निरुक्तशास्त्रम् चतुर्थोध्यायः

अथ चतुर्थोऽध्यायः


एकार्थमनेकशब्दमित्येतदुक्तम् । अथ यान्यनेकार्थान्येकशब्दानि तान्यतोऽनुक्रमिष्यामः । अनवगतसंस्कारांश्च निगमान् ।
तदैकपदिकमित्याचक्षते ।
जहा जघानेत्यर्थः ४.१

को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
जहा को अस्मदीषते ॥
मर्या इति मनुष्यनाम । मर्यादाभिधानं वा स्यात् । मर्यादा मर्यादिनोविभागः । मेथतिराक्रोशकर्मा । अपापकं जघान कमहं जातु । कोऽस्मद्भीतः पलायते ।
निधा पाश्या भवति । यन्निधीयते । पाश्या पाशसमूहः । पाशः पाशयतेः । विपाशनात् ४.२

वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
अप ध्वान्तमूर्णहि पूर्धि चक्षुर्मुमुग्ध्य १ स्मान्निधयेव बद्धान् ॥
वयो वेर्बहुवचनम् । सुपतना आदित्यरश्मय उपसेदुरिन्द्रं याचमानाः । अपोर्णुह्याध्वस्तं चक्षुः । चक्षुः ख्यातेर्वा । चष्टेर्वा । पूर्धि पूरय देहीति वा । मुञ्चास्मान् पाशैरिव बद्धान् ॥ पार्श्वतः श्रोणितः शितामतः ।
पार्श्वं पर्शुमयमङ्गं भवति । पर्शुः स्पृशतेः । संस्पृष्टा पृष्ठदेशम् । पृष्ठं स्पृशतेः । संस्पृष्टमङ्गैः । अङ्गमङ्गनात् । अञ्चनाद्वा । श्रोणिः श्रोणतेर्गतिचलाकर्मणः । श्रोणिश्चलतीव गच्छतः । दोः शिताम भवति । दोर्द्रवतेः । योनिः शितामेति शाकपूणिः । विषितो भवति । श्यामतो यकृत्त इति तैटीकिः । श्यामं श्यायतेः ।
यकृद् यथा कथा च कृत्यते । शितिमांसतो मेदस्त इति गालवः । शितिःश्यतेः । मांसं माननं वा । मानसं वा । मनोऽस्मिन्त्सीदतीति वा । मेदो मेद्यतेः ४.३

यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः ।
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥
यदिन्द्र चायनीयं मंहनीयं धनमस्ति । यन्म इह नास्तीति वा । त्रीणि मध्यमानि पदानि । त्वया नस्तद् दातव्यम् । अद्रिवन् । अद्रिरादृणात्येनेन । अपि वात्तेः स्यात् ।
ते सोमादो । इति ह विज्ञायते ।
राध इति धननाम । राध्नुवन्त्यनेन । तन्नस्त्वं वित्तधनोभाभ्यां हस्ताभ्यामाहर । उभौ समुब्धौ भवतः ।
दमूना दममना वा । दानमना वा । दान्तमना वा । अपि वा दम इति गृहनाम । तन्मनाः स्यात् । मनो मनोतेः ४.४

जुष्टो दमूना अतिथिर्दुरोण इमं नो य॒ज्ञमुप॑ याहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥
अतिथिरभ्यतितो गृहान्भवति । अभ्येति तिथिषु परकुलानीति वा । गृहाणीति वा । दुरण इति गृहनाम । दुरवा भवन्ति दुस्तर्पाः । इमं नो यज्ञमुपयाहि विद्वान् । सर्वा अग्ने अभियुजो विहत्य शत्रूयतामाभर भोजनानि । विहत्यान्येषां बलानि शत्रूणां भवनादाहर भोजनानीति वा । धनानीति वा । मूषो मूषिका इत्यर्थः । मूषिकाः पुनर्मुष्णातेः । मूषोप्येतस्मादेव ४.५

सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥ सन्तपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवः । मूषिका इवास्नातानि सूत्राणि व्यदन्ति । स्वाङ्गाभिधानं वा स्यात् । शिश्नानि व्यदन्तीति वा । सन्तपन्ति माध्यः कामाः । स्तोतारं ते शतक्रतो । जानीतं मेऽस्य द्यावापृथिव्याविति । त्रितं कूपेऽवहितमेतत्सूक्तं प्रतिबभौ । तत्र ब्रह्मेतिहासमिश्रमृङ्मिश्रं गाथामिश्रं भवति । त्रितस्तीर्णतमो मेधया बभूव । अपि वा संख्यानामैवाभिप्रेतं स्यात् । एकतो द्वितस्त्रित इति त्रयो बभूवुः ४.६

इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्य॑स्येव रायः ।
सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥
ईषणेन वैषणेन वार्षणेन वा । ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव धनस्य । प्रवर्धय च न आयूंषि सोमराजन् ।
अहानीव सूर्यो वासराणि । वासराणि वेसराणि विवासनानि गमनानीति वा । कुरुतनेत्यनर्थका उपजना भवन्ति । कर्तनहन्तनयातनेति । जठरमुदरं भवति । जग्धमस्मिन्ध्रियते धीयते वा ४.७

मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।।
आ सिञ्च स्वजठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥
मरुत्वानिन्द्र तद्वान् । वृषभो वर्षितापाम् । रणाय रमणीयाय संग्रामाय । पिब सोमम् । अनुष्वधमन्वन्नम् । मदाय मदनीयाय जैत्राय । आसिञ्च स्वजठरे मधुन ऊर्मिम् । मधु सोममित्यौपमिकं माद्यतेः । इदमपीतरन्मध्वेतस्मादेव । त्वं
राजासि पूर्वेष्वप्यहःसु सुतानाम् ४.८

तितउ परिपवनं भवति । ततवद्वा । तन्नवद्वा । तिलमात्रतुन्नमिति वा ४.९

सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥
सक्तुमिव परिपवनेन पुनन्तः । सक्तुः सचतेः । दुर्धावो भवति । कसतेर्वा स्याद्विपरीतस्य । विकसितो भवति । यत्र धीरा मनसा वाचमकृषत प्रज्ञानम् । धीराः प्रज्ञानवन्तो ध्यानवन्तः । तत्र सखायः सख्यानि संजानते । भद्रैषां लक्ष्मीर्निहिताधिवाचि । भद्रं भगेन व्याख्यातम् । भजनीयं भूतानामभिद्रवणीयम् । भवद्रमयतीति वा । भाजनवद्वा । लक्ष्मीर्लाभाद्वा । लक्षणाद्वा । लाञ्छनाद्वा । लषतेर्वा स्यात्प्रेप्साकर्मणः । लग्यतेर्वा स्यादाश्लेषकर्मणः । लज्जतेर्वा स्यादश्लाघाकर्मणः । शिप्रे इत्युपरिष्टाद्व्याख्यास्यामः ४.१०

तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः स॒धस्थादाद्रात्री वासस्तनुते सिमस्मै ॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते । यदासावयुङ्क्त हरणानादित्यरश्मीन् । हरितोऽश्वानिति वा । अथ रात्री वासस्तनुते सिमस्मै ।
वेसरमहरवयुवती सर्वस्मात् । अपि वोपमार्थे स्यात् । रात्रीव वासस्तनुत इति । तथापि निगमो भवति ।
पुनः सम॑व्य॒द्विततं वय॑न्ती । समनात्सीत् ४.११

इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा
मन्दू समानवर्चसा ॥
इन्द्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन । मन्दू मदिष्णू । युवां स्थः । अपि वा मन्दुना तेनेति स्यात् । समानवर्चसेत्येतेन व्याख्यातम् ४.१२

ईर्मान्तासः सिलिकमध्यमासः संशूर॑णासो दिव्यासो अत्याः ।
हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥ ईर्मान्ताः समीरितान्ताः । पृथ्वन्ता वा । सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वा । अपि वा शिर आदित्यो भवति । यदनुशेते सर्वाणि भूतानि । मध्ये चैषां तिष्ठति । इदमपीतरच्छिर एतस्मादेव । समाश्रितान्येतदिन्द्रियाणि भवन्ति । संशूरणासः शूरः शवतेर्गतिकर्मणः । दिव्या दिविजाः । अत्या अतनाः । हंसा इव श्रेणिशो यतन्ते । हंसा हन्तेर्घ्नन्त्यध्वानम् । श्रेणिः श्रयते । समाश्रिता भवन्ति । यदाक्षिषुर्यदापन् । दिव्यमज्ममजनिमाजिमश्वाः ।।
अस्त्यादित्यस्तुतिरश्वस्य । आदित्यादश्वो निस्तष्ट इति ।
सूरादश्वं वसवो निरतष्ट । इत्यपि निगमो भवति ४.१३

कायमानो वना त्वं यन्मातॄरजगन्नपः ।।
न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥
कायमानश्चायमानः कामयमान इति वा । वनानि । त्वं यन्मातॄरपोऽगम उपशाम्यन् । न तत्ते अग्ने प्रमृष्यते निवर्तनम् ।
दूरे यत् सन्निह भवसि जायमानः ।
लोधं नयन्ति पशु मन्यमानाः ।
लुब्धमृषिं नयन्ति पशुं मन्यमानाः ।
शीरं पावकशोचिषम् । पावकदीप्तिम् । अनुशायिनमिति वा । आशिनमिति वा ४.१४

कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
बभ्रू यामेषु शोभेते ॥
कनीनके कन्यके । कन्या कमनीया भवति । क्वेयं नेतव्येति वा कनतेर्वा स्यात्कान्तिकर्मणः । कन्ययोरधिष्ठानप्रवचनानि । सप्तम्या एकवचनानीति शाकपूणिः । व्यृद्धयोर्दारुपाद्वोः । दारु दृणातेर्वा । द्रूणातेर्वा । तस्मादेव द्रु । नवे नवजाते । अर्भके अवृद्धे । ते यथा तदधिष्ठानेषु शोभेते एवं बभ्रू यामेषु शोभेते । बभ्र्वोरश्वयोः संस्तवः
इदं च मेऽदादिदं च मेऽदादित्यृषिः प्रसंख्यायाह ।
सुवास्त्वा अधि तुग्वनि ।
सुवास्तुर्नदी । तुग्व तीर्थं भवति । तूर्णमेतदायन्ति ।
कुविन्नंसन्ते म॒रुतः पुनर्नः ।
पुनर्नो नमन्ते मरुतः । नसन्त इत्युपरिष्टाद्व्याख्यास्यामः ।
ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम्
ये ते मदा आहननवन्तोवंचनवन्तस्तैरिन्द्रं चोदय दानाय मघम् ४.१५

उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
अद्मसन्न सस॒तो बोधयन्ती शश्वत्तमागात्पुनरयुषीणाम् ॥
उपादर्शि शुन्ध्युवः । शुन्ध्युरादित्यो भवति । शोधनात् ।
तस्यैव वक्षो भासाध्यूह्ळम् । इदमपीतरद्वक्ष एतस्मादेव । अध्यूढं काये । शकुनिरपि शुन्ध्युरुच्यते । शोधनादेव । उदकचरो भवति । आपोऽपि शुन्ध्युव उच्यन्ते । शोधनादेव । नोधा ऋषिर्भवति । नवनं दधाति । स यथा स्तुत्या कामानाविष्कुरुत एवमुषा रूपाण्याविष्कुरुते । अद्मसत् । अद्यान्नं भवति । अद्मसादिनीति वा । अद्यसानिनीति वा । ससतो बोधयन्ती । शश्वत्तमागात्पुनरेयुषीणाम् । शाश्वतिकतमागात्पुनरेयुषीणाम् ।
ते वाशीमन्त इष्मिणः ।
ईषणिन इति वैषणिन इति वार्षणिन इति वा । वाशीति वाङ्नाम । वाश्यत इति सत्याः ।
शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । अभिवहनस्तुतिमभिषवणप्रवादां स्तुतिं मन्यन्ते । ऐन्द्री त्वेव शस्यते । परितक्म्येत्युपरिष्टाद् व्याख्यास्यामः ४.१६

सुविते सु इते सूते सुगते । प्रजायामिति वा ।
सुविते मा धाः । इत्यपि निगमो भवति ।
दयतिरनेककर्मा ।
नवेन पूर्वं दयमानाः स्याम । इत्युपदयाकर्मा ।
य एक इद्विदयते वसु । इति दानकर्मा वा विभागकर्मा वा ।
दुर्वर्तुर्भीमो दयते वनानि । इति दहतिकर्मा । दुर्वर्तुर्दुर्वारः ।
विदद्वसुर्दयमानो वि शत्रून् । इति हिंसाकर्मा ॥
इमे सुता इन्दवः प्रातरित्वना सजोषसा पिबतमश्विना तान् ।
अहं हि वामूतये वन्दनाय मां वाय॒सो दोषा दय॑मानो अबूबुधत् ॥
दयमान इति ।
नू चिदिति निपातः । पुराणनवयोः । नू चेति च ।
अद्या चिन्नू चित्तदपो नदीनाम् ।
अद्य च पुरा च तदेव कर्म नदीनाम् ।
नू च पुरा च सदनं रयीणाम् ।
अद्य च पुरा च सदनं रयीणाम् । रयिरिति धननाम ।
रातेर्दानकर्मणः ४.१७

विद्याम तस्य॑ ते वयमकूपारस्य दावने ।
विद्याम तस्य ते वयमकूपरणस्य दानस्य । आदित्योऽप्यकूपार उच्यते । अकूपारो भवति दूरपारः । समुद्रोऽप्यकूपार उच्यते । अकूपारो भवति महापारः । कच्छपोऽप्यकूपार उच्यते । अकूपारो न कूपमृच्छतीति । कच्छपः कच्छं पाति । कच्छेन पातीति वा । कच्छेन पिबतीति वा । कच्छः खच्छः खच्छदः । अयमपीतरो नदीकच्छ एतस्मादेव । कमुदकम् । तेन छाद्यते । शिशीते शृङ्गे रक्षसे विनिक्षे । निश्यति शृङ्गे रक्षसो विनिक्षणाय । रक्षो रक्षितव्यमस्मात् ।
रहसि क्षणोतीति वा । रात्रौ नक्षत इति वा ।
अग्निः सुतुकः सुतुकेभिरश्वैः ।।
सुतुकनः सुतुकनैरिति वा । सुप्रजाः सुप्रजोभिरिति वा ।
सुप्रायणा अस्मिन्य॒ज्ञे वि श्रृयन्ताम् ।
सुप्रगमनाः ४.१८

देवा नो यथा सदमिद्वृधे असन्नायुवो रक्षितारो दिवेदिवे ।
देवा नो यथा सदा वर्धनाय स्युः । अप्रायुवोऽप्रमाद्यन्तः ।
रक्षितारश्च । अहन्यहनि ।
च्यवन ऋषिर्भवति । च्यावयिता स्तोमानाम् ।
च्यवानमित्यप्यस्य निगमा भवन्ति ।
युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः ।
युवं च्यवनम् । सनयं पुराणम् । यथा रथं पुनर्युवानं चरणाय ततक्षथुः । युवा प्रयौति कर्माणि । तक्षतिः करोतिकर्मा । रजो रजतेः । ज्योती रज उच्यते । उदकं रज उच्यते । लोका रजांस्युच्यन्ते । असृगहनी रजसी उच्येते ।
रजांसि चित्रा वि चरन्ति तन्यवः । इत्यपि निगमो भवति ।
हरो हरतेः । ज्योतिर्हर उच्यते । उदकं हर उच्यते । लोका हरांस्युच्यन्ते । असृगहनी हरसी उच्यते ।
प्रत्य॑ग्ने हरसा हरः शृणीहि । इत्यपि निगमो भवति ।
जुहुरे वि चितयन्तः । जुह्विरे विचेतयमानाः ।
व्यन्त इत्येषोऽनेककर्मा ।
पदं देवस्य॒ नम॑सा व्यन्तः । इति पश्यतिकर्मा ।
वीहि शूर पुरोळाशम् । इति खादतिकर्मा ।
वीतं पातं पयस उस्रियायाः । अश्नीतं पिबतं पयस उस्रियायाः । उस्रियेति गोनाम । उस्राविणोऽस्यां भोगाः । उस्रेति च ।
त्वामिन्द्र मतिभिः सुते सुनीथासो वसूयवः ।
गोभिः क्राणा अनूषत ॥
गोभिः कुर्वाणा अस्तोषत ।
आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।
आसिञ्च हरिं द्रोरुपस्थे द्रुममयस्य । हरिः सोमो हरितवर्णः । अयमपीतरो हरिरेतस्मादेव । वाशीभिस्तक्षताश्मन्मयीभिः । वाशीभिरश्ममयीभिरिति वा । वाग्भिरिति वा ।
स शर्द्धदर्यो विषु॑णस्य जन्तोर्मा शिश्नदेवा अपि गुर्ऋतं नः ।
स उत्सहतां यो विषुणस्य जन्तोर्विषमस्य । मा शिश्नदेवा अब्रह्मचर्याः । शिश्नं श्नथते । अपि गुर्ऋतं नः । सत्यं वा यज्ञं वा ४.१९

आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि ।
उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥
आगमिष्यन्ति तान्युत्तराणि युगानि । यत्र जामयः करिष्यन्त्यजामिकर्माणि । जाम्यतिरेकनाम । बालिशस्य वा । समानजातीयस्य वोपजनः । उपधेहि वृषभाय बाहुम् । अन्यमिच्छस्व सुभगे पतिं मदिति व्याख्यातम् ४.२०

द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् ।
उत्तानयोश्चम्वो ३ र्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥
द्यौर्मे पिता पाता वा पालयिता वा जनयिता । नाभिरत्र बन्धुर्मे माता पृथिवी महतीयम् । बन्धुः संबन्धनात् । नाभिः संनहनात् । नाभ्या सन्नद्धा गर्भा जायन्ते ।। इत्याहुः । एतस्मादेव ज्ञातीन् सनाभय इत्याचक्षते । सबन्धव इति च । ज्ञातिः संज्ञानात् । उत्तानयोश्चम्वो ३ र्योनिरन्तः ।
उत्तान उत्ततानः । ऊर्ध्वतानो वा । तत्र पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः । शंयुः सुखंयुः । अथा नः शं योररपो दधात ।
रपो रिप्रमिति पापनामनी भवतः । शमनं च रोगाणां यावनं च भयानाम् । अथापि शंयुर्बार्हस्पत्य उच्यते ।
तच्छंयोरावृणीमहे गातुं यज्ञाय॑ गातुं यज्ञप॑तये ।
इत्यपि निगमो भवति । गमनं यज्ञाय गमनं यज्ञपतये ४.२१

अदितिरदीना देवमाता ४.२२

अदितिर्द्यौरदितिरंतरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
इत्यदितेर्विभूतिमाचष्टे । एनान्यदीनानीति वा ।
यमेरिरे भृगवः ।
एरिर इतीर्तिरुपसृष्टोऽभ्यस्तः ४.२३

उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु ।
नीचायमान जसुरिं न श्येनं श्रव॒श्चाच्छा पशुमच्च यूथम् ॥
अपि स्मैनं वस्त्रमथिमिव वस्त्रमाथिनम् । वस्त्रं वस्तेः । तायुरिति स्तेननाम । संस्त्यानमस्मिन् पापकमिति नैरुक्ताः । तस्यतेर्वा स्यात् ।
अनुक्रोशन्ति क्षितयः संग्रामेषु । भर इति संग्रामनाम । भरतेर्वा । हरतेर्वा । नीचायमानं नीचैरयमानम् ।
नीचैर्निचितं भवति । उच्चैरुच्चितं भवति । जस्तमिव श्येनम् ।
श्येनः शंसनीयं गच्छति । श्रवश्चाच्छा पशुमच्च । यूथम् श्रवश्चापि पशुमच्च यूथम् । प्रशंसां च यूथं च । धनं च यूथं चेति वा । यूथं यौतेः । समायुतं भवति । इन्धान एनं जरते स्वाधीः । गृणाति ।
मन्दी मन्दतेः स्तुतिकर्मणः ।
प्र मन्दिने पितुमदर्चता वचः । प्रार्चत मन्दिने पितुमद्वचः ।
गौरिति व्याख्यातः ४.२४

अत्राह गोर॑मन्वत नाम त्वष्टुरपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥
अत्र ह गोः सममंसतादित्यरश्मयः स्वं नाम । अपीच्यमपचितम् । अपगतम् । अपिहितम् । अन्तर्हितं वा । अमुत्र चन्द्रमसो गृहे ।
गातुर्व्याख्यातः ।
गातुं कृणवन्नुषसो जनाय । इत्यपि निगमो भवति ।
दंसयः कर्माणि । दंसयन्ति एनानि ।
कुत्साय मन्म॑न्नह्यश्च दंसयः । इत्यपि निगमो भवति ।
स तूताव नैनमश्नोत्यंहतिः ।
स तुताव नैनमंहतिरश्नोति । अंहतिश्चांहश्चांहुश्च हन्तेः । निरूढोपधात् । विपरीतात् ।
बृहस्पते॒ चय॑से इत्पियारुम् ।
बृहस्पते यच्चातयसि देवपीयुम् । पीयतिर्हिँसाकर्मा । वियुते द्यावापृथिव्यौ । वियवनात्
समान्या वियुते दूरेअन्ते ।
समानं सम्मानमात्रं भवति । मात्रा मानात् । दूरं व्याख्यातम् । अन्तोऽततः । ऋधगिति पृथग्भावस्य प्रवचनं भवति । अथाप्यृध्नोत्यर्थे दृश्यते ।
ऋधगया ऋधगुताशमिष्ठाः ।
ऋध्नुवन्नयाक्षीः । ऋध्नुवन्नशमिष्ठा इति च । अस्या इति चास्येति चोदात्तं प्रथमादेशे । अनुदात्तमन्वादेशे । तीव्रार्थतरमुदात्तम् । अल्पीयोऽर्थतरमनुदात्तम् । अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व ।
श्रवस्यतामजाश्व ।
अस्यै नः सातय उपभव । अहेळमानोऽक्रुध्यन् । ररिवान् । रातिरभ्यस्तः । अजाश्वेति पूषणमाह । अजाश्व अजा अजनाः ।
अथानुदात्तम् ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ।
दीर्घायुरस्या यः पतिर्जीवतु स शरदः शतम् । शरच्छृता अस्यामोषधयो भवन्ति । शीर्णा आप इति वा ।
अस्येत्यस्या इत्येतेन व्याख्यातम् ४.२५

अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
अस्य वामस्य वननीयस्य । पलितस्य पालयितुः । होतुर्ह्वातव्यस्य । तस्य भ्राता मध्यमोऽस्त्यशनः । भ्राता भरतेर्हरतिकर्मणः । हरते भागं भर्तव्यो भवतीति वा । तृतीयो भ्राता घृतपृष्ठोऽस्यायमग्निः । तत्रापश्यं सर्वस्य पातारं वा पालयितारं वा । विश्पतिं सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा । सप्त सृप्ता संख्या । सप्तादित्यरश्मय इति वदन्ति ४.२६

स॒प्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजर॑मन॒र्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥
सप्त युञ्जन्ति रथम् । एकचक्रमेकचारिणम् । चक्रं चकतेर्वा । चरतेर्वा । क्रामतेर्वा । एकोऽश्वो वहति सप्तनामादित्यः । सप्तास्मै रश्मयो रसानभिसन्नामयन्ति । सप्तैनमृषयः स्तुवन्तीति वा । इदमपीतरन्नामैतस्मादेव । अभिसन्नामात् । संवत्सरप्रधान उत्तरोऽर्धर्चः । त्रिनाभि चक्रम् । त्र्यृतुः संवत्सरः । ग्रीष्मो वर्षा हेमन्त इति । संवत्सरः संवसन्तेऽस्मिन्भूतानि । ग्रीष्मो ग्रस्यन्तेऽस्मिन्रसाः । वर्षा वर्षत्यासु पर्जन्यः । हेमन्तो हिमवान् । हिमं पुनर्हन्तेर्वा । हिनोतेर्वा । अजरमजरणधर्माणम् । अनर्वमप्रत्यृतमन्यस्मिन् । यत्रेमानि सर्वाणि भूतान्यभिसन्तिष्ठन्ते । तं संवत्सरं सर्वमात्राभिः स्तौति ।
पञ्चारे चक्रे परिवर्तमाने ।
इति पञ्चर्तुतया ।
पञ्चर्तवः संवत्सरस्य ।
इति च ब्राह्मणम् । हेमन्तशिशिरयोः समासेन ।
षळर आहुरर्पितम् ।
इति षळृतुतया । अराः प्रत्यृता नाभौ । षट्पुनः सहतेः ।
द्वादशारं नहि तज्जराय ।
द्वादश प्रधयश्चक्रमेकम् ।
इति मासानाम् । मासा मानात् । प्रधिः प्रहितो भवति । तस्मिन्त्साकं त्रिशता न शृङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ।
षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहोरात्राः ।
इति च ब्राह्मणं समासेन ।
सप्त शतानि विंशतिश्च तस्थुः ।
सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः ।
इति च ब्राह्मणं विभागेन विभागेन ४.२७

एकार्थं कोनु वयः सुपर्णा यदिन्द्र जुष्टो दमूनाः सं मा तपन्तीषिरेण मरुत्वांस्तितउ सक्तुमिव त्सूर्यस्येन्द्रेण समीर्मान्तासः कायमानः कनीनकेवोपो अदर्शि सुविते विद्याम देवानो आघा द्यौर्मेऽदितिरदितिरुतस्मात्राहास्य वामस्य सप्त युञ्जन्ति सप्तविंशतिः

इति निरुक्ते पूर्वषट्के चतुर्थोऽध्यायः समाप्तः

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.