अथ मङ्गलाचरणम्
गणनाथः जगन्नाथः लोकनाथः दीनबन्धुः । इमे हि मामयूयुजन् यथाश्रुतं वदेदिति ।
मातुरङ्के निषण्णेन यथा बालेन चन्द्रमाः । आहूयमानो नाभ्येति तद्वद् वेदार्थ ईप्सितः ।
उत्तरेतापनीये च शैव्ये प्रश्ने च काठके । माण्डुक्ये च यदोङ्कारः परापरः विभागतः ।
एतदालम्बनं श्रेष्ठमियदे श्रुतिमानतः । तदेवाखण्डैकरसः परमात्मेति चोच्यते ।
व्यतीतो भेदसंसर्गौ भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा प्रविवेकात् प्रकाशते ।
वाच्यार्थ लक्षार्थ भेदात्तद्विधा भिद्यते श्रुतौ । तूरीय एव लक्षार्थः प्रणवस्येति कीर्तीतः ।
गुरुतस्तर्कतश्चैव शातपथादिश्रुतितः । ऋचो यजुंषि सामानि यथावधारितं मया ।
यदनुक्तं संहितायां तत्सर्वमिह वर्णितम् । तद्विज्ञानं व्याकरिष्ये सुखेनार्थ विबुद्धये ।
दृष्टः श्रुतःमननश्च निदिध्यासनः एव च । एते पन्थाः विवुधानां ज्ञानमार्गानुयायिनाम् ।
याश्चान्ये परीक्षितानि तेषां तत्वं वदाम्यहं । न्यार्यं वा विपरीतं वा सुधीः यत्ने विचिन्तयेत् ।
अभ्यासात् कादिवर्णानि यथाशास्त्राणि बोधयेत् । तथायोगं समासाद्य तत्वज्ञानं च लभ्यते ।
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।
एवं हि शास्त्राणि बहुन्यधीत्य चार्थेषुमूढाः खरवद्वहन्ति ।
ॐ प्रेति चेति चेति