निघण्टुशास्त्रम् तृतीयोध्यायः

Nighantu 3

अथ तृतीयः अध्यायः
उरु
तुवि
पुरु
भूरि
शश्वत्
विश्वम्
परीणस
व्यानशिः
शतम्
सहस्रम्
सलिलम्
कुवित् इति बहोः [ कुवित् इति द्वादश बहुनामानि ] | १ |

ऋहन्
ह्रस्वः
निघृष्वः
मायुकः
प्रतिष्ठा
कृधु
वम्रकः
दभ्रम्
अर्भकः
क्षुल्लकः
अल्पकम् इति ह्रस्वस्य [ अल्पः इति एकादश ह्रस्वनामानि ] | २ |

महत
ब्रध्नः
ऋष्वः
बृहत्
उक्षितः
तवसः
तविषः
महिषः
अभ्वः
ऋभुक्षाः
उक्षा
विहायाः
यह्वः
ववक्षिथ
विवक्षसे
अम्भृणः
माहिनः
गभीर
ककुहः
रभसः
व्राधन्
विरप्शी
अद्भुतम्
बंहिष्ठः
बर्हिषि इति महतः [ बर्हिषत् इति पञ्चविंशतिः महन्नामानि ] | ३ |

गयः
कृदरः
गर्तः
हर्म्यम्
अस्तम्
पस्त्यम्
दुरोणे
नीळम
दुर्याः
स्वसराण
अमा
दमे
कृत्तिः
योनिः
सद्म
शरणम्
वरूथम्
छर्दिः
छदिः
धाया
शर्म
अज्म इति गृहाणाम् [ अज्म इति द्वाविंशतिः गृहनामानि ] | ४ | *

इरज्यति
विधेम
सपर्यति
नमस्यति
दुवस्यतिð
ऋध्नोति
ऋणद्धि
ऋच्छति
सपति
विवासति इति [ दश ] परिचरणकर्माणः | ५ |

शिम्बाता
शतरा
शातपन्ता
शिल्गुः
स्यूमकम्
शेवृधम्
मयः
सुग्म्यम्
सुदिनम्
शूषम्
शुनम्
शग्मम
भेषजम्
जलाषम्
स्योनम्
सुम्नम्
शेवम्
शिवम्
शम्
कत् इति सुखस्य [ कम् इति विंशतिः सुखनामानि ] | ६ |

निर्णिक्
वव्रिः
वर्पः
वपुः
अमतिः
अप्सः
प्सुः
अप्नः
पिष्टम
पेशः
कृशनम्
मरुत्
अर्जुनम्
ताम्रम्
अरुषम्
शष्यम् इति रूपस्य [ शिल्पम् इति षोडश रूपनामानि ] | ७ |

अस्रेमा
अनेमा
अनेद्यः
अनवद्यः
अनभिशस्त्यः
उक्थ्यःð
सुनीथः
पाकः
वामः
वयुनम् इति प्रशस्यस्य [ वयुनम् इति दश प्रशस्यनामानि] | ८ |

केतुः
केतः
चेतः
चित्तम्
क्रतुः
असुः
धीः
शची
माया
वयुनम्
अभिख्या इति प्रज्ञायाः [ अभिख्या इति एकादश प्रज्ञानामानि ] | ९ |

बट्
श्रत्
सत्रा
अद्धा
इत्था
ऋतम् इति सत्यस्य [ ऋतम् इति षट् सत्यनामानि] | १० |

चिक्यत्
चाकनत्
अचक्ष्म
चष्ते
वि चष्ते
विचर्षणिः
विश्वचर्षणिः
अवचाकशत् इति [ अष्टौ ] पश्यतिकर्माणः | ११ |

हिकम्
नुकम्
सुकम्
आहिकम्
आकीम्
नकिः
माकिः
नकीम्
आकृतम् इति आमिश्राणि [ आकृतम् इति नव उत्तराणि पदानि सर्वपदसमाम्नानाय] | १२ |

इदम् इव
इदम् यथा
अग्निः न ये
चतुरः चित् ददमानात्
ब्राह्मणाः व्रतचारिणः
वृक्षस्य नु ते पुरुहूत वयाः
जारः आ भगम्
मेषः भूतः अभि यन् अयः
तद्रूपः
तद्वर्णह्
तद्वत्
तथा इति उपमाः । १३ ।

अर्चति
गायति
रेभति
स्तोभति
गूर्धयत
गृणाति
जरते
ह्वयते
नदति
पृच्छति
रिहति
धमति
कृपायति
कृपण्यति
पनस्यति
पनायते
वल्गूयति
मन्दते
भन्दते
छन्दति
छदयते
शशमान
रञ्जयति
रजयति
शंसति
स्तौति
यौति
रौति
नौति
भनति
पणायति
पणते
सपति
पपृक्षाः
महयति
वाजयति
पूजयति
मन्यते
मदत
रसति
स्वरति
वेनति
मन्द्रयते

जल्पति इति चतुश्चत्वारिंशत् अर्चतिकर्माणः । १४ ।

भन्दते
भणति
भणायते
स्वपिति
पिपृक्षाः
महयति
वाजयति
पूजयति
स्वदति
मदति
रसति
वेनत
कल्पते
जल्पति
मन्त्रयते
वन्दते इति अर्चतिकर्माणः । १८ ।

विप्रः
विग्रः
गृत्सः
धीरः
वेनः
वेधाः
कण्वः
ऋभुः
नवेदाः
कविः
मनीषी
मन्धाता
विधात
विपः
मनश्चित्
विपश्चित्
विपन्यवः
आकेनिपः
उशिजः
कीस्तासः
अद्धातयः
मतयः
मतुथाः
मेधाविनः इति मेधाविनाम् [ वाघतः इति चतुर्विंशतिः मेधाविनामानि ] । १५ ।

रेभः
जरिता
कारुः
नदः
स्तामुः
कीरि
गौः
सूरिः
नादः
छन्दः
स्तुप्
रुद्रः
कृपण्युः इति त्रयोदश स्तोतृनामानि । १६ ।

यज्ञः
वेनः
अध्वरः
मेधः
विदथः
नार्यः
सवनम्
होत्रा
इष्टिः
देवताता
मखः
विष्णुः
इन्दुः
प्रजापतिः
घर्मः इति यज्ञस्य [ घर्मः इति पञ्चदश यज्ञनामानि] । १७ ।

भरताः
कुरवः
वाघतः
वृक्तबर्हिषः
यतस्रुचः
मरुतः
सबाधः
देवयवः इति ऋत्विजाम् [ देवयवः इति अष्टौ ऋत्विङ्नामानि ] । १८ ।

ईमहे
यामि
मन्महे
दद्धि
शग्धि
पूर्धि
मिमिढ्ढि५
मिमीहि
रिरिढ्ढ
रिरीहि
पीपरत्
यन्तारः
यन्धि
इषुध्यति
मदेमहि
मनामहे
मायते इति [सप्तदश ] याच्ञाकर्माणः । १९ ।

दाति
दाशति
दासति
राति
रासति
पृणक्षि
पृणाति
शिक्षति
तुञ्जत
मंहते इति [ दश ] दानकर्माणः। । २० ।

परि स्व्रव
पवस्व
अभ्यर्ष
आशिषः इति [ चत्वारः ] अध्येषणाकर्माणः । २१ ।

स्वपिति सस्ति इति द्वौ स्वपितिकर्माणौ । २२ ।

कूपः
कातुः
कर्तः
वव्रः
काटः
खातः
अवतः
क्रिविः
सूदः
उत्सः
ऋश्यदात
कारोतरात्
कुशयः
केवटः
इति कूपस्य [ केवटः इति चतुर्दश कूपनामानि ] । २३ ।

तृपुः
तक्वा
रिभ्वा
रिपुः
रिक्वा
रिहायाः
तायुः
तस्करः
वनर्गुः
हुरश्चित्
मुषीवान्
मलिम्लुचः
अघशंस
वृकः
इति स्तेनस्य [ वृकः इति चतुर्दश एव स्तेननामानि ] । २४ ।

निण्यम्
सस्वः
सनुतः
हिरुक्
प्रतीच्यम्
अपीच्यम् इति [ षट् ] निर्णीतान्तर्हितनामधेयानि । २५ ।

आके
पराके
पराचइः
आरे
परावतः इति दूरस्य [ परावतः इति पञ्च दूरनामानि ] । २६ ।

प्रत्नम्
प्रदिवः
प्रवयाः
सनेम
पूर्व्यम्
अह्नाय इति पुराणस्य [ अह्नाय इति षट् पुराणनामानि ] । २७ ।

नवम्
नूत्नम्
नूतनम्
नव्यम्
इदा
इदानीम् इति नवस्य [ इदानीम् इति षट् एव नवनामानि ] । २८ ।
 
प्रपित्वे
अभीके
दभ्रम्
अर्भकम्
तिरः
सतः
त्वः
नेमः
ऋक्षाःð
स्तृभिः
वभ्रीभिः
उपजिह्विका
ऊर्दरम्
कृदरम्
रम्भः
पिनाकम्
मेना
ग्नाः
शेपः
वैतसः
अया
एना
सिषक्तु
सचते
भ्यसते
रेजते इति द्विशः [ रेजते इति षड्विंशतिः द्विशः उत्तराणि नामानि] । २९ ।

स्वधे
पुरन्धी
धिषणे
रोदसी
क्षोणी
अम्भसी
नभसी
रजसी
सदसी
सद्मनी
घृतवती
बहुले
गभीरे
गम्भीरे
ओण्यउ
चम्वउ
पार्श्व
मही
उर्वी
पृथ्वी
अदिती
अही
दूरे अन्ते
अपारे अपारे इति द्यावापृथिव्योः [ अपारे अपारे इति चतुर्विंशतिः द्यावापृथिवीनामधेयानि नामधेयानि ] । ३० ।
इति निघण्टौ तृतीयः अध्यायः

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.