निघण्टुशास्त्रम् पञ्चमोध्यायः

Nighantu 5

अथ पञ्चमः अध्याय
अग्निः
जातवेदाः
वैश्वानरः इति त्रीणि पदानि ] | १ |

द्रविणोदाः
इध्मः
तनूनपात्
नराशंसः
इळ
बर्हिः
द्वारः
उषासानक्ता
दइव्या होतारा
तिस्रः देवीः
त्वष्टा
वनस्पतिःð
स्वाहाकृतयः [ इति त्रयोदशपदानि ] | २ |

अश्वः
शकुनिः
मण्डूकाः
अक्षाः
ग्रावाणः
नाराशंस
रथः
दुन्दुभिः
इषुधिः
हस्तघ्नः
अभीशवः
धनुः
ज्या
इषुः
अश्वाजनी
उलूखलम
वृषभः
द्रुघणः
पितुः
नद्यःð
आपः
ओषधयः
रात्रिः
अरण्यानी
श्रद्धा
पृथिवी
अप्वा
अग्नायी
उलूखलमुसले
हविर्धाने
द्यावापृथिवी
विपाट्छुतुद्री
आर्त्नीð
शुनासीरौ
देवी जोष्ट्री
देवी ऊर्जाहुती [ इति षट्त्रिंशत् पदानि ] | ३ |

वायुः
वरुणः
रुद्रः
इन्द्रः
पर्जन्यः
बृहस्पतिः
ब्रह्मणस्पतिः
क्षेत्रस्य पतिः
वास्तोष्पतिः
वाचस्पतिः
अपां नपात्
यमः
मित्रः

सरस्वान्
विश्वकर्मा
तार्क्ष्यः
मन्युः
दधिक्राः
सविता
त्वष्टा
वातः
अग्निः
वेनः
असुनीतिः
ऋतः
इन्दुः
प्रजापतिः
अहिः
अहिर्बुध्न्यः
सुपर्ण
पुरूरवाः [ इति द्वात्रिंशत् पदानि ] | ४ |

श्येनः
सोमः
चन्द्रमाः
मृत्युः
विश्वानरः
धाता
विधाता
मरुतः
रुद्राः
ऋभवः
अङ्गिरसः
पितरः
अथर्वाणः
भृगवः
आप्त्याः
अदिति
सरमा
सरस्वती
वाक्
अनुमतिः
राका
सिनीवाली
कुहूः
यमी
उर्वशी
पृथिवी
इन्द्राणी
गौरी
गौः
धेनुः
अघ्न्या
पथ्य
स्वस्ति
उषाः
इळआ
रोदसी [ इति षट्त्रिंशत् पदानि ] | ५ |

अश्विनौ
उषाः
सूर्या
वृषाकपायी
सरण्यूः
त्वष्टा
सविता
भगः
सूर्यः
पूषा
विष्णुः
विश्वानरः
वरुणः
केश
केशिनः
वृषाकपिः
यमः
अजः एकपात्
पृथिवी
समुद्रः
अथर्वा
मनुः
दध्यङ्
आदित्याः
सप्तऋषयः
देवाः
विश्वेदेवाः
साध्याः
वसव
वाजिनः
देवपत्न्यः देवपत्न्यः [ इति एकत्रिंशत् पदानि ] | ६ |

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.