पर्यायैः पर्यायं अनुदन्त तस्मात्पर्यायास् तत्पर्यायाणां पर्यायत्वम् तान्वै प्रथमैरेव पर्यायैः पूर्वरात्रादनुदन्त मध्यमैर्मध्यरात्रादुत्तमैरपररात्रात् अपिशर्वर्या अपिस्मसीत्यब्रुवन् तद्यदपिशर्वर्या अपिस्मसीत्यब्रुवंस्तदपिशर्वराणां अपिशर्वरत्वम् शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह एतानि ह वा इन्द्रं रात्र्यास्तमसो मृत्योरभिपत्यावारयन् तदपिशर्वराणां अपिशर्वरत्वं ॥ १ ॥

प्रथमेषु पर्यायेषु स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषां मनोरथा आसंस्तदेवैषां तेनाददते मध्यमेषु पर्यायेषु स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषां अश्वा गाव आसंस्तदेवैषां तेनाददते उत्तमेषु पर्यायेषु स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यं मणिरध्यात्मं आसीत्तदेवैषां तेनाददते आ द्विषतो वसु दत्ते निरेवैनं एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद ॥ २ ॥

पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथं उभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतं इदं वसो सुतं अन्ध इदं ह्यन्वोजसा सुतं इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस् तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रं अहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथं उभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस् तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसन्ति परिमितं भूतं अपरिमितं भव्यम् अपरिमितान्येवावरुन्ध्यादित्यतिशंसति स्तोमम् अति वै प्रजास्यात्मानं अति पशवस् तद्यदेवास्यात्यात्मानं तदेवास्यैतेनाप्याययन्ति अथो द्वयं वा इदं सर्वं स्नेहश्चैव तेजश्च अथ तदहोरात्राभ्यां आप्तम् स्नेहतेजसोराप्त्यै गायत्रान्स्तोत्रियानुरूपाञ्छंसन्ति तेजो वै गायत्री तमः पाप्मा रात्रिस् तेन तेजसा तमः पाप्मानं तरन्ति पुनरादायं शंसन्ति एवं हि सामगा स्तुवते यथा स्तुतं अनुशस्तं भवति न हि तत्स्तुतं यन्नानुशस्तम् तदाहुरथ कस्मादुत्तमात्प्रतीहारादाहूय साम्ना शस्त्रं उपसंतन्वन्तीति ॥ ३ ॥

पुरुषो वै यज्ञस् तस्य शिर एव हविर्धानम् मुखं आहवनीयः उदरं सदः अन्नं उक्थानि बाहू मार्जालीयश्चाग्नीध्रीयश्च या इमा देवतास्तेऽन्तःसदसं धिष्ण्याः प्रतिष्ठे गार्हपत्यव्रतश्रपणावित्यथापरम् तस्य मन एव ब्रह्मा प्राण उद्गाता अपानः प्रस्तोता व्यानः प्रतिहर्ता वाग्घोता चक्षुरध्वर्युः प्रजाति सदस्यः अङ्गानि होत्राशंसिनः आत्मा यजमानस् तद्यदध्वर्युः स्तोत्रं उपाकरोति सोमः पवत इति चक्षुरेव तत्प्राणैः संदधाति अथ यत्प्रस्तोता ब्रह्माणं आमन्त्रयते ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति मनोऽग्रणीर्भवति एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति प्राणानेव तन्मनसा संदधाति अथ यद्ब्रह्मा स्तुतेत्युच्चैरनुजानाति मनो वै ब्रह्मा मन एव तत्प्राणैः संदधाति अथ यत्प्रस्तोता प्रस्तौत्यपानं एव तत्प्राणैः संदधाति अथ यत्प्रतिहर्ता प्रतिहरति व्यानं एव तदपानैः संदधाति अथ यदुद्गातोद्गायति समानं एव तत्प्राणैः संदधाति अथ यद्धोता साम्ना शस्त्रं उपसंतनोति वाग्वै होता वाचं एव तत्प्राणैः संदधाति अथ यत्सदस्यो ब्रह्माणं उपासीदति प्रजातिर्वै सदस्यः प्रजातिं एवाप्नोति अथ यद्धोत्राशंसिनः सामसंततिं कुर्वन्त्यङ्गानि वै होत्राशंसिनोऽङ्गान्येवास्य तत्प्राणैः संदधाति अथ यद्यजमानः स्तोत्रं उपासीदत्यात्मा वै यजमान आत्मानं एवास्य तत्कल्पयति तस्मान्नैनं बहिर्वेद्यभ्याश्रावयेत् नाभ्युदियात् नाभ्यस्तमियात् नाधिष्ण्ये प्रतपेत् नेत्प्राणेभ्य आत्मानं अन्तरगादिति ॥ ४ ॥

प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्रादेव तदसुरान्निर्घ्नन्ति मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति मध्यमरात्रादेव तदसुरान्निर्घ्नन्ति उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति उत्तमरात्रादेव तदसुरान्निर्घ्नन्ति तद्यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्येवं एवैतत्स्तोत्रियानुरूपाभ्यां अहोरात्राभ्यां एव तदसुरान्निर्घ्नन्ति गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री तेज एवास्मै तद्ब्रह्मवर्चसं यजमाने दधति गायत्रीः शस्त्वा जगतीः शंसन्ति ब्रह्म ह वै जगती ब्रह्मणैवास्मै तद्ब्रह्मवर्चसं यजमाने दधति व्याह्वयन्ते गायत्रीश्च जगतीश्चान्तरेण छन्दांस्येव तन्नानावीर्याणि कुर्वन्ति जगतीः शस्त्वा त्रिष्टुभः शंसन्ति पशवो वै जगती पशूनेव तत्त्रिष्टुब्भिः परिदधति बलं वै वीर्यं त्रिष्टुप् बलं एव तद्वीर्येऽन्ततः प्रतिष्ठापयति अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस्त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः एतद्वै रात्रीरूपम् जागृयाद्रात्रिम् यावदु ह वै न वा स्तुवते न वा शस्यते तावदीश्वरा असुरा रक्षांसि च यज्ञं अन्ववनयन्ति तस्मादाहवनीयं समिद्धं आग्नीध्रीयं गार्हपत्यं धिष्ण्यान्समुज्ज्वलयतेति भाषेरन् ज्वलयेरन् प्रकाशं इवैव तत्स्यात् आरेभन्तः शयीरन् तान्ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति ते तमः पाप्मानं अपाघ्नते ते तमः पाप्मानमपाघ्नते ॥ ५ ॥

विश्वरूपं वै त्वाष्ट्रं इन्द्रोऽहन् स त्वष्टा हतपुत्रोऽभिचरणीयं अपेन्द्रं सोमं आहरत् तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमं अपिबत् स विष्वङ्व्यार्छत् तस्मात्सोमो नानुपहूतेन [न] पातव्यः सोमपीथोऽस्य व्यर्धुको भवति तस्य मुखात्प्राणेभ्यः श्रीर्यशांस्यूर्ध्वान्युदक्रामन् [एद्. प्रणेभ्यः, चोर्र्. Pअत्यल्] तानि पशून्प्राविशन् तस्मात्पशवो यशः यशो ह भवति य एवं वेद ततोऽस्मा एतदश्विनौ च सरस्वती च यज्ञं समभरन्त्सौत्रामणिं भैषज्याय तयेन्द्रं अभ्यषिञ्चन् ततो वै स देवानां श्रेष्ठोऽभवत् श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश्चैवंविद्वान्त्सौत्रामण्याभिषिच्यते ॥ ६ ॥

अथ साम गायति ब्रह्मा क्षत्रं वै साम क्षत्रेणैवैनं तदभिषिञ्चति अथो साम्राज्यं वै साम साम्राज्येनैवैनं तत्साम्राज्यं गमयति अथो सर्वेषां वा एष वेदानां रसो यत्साम सर्वेषां एव तद्वेदानां रसेनाभिषिञ्चति बृहत्यां गायति बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति ऐन्द्र्यां बृहत्यां गायति ऐन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामणिः इन्द्रायतन एष एतर्हि यो यजते स्व एवैनं तदायतने प्रीणाति अथ कस्मात्संशानानि नाम एतैर्वै सामभिर्देवा इन्द्रं इन्द्रियेण वीर्येण समश्यन् तथैवैतद्यजमाना एतैरेव सामभिर् इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन] संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति एष्वेवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति चतस्रो वै दिशः दिक्षु तत्प्रतितिष्ठन्ते अथो चतुष्पादः पशवः पशूनां आप्त्यै तदाहुर्यदेतत्साम गीयतेऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा त्रया देवा एकादशेत्याहुः एतद्वा एतस्य साम्न उक्थं एषा प्रतिष्ठा त्रयस्त्रिंशं ग्रहं गृह्णाति साम्नः प्रतिष्ठायै प्रतिष्ठायै ॥ ७ ॥

प्रजापतिरकामयत वाजं आप्नुयां स्वर्गं लोकं इति स एतं वाजपेयं अपश्यत् वाजपेयो वा एष य एष तपति वाजं एतेन यजमानः स्वर्गं लोकं आप्नोति शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रह्मवर्चसं ताभिराप्नोति वाजवत्यो माध्यंदिने सवने स्वर्गस्य लोकस्य समष्ट्यै अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति भूमानं ताभिराप्नोति सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिं एवाप्नोति हिरण्यस्रज ऋत्विजो भवन्ति महस एव तद्रूपं क्रियते एष मेऽमुष्मिंल्लोके प्रकाशोऽसदिति ज्योतिर्वै हिरण्यम् ज्योतिषैवैनं अन्तर्दधति आजिं धावन्ति यजमानं उज्जापयन्ति नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति मनुष्यलोकादेवैनं अन्तर्दधति देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयं इति ब्रह्मा रथचक्रं सर्पति सवितृप्रसूत एवैनं तत्सर्पति अथो प्रजापतिर्वै ब्रह्मा प्रजापतिं एवैनं वज्रादधिप्रसुवति नाकस्योज्जित्यै वाजिनां संतत्यै वाजिसामाभिगायति वाजिमान्भवति वाजो वै स्वर्गं लोकः स्वर्गं एव तल्लोकं रोहति विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति स्वर्गं एव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपं अतिक्रामत्यतिक्रामति ॥ ८ ॥

अथातोऽप्तोर्यामा प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत ताः सृष्टाः पराच्य एवासन् नोपावर्तन्त ता एकेन स्तोमेनोपागृह्णात् ता अत्यरिच्यन्त ता द्वाभ्याम् ताः सर्वैस् तस्मात्सर्वस्तोमस् ता एकेन पृष्ठेनोपागृह्णात् ता अत्यरिच्यनत ता द्वाभ्याम् ताः सर्वैस् तस्मात्सर्वपृष्ठस् ता अतिरिक्तोक्थे वारवन्तीयेनावारयन् तस्मादेषोऽतिरिक्तोक्थवान्भवति तस्माद्वारवन्तीयम् ता यदाप्त्वायच्छदतो वा अप्तोर्यामा अथो प्रजा वा अप्तुरित्याहुः प्रजानां यमन इति हैवैतदुक्तं ता बर्हिः प्रजा अश्नायेरन् [एद्. प्रजाश्नायेरंस्, चोर्र्. Pअत्यल्] तर्हि हैतैन यजते स एषोऽष्टापृष्ठो भवति तद्यथान्यस्मिन्यज्ञे विश्वजितः पृष्ठं अनु संचरं भवति कथं एतदेवं अत्रेति पितैष यज्ञानाम् तद्यथा श्रेष्ठिनि संवश्रेयुरपि विद्विषाणा एवं एवैतच्छ्रेष्ठिनो वशेयान्नं अन्नस्यानुचर्याय क्षमन्ते ॥ ९ ॥

तद्यथैवादोऽह्न उक्थानां आग्नेयं प्रथमं भवत्येवं एवैतदत्राप्याग्नेयं प्रथमं भवति ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे] ऐन्द्रे वा एते ऐन्द्रावैष्णवं अच्छावाकस्योक्थं भवति चतुराहावान्यतिरिक्तोक्थानि भवन्ति पशवो वा उक्थानि चतुष्टया वै पशवः अथो चतुष्पादः पशवः पशूनां आप्त्यै त एते स्तोत्रियानुरूपास्तृचा अर्धर्चशस्याः प्रतिष्ठा वा अर्धर्चः प्रतिष्ठित्या एव अथैतेषां एवाश्विनानां सूक्तानां द्वे द्वे समाहावं एकैकं अहरहः शंसति अश्विनौ वै देवानां भिषजौ तस्मादाश्विनानि सूक्तानि शंसति तदश्विभ्यां प्रददुरिदं भिषज्यतं इति क्षैत्रपत्याः परिधानीया भवन्ति यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस्ता दीना एताभिर्यथाक्षेत्रं पाययां चकार तर्पयां चकार [एद्. ह तस्तत्, चोर्र्. Pअत्यल्] अथो इयं वै क्षेत्रं पृथिवी अस्यां अदीनायां अन्ततः प्रतिष्ठास्यामह इति त्रिष्टुभो याज्या भवन्ति यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस्ता हैवैना एताभिर्यथौकसं व्यवसाययां चकार तस्मादेता याज्या भवन्ति तस्मादेता याज्या भवन्ति ॥ १० ॥

अथातोऽनैकाहिकम् [एद्. अथतो] श्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने अहीनं एव तत्संतन्वन्ति अहीनस्य संतत्यै तद्यथा ह वा एकाहः सुत एवं अहीनः सुतस् तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवं अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति तद्यच्छ्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने अहरेवं तदह्नोऽनुरूपं कुर्वन्ति अपरेणैव तदह्नापरं अहरभ्यारभन्ते तत् तथा न माध्यंदिने सवने श्रीर्वै पृष्ठानि तानि तस्मिन्नेवावस्थितानि भवन्ति एतेनैव विधिना तृतीयसवने न श्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति ॥ ११ ॥

अथात आरम्भणीया एव <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान्[èV१.९०.१]> इति प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस् तस्मादेषा प्रणेतृमती भवति [एद्. प्रणेत्रिमती, चोर्र्. Pअत्यल्] <इन्द्रं वो विश्वतस्परि [èV१.७.१०अ, ऋS२०.३९.१ ।२०.७०.१६ अ]> इति ब्राह्मणाच्छंसिनः <हवामहे जनेभ्यः [èV१.७.१०ब्, ऋS२०.३९.१ ।२०.७०.१६ ब्]>इतीन्द्रं एवैतयाहरहर्निर्ह्वयन्ते न हैवैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान्ब्राह्मणाच्छंस्येतां अहरहः शंसति <यत्सोम आ सुते नरः [èV७.९४.१०अ]>इत्यच्छावाकस्य <इन्द्राग्नी अजोहवुः [èV७.९४.१०ब्]>इतीन्द्राग्नी एवैतयाहरहर्निर्ह्वयन्ते न हैवैषां विहवेऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वानच्छावाक एतां अहरहः शंसति ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः स्वर्गं एवैताभिर्लोकं अनुसंतरन्ति ॥ १२ ॥

अथातः परिधानीया एव <ते स्याम देव वरुण [èV७.६६.९अ]>इति मैत्रावरुणस्य <इषं स्वश्च धीमहि [èV७.६६.९ब्]>इत्ययं वै लोक इषं इत्यसौ लोकः स्वरिति उभावेवैनौ तौ लोकावारभते <व्यन्तरिक्षं अतिरत्[èV८.१४.७अ, ऋS२०.२८.१अ, २०.३९.२अ]>इति ब्राह्मणाच्छंसिनः विवत्तृचम् स्वर्गं एवैताभिर्लोकं विवृणोति <मदे सोमस्य रोचनेन्द्रो यदभिनद्वलं [èV८.१४.७ब्च्, ऋS२०.२८.१ब्च्, २०.३९.२ब्च्]> इति सिषासवो ह वा एते यद्दीक्षितास् तस्मादेषा वलवती भवति <उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलं [èV८.१४.८, ऋS२०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. Pअत्यल्] सनिं एतेभ्य एतयावरुन्द्धे <इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [èV८.१४.९, ऋS२०.२८.३, २०.३९.४]>इति स्वर्गं एवैतयाहरहर्लोकं अवरुन्द्धे <आहं सरस्वतीवतोः [èV८.३८.१०अ]>इत्यच्छावाकस्य [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद्प्. ३०३] <इन्द्राग्न्योरवो वृणे [èV८.३८.१०ब्]>इति एतद्ध वा इन्द्राग्न्योः प्रियं धामो यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति प्रियेणैव धाम्ना समृध्यते य एवं वेद ॥ १३ ॥

उभय्यो होत्रकाणां परिधानीया भवन्त्यहीनपरिधानयाश्चैकाहिनस्य तत ऐकाहिकीभिरेव मैत्रावरुणः परिदधाति तेनास्माल्लोकान्न प्रच्यवते आहिनीकीभिरच्छावाकः स्वर्गस्य लोकस्याप्त्यै उभयीभिर्ब्राह्मणाच्छंसी एवं असावुभौ व्यन्वारभमाण एतीमं च लोकं अमुं च अथोऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च एवं असावुभौ व्यन्वारभमाण एति अथ तत ऐकाहिकीभिरेव तृतीयसवने होत्रकाः परिदधति तेनास्माल्लोकान्न प्रच्यवते आहिनीकीभिरच्छावाकः स्वर्गस्य लोकस्य समष्ट्यै कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः यद्वै होता तद्धोत्रकाः प्राणो वै होताङ्गानि होत्रकाः समानो वा अयं प्राणोऽङ्गान्यनुसंचरति तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः यद्वै होता तद्धोत्रकाः आत्मा वै होताङ्गानि होत्रकाः समाना वा इमेऽङ्गानां अन्तास् तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः [एद्. पुर्वेद्युः] यद्वै होता तद्धोत्रकाः सूक्तान्तैर्होता परिदधाति अथ समान्य एव होत्रकाणां परिधानीया भवन्ति ॥ १४ ॥

यः श्वस्तोत्रियस्तं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने अहीनं एव तत्संतन्वन्ति अहीनस्य संतत्यै त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति <आ सत्यो यातु मघवां ऋजीषी [èV४.१६.१, ऋS२०.७७.१]>इति सत्यवान्मैत्रावरुणः [एद्. सत्यवन्, चोर्र्. Pअत्यल्] <अस्मा इदु प्र तवसे तुराय [èV१.१६.१, ऋS२०.३५.१]>इति ब्राह्मणाच्छंसी <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>इत्यच्छावाकस् तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तं उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति वीर्यवान्वा एष बह्वृचो यदच्छावाकः वहति ह वै वह्निर्धुरो यासु युज्यते तस्मादच्छावाको वह्निवदेतत्सूक्तं उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति तानि पञ्चस्वहःसु शस्यन्ते चतुर्विंशेऽभिजिति विषुवति विश्वजिति महाव्रते तान्येतान्यहीनसूक्तानीत्याचक्षते न ह्येषु किं चन हीयते पराञ्चि ह वा एतान्यहान्यनभ्यावर्तीनि भवन्ति तस्मादेतान्येतेष्वहःसु शस्यन्ते यदेतानि शंसन्ति तत्स्वर्गस्य लोकस्य रूपम् यद्वेवैतानि शंसन्तीन्द्रं एवैतैर्निर्ह्वयन्ते यथर्षभं वाशितायै ते वै देवाश्चर्षयश्चाब्रुवन्त्समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्] तदेतद्यज्ञस्य समानं अपश्यन् समानान्प्रगाथान्त्समानीः प्रतिपदः समानानि सूक्तानि [एद्. प्रगाथांत्] ओकःसारी वा इन्द्रः यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्येव तत्रापरम् यज्ञस्यैव सेन्द्रतायै ॥ १५ ॥

इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥ ओं तान्वा एतान्संपातान्विश्वामित्रः प्रथमं अपश्यत् <एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]> <यन्न इन्द्रो जुजुषे यच्च वष्टि [èV४.२२.१]> <कथा महां अवृधत्कस्य होतुः [èV४.२३.१]>इति तान्विश्वामित्रेण दृष्टान्वामदेवोऽसृजत स हेक्षां चक्रे विश्वामित्रो यान्वा अहं संपातानदर्शं तान्वामदेवोऽसृजत कानि न्वहं हि सूक्तानि संपातांस्तत्प्रतिमान्त्सृजेयं इति स एतानि सूक्तानि संपातांस्तत्प्रतिमानसृजत <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]><उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]><अभि तष्टेव दीधया मनीषां [èV३.३८.१]> इति विश्वमित्रः <इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]><य एक इद्धव्यश्चर्षणीनां [èV६.२२.१, ऋS२०.३६.१]><यस्तिग्मशृङ्गो वृषभो न भीमः [èV७.१९.१, ऋS२०.३७.१]>इति वसिष्ठः <इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]><इच्छन्ति त्वा सोम्यासः सखायः [èV३.३०.१]> <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>इति भरद्वाजः एतैर्वै संपातैरेत ऋषय इमांल्लोकान्त्समपतन् तद्यत्समपतंस्तस्मात्संपातास् तत्संपातानां संपातत्वम् ततो वा एतांस्त्रीन्संपातान्मैत्रावरुणो विपर्यासं एकैकं अहरहः शंसत्य्<एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]>इति प्रथमेऽहनि <यन्न इन्द्रो जुजुषे यच्च वष्टि [èV४.२२.१]>इति द्वितीये <कथा महां अवृधत्कस्य होतुः [èV४.२३.१]>इति तृतीये त्रीनेव संपातान्ब्राह्मणाच्छंसी विपर्यासं एकैकं अहरहः शंसति<इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>इति प्रथमेऽहनि <य एक इद्धव्यश्चर्षणीनां [èV६.२२.१, ऋS२०.३६.१]> इति द्वितीये <यस्तिग्मशृङ्गो वृषभो न भीमः [èV७.१९.१, ऋS२०.३७.१]>इति तृतीये त्रीनेव संपातानच्छावाको विपर्यासं एकैकं अहरहः शंसति<इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>इति प्रथमेऽहनि <इच्छन्ति त्वा सोम्यासः सखायः [èV३.३०.१]>इति द्वितीये <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>इति तृतीये तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि तानि द्वादश भवन्ति द्वादश ह वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस् तत्संवत्सरं प्रजापतिं यज्ञं आप्नोति तस्मिन्त्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति प्रतितिष्ठन्ते [एद्. प्रतितिष्ठत, चोर्र्. Pअत्यल्] इदं सर्वं अनु प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद तान्यन्तरेणावापं आवपेरन् अन्यूङ्खा विराजश्चतुर्थेऽहनि वैमदीश्च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे अथ यान्यन्यानि महास्तोत्राण्यष्टर्चान्यावपेरन् ॥ १ ॥

<को अद्य नर्यो देवकामः [èV४.२५.१]>इति मैत्रावरुणः <वने न वा यो न्यधायि चाकन्[èV१०.२९.१, ऋS२०.७६.१]>इति ब्राह्मणाच्छंसी <आ याह्यर्वाङुप वन्धुरेष्ठाः [èV३.४३.१]>इत्यच्छावाकः एतानि वा आवपनानि एतैरेवावपनैर्देवाश्चर्षयश्च स्वर्गं लोकं आयन् तथैवैतद्यजमाना एतैरेवावपनैः स्वर्गं लोकं यन्ति <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>इति मैत्रावरुणः पुरस्तात्संपातानां अहरहः शंसति तदेतत्सूक्तं स्वर्ग्यम् एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकं आयन् तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति तदृषभवत्पशुमद्भवति पशूनां आप्त्यै तत्पञ्चर्चं भवति अन्नं वै पङ्क्तिः अन्नाद्यस्यावरुद्ध्यै <अरिष्टैर्नः पथिभिः पारयन्ता [èV६.६९.१द्]>इति स्वर्गताया एवैतदहरहः शंसति <उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>इति ब्राह्मणाच्छंसी ब्रह्मण्वदेतत्सूक्तं समृद्धम् एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकं आयन् तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति तदु वै षडृचम् षड्वा ऋतवः ऋतूनां आप्त्यै तदुपरिष्टात्संपातानां अहरहः शंसति <अभि तष्टेव दीधया मनीषां [èV३.३८.१अ]> इत्यच्छावाकः [एद्. अच्छावको] अहरहः शंसत्यभिवदति तत्यै रूपम् <अभि प्रियाणि मर्मृशत्पराणि [èV३.३८.१च्]>इति यान्येव पराण्यहानि तानि प्रियाणि तान्येव तदभिमर्मृशन्तो यन्त्यभ्यारभमाणाः परो वा अस्माल्लोकात्स्वर्गो लोकः स्वर्गं एव तल्लोकं अभिमृशन्ति <कवींरिच्छामि संदृशे सुमेधाः [èV३.३८.१द्]>इति ये ह वा अनेन पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति यदु वै दशर्चं दश वै प्राणाः प्राणेन तदाप्नोति प्राणानां संतत्यै यदु वै दशर्चम् दश वै पुरुषे प्राणाः दश स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नोति प्राणेषु चैवैतत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति यदु वै दशर्चम् दशाक्षरा विराट् इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा तदेतदस्यां प्रतिष्ठायां प्रतिष्ठापयति सकृदिन्द्रं निराह तेनैन्द्राद्रूपान्न प्रच्यवते तदुपरिष्टात्संपातानां अहरहः शंसति ॥ २ ॥

<कस्तं इन्द्र त्वावसुं [èV७.३२.१४]><कन्नव्यो अतसीनां [èV८.३.१३]><कदू न्वस्याकृतं [èV८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते को वै प्रजापतिः प्रजापतेराप्त्यै यदेव कद्वन्तस्तत्स्वर्गस्य लोकस्य रूपम् यद्वेव कद्वन्तः अथो अन्नं वै कम् अथो अन्नस्यावरुद्ध्यै यद्वेव कद्वन्तः अथो सुखं वै कम् अथो अन्नस्यावरुद्ध्यै यद्वेव कद्वन्तः अथोऽहरहर्वा एते शान्तान्यहीनसूक्तान्युपयुञ्जाना यन्ति तानि कद्वद्भिः प्रगाथैः शमयन्ति तान्येभ्यः शान्तानि कं भवन्ति तान्येताञ्छान्तानि स्वर्गं लोकं अभिवहन्ति त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस् ता हैके पुरस्तात्प्रगाथानां शंसन्ति धाय्या इति वदन्तस् तदु तथा न कुर्यात् क्षत्रं वै होता विशो होत्राशंसिनः क्षत्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः पापवस्यसम् त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्येवं विद्यात् यथा वै समुद्रं प्रतरेयुरेवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवं हैवैतास्त्रिष्टुभः स्वर्गकामाः समारोहन्ति न ह वा एतच्छन्दो गमयित्वा स्वर्गं लोकं उपावर्तते वीर्यवत्तमं हि ताभ्यो न व्याह्वयीत समानं हि छन्दः अथो नेद्धाय्याः करवाणीति यदेनाः शंसन्ति तत्स्वर्गस्य लोकस्य रूपम् यद्वेवैनाः शंसन्तीन्द्रमेवैताभिर्निर्ह्वयन्ते यथर्षभं वाशितायै ॥ ३ ॥

<अपेन्द्र प्राचो मघवन्नमित्रान्[PS१९.१६.८अ, ऋS२०.१२५.१अ]> इति मैत्रावरुणः पुरस्तात्संपातानां अहरहः शंसति [एद्. अपेन्द] <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम [PS१९.१६.८ब्च्द्, ऋS२०.१२५.१ब्च्द्]>इति अभयस्य रूपम् अभयं इव ह्यन्विच्छति <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [èV३.३५.५, ऋS२०.८६.१]>इति ब्राह्मणाच्छंसी एतां अहरहः शंसति युक्तवतीम् युक्त इव ह्यहीनः अहीनस्य रूपम् <उरुं नो लोकं अनु नेषि [èV६.४७.८, PS३.३५.४, ऋS१९.१५.४]>इत्यच्छावाकोऽहरहः शंसति अनुनेषीत्येत इव ह्यहीनः अहीनस्य रूपम् नेषीति सत्त्रायणरूपं ओकःसारी हैवैषां इन्द्रो भवति यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषां इन्द्रो यज्ञं आगच्छति न शुनंहूययाहीनस्य परिदध्यात् क्षत्रियो ह राष्ट्राच्च्यवते यो हैव परो भवति तं अभिह्वयति ॥ ४ ॥

अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च <व्यन्तरिक्षं अतिरत्[èV८.१४.७अ, ऋS२०.२८.१अ, २०.३९.२अ]>इत्यहीनं युङ्क्ते <एवेदिन्द्रं [èV७.२३.६अ, ऋS२०.१२.६अ, लोन्गेर्पर्तीक अत्२.४.२]> इति विमुञ्चति <नूनं सा ते [èV२.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९]>इत्यहीनं युङ्क्ते <नू ष्टुतः [èV४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११]>इति विमुञ्चति एषा ह वा अहीनं तन्तुं अर्हति य एनं योक्तं च विमोक्तं च वेद तस्य हैषैव युक्तिरेषा विमुक्तिस् तद्यत्प्रथमेऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युः अथ यदहीनपरिधानीयाभिः परिदध्युस्तद्यथा युक्तोऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् नाहीनकर्म कुर्युः अथ यदुभयीभिः परिदध्युस्तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत् समानीभिः परिदध्युस् तदाहुरेकया द्वाभ्यां वा स्तोमं अतिशंसेत् दीर्घारण्यानि भवन्ति यत्र बह्वीभि स्तोमोऽतिशस्यतेऽथो क्षिप्रं देवेभ्योऽन्नाद्यं संप्रयच्छामीति अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै तद्यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक्तत् समानीभिः परिदध्युः संततो हैवैषां आरब्धोऽविस्रस्तो यज्ञो भवति संततं ऋचा वषट्कृत्यम् संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद ॥ ५ ॥

तदाहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति असौ वै होता योऽसौ तपति स वा एक एव तस्मादेकसूक्तः स यद्विध्यातो द्वाविवाभवति तेज एव मण्डलं भा अपरं शुक्लं अपरं कृष्णम् तस्माद द्व्युक्थः रश्मयो वाव होत्रास् ते वा एकैकम् तस्मादेकोक्थास् तद्यदेकैकस्य रश्मेर्द्वौद्वौ वर्णौ भवतस्तस्माद्द्विसूक्ताः संवत्सरो वाव होता स वा एक एव तस्मादेकसूक्तस् तस्य यद्द्वयान्यहानि भवन्ति शीतान्यन्यान्युष्णान्यन्यानि तस्माद्द्व्युक्थः ऋतवो वाव होत्रास् ते वा एकैकम् तस्मादेकोक्थास् तद्यदेकैकस्यर्तौ द्वौद्वौ मासौ भवतस्तस्माद्द्विसूक्ताः पुरुषो वाव होता स वा एक एव तस्मादेकसूक्तः स यत्पुरुषो भवत्यन्यथैव प्रत्यङ्भवत्यन्यथा प्राङ्तस्माद्द्व्युक्थः अङ्गानि वाव होत्रास् तानि वा एकैकम् तस्मादेकोक्थास् तद्यदेकैकं अङ्गं द्युतिर्भवति तस्माद्द्विसूक्तास् तदाहुर्यद्द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत्समं भवति यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात् तदाहुर्यदग्निष्टोम एव सति यज्ञे द्वे होतुरुक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात् तदाहुर्यदग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्याप्याययन्ति अथ कतमेन छन्दसायातयामान्युक्थानि प्रणयन्ति कया देवतयेति गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात् देवान्ह यज्ञं तन्वानानसुररक्षांस्यभिचेरिरे यज्ञपर्वणि यज्ञं एषां हनिष्यामस्तृतीयसवनं प्रति तृतीयसवने ह यज्ञस्त्वरिष्टो बलिष्ठः प्रतनुमेषां यज्ञं हनिष्याम इति ते वरुणं दक्षिणतोऽयोजयन् मध्यतो बृहस्पतिम् उत्तरतो विष्णुम् तेऽब्रुवन्नेकैकाः स्मः नेदं उत्सहामह इति स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति तानिन्द्रोऽब्रवीत्सर्वे मद्द्वितीया स्थेति ते सर्व इन्द्रद्वितीयास् तस्मादैन्द्रावारुणं ऐन्द्राबार्हस्पत्यं ऐन्द्रावैष्णवं अनुशस्यते द्वितीयवन्तो ह वा एतेन स्वा भवन्ति द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ ६ ॥

आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति वीर्यं वा अग्निः वीर्येणैवास्मै तत्प्रणयन्ति ऐन्द्रावारुणं अनुशस्यते वीर्यं वा इन्द्रः क्षत्रं वरुणः पशव उक्थानि वीर्येणैव तत्क्षत्रेण चोभयतः पशून्परिगृह्णाति स्थित्यै अनपक्रान्त्यै ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति वीर्यं वा इन्द्रः वीर्येणैवास्मै तत्प्रणयन्ति ऐन्द्राबार्हस्पत्यं अनुशस्यते वीर्यं वा इन्द्रः ब्रह्म बृहस्पतिः पशव उक्थानि वीर्येणैव तद्ब्रह्मणा चोभयतः पशून्परिगृह्णाति स्थित्यै अनपक्रान्त्यै ऐन्द्रीष्वच्छावाकस्योक्थं प्रणयन्ति वीर्यं वा इन्द्रः वीर्येणैवास्मै तत्प्रणयन्ति ऐन्द्रावैष्णवं अनुशस्यते वीर्यं वा इन्द्रः यज्ञो विष्णुः पशव उक्थानि वीर्येणैव तद्यज्ञेन चोभयतः पशून्परिगृह्य क्षत्रेऽन्ततः प्रतिष्ठापयति तस्मादु क्षत्रियो भूयिष्ठं हि पशूनां ईशते [एद्. भुयिष्ठं, चोर्र्. Pअत्यल्] याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास् तान्येतान्यैन्द्राणि जागतानि शंसन्ति अथो एतैरेव सेन्द्रं तृतीयसवनं एतैर्जागतं सवनम् धराणि ह वा अस्यैतान्युक्थानि भवन्ति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत् तस्मात्तानि सार्धं एवोपेयुः सार्धं इदं रेतः सिक्तं समृद्धं एकधा प्रजनयामेति ये ह वा एतानि नानूपेयुर्यथा रेतः सिक्तं विलुम्पेत्कुमारं वा जातं अङ्गशो विभजेत्तादृक्तत् तस्मात्तानि सार्धं एवोपेयुः सार्धं इदं रेतः सिक्तं समृद्धं एकधा प्रजनयामेति शिल्पानि शंसति देवशिल्पानि एतेषां वै शिल्पानां अनुकृतीह शिल्पं अधिगम्यते हस्ती कंसो वासो हिरण्यं अश्वतरीरथः शिल्पम् शिल्पं हास्य समधिगम्यते य एवं वेद यदेव शिल्पानि शंसति तत्स्वर्गस्य लोकस्य रूपम् यद्वेव शिल्पान्यात्मसंस्कृतिर्वै शिल्पानि आत्मानं एवास्य तत्संस्कुर्वन्ति ॥ ७ ॥

नाभानेदिष्ठं शंसति रेतो वै नाभानेदिष्ठः रेत एवास्य तत्कल्पयति तद्रेतोमिश्रं भवति <क्ष्मया रेतः संजग्मानो नि षिञ्चत्[èV१०.६१.७ब्]>इति रेतसः समृद्ध्या एव तं सनारशंसं शंसति प्रजा वै नरः वाक्शंसः प्रजासु तद्वाचं दधाति तस्मादिमाः प्रजा वदन्त्यो जायन्ते तं हैके पुरस्तात्प्रगाथानां शंसन्ति पुरुस्तादायतना वागिति वदन्तः उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः मध्य एव शंसेत् मध्यायतना वा इयं वाक् उपरिष्टान्नेदीयसीव तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति एतस्य त्वं प्राणान्कल्पयेति वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणानेवास्य तत्कल्पयति ता विहृताः शंसति विहृता वै प्राणाः प्राणेनापानः अपानेन व्यानः स पच्छः प्रथमे सूक्ते विहरति अर्धर्चशो द्वितीये [एद्. द्वितिये, चोर्र्. Pअत्यल्] ऋक्शः तृतीये स यत्प्रथमे सूक्ते विहरति वाचं चैव तन्मनश्च विहरति यद्द्वितीये चक्षुश्चैव तच्छ्रोत्रं च विहरति यत्तृतीये प्राणां चैव तदात्मानं च विहरति तदुपाप्तो विहरेत्कामः नेतुर्वै प्रगाथाः कल्पन्ते अतिमर्शं एव विहरेत् तथा वै प्रगाथाः कल्पन्ते यदेवातिमर्शं तत्स्वर्गस्य लोकस्य रूपम् यद्वेवातिमर्शं आत्मा वै बृहती प्राणाः सतोबृहती स बृहतीं अशंसीत् स आत्मा अथ सतोबृहतीम् ते प्राणाः अथ बृहतीम् अथ सतोबृहतीम् तदात्मानं प्राणैः परिवृहन्नेति यद्वेवातिमर्शं आत्मा वै बृहती प्रजाः सतोबृहती स बृहतीं अशंसीत् स आत्मा अथ सतोबृहतीम् ते प्रजाः अथ बृहतीम् अथ सतोबृहतीम् तदात्मानं प्रजया परिवृहन्नेति यद्वेवातिमर्शं आत्मा वै बृहती पशवः सतोबृहती स बृहतीं अशंसीत् स आत्मा अथ सतोबृहतीम् ते पशवः अथ बृहतीम् अथ सतोबृहतीम् तदात्मानं पशुभिः परिवृहन्नेति तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति एतस्य त्वं प्रजनयेति सुकीर्तिं शंसति देवयोनिर्वै सुकीर्तिस् तद्यज्ञियायां देवयोन्यां यजमानं प्रजनयति वृषाकपिं शंसति आत्मा वै वृषाकपिः आत्मानं एवास्य तत्कल्पयति तं न्यूङ्खयति अन्नं वै न्यूङ्खः अन्नाद्यं एवास्मै तत्संप्रयच्छति यथा कुमाराय जाताय स्तनम् स पाङ्क्तो भवति पाङ्क्तो ह्ययं पुरुषः पञ्चधा विहितः लोमानि त्वगस्थि मज्जा मस्तिष्कम् स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति एतस्य त्वं प्रतिष्ठा कल्पयेति एवयामरुतं शंसति प्रतिष्ठा वा एवयामरुत् प्रतिष्ठायां एवैनं अन्ततः प्रतिष्ठापयति याज्यया यजति अन्नं वै याज्या अन्नाद्यं एवास्मै तत्संप्रयच्छति ॥ ८ ॥

तानि वा एतानि सहचराणीत्याचक्षते यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत् तानि सह वा शंसेत्सह वा न शंसेत् यदेषां अन्तरीयात्तद्यजमानस्यान्तरीयात् यदि नाभानेदिष्ठं रेतोऽस्यान्तरीयात् यदि वालखिल्याः प्राणानस्यान्तरीयात् यदि वृषाकपिं आत्मानं अस्यान्तरीयात् यद्येवायामरुतं प्रतिष्ठा वा एवयामरुत्प्रतिष्ठाया एवैनं तं श्रावयेद्दैव्याश्च मानुष्याश्च तानि सह वा शंसेत्सह वा न शंसेत् स ह बुडिल आश्वितरास्युर्विश्वजितो होता सन्नीक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुरुक्थे माध्यंदिनं अभिप्रच्यवेते हन्ताहं इत्थं एवायापरुतं शंसयानीति तद्ध तथा शंसयां चक्रे तद्ध तथा शस्यमाने गोश्ल आजगम स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति किं ह्यभूदिति एवयामरुदयं उत्तरतः शस्यत इति स होवाचैन्द्रो वै माध्यंदिनः कथेन्द्रं माध्यंदिनान्निनीषसीति नेन्द्रं माध्यंदिनान्निनीषामीति स होवाच छन्दस्त्विदं अमाध्यंदिनंसाचि जागतं वातिजागतं वा स उ मारुतः मैवं संमृष्टेति स होवाचारमाच्छावाकेति अथास्मिन्ननुशासनं ईषे स होवाचैन्द्रं एष विष्णुन्यङ्गानि शंसति अथ त्वं होतुरुपरिष्टाद्रौद्रिया धाय्यायाः पुरस्तान्मारुतस्य सूक्तस्याप्यस्यथा इति तथेति तदप्येतर्हि तथैव शस्यते यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथं अत्राशस्त एव नाभानेदिष्ठो भवत्यथ वालखिल्याः शंसति रेतो वा अग्रेऽथ प्राणाः एवं ब्राह्मणाच्छंसी अशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति रेतो वा अग्रेऽथात्मा कथं अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथा गर्भो योन्यां अन्तरेव प्राणानस्यान्तरियात् यदि वृषाकपिं आत्मानं अस्यान्तरियाद्यद्येव या संभवञ्छेते न ह वै सकृदेवाग्रे सर्वं संभवति एकैकं वा अङ्गं संभवतः संभवति सर्वाणि चेत्समानेऽहनि क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः अथ हैवैवयामरुतं होता शंसेत् तद्यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. Pअत्यल्] तस्यां एवैनं अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ९ ॥

[एद्. प्रतिस्थापयति २x, चोर्र्. Pअत्यल्] देवक्षेत्रं वै षष्ठं अहः देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठं अहरागच्छन्ति न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुरृतोर्गृहे वसतीत्याहुस् तद्यथायथं ऋत्विज ऋतुयाजान्यजन्त्यसंप्रदायम् तद्यदृतून्कल्पयन्ति यथायथं जनिता तदाहुर्नर्तुप्रैषैः प्रेष्येयुर्नर्तुप्रैषैर्वषट्कुर्युः वाग्वा ऋतुप्रैषाः आप्यते वै वाक्षष्ठेऽहनीति यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचं एव तदाप्तां शान्तां ऋक्णवतीं वहरावणीं ऋच्छेयुः [एद्. ऋक्तवतीं, चोर्र्. Pअत्यल्] अच्युताद्यज्ञस्य च्यवेरन् यज्ञात्प्राणात्प्रजायाः पशुभ्यो जिह्मा ईयुस्[एद्. प्राणान्, चोर्र्. Pअत्यल्] तस्मादृग्मेभ्य एव प्रेषितव्यं ऋग्मेभ्योऽधि वषट्कृत्यम् तन्न वाचं आप्तां शान्तां ऋक्तवतीं वहरावणीं ऋच्छन्ति नाच्युताद्यज्ञस्य च्यवेरन् न यज्ञात्प्राणान्प्रजायाः पशुभ्यो जिह्मा यन्ति पारुच्छेपीरुपदधति द्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानाम् रोहितं वै नामैतच्छन्दो यत्पारुच्छेपम् एतेन ह वा इन्द्रः सप्त स्वर्गांल्लोकानारोहत् आरोहति सप्त स्वर्गांल्लोकान्य एवं वेद तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहनि शस्यन्त इति षड्भिरेव पदैः षष्ठं अहरवाप्नुवन्त्यवछिद्येवैतदहर्यत्सप्तमम् तदेव सप्तमेन पदेनाभ्यारुह्या वसन्ति संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवंविद्वांस उपयन्ति ॥ १० ॥

देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्योऽसुरान्पराणुदन्त तेषां यान्यन्तर्हस्तानि वसून्यासंस्तान्यादाय समुद्रं प्रारूप्यन्त तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्याददत तदेवैतत्पदं पुनःपदम् स एवाङ्कुश आकुञ्चनाय आ द्विषतो वसु दत्ते निरेवैनं एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद द्यौर्वै देवता षष्ठं अहर्वहति त्रयस्त्रिंश स्तोमः रैवतं साम अतिच्छन्दश्छन्दः यथादेवतं एनेन यथास्तोमं यथासाम यथाछन्दसं ऋध्नोति य एवं वेद यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपम् यद्येव प्रथमं अहस्तदुत्तमं अहस् तदेवैतत्पदं पुनर्यत्षष्ठं यदश्ववद्यद्रथवद्यत्पुनरावृत्तं यत्पुनर्निवृत्तं यदन्तरूपं यदसौ लोकोऽभ्युदितो यन्नाभानेदिष्ठं यत्पारुच्छेपं यन्नाराशंसं यद्द्वैपदा यत्सप्तपदा यत्कृतं यद्रैवतं तत्तृतीयस्याह्नो रूपं एतानि वै षष्ठस्याह्नो रूपाणि छन्दसां उ ह षष्ठेनाह्नाक्तानां रसोऽत्यनेदत् तं प्रजापतिरुदानान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा [एद्. गयत्र्या] एतानि वै छन्दांसि षष्ठेऽहनि शस्तानि भवन्त्ययातयामानि छनदसां एव तत्सरसताया अयातयामतायै सरसानि हास्य छन्दांसि षष्ठेऽहनि शस्तानि भवन्ति सरसैश्छन्दोभिरिष्टं भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद ॥ ११ ॥

अथ यद्द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [èV१०.१५७.१, ऋS२०.६३.१, २०.१२४.४]>इति द्विपाद्वै पुरुषः द्विप्रतिष्ठः पुरुषः पुरुषो वै यज्ञस् तस्माद्द्वैपदौ स्तोत्रियानुरूपौ भवतः अथ सुकीर्तिं शंसत्य्<अपेन्द्र प्राचो मघवन्नमित्रान्[PS१९.१६.८अ, ऋS२०.१२५.१अ, सकलपाठ अत्२.६.४]> इति देवयोनिर्वै सुकीर्तिः स य एवं एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान्स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद अथ वृषाकपिं शंसति <वि हि सोतोरसृक्षत [èV१०.८६.१, ऋS१०.१२६.१]>इति आदित्यो वै वृषाकपिस् तद्यत्कम्पयमानो रेतो वर्षति तस्माद्वृषाकपिस् तद्वृषाकपेर्वृषाकपित्वम् वृषाकपिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद तस्य तृतीयेषु पादेष्वाद्यन्तयोर्न्यूङ्खनिनर्दान्करोति अन्नं वै न्यूङ्खः [एद्. न्युङ्खो, चोर्र्. Pअत्यल्] बलं निनर्दः अन्नाद्यं एवास्मै तद्बले निदधाति अथ कुन्तापं शंसति कुयं ह वै नाम कुत्सितं भवति तद्यत्तपति तस्मात्कुन्तापास् तत्कुन्तापानां कुन्तापत्वम् तप्यन्तेऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति ताः प्रग्राहं शंसति यथा वृषाकपिम् वार्षरूपं हि वृषाकपेस्तन्न्यायं एत्येव अथ रैभीः शंसति <वच्यस्व रेभ वच्यस्व [èVKह्५.९.१, ऋS२०.१२७.४]>इति रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकं आयन् तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहं एत्येव अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति संवत्सरो वै परिक्षित् संवत्सरो हीदं सर्वं परिक्षियतीति अथो खल्वाहुरग्निर्वै परिक्षित् अग्निर्हीदं सर्वं परिक्षियतीति अथो खल्वाहुर्गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस्तद्यथा कुर्यात् गाथा एवैताः शस्ता भवन्ति यद्यु वै गाथा अग्नेरेव गाथाः संवत्सरस्य वेति ब्रूयात् यद्यु वै मन्त्रोऽग्निरेव मन्त्रः संवत्सरस्य वेति ब्रूयात् ताः प्रग्राहं एत्येव अथ कारव्याः शंसति<इन्द्रः कारुं अबूबुधत्[èVKह्५.११.१, ऋS२०.१२७.११]>इति यदेव देवाः कल्याणं कर्माकुर्वंस्तत्कारव्याभिरवाप्नुवन् तथैवैतद्यजमाना यदेव देवाः कल्याणं कर्म कुर्वन्ति तत्कारव्याभिरवाप्नुवन्ति ताः प्रग्राहं इत्येव अथ दिशां क्ळ्प्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [èVKह्५.१२.१, ऋS२०.१२८.१]>इति जनकल्पा उत्तराः शंसति <योऽनाक्ताक्षो अनभ्यक्तः [èVKह्५.१३.१, ऋS२०.१२८.६]>इति ऋतवो वै दिशः प्रजननस् तद्यद्दिशां क्ळ्प्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [èVKह्५.१२.१, ऋS२०.१२८.१]>इति जनकल्पा उत्तराः शंसत्यृतूनेव तत्कल्पयति ऋतुषु प्रतिष्ठापयति प्रतिष्ठन्तीरिदं सर्वं अनुप्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ता अर्धर्चशः शंसति प्रतिष्ठित्या एव अथेन्द्रगाथाः शंसति <यदिन्द्रादो दाशराज्ञे [èVKह्५.१४.१, ऋS२०.१२८.१२]>इति इन्द्रगाथाभिर्ह वै देवा असुरानागायाथैनानत्यायन् तथैवैतद्यजमाना इन्द्रगाथाभिरेवाप्रियं भ्रातृव्यं आगायाथैनं अतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठित्या एव ॥ १२ ॥

अथैतशप्रलापं शंसत्य्<एता अश्वा आ प्लवन्ते [èVKह्५.१५.१, ऋS२०.१२९.१]>इति ऐतशो ह मुनिर्यज्ञस्यायुर्ददर्श स ह पुत्रानुवाच पुत्रका यज्ञस्यायुरभिददर्शम् तदभिलपिष्यामि मा मा दृप्तं मन्यध्वं इति तथेति तदभिललाप तस्य हाभ्यग्निरैतशायनो ज्येष्ठः पुत्रोऽभिद्रुत्य मुखं अपिजग्राह ब्रुवन्दृप्तो नः पितेति स होवाच धिक्त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर्यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गां अकरिष्यं सहस्रायुषं पुरुषं इति तस्मादभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया यदैतशप्रलापस्तत्स्वर्गस्य लोकस्य रूपम् यद्वेवैतशप्रलापोऽयातयामा वा अक्षितिरैतशप्रलापः [एद्. ऐतशैतशप्रलापो] अयातयामा मे यज्ञोऽसदक्षितिर्मे यज्ञोऽसदिति तं वा एतं ऐतशप्रलापं शंसति पदावग्राहम् [एद्. वा ऐतशैतशप्रलापं] तासां उत्तमेन पदेन प्रणौति यथा निविदः [एद्. प्राणौति, चोर्र्. Pअत्यल्] अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [èVKह्५.१६.१, ऋS२०.१३३.१]>इति प्रतिराधानुत्तरान्शंसति <भुगित्यभिगतः [èVKह्५.१८.१, ऋS२०.१३५.१]>इति [एद्. प्रतिराधानुत्तरानः] प्रवल्हिकाभिर्ह वै देवा असुराणां रसान्प्रववृहुस् तद्यथाभिर्ह वै देवा असुराणां रसान्प्रववृहुस्तस्मात्प्रवल्हिकास् तत्प्रवल्हिकानां प्रवल्हिकात्वम् ता वै प्रतिराधैः प्रत्यराध्नुवन् तद्यत्प्रतिराधैः प्रत्यराध्नुवंस्तस्मात्प्रतिराधास् तत्प्रतिराधानां प्रतिराधत्वम् प्रवल्हिकाभिरेव द्विषतां भ्रातृव्याणां रसान्प्रवल्हिकास् ता वै प्रतिराधैः प्रतिराध्नुवन्ति ताः प्रग्राहं इत्येव अथाजिज्ञासेन्याः शंसति<इहेत्थ प्रागपागुदगधराक्[èVKह्५.१७.१, ऋS२०.१३४.१]>इति [एद्. उदाग्, चोर्रेच्तेद्प्. ३०३] आजिज्ञासेन्याभिर्ह वै देवा असुरानाज्ञायाथैनानत्यायन् तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यं आज्ञायाथैनं अतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठित्या एव अथातिवादं शंसति <वीमे देवा अक्रंसत [èVKह्५.१९.१, ऋS२०.१३५.४]>इति श्रीर्वा अतिवादस् तं एकर्चं शंसति एकस्ता वै श्रीस् तां वै विरेभं शंसति विरेभैः श्रियं पुरुषो वहतीति तां अर्धर्चशः शंसति प्रतिष्ठित्या एव ॥ १३ ॥

अथादित्याश्चाङ्गिरसीश्च शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो अदक्षिणां अनयन्[èVKह्५.२०.१, ऋS२०.१३५.६]>इति तद्देवनीथं इत्याचक्षते आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति ते हाङ्गिरसः श्वःसुत्यां ददृशुस् ते हाग्निं ऊचुः परेह्यादित्येभ्यः श्वःसुत्यां प्रब्रूहीति अथादित्या अद्यसुत्यां ददृशुस् ते हाग्निं ऊचुरद्यसुत्यास्माकम् तेषां नस्त्वं होतासीत्युपेमस्त्वां इति स एत्याग्निरुवाचाथादित्या अद्यसुत्यां ईक्षन्ते कं वो होतारं अवोचन्वाह्वयन्ते युष्माकं वयं इति ते हाङ्गिरसश्चुक्रुधुर्मा त्वं गमो नु वयं इति नेति हाग्निरुवाचानिन्द्या वै माह्वयन्ते किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति तस्मादतिद्रूरं अत्यल्पं इति यजमानस्य हवं इयादेव किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति तान्हादित्यानङ्गिरसो याजयां चक्रुस् तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस् तां ह न प्रतिजगृहुः सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत्कुपिता मां न प्रत्यग्रहीषुरिति तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते तस्मान्निवृत्तदक्षिणां नोपाकुर्यान्नैनां प्रमृजेत् नेद्दक्षिणां प्रमृणजानीति तस्माद्य एवास्य समानजन्मा भ्रातृव्यः स्याद्वृणहूयुस्तस्मा एनां दद्यात् तन्न पराची दक्षिणा विवृणक्ति द्विषति भ्रातृव्येऽन्ततः शुचं प्रतिष्ठापयति योऽयौ तपति स वै शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो दक्षिणां अनयंस्तां ह जरितः प्रत्यायन्[èVKह्५.२०.१अब्च्, ऋS२०.१३५.६अब्च्]>इति न हीमां पृथिवीं प्रत्यायन् <तां उ ह जरितः प्रत्यायन्[èVKह्५.२०.१द्, ऋS२०.१३५.६द्]>इति प्रति हि तेऽमुं आयन् <तां ह जरितर्नः प्रत्यगृभ्णन्[èVKह्५.२०.२अ, ऋS२०.१३५.७अ]>इति न हीमां पृथिवीं प्रत्यगृभ्णन् <तां उ ह जरितर्नः प्रत्यगृभ्ण [èVKह्५.२०.२ब्, ऋS२०.१३५.७ब्]>इति प्रगृह्यादित्यं अगृभ्णन् <अहानेतरसं न विचेतनानि [èVKह्५.२०.२च्, ऋS२०.१३५.७च्]>इत्येष ह वा अह्नां विचेता योऽसौ तपति स वै शंसति <यज्ञानेतरसं न पुरोगवासः [èVKह्५.२०.२द्, ऋS२०.१३५.७द्]>इति एषा ह वै यज्ञस्य पुरोगवी यद्दक्षिणा यथार्हामः स्रस्तं अतिरेतदन्त्येतेष एवेश्वर उन्नेता <उत श्वेत आशुपत्वा उत पद्याभिर्यविष्ठ उतें आशु मानं पिपर्ति [èVKह्५.२०.३, ऋS२०.१३५.८]>इति एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर्यविष्ठः <उतें आशु मानं पिपर्ति [èVKह्५.२०.३च्, ऋS२०.१३५.८च्]>इति <आदित्या रुद्रा वसवस्तेनुत इदं राधः प्रतिगृभ्णीह्यङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत्पृथु देवा ददत्वासुरं तद्वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्येव गृभायत [èVKह्५.२०.४-५, ऋS२०.१३५.९-१०]>इति तद्यदादित्याश्चाङ्गिरसीश्च शंसति स्वर्गताया एवैतत् [एद्. यसंआं, चोर्र्. Pअत्यल्] अहरहः शंसति यथा निविदः अथ भूतेछदः शंसति <त्वं इन्द्र शर्म रिणा [èVKह्५.२१.१, ऋS२०.१३५.११]>इति इमे वै लोका भूतेछदः असुरान्ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस्तितीर्षमाणास् तानिमे देवाः सर्वेभ्यो भूतेभ्योऽछादयन् तद्यदेतानिमे देवाः सर्वेभ्योऽछादयंस्तस्माद्भूतेछदस् तद्भूतेछदां भूतेछदत्वम् छादयन्ति ह वापरं इमे लोकाः सर्वेभ्यो भूतेभ्यो निरघ्नन् सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ १४ ॥

अथाहनस्याः शंसति <यदस्या अंहुभेद्याः [èVKह्५.२२.१, ऋS२०.१३६.१]>इति आहनस्याद्वा इदं सर्वं प्रजातम् आहनस्याद्वा एतदधिप्रजायते अस्यैव सर्वस्याप्त्यै प्रजात्यै ता वै षट्शंसेत् षड्वा ऋतवः ऋतवः पितरः पितरः प्रजापतिः प्रजापतिराहनस्यास् ता दश शंसेदिति शाम्भव्यस्य वचः दशाक्षरा विराट् वैराजो यज्ञस् तं गर्भा उपजीवन्ति श्रीर्वै विराट् यशोऽन्नाद्यम् श्रियं एव तद्विराजं यशस्यन्नाद्ये प्रतिष्ठापयति प्रतितिष्ठन्तीरिदं सर्वं अनुप्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद तिस्रः शंसेदिति वात्स्यस् त्रिवृद्वै रेतः सिक्तं संभवत्याण्डं उल्वं जरायु त्रिवृत्प्रत्ययं माता पिता यज्जायते तत्तृतीयम् अभूतोद्यं एवैतद्यच्चतुर्थीं शंसेत् सर्वा एव षोडश शंसेदिति हैके कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. Pअत्यल्] रेतसः सिक्तात्प्रजाः प्रजायन्ते प्रजानां प्रजननाय प्रजावान्प्रजनयिष्णुर्भवति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ॥ १५ ॥

अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषं [èV४.३९.६, èVKह्५.२२.१३, ऋS२०.१३७.३]> इति तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [èV९.१०१.४, ऋS२०.१३७.४]>इत्यन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. Pअत्यल्] पवित्रं पावमान्यस् तदु हैके पावमानीभिरेव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वागन्नाद्या यः पवत इति वदन्तस् तदु तथा न कूर्यादुपनश्यति ह वागशनायती स दाधिक्रीं एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति तद्यद्दाधिक्रीं शंसतीयं वागाहनस्यां वाचं अवादीत् तद्देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. Pअत्यल्] सा वा अनुष्टुब्भवति वाग्वा अनुष्टुप् तत्स्वेनैव छन्दसा वाचं पुनीते तां अर्धर्चशः शंसति प्रतिष्ठित्या एव अथ पावमानीः शंसति पवित्रं वै पावमान्यः इयं वागाहनस्यां वाचं अवादीत् तत्पावमानीभिरेव वाचं पुनीते ताः सर्वा अनुष्टुभो भवन्ति वाग्वा अनुष्टुप् तत्स्वेनैव छन्दसा वाचं पुनीते ता अर्धर्चशः शंसति प्रतिष्ठित्या एव <अव द्रप्सो अंशुमतीं अतिष्ठत्[èV८.९६.१३, ऋS२०.१३७.७]>इत्येतं तृचं ऐन्द्राबार्हस्पत्यं सूक्तं शंसति अथ हैतदुत्सृष्टम् तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं अन्त्यं तृचं ऐन्द्राजागतं शंसति सवनधारणं इदं गुल्मह इति वदन्तस् तदु तथा न कुर्यात् त्रिष्टुबायतना वा इयं वागेषां होत्रकाणां यदैन्द्राबार्हस्पत्या तृतीयसवने तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं अन्त्यं तृचं ऐन्द्राजागतं शंसति स्व एवैनं तदायतने प्रीणाति स्वयोर्देवतयोः कामं नित्यं एव परिदध्यात् कामं तृचस्योत्तमया तदाहुः संशंसेत्षष्ठेऽहनि न संशंसेत् कथं अन्येष्वहःसु संशंसति कथं अत्र न संशंसतीति अथो खल्वाहुर्नैव संशंसेत् स्वर्गौ वै लोकः षष्ठं अहः असमायी वै स्वर्गो लोकः कश्चिद्वै स्वर्गे लोके शमयतीति तस्मान्न संशंसति यदेव न संशंसति तत्स्वर्गस्य लोकस्य रूपम् यद्वेवैनाः संशंसति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुदेतानि वा अत्रोक्थानि भवन्ति तस्मान्न संशंसति ऐन्द्रो वृषाकपिः सर्वाणि छन्दांस्यैतशप्रलापः उपाप्तो यदैन्द्राबार्हस्पत्या तृतीयसवने तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्यैन्द्राबार्हस्पत्या परिधानीया विशो अदेवीरभ्याचरन्तीरिति अपरजना ह वै विशो देवीर्न ह्यस्यापरजनं भयं भवति शान्ताः प्रजाः क्ळ्प्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणं ॥ १६ ॥

इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥

इत्यथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तं ॥

namaste@thevyasa.in
Dwaipayan Pradhan

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.