प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ताः
प्रथमायां चिता उपदधाति पूर्वार्ध एषोऽग्नेर्यत्प्रथमा चितिः
पुरस्तात्तत्प्राणान्दधाति तस्मादिमे पुरस्तात्प्राणाः ॥ ८.१.१.[१] ॥
ता दशदशोपदधाति । दश वै प्राणा यदु वा अपि बहु कृत्वो दशदश दशैव
तृत्पञ्च कृत्वो दशदशोपदधाति पञ्च वा एतान्पशूनुपदधाति दशदश वा
एकैकस्मिन्पशौ प्राणास्तदेषु सर्वेषु प्राणान्दधात्यनन्तर्हिताः पशुभ्य
उपदधात्यनन्तर्हितांस्तत्पशुभ्यः प्राणान्दधाति सर्वत उपदधाति सर्वत
एवैष्वेतत्प्राणान्दधाति ॥ ८.१.१.[२] ॥
यद्वेव प्राणभृत उपदधाति । प्रजापतेर्विस्रस्तात्प्राणा उदक्रामन्देवता भूत्वा
तानब्रवीदुप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति स वै
तदन्नं सृजस्व यत्ते वयं पश्यन्त उपवसामेति ते वा उभये सृजामहा इति तथेति
ते प्राणाश्च प्रजापतिश्चैतदन्नमसृजन्तैताः प्राणभृतः ॥ ८.१.१.[३] ॥
स पुरस्तादुपदधाति । अयं पुरो भुव इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति
प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवो
ऽग्नेर्हीदं सर्वं भवति प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ तदेव
तद्रूपमुपदधाति ॥ ८.१.१.[४] ॥
तस्य प्राणो भौवायन इति । प्राणं तस्माद्रूपादग्नेर्निरमिमीत वसन्तः प्राणायन
इति वसन्तमृतुं प्राणान्निरमिमीत गायत्री वासन्तीति गायत्रीं च्छन्दो
वसन्तादृतोर्निरमिमीत गायत्र्यै गायत्रमिति गायत्र्यै च्छन्दसो गायत्रं साम
निरमिमीत गायत्रादुपांशुरिति गायत्रात्साम्न उपांशुं ग्रहं
निरमिमीतोपांशोस्त्रिवृदित्युपांशोर्ग्रहात्त्रिवृतं स्तोमं निरमिमीत त्रिवृतो
रथन्तरमिति त्रिवृत स्तोमाद्रथन्तरं पृष्ठं निरमिमीत ॥ ८.१.१.[५] ॥
वसिष्ठ ऋषिरिति । प्राणो वै वसिष्ठ ऋषिर्यद्वै नु श्रेष्ठस्तेन वसिष्ठोऽथो
यद्वस्तृतमो वसति तेनो एव वसिष्ठः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया
त्वयेत्येतत्प्राणं गृह्णामि प्रजाभ्य इति प्राणं पुरस्तात्प्रापादयत नानोपदधाति
ये नानाकामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोत्यथ यन्नाना
सादयेत्प्राणं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका यजुः सादनं
सूददोहास्तत्त्रिवृत्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तत्कृत्वोपदधाति ॥ ८.१.१.[६] ॥
अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा योऽयम्
पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव
भूयिष्ठं वाति मनो ह वायुर्भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति ॥ ८.१.१.[७] ॥
तस्य मनो वैश्वकर्मणमिति । मनस्तस्माद्रूपाद्वायोर्निरमिमीत ग्रीष्मो मानस
इति ग्रीष्ममृतुं मनसो निरमिमीत त्रिष्टुब्ग्रैष्मीति त्रिष्टुभं च्छन्दो
ग्रीष्मादृतोर्निरमिमीत त्रिष्टुभः स्वारमिति त्रिष्टुभश्छन्दसः स्वारं साम
निरमिमीत स्वारादन्तर्याम इति स्वारात्साम्नोऽन्तर्यामं ग्रहं
निरमिमीतान्तर्यामात्पञ्चदश इत्यन्तर्यामाद्ग्रहात्पञ्चदशं स्तोमं निरमिमीत
पञ्चदशाद्बृहदिति पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निरमिमीत ॥ ८.१.१.[८] ॥
भरद्वाज ऋषिरिति । मनो वै भरद्वाज ऋषिरन्नं वाजो यो वै मनो बिभर्ति सो
ऽन्नं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वयेति
प्रजापतिसृष्टया त्वयेत्येतन्मनो गृह्णामि प्रजाभ्य इति मनो दक्षिणतः
प्रापादयत नानोपदधाति ये नानाकामा मनसि तांस्तद्दधाति सकृत्सादयत्येकं
तन्मनः करोत्यथ यन्नाना सादयेन्मनो ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो
बन्धुः ॥ ८.१.१.[९] ॥
अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष
उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम्
प्रत्यञ्चमेव यन्तं पश्यन्ति चक्षुर्हादित्यो भूत्वा पश्चात्तस्थौ तदेव
तद्रूपमुपदधाति ॥ ८.१.२.[१] ॥
तस्य चक्षुर्वैश्वव्यचसमिति । चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत
वर्षाश्चाक्षुष्य इति वर्षा ऋतुं चक्षुषो निरमिमीत जगती वार्षीति जगतीं च्छन्दो
वर्षाभ्य ऋतोर्निरमिमीत जगत्या ऋक्सममिति जगत्यै च्छन्दस ऋक्समं साम
निरमिमीतऽर्क्समाच्छुक्र इत्यृक्षमात्साम्नः शुक्रं ग्रहं निरमिमीत
शुक्रात्सप्तदश इति शुक्राद्ग्रहात्सप्तदशं स्तोमं निरमिमीत
सप्तदशाद्वैरूपमिति सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमिमीत ॥ ८.१.२.[२] ॥
जमदग्निर्ऋषिरिति । चक्षुर्वै जमदग्निर्ऋषिर्यदेनेन जगत्पश्यत्यथो मनुते
तस्माच्चक्षुर्जमदग्निर्ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया
त्वयेत्येतच्चक्षुर्गृह्णामि प्रजाभ्य इति चक्षुः पश्चात्प्रापादयत नानोपदधाति ये
नानाकामाश्चक्षुषि तांस्तद्दधाति सकृत्सादयत्येकं तच्चक्षुः करोत्यथ यन्नाना
सादयेच्चक्षुर्ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः ॥ ८.१.२.[३] ॥
अथोत्तरतः । इदमुत्तरात्स्वरिति दिशो वा उत्तरात्तद्यत्ता आहोत्तरादित्युत्तरा
ह्यस्मात्सर्वस्माद्दिशोऽथ यत्स्वरित्याह स्वर्गो हि लोको दिशः श्रोत्रं ह दिशो
भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति ॥ ८.१.२.[४] ॥
तस्य श्रोत्रं सौवमिति । श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत शरच्रौत्रीति
शरदमृतुं श्रोत्रान्निरमिमीतानुष्टुप्शारदीत्यनुष्टुभं छन्दः शरद
ऋतोर्निरमिमीतानुष्टुभ ऐडमित्यनुष्टुभश्छन्दस ऐडं साम
निरमिमीतैडान्मन्थीत्यैडात्साम्नो मन्थिनं ग्रहं निरमिमीत मन्थिन
एकविंश इति मन्थिनो ग्रहादेकविंशं स्तोमं
निरमिमीतैकविंशाद्वैराजमित्येकविंशात्स्तोमाद्वैराजं पृष्ठं निरमिमीत ॥ ८.१.२.[५] ॥
विश्वामित्र ऋषिरिति । श्रोत्रं वै विश्वामित्र ऋषिर्यदेनेन सर्वतः शृणोत्यथो यदस्मै
सर्वतो मित्रं भवति तस्माच्रोत्रं विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वयेति
प्रजापतिसृष्टया त्वयेत्येतच्रोत्रं गृह्णामि प्रजाभ्य इति श्रोत्रमुत्तरतः
प्रापादयत नानोपदधाति ये नानाकामाः श्रोत्रे तांस्तद्दधाति सकृत्सादयत्येकं
तच्रोत्रं करोत्यथ यन्नाना सादयेच्रोत्रं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो
बन्धुः ॥ ८.१.२.[६] ॥
अथ मध्ये । इयमुपरि मतिरिति चन्द्रमा वा उपरि तद्यत्तमाहोपरोत्युपरि हि
चन्द्रमा अथ यन्मतिरित्याह वाग्वै मतिर्वाचा हीदं सर्वं मनुते वाग्घ
चन्द्रमा भूत्वोपरिष्टात्तस्थौ तदेव तद्रूपमुपदधाति ॥ ८.१.२.[७] ॥
तस्यै वाङ्नात्येति । वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत हेमन्तो वाच्य इति
हेमन्तमृतुं वाचो निरमिमीत पङ्क्तिर्हैमन्तीति पङ्क्तिं च्छन्दो
हेमन्तादृतोर्निरमिमीत पङ्क्त्यै निधनवदिति पङ्क्त्यै च्छन्दसो निधनवत्साम
निरमिमीत निधनवत आग्रयण इति निधनवतः साम्न आग्रयणं ग्रहं
निरमिमीताग्रयणात्त्रिणवत्रयस्त्रिंशावित्याग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिंशौ स्तोमौ
निरमिमीत त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते इति त्रिणवत्रयस्त्रिंशाभ्यां
स्तोमाभ्यां शाक्वररैवते पृष्ठे निरमिमीत ॥ ८.१.२.[८] ॥
विश्वकर्म ऋषिरिति । वाग्वै विश्वकर्मऽर्षिर्वाचा हीदं सर्वं कृतं
तस्माद्वाग्विश्वकर्मऽर्षिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया
त्वयेत्येतद्वाचं गृह्णामि प्रजाभ्य इति वाचमुपरिष्टात्प्रापादयत नानोपदधाति ये
नानाकामा वाचि तांस्तद्दधाति सकृत्सादयत्येकां तद्वाचं करोत्यथ यन्नाना
सादयेद्वाचं ह विच्छिन्द्यात्सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः ॥ ८.१.२.[९] ॥
एतद्वै तदन्नम् । यत्तत्प्राणाश्च प्रजापतिश्चासृजन्तैतावान्वै सर्वो यज्ञो यज्ञ उ
देवानामन्नम् ॥ ८.१.२.[१०] ॥
ता दशद्शोपदधाति । दशाक्षरा विराड्विराडु कृत्स्नमन्नं
सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत
एवास्मिन्नेतत्कृत्स्नमन्नं दधाति ता हैता विराज एतान्प्राणान्बिभ्रति
यत्प्राणान्बिभ्रति तस्मात्प्राणभृतः ॥ ८.१.२.[११] ॥
तदाहुः । किं प्राणाः किं प्राणभृत इति प्राणा एव प्राणा अङ्गानि प्राणभृन्त्यङ्गानि
हि
प्राणान्बिभ्रति प्राणास्त्वेव प्राणा अन्नं प्राणभृदन्नं हि प्राणान्बिभर्ति ॥ ८.१.३.[१] ॥
तदाहुः । कथमस्यैताः सर्वाः प्राजापत्या भवन्तीति यदेव सर्वास्वाह
प्रजापतिगृहीतया त्वयेत्येवमु हास्यैताः सर्वाः प्राजापत्या भवन्ति ॥ ८.१.३.[२] ॥
तदाहुः । यद्ग्रहाय गृहीताय स्तुवतेऽथ शंसत्यथ
कस्मात्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधातीति संस्था वै कर्मणो
ऽन्वीक्षितव्यऽर्चा वै प्रतिपदा ग्रहो गृह्यत ऋचि साम गीयते
तदस्यैतद्यत्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधात्यथ
यदुपरिष्टाद्ग्रहाणां स्तुतशस्त्रे भवतस्तद्वस्यैतद्यदुपरिष्टाद्ग्रहाणां
स्तोमांश्च पृष्ठानि चोपदधाति ॥ ८.१.३.[३] ॥
तदाहुः । यदेतत्त्रयं सह क्रियते ग्रह स्तोत्रं शस्त्रमथात्र ग्रहं चैव
स्तोत्रं चोपदधाति कथमस्यात्रापि शस्रमुपहितं यद्वाव स्तोत्रं तच्छस्त्रं यासु
ह्येव स्तुवते ता उ एवानुशंसत्येवमु हास्यात्रापि शस्त्रमुपहितं भवति ॥ ८.१.३.[४] ॥
तदाहुः । यद्यथा पितुः पुत्रमेवं त्रीणि प्रथमान्याहाथ कस्मादृक्षामयोः
संक्रामतीति साम वा ऋचः पतिस्तद्यत्तत्रापि यथा पितुः पुत्रमेवं ब्रूयाद्यथा
पतिं सन्तं पुत्रं ब्रूयात्तादृक्तत्तस्मादृक्षामयोः संक्रामति कस्मादु त्रिः
संतनोतीति पितरं पुत्रं पौत्रं तांस्तत्संतनोति तस्मादु तेभ्य एक एव ददाति ॥ ८.१.३.[५] ॥
तद्याः पुरस्तादुपदधाति । ताः प्राणभृतोऽथ याः पश्चात्ताश्चक्षुर्भृतस्ता
अपानभृतोऽथ या दक्षिणतस्ता मनोभृतस्ता उ व्यानभृतोऽथ या उत्तरतस्ताः
श्रोत्रभृतस्ता उदानभृतोऽथ या मध्ये ता वाग्भृतस्ता उ समानभृतः ॥ ८.१.३.[६] ॥
तदु ह चरकाध्वर्यवः । अन्या एवापानभृतो व्यानभृत उदानभृतः
समानभृतश्चक्षुर्भृतो मनोभृतः श्रोत्रभृतो वाग्भृत इत्युपदधति न तथा
कुर्यादत्यहैव रोचयन्त्यत्रो एवैतानि सर्वाणि रूपाण्युपधीयन्ते ॥ ८.१.३.[७] ॥
स वै पुरस्तादुपधाय पश्चादुपदधाति । प्राणो हापानो भूत्वाङ्गुल्यग्रेभ्य इति
संचरत्यपान उ ह प्राणो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यत्पुरस्तादुपधाय
पश्चादुपदधात्येनावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ संततौ
संहितौ ॥ ८.१.३.[८] ॥
अथ दक्षिणत उपधायोत्तरत उपदधाति । व्यानो होदानो भूत्वाङ्गुल्यग्रेभ्य इति
संचरत्युदान उ ह व्यानो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यद्दक्षिणत
उपधायोत्तरत उपदधात्येतावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ
संततौ संहितौ ॥ ८.१.३.[९] ॥
अथ या मध्य उपदधाति । स प्राणस्ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्प्राणं दधाति सर्वत
उपदधाति सर्वत एवास्मिन्नेतत्प्राणं दधात्यथो एवं हैष गुदः प्राणः
समन्तं नाभिं पर्यक्नो नूचीश्च तिरश्चीश्चोपदधाति तस्मादिमेऽन्वञ्चश्च
तिर्यञ्चश्चात्मन्प्राणाः संस्पृष्टा उपदधाति प्राणानेवैतत्संतनोति संदधाति
तस्मादिमे प्राणाः संतताः संहिताः ॥ ८.१.३.[१०] ॥
ता हैके पुरुषमुपार्प्योपदधति । एष वै प्राणस्तमेता बिभ्रति यत्प्राणम्
बिभ्रति तस्मात्प्राणभृत इति न तथा कुर्यादेषोऽहैव प्राणो य एष हिरण्मयः
पुरुषस्तस्य त्वयमात्मा यावदिदमभ्ययमग्निर्विहितस्तद्यद्धास्यैता अङ्ग
नाभिप्राप्नुयुः प्राणो हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं
नाभिप्राप्नोति शुष्यति वा वै तन्म्लायति वा तस्मादेनाः
परिश्रित्स्वेवोपार्प्योपदध्यादथ या मध्य उपदधाति ताभिरस्यैष आत्मा
पूर्णस्ता उ एवैतस्मादनन्तर्हिताः ॥ ८.१.४.[१] ॥
तदाहुः । यदयं पुरो भुवोऽयं दक्षिणा विश्वकर्मायं पश्चाद्विश्वव्यचा
इदमुत्तरात्स्वरियमुपरि मतिरिति सम्प्रति दिशोऽभ्यनूच्यन्तेऽथ कस्मादेना
अक्ष्णयादेशेषूपदधातीति प्राणा वै प्राणभृतस्ता यत्सम्प्रति दिश
उपदध्यात्प्रागपं हैवायं प्राणः संचरेदथ यदेना एवमभ्यनूक्ताः
सतीरक्ष्णयादेशेषूपदधाति तस्मादयं प्रागपं प्राणः सन्नक्ष्णया
सर्वाण्यङ्गानि सर्वमात्मानमनुसंचरति ॥ ८.१.४.[२] ॥
स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः
पुरस्तादुपदधाति तौ बाहू अथ याः पश्चात्ते सक्थ्यावथ या मध्य उपदधाति
स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो
मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो ह्ययमात्मा ॥ ८.१.४.[३] ॥
तदाहुः । यत्पूर्वेषु गणेष्वेकैकं स्तोममेकैकं पृष्ठमुपदधात्यथ
कस्मादत्र द्वौ स्तोमौ द्वे पृष्ठे उपदधातीत्यात्मा वा अस्यैष आत्मानं
तदङ्गानां ज्येष्ठं वरिष्ठं वीर्यवत्तमं करोति तस्मादयमात्माङ्गानां
ज्येष्ठो वरिष्ठो वीर्यवत्तमः ॥ ८.१.४.[४] ॥
तदाहुः । कथमस्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवतीति
मज्जा यजुरस्थीष्टका मांसं सादनं त्वक्षूददोहा लोम पुरीषस्य यजुरन्नम्
पुरीषमेवमु हास्यैषोऽग्निः सर्वः कृत्स्न इष्टकायामिष्टकायां संस्कृतो भवति ॥ ८.१.४.[५] ॥
स एष सार्वायुषोऽग्निः । स यो हैतमेवं सार्वायुषमग्निं वेद सर्वं हैवायुरेति ॥ ८.१.४.[६] ॥
अथातः समञ्चनप्रसारणस्यैव । संचितं हैके
समञ्चनप्रसारणेनेत्यभिमृशन्ति पशुरेष यदग्निर्यदा वै पशुरङ्गानि सं
चाञ्चति प्र च सारयत्यथ स तैर्वीर्यं करोति ॥ ८.१.४.[७] ॥
संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि उषसस्ते
कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते
कल्पन्तां संवत्सरस्ते कल्पतां प्रेत्या एत्यै सं चाञ्च प्र च सारय सुपर्णाचिदसि
तया देवतयाङ्गिरस्वद्ध्रुवः सीदेति ॥ ८.१.४.[८] ॥
अपि ह स्माह शाट्यायनिः । स्फोटतोर्हैकः पक्षयोरुपशुश्रावैतेनाभिमृष्टस्य
तस्मादेनमेतेनाभ्येव मृशेदिति ॥ ८.१.४.[९] ॥
अथ ह स्माह स्वर्हिन्नाग्नजितः । नग्नजिद्वा गान्धारः प्राणो वै
समञ्चनप्रसारणं यस्मिन्वा अङ्गे प्राणो भवति तत्सं चाञ्चति प्र च सारयति
संचितमेवैनं बहिष्टादभ्यन्यात्तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति
तथा सं चाञ्चति प्र च सारयतीति तदहैव समञ्चनप्रसारणं यत्स तदुवाच
राजन्यबन्धुरिव त्वेव तदुवाच यन्नु शतं कृत्वोऽथो सहस्रम्
बहिष्टादभ्यन्युर्न वै तस्मिंस्ते प्राणं दध्युर्यो वा आत्मन्प्राणः स एव
प्राणस्तद्यत्प्राणभृत उपदधाति तदस्मिन्प्राणं समञ्चनप्रसारणं दधाति
तथा सं चाञ्चति प्र च सारयत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि
बन्धुः पुरीषं निवपति तस्योपरि बन्धुः ॥ ८.१.४.[१०] ॥
द्वितीयां चितिमुपदधाति । एतद्वै देवाः प्रथमां चितिं चित्वा समारोहन्नयं वै
लोकः प्रथमा चितिरिममेव तल्लोकं संस्कृत्य समारोहन् ॥ ८.२.१.[१] ॥
तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना एतां द्वितीयां चितिमपश्यन्यदूर्ध्वं पृथिव्या
अर्वाचीनमन्तरिक्षात्तेषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत् ॥ ८.२.१.[२] ॥
तेऽश्विनावब्रुवन् । युवं वै ब्रह्माणौ भिषजौ स्थो युवं न इमां द्वितीयां
चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नोऽस्या अग्निचित्याया अध्वर्यू
भविष्यथ इति तथेति तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्तां
तस्मादाहुरश्विनावेव देवानामध्वर्यू इति ॥ ८.२.१.[३] ॥
स उपदधाति । ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति यद्वै स्थिरं यत्प्रतिष्ठितं
तद्ध्रुवमथ वा एषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव
मनस्यासीत्तमेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्तां ध्रुवं योनिमासीद
साधुयेति स्थिरं योनिमासीद साधुयेत्येतदुख्यस्य केतुं प्रथमं जुषाणेत्ययं
वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तं
जुषाणेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् ॥ ८.२.१.[४] ॥
कुलायिनी घृतवती पुरंधिरिति । कुलायमिव वै द्वितीया चितिः स्योने सीद सदने
पृथिव्या इति पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदन इत्येतदभि त्वा
रुद्रा वसवो गृणन्त्वित्येतास्त्वां देवता अभिगृणन्त्वित्येतदिमा ब्रह्म पीपिहि
सौभगायेतीमा ब्रह्माव सौभगायेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ
ह्यध्वर्यू उपाधत्ताम् ॥ ८.२.१.[५] ॥
स्वैर्दक्षैर्दक्षपितेह सीदेति । स्वेन वीर्येणेह सीदेत्येतद्देवानां सन्ने बृहते
रणायेति देवानां सुम्नाय महते रणायेत्येतत्पितेवैधि सूनव आ सुशेवेति यथा पिता
पुत्राय स्योनः सुशेव एवं सुशेवैधीत्येतत्स्वावेशा तन्वा संविशास्वेत्यात्मा वै तनूः
स्वावेशेनात्मना संविशस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ
ह्यध्वर्यू उपाधत्ताम् ॥ ८.२.१.[६] ॥
पृथिव्याः पुरीषमसीति । पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव
यद्द्वितीयाप्सो नामेति रसो नामेत्येतत्तां त्वा विश्वे अभिगृणन्तु देवा इति तां त्वा सर्वे
ऽभिगृणन्तु देवा इत्येतत्स्तोमपृष्ठा घृतवतीह सीदेति यान्त्स्तोमानस्यां तंस्यमानो
भवति तैरेषा स्तोमपृष्ठा प्रजावदस्मे द्रविणायजस्वेति प्रजावदस्मे
द्रविणमायजस्वेत्येतदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू
उपाधत्ताम् ॥ ८.२.१.[७] ॥
ता एता दिशः । ता रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तद्दिशो दधाति
तस्मादनयोर्दिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः
सर्वतः समीचीः सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशस्ता
नानोपदधाति नाना सादयति नाना सूददोहसाऽधिवदति नाना हि दिशः ॥ ८.२.१.[८] ॥
अथ पञ्चमीं दिश्यामुपदधाति । ऊर्ध्वा ह सा दिक्षा या सोर्ध्वा दिगसौ स आदित्यो
ऽमुमेवैतदादित्यमुपदधाति तामन्तरेण दक्षिणां दिश्यामुपदधात्यमुं
तदादित्यमन्तरेण दक्षिणां दिशं दधाति तस्मादेषोऽन्तरेण दक्षिणां दिशमेति ॥ ८.२.१.[९] ॥
अदित्यास्त्वा पृष्ठे सादयामीति । इयं वा अदितिरस्यामेवैनमेतत्प्रतिष्ठायाम्
प्रतिष्ठापयत्यन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीम्
भुवनानामित्यन्तरिक्षस्य ह्येष धर्ता विष्टम्भनो
दिशामधिपतिर्भुवनानामूर्मिर्द्रप्सो अपामसीति रसो वा ऊर्मिर्विश्वकर्मा त ऋषिरिति
प्रजापतिर्वै विश्वकर्मा प्रजापतिसृष्टासीत्येतदश्विनाध्वर्यू सादयतामिह
त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् ॥ ८.२.१.[१०] ॥
यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य
यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्याश्विनावादायोत्क्रम्यातिष्ठताम् ॥ ८.२.१.[११] ॥
तावब्रवीत् । उप मेतं प्रति म एतद्धत्तं येन मे युवमुद !क्रमिष्टमिति किं
नौ ततो भविष्यतीति युवद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतदश्विनौ प्रत्यधत्ताम् ॥ ८.२.१.[१२] ॥
तद्या एताः पञ्चाश्विन्यः । एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति यदेवास्यैता
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति ॥ ८.२.१.[१३] ॥
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासीति । यद्वै स्थिरं यत्प्रतिष्ठितं तद्ध्रुवमथ
वा अस्यैतदस्थिरमिवाध्रुवमिवात्मन आसीत्तदेवैतत्स्थिरं ध्रुवं कृत्वा
प्रत्यधत्ताम् ॥ ८.२.१.[१४] ॥
कुलायिनी घृतवती पुरंधिरिति । कुलायमिव वा अस्यैतदात्मनः
स्वैर्दक्षैर्दक्षपितेह सीदेत्यदक्षयतामेवास्यैतदात्मनः पृथिव्याः
पुरीषमसीति पुरीषसंहितमिव वा अस्यैतदात्मनो रेतःसिचोर्वेलया पृष्टयो वै
रेतःसिचौ पृष्टिसाच्छयमिव वा अस्यैतदात्मनः सर्वत उपदधाति सर्वतो
ह्यस्यैतदश्विनावात्मनः प्रत्यधत्ताम् ॥ ८.२.१.[१५] ॥
अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति शुक्रश्च शुचिश्च
ग्रैष्मावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके
भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति ॥ ८.२.१.[१६] ॥
तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य
यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तदस्यैषा द्वितीयां चितिस्तद्वस्य ग्रीष्म
ऋतुस्तद्यदेते अत्रोपदधाति ॥ ८.२.१.[१७] ॥
यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य
यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्यैषा द्वितीया चितिस्तद्वस्य ग्रीष्म
ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति
तस्मादेते अत्रोपदधाति ॥ ८.२.१.[१८] ॥
अथ वैश्वदेवीरुपदधाति । एषा वै सा द्वीतीया चितिर्यामेभ्यस्तदश्विना उपाधत्तां
तामुपधायेदं सर्वमभवतां यदिदं किं च ॥ ८.२.२.[१] ॥
ते देवा अब्रुवन् । अश्विनौ वा इदं सर्वमभूतामुप तज्जानीत यथा
व्यमिहाप्यसामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत
यथा वयमिहाप्यसामेति ते चेतयमाना एता इष्टका अपश्यन्वैश्वदेवीः ॥ ८.२.२.[२] ॥
तेऽब्रुवन् । अश्विनौ वा इदं
सर्वमभूतामश्विभ्यामेवाश्विनोश्चितिमनूपदधामहा इति ते
ऽश्विभ्यामेवाश्विनोश्चितिमनूपादधत तस्मादेतामाश्विनी चितिरित्याचक्षते
तस्माद्यथैव पूर्वासामुदर्क एवमेतासामिश्विभ्यां ह्येवाश्विनोश्चितिमनूपादधत ॥ ८.२.२.[३] ॥
यद्वेव वैश्वदेवीरुपदधाति । ये वै ते विश्वे देवा एतां द्वितीयां चितिमपश्यन्ये त
एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति ता एताः सर्वाः प्रजास्ता
रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तत्प्रजा दधाति तस्मादनयोः
प्रजाः सर्वत उपदधाति सर्वतस्तत्प्रजा दधाति तस्मात्सर्वतः प्रजा दिश्या
अनूपदधाति दिक्षु तत्प्रजा दधाति तस्मात्सर्वासु दिक्षु प्रजाः ॥ ८.२.२.[४] ॥
यद्वेव वैश्वदेवीरुपदधाति । प्रजापतेर्विस्रस्तात्सर्वाः प्रजा मध्यत
उदक्रामन्नेतस्या अधि योनेस्ता एनमेतस्मिन्नात्मनः प्रतिहिते प्रापद्यन्त ॥ ८.२.२.[५] ॥
स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या अस्मात्ताः प्रजा
मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकास्तद्यदेता उपदधाति या एवास्मात्ताः
प्रजा मध्यत उदक्रामंस्ता अस्मिन्नेतत्प्रपादयति रेतःसिचोर्वेलया पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत
उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति ॥ ८.२.२.[६] ॥
यद्वेव वैश्वदेवीरुपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते
ऽकामयत प्रजाः सृजेय प्रजायेयेति स ऋतुभिरद्भिः प्राणैः संवत्सरेणाश्विभ्यां
सयुग्भूत्वैताः प्रजाः प्राजनयत्तथैवैतद्यजमान एताभिर्देवताभिः
सयुग्भूत्वैताः प्रजाः प्रजनयति तस्मादु सर्वास्वेव सजूःसजूरित्यनुवर्तते ॥ ८.२.२.[७] ॥
सजूर्ऋतुभिरिति । तदृतून्प्राजनयदृतुभिर्वै सयुग्भूत्वा
प्राजनयत्सजूर्विधाभिरित्यापो वै विधा अद्भिर्हीदं सर्वं विहितमद्भिर्वै
सयुग्भूत्वा प्राजनयत्सजूर्देवैरिति तद्देवान्प्राजनयद्यद्देवा इत्याचक्षते
सजूर्देवैर्वयोनाधैरिति प्राणा वै देवा वयोनाधाः प्राणैर्हीदं सर्वं वयुनं
नद्धमथो छन्दांसि वै देवा वयोनाधाश्छन्दोभिर्हीदं सर्वं वयुनं
नद्धं प्राणैर्वै सयुग्भूत्वा प्राजनयदग्नये त्वा वैश्वानरायेति संवत्सरो वा
अग्निर्वैश्वानरः संवत्सरेण वै सयुग्भूत्वा प्राजनयदश्विनाध्वर्यू सादयतामिह
त्वेत्यश्विभ्यां वै सयुग्भूत्वा प्राजनयत् ॥ ८.२.२.[८] ॥
सजूर्वसुभिरिति दक्षिणतः । तद्वसून्प्राजनयत्सजू रुद्रैरिति
पश्चात्तद्रुद्रान्प्राजनयत्सजूरादित्यैरित्युत्तरतस्तदादित्यान्प्राजनयत्सजूर्विश्वैर्देव
इरित्युपरिष्टात्तद्विश्वान्देवान्प्राजनयत्ता वै समानप्रभृतयः समानोदर्का नाना
मध्यतस्ता यत्समानप्रभृतयः समानीभिर्हि देवताभिः पुरस्ताच्चोपरिष्टाच्च
सयुग्भूत्वा प्राजनयदथ यन्नाना मध्यतोऽन्याअन्या हि प्रजा मध्यतः
प्राजनयत् ॥ ८.२.२.[९] ॥
अथ प्राणभृत उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमाना वायुमेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति ॥ ८.२.३.[१] ॥
प्राणभृत उपदधाति । प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति
रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्वायुं दधाति तस्मादनयोर्वायुः सर्वत
उपदधाति सर्वतस्तद्वायुं दधाति तस्मात्सर्वतो वायुः सर्वतः समीचीः
सर्वतस्तत्सम्यञ्चं वायुं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो
वाति दिश्या अनूपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु वायुः ॥ ८.२.३.[२] ॥
यद्वेव प्राणभृत उपदधाति । आस्वेवैतत्प्रजासु प्राणान्दधाति ता अनन्तर्हिता
वैश्वदेवीभ्य उपदधात्यनन्तर्हितांस्तत्प्रजाभ्यः प्राणान्दधाति प्राणं मे
पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुर्म उर्व्या बिभाहि श्रोत्रं मे
श्लोकयेत्येतानेवास्वेतत्कॢप्तान्प्राणान्दधाति ॥ ८.२.३.[३] ॥
अथापस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमाना वृष्टिमेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति ॥ ८.२.३.[४] ॥
अपस्या उपदधाति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधाति रेतःसिचोर्वेलयेमे वै
रेतःसिचावनयोस्तद्वृष्टिं दधाति तस्मादनयोर्वर्षति सर्वत उपदधाति
सर्वतस्तद्वृष्टिं दधाति तस्मात्सर्वतो वर्षति सर्वतः समीचीः सर्वतस्तमीचीं
वृष्टिं दधाति तस्मात्सर्वतः सम्यङ्भूत्वा सर्वाभ्यो दिग्भ्यो वर्षति वायव्या
अनूपदधाति वायौ तद्वृष्टिं दधाति तस्माद्यां दिशं वायुरेति तां दिशं
वृष्टिरन्वेति ॥ ८.२.३.[५] ॥
यद्वेवापस्या उपदधाति । एष्वेवैतत्प्राणेष्वपो दधाति ता अन्तर्हिताः प्राणभृद्भ्य
उपदधात्यनन्तर्हितास्तत्प्राणेभ्योऽपो दधात्यथो अन्नं वा आपोऽनन्तर्हितं
तत्प्राणेभ्योऽन्नं दधात्यपः पिन्वौषधीर्जिन्व द्विपादव चतुष्पात्पाहि दिवो
वृष्टिमेरयेत्येता एवैष्वेतत्कॢप्ता अपो दधाति ॥ ८.२.३.[६] ॥
अथ च्छन्दस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव
तदब्रुवंस्ते चेतयमानाः पशूनेव
चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति ॥ ८.२.३.[७] ॥
च्छन्दस्या उपदधाति । पशवो वै छन्दांसि पशूनेवास्मिन्नेतद्दधाति सर्वत
उपदधाति सर्वतस्तत्पशून्दधाति तस्मात्सर्वतः पशवोऽपस्या अनूपदधात्यप्सु
तत्पशून्प्रतिष्ठापयति तस्माद्यदा वर्षत्यथ पशवः प्रतितिष्ठन्ति ॥ ८.२.३.[८] ॥
यद्वेव च्छन्दस्या उपदधाति । प्रजापतेर्विस्रस्तात्पशव उदक्रामंश्चन्दांसि भूत्वा
तान्गायत्री च्छन्दो भूत्वा वयसाप्नोत्तद्यद्गायत्र्याप्नोदेतद्धि च्छन्द आशिष्ठं सा
तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत् ॥ ८.२.३.[९] ॥
मूर्धा वय इति । प्रजापतिर्वै मूर्धा स वयोऽभवत्प्रजापतिश्छन्द इति
प्रजापतिरेव च्छन्दोऽभवत् ॥ ८.२.३.[१०] ॥
क्षत्रं वय इति । प्रजापतिर्वै क्षत्रं स वयोऽभवन्मयंदं च्छन्द इति यद्वा
अनिरुक्तं तन्मयंदमनिरुक्तो वै प्रजापतिः प्रजापतिरेव च्छन्दोऽभवत् ॥ ८.२.३.[११] ॥
विष्टम्भो वय इति । प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति
प्रजापतिर्वा अधिपतिः प्रजापतिरेव च्छन्दोऽभवत् ॥ ८.२.३.[१२] ॥
विश्वकर्मा वय इति । प्रजापरिर्वै विश्वकर्मा स वयोऽभवत्परमेष्ठी च्छन्द
इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव
परमेष्ठी च्छन्दोऽभवत् ॥ ८.२.३.[१३] ॥
तानि वा एतानि । चत्वारि वयांसि चत्वारि छन्दांसि तदष्टावष्टाक्षरा गायत्र्येषा वै सा
गायत्री या तद्भूत्वा प्रजापतिरेतान्पशून्वयसाप्नोत्तस्माज्जीर्णं पशुं वयसाप्त
इत्याचक्षते तस्मादु सर्वास्वेव वयो वय इत्यमुवर्ततेऽथ येऽस्मात्ते पशव
उदक्रामन्नेते ते पञ्चदशोत्तरे वज्रो वै पशवो वज्रः पञ्चदशस्तस्माद्यस्य
पशवो भवन्त्यपैव स पाप्मानं हते वज्रो हैव तस्य पाप्मानमपहन्ति
तस्माद्यां कां च दिशं पशुमानेति वज्रविहितां हैव तामन्वेति ॥ ८.२.३.[१४] ॥
बस्तो वय इति बस्तं वयसाप्नोद्विवलं च्छन्द इत्येकपदा वै विवलं च्छन्द एकपदा
ह भूत्वाजा उच्चक्रमुः ॥ ८.२.४.[१] ॥
वृष्णिर्वय इति । वृष्णिं वयसाप्नोद्विशालं च्छन्द इति द्विपदा वै विशालं च्छन्दो द्विपदा
ह भूत्वावय उच्चक्रमुः ॥ ८.२.४.[२] ॥
पुरुषो वय इति । पुरुषं वयसाप्नोत्तन्द्रं च्छन्द इति पङ्क्तिर्वै तन्द्रं छन्दः
पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः ॥ ८.२.४.[३] ॥
व्याघ्रो वय इति । व्याघ्रं वयसाप्नोदनाधृष्टं च्छन्द इति विराड्वा अनाधृष्टं
च्छन्दोऽन्नं वै विराडन्नमनाधृष्टं विराडृ भूत्वा व्याघ्रा उच्चक्रमुः ॥ ८.२.४.[४] ॥
सिंहो वय इति । सिंहं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि
छन्दांसि च्छादयत्यतिच्छन्दा ह भूत्वा सिंहा उच्चक्रमुरथातो निरुक्तानेव
पशून्निरुक्तानि छन्दांस्युपदधाति ॥ ८.२.४.[५] ॥
पष्ठवाड्वय इति । पष्ठवाहं वयसाप्नोद्बृहती च्छन्द इति बृहती ह भूत्वा
पष्ठवाह उच्चक्रमुः ॥ ८.२.४.[६] ॥
उक्षा वय इति । उक्षाणं वयसाप्नोत्ककुप्छन्द इति ककुब्भ भूत्वोक्षाण
उच्चक्रमुः ॥ ८.२.४.[७] ॥
ऋषभो वय इति । ऋषभं वयसाप्नोत्सतोबृहती च्छन्द इति सतोबृहती ह भूत्व
ऽर्षभा उच्चक्रमुः ॥ ८.२.४.[८] ॥
अनड्वान्वय इति । अनड्वाहं वयसाप्नोत्पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वानड्वाह
उच्चक्रमुः ॥ ८.२.४.[९] ॥
धेनुर्वय इति । धेनुं वयसाप्नोज्जगती च्छन्द इति जगती ह भूत्वा धेनव
उच्चक्रमुः ॥ ८.२.४.[१०] ॥
त्र्यविर्वय इति । त्र्यविं वयसाप्नोत्त्रिष्टुप्छन्द इति त्रिष्टुब्भ भूत्वा त्र्यवय
उच्चक्रमुः ॥ ८.२.४.[११] ॥
दिव्यवाड्वय इति । दित्यवाहं वयसाप्नोद्विराट्चन्द इति विराड भूत्वा दित्यवाह
उच्चक्रमुः ॥ ८.२.४.[१२] ॥
पञ्चाविर्वय इति । पञ्चाविं वयसाप्नोद्गायत्री च्छन्द इति गायत्री ह भूत्वा पञ्चावय
उच्चक्रमुः ॥ ८.२.४.[१३] ॥
त्रिवत्सो वय इति । त्रिवत्सं वयसाप्नोदुष्णिक्चन्द इत्युष्णिग्घ भूत्वा त्रिवत्सा
उच्चक्रमुः ॥ ८.२.४.[१४] ॥
तुर्यवाड्वय इति । तुर्यवाहं वयसाप्तोदनुष्टुप्छन्द इत्यनुष्टुब्भ भूत्वा
तुर्यवाह उच्चक्रमुः ॥ ८.२.४.[१५] ॥
एते वै ते पशवः । यांस्तत्प्रजापतिर्वयसाप्नोत्स वै पशुं प्रथममाहाथ वयो
ऽथ च्छन्दो वयसा च ह्येनांश्छन्दसा च परिगत्यात्मन्नधत्तात्मन्नकुरुत
तथैवैनानयमेतद्वयसा चैव च्छन्दसा च परिगत्यात्मन्धत्त आत्मन्कुरुते ॥ ८.२.४.[१६] ॥
स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य याः
पुरस्तादुपदधाति शिरोऽस्य ता अथ या दक्षिणतश्चोत्तरतश्च स आत्माथ याः
पश्चात्तत्पुच्छम् ॥ ८.२.४.[१७] ॥
स वै पुरस्तादेवाग्र उपदधाति । शिरो हि प्रथमं जायमानस्य जायतेऽथ
दक्षिणत उपधायोत्तरत उपदधाति सार्धमयमात्मा जायाता इत्यथ पश्चात्पुचं
ह्यन्ततो जायमानस्य जायते ॥ ८.२.४.[१८] ॥
तद्यानि वर्षिष्ठानि छन्दांसि । ये स्थविष्ठाः पशवस्तान्मध्य उपदधाति
मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यं प्रति पशुर्वरिष्ठोऽथ
ये वीर्यवत्तमाः पशवस्तान्दक्षिणत उपदधाति दक्षिणं तदर्धम्
पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणोऽर्धः पशोर्वीयत्तरः ॥ ८.२.४.[१९] ॥
पूर्वार्धं च जघनार्धं चाणिष्ठौ करोति । यदहामूश्चतस्रस्तेनैना अणिष्ठा
अथ यदिह ह्रसिष्ठान्पशूनुपदधाति तेनो एता अणिष्ठाः पूर्वार्धं च
तज्जघनार्धं च पशोरणिष्ठौ करोति तस्मात्पूर्वार्धश्च जघनार्धश्च
पशोरणिष्ठौ तस्मात्पूर्वार्धेन च जघनार्धेन च पशुरुच्च तिष्ठति सं च
विशत्यथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं
निवपति तस्योपरि बन्धुः ॥ ८.२.४.[२०] ॥
तृतीयां चितिमुपदधाति । एतद्वै देवा द्वितीयां चितिं चित्वा समारोहन्यदूर्ध्वम्
पृथिव्या अर्वाचीनमन्तरिक्षात्तदेव तत्संस्कृत्य समारोहन् ॥ ८.३.१.[१] ॥
तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यंस्तेभ्य एष लोकोऽच्छन्दयत् ॥ ८.३.१.[२] ॥
त इन्द्राग्नी अब्रुवन् । युवं न इमां तृतीयां चितिमुपधत्तमिति किं नौ ततो
भविष्यतीति युवमेव नः श्रेष्ठौ भविष्यथ इति तथेति तेभ्य एतामिन्द्राग्नी
तृतीयां चितिमुपाधत्तां तस्मादाहुरिन्द्राग्नी एव देवानां श्रेष्ठाविति ॥ ८.३.१.[३] ॥
स वा इन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयतीन्द्राग्नी च वै विश्वकर्मा
चैतां तृतीयां चितिमपश्यंस्तस्मादिन्द्राग्निभ्यामुपदधाति विश्वकर्मणा सादयति ॥ ८.३.१.[४] ॥
यद्वेवेन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयति प्रजापतिं विस्रस्तं देवता
आदाय व्युदक्रामंस्तस्येन्द्राग्नी च विश्वकर्मा च मध्यमादायोत्कम्यातिष्ठन् ॥ ८.३.१.[५] ॥
तानब्रवीत् । उप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति किं नस्ततो
भविष्यतीति युष्मद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतदिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः ॥ ८.३.१.[६] ॥
तद्यैषा मध्यमा स्वयमातृणा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति
यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति ॥ ८.३.१.[७] ॥
इन्द्राग्नी अव्यथमानाम् । इष्टकां दृंहतं युवमिति यथैव यजुस्तथा बन्धुः
पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधस इति पृष्ठेन ह्येषा द्यावापृथिवी
अन्तरिक्षं च विबाधते ॥ ८.३.१.[८] ॥
विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य
पृष्ठे व्यचस्वतीं प्रथस्व तीमित्यन्तरिक्षस्य ह्येतत्पृष्ठं
व्यचस्वत्प्रथस्वदन्तरिक्षं यच्छान्तरिक्षं दृंहान्तरिक्षं मा हिंसीरित्यात्मानं
यच्छात्मानं दृंहात्मानं मा हिंसीरित्येतत् ॥ ८.३.१.[९] ॥
विश्वस्मै प्राणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः
प्रतिष्ठा चरित्रं वायुष्ट्वाभिपात्विति वायुष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति
महत्या स्वस्त्येत्येतच्चर्दिषा शंतमेनेति यच्चर्दिः शंतमं तेनेत्येतत्सादयित्वा
सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः ॥ ८.३.१.[१०] ॥
अथ दिश्या उपदधाति । दिशो वै दिश्या दिश एवैतदुपदधाति तद्याभिरदो
वायुर्दिग्भिरनन्तर्हिताभिरुपैत्ता एतास्ता एवैतदुपदधाति ता उ एवामूः
पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधात्यसौ वा आदित्य एता अमुं तदादित्यं
दिक्ष्वध्यूहति दिक्षु चिनोति ता यत्तत्रैव स्युर्बहिर्धा तत्स्युर्बहिर्धो वा
एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्ता यदिहाहृत्योपदधाति तदेना योनौ
पुष्करपर्णे प्रतिष्ठापयति तथो हैता अबहिर्धा भवन्ति ता अनन्तर्हिताः
स्वयमातृणाया उपदधात्यन्तरिक्षं वै मध्यमा
स्वयमातृणानन्तर्हितास्तदन्तरिक्षाद्दिशो दधात्युत्तरा उत्तरास्तदन्तरिक्षाद्दिशो
दधाति रेतःसिचोर्वेलयेमे वै रेतःसिचावनयोस्तद्दिशो दधाति तस्मादनयोर्दिशः
सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात्सर्वतो दिशः समीचीः
सर्वतस्तत्समीचीर्दिशो दधाति तस्मात्सर्वतः समीच्यो दिशः ॥ ८.३.१.[११] ॥
यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशो गायत्री वै प्राची दिक्त्रष्टुब्दक्षिणा
जगती प्रतीच्यनुष्टुबुदीची पङ्क्तिरूर्ध्वा पशवो वै छन्दांस्यन्तरिक्षम्
मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः ॥ ८.३.१.[१२] ॥
यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशः पशवो वै छन्दांस्यन्नं पशवो
मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृणाया
उपदधाति प्राणो वै स्वयमातृणानन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं
तत्प्राणादन्नं दधाति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो
मध्यत एवास्मिन्नेतदन्नं दधाति सर्वत उपदधाति सर्वत एवास्मिन्नतदन्नं
दधाति ॥ ८.३.१.[१३] ॥
राञ्यसि प्राची दिक् । विराडसि दक्षिणा दिक्षम्राडसि प्रतीची दिक्ष्वराडस्युदीची
दिगधिपत्न्यसि बृहती दिगिति नामान्यासामेतानि नामग्राहमेवैना एतदुपदधाति ता
नानोपदधाति नाना सादयति नाना सूददोहसाधिवदति नाना हि दिशः ॥ ८.३.१.[१४] ॥
अथ विश्वज्योतिषमुपदधाति । वायुर्वै मध्यमा
विश्वज्योतिर्वायुर्ह्येवान्तरिक्षलोके विश्वं ज्योतिर्वायुमेवैतदुपदधाति
तामनन्तर्हितां दिश्याभ्य उपदधाति दिक्षु तद्वायुं दधाति तस्मात्सर्वासु दिक्षु
वायुः ॥ ८.३.२.[१] ॥
यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्या उपदधाति दिक्षु तत्प्रजा
दधाति तस्मात्सर्वासु दिक्षु प्रजाः ॥ ८.३.२.[२] ॥
विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य
पृष्ठे ज्योतिष्मतीमित्यन्तरिक्षस्य ह्ययं पृष्ठे ज्योतिष्मान्वायुः ॥ ८.३.२.[३] ॥
विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै
प्राणो
विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतद्वायुष्टेऽधिपतिरिति वायुमवास्या अधिपतिं
करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः ॥ ८.३.२.[४] ॥
अथऽर्तव्या उपदधाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति नभश्च
नभस्यश्च वार्षिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे
इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं
करोत्यवकासूपदधात्यवकाभिः प्रच्छादयत्यापो वा अवका अपस्तदेतस्मिन्नृतौ
दधाति तस्मादेतस्मिन्नृतौ भूयिष्ठं वर्षति ॥ ८.३.२.[५] ॥
अथोत्तरे । इषश्चोर्जश्च शारदावृतू इति नामनी एनयोरेते नामभ्यामेवैने
एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं
करोत्यवकासूपदधात्यापो वा अवका अपस्तदेतस्यऽर्तोः पुरस्ताद्दधाति
तस्मादेतस्यऽर्तोः पुरस्ताद्वर्षति नोपरिष्टात्प्रच्छादयति तस्मान्न
तथेवोपरिष्टाद्वर्षति ॥ ८.३.२.[६] ॥
तद्यदेता । अत्रोपदधाति संवत्सर एषोऽग्निरिम उ लोकाः
संवत्सरस्तस्यान्तरिक्षमेव मध्यमा चितिरन्तरिक्षमस्य वर्षाशरदावृत्
तद्यदेता अत्रोपदधाति यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता
अत्रोपदधाति ॥ ८.३.२.[७] ॥
यद्वेवैता अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य
मध्यमेव मध्यमा चितिर्मध्यमस्य वर्षाशरदावृतू तद्यदेता अत्रोपदधाति
यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति ॥ ८.३.२.[८] ॥
ता वा एताः । चतस्र ऋतव्या मध्यमायां चिता उपदधाति द्वेद्वे इतरासु चितिषु
चतुष्पादा वै पशवोऽन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति
तस्मादन्तरिक्षायतनाः पशवः ॥ ८.३.२.[९] ॥
यद्वेव चतस्रः चतुष्पादा वै पशवोऽन्नं पशवो मध्यं मध्यमा
चितिर्मध्यतस्तदन्नं दधाति ॥ ८.३.२.[१०] ॥
यद्वेव चतस्रः । चतुरक्षरं वा अन्तरिक्षं द्व्यक्षरा
इतराश्चितयस्तद्यावदन्तरिक्षं तावत्तत्कृत्वोपदधाति ॥ ८.३.२.[११] ॥
यद्वेव चतस्रः । पशुरेष यदग्निर्मध्यं तत्प्रति पशुं वरिष्ठं करोति
तस्मान्मध्यं प्रति पशुर्वरिष्ठः ॥ ८.३.२.[१२] ॥
ता वा एताः । चतस्र ऋतव्यास्तासां विश्वज्योतिः पञ्चमी पञ्च दिश्यास्तद्दश दशाक्षरा
विराडन्नं विराण्मध्यं मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता
अनन्तर्हिताः स्वयमातृणाया उपदधाति प्राणो वै स्वयमातृणानन्तर्हितं
तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति ॥ ८.३.२.[१३] ॥
अथ प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ता दश
भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणा आयुर्मे पाहि
ज्योतिर्मे यच्छेति प्राणो वै ज्योतिः प्राणं मे यच्छेत्येवैतदाह ता अनन्तर्हिता ऋतव्याभ्य
उपदधाति प्राणो वै वायुर्ऋतुषु तद्वायुं प्रतिष्ठापयति ॥ ८.३.२.[१४] ॥
अथ च्छन्दस्या उपदधाति । पशवो वै छन्दांस्यन्तरिक्षं मध्यमा चितिरन्तरिक्षे
तत्पशुं दधाति तस्मादन्तरिक्षायतनाः पशवः ॥ ८.३.३.[१] ॥
यद्वेव च्छन्दस्या उपदधाति । पशवो वै छन्दांस्यन्न्ं पशवो मध्यम्
मध्यमा चितिर्मध्यतस्तदन्नं दधाति ॥ ८.३.३.[२] ॥
ता द्वादशद्वादशोपदधाति । द्वादशाक्षरा वै जगती पशवो जगत्यन्तरिक्षम्
मध्यमा चितिरन्तरिक्षे तत्पशून्दधाति तस्मादन्तरिक्षायतनाः पशवः ॥ ८.३.३.[३] ॥
यद्वेव द्वादशद्वादश । द्वादशाक्षरा वै जगती पशवो वै जगत्यन्नं पशवो
मध्यं मध्यमा चितिर्मध्यतस्तदन्न दधाति ता अनन्तर्हिताः प्राणभृद्भ्य
उपदधात्यनन्तर्हितं तत्प्राणेभ्योऽन्नं दधात्युत्तरा उत्तरं तत्प्राणेभ्यो
ऽन्नं दधाति ॥ ८.३.३.[४] ॥
मा च्छन्द इति । अयं वै लोको मायं हि लोको मित इव प्रमा च्छन्द इत्यन्तरिक्षलोको
वै प्रमान्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव प्रतिमा च्छन्द इत्यसौ वै लोकः
प्रतिमैष ह्यन्तरिक्षलोके प्रतिमित इवास्रीवयश्छन्द इत्यन्नमस्रीवयस्तद्यदेषु
लोकेष्वन्नं तदस्रीवयोऽथो यदेभ्यो लोकेभ्योऽन्नं स्रवति तदस्रीवयोऽथातो
निरुक्तान्येव छन्दांस्युपदधाति ॥ ८.३.३.[५] ॥
पङ्क्तिश्छन्दः । उष्णिक्चन्दो बृहती च्छन्दोऽनुष्टुप्छन्दो विराट्चन्दो गायत्री
च्छन्दस्त्रिष्टुप्छन्दो जगती च्छन्द इत्येतानि निरुक्तानि विराडष्टमानि
छन्दांस्युपदधाति पृथिवी च्छन्दोऽन्तरिक्षं च्छन्द इति यान्येतद्देवत्यानि छन्दांसि
तान्येवैतदुपदधात्यग्निर्देवता वातो देवतेत्येता वै देवताश्चन्दांसि
तान्येवैतदुपदधाति ॥ ८.३.३.[६] ॥
स वै निरुक्तानि चानिरुक्तानि चोपदधाति । स यत्सर्वाणि
निरुक्तान्युपाधास्यदन्तवद्धान्नमभविष्यदक्षेष्यत हाथ
यत्सर्वाण्यनिरुक्तानि परोऽक्षं हान्नमभविष्यन्न हैनदद्रक्ष्यंश्चन
निरुक्तानि चानिरुक्तानि चोपदधाति तस्मान्निरुक्तमन्नमद्यमानं न क्षीयते ॥ ८.३.३.[७] ॥
तानि वा एतानि । त्रीणि द्वादशान्युपदधाति तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहत्येषा
वै सा बृहती यां तद्देवा अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यंस्तस्या एतस्यै देवा
उत्तमाः ॥ ८.३.३.[८] ॥
यद्वेवैता इष्टका उपदधाति । प्रजापतेर्विस्रस्तात्सर्वाणि भूतानि सर्वा दिशोऽनु
व्युदक्रामन् ॥ ८.३.३.[९] ॥
स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात्तानि
भूतानि व्युदक्रामन्नेतास्ता इष्टकास्तद्यदेता उपदधाति यान्येवास्मात्तानि भूतानि
व्युदक्रामंस्तान्यस्मिन्नेतत्प्रतिदधाति ॥ ८.३.३.[१०] ॥
तद्या दश प्रथमा उपदधाति । स चन्द्रमास्ता दश भवन्ति दशाक्षरा
विराडन्नं विराडन्नमु चन्द्रमा अथ या उत्तराः षट्त्रिंशदर्धमासाश्च ते
मासाश्च चतुर्विंशतिरर्धमासा द्वादश मासाश्चन्द्रमा वै संवत्सरः सर्वाणि
भूतानि ॥ ८.३.३.[११] ॥
तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतानि सर्वाणि भूतानि मध्यतो
ऽदधुस्तथैवास्मिन्नयमेतद्दधाति ता अनन्तर्हिता ऋतव्याभ्य उपदधात्यृतुषु
तत्सर्वाणि भूतानि प्रतिष्ठापयति ॥ ८.३.३.[१२] ॥
अथ वालखिल्या उपदधाति । प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता
यद्वालखिल्या नाम यद्वा उर्वरयोरसम्भिन्नं भवति खिल इति वै तदाचक्षते
वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालसात्रादसम्भिन्नास्तस्माद्वालखिल्याः ॥ ८.३.४.[१] ॥
स वै सप्त पुरस्तादुपदधाति । सप्त पश्चात्तद्याः सप्त पुरस्तादुपदधाति य
एवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति ॥ ८.३.४.[२] ॥
अथ याः सप्त पश्चात् । एषामेवैतत्प्राणानामेतान्प्राणान्प्रतीन्करोति
तस्माद्यदेभिरन्नमत्ति तदेतैरत्येति ॥ ८.३.४.[३] ॥
यद्वेव सप्त पुरस्तादुपदधाति । सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि
शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त
पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति ॥ ८.३.४.[४] ॥
अथ याः सप्त पश्चात् । सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वै प्रतिष्ठे
यदवाङ्नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त
पश्चात्प्राणास्तानस्मिन्नेतद्दधाति ॥ ८.३.४.[५] ॥
मूर्धासि राट् । ध्रुवासि धरुणा धर्त्र्यसि धरणी यन्त्री राड्यन्त्र्यसि यमनी
ध्रुवासि धरित्रीत्येतानेवास्मिन्नेतद्ध्रुवान्प्राणान्यच्छति ॥ ८.३.४.[६] ॥
यद्वेव वालखिल्या उपदधाति । एतद्वै देवा
वालखिल्याभिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो
वालखिल्याभिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः ॥ ८.३.४.[७] ॥
मूर्धासि राडितीमं लोकमरोहन् । ध्रुवासि धरुणेत्यन्तरिक्षलोकं धर्त्र्यसि
धरणीत्यमुं धरणीत्यमुं लोकमायुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय
त्वेति चत्वारश्चतुष्पादाः पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः
पशुभिरेतेनान्नेनामुष्मिंलोके प्रत्यतिष्ठंस्तथैवैतद्यजमान
एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिंलोके प्रतितिष्ठति ॥ ८.३.४.[८] ॥
स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते देवा इमाम्
प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रति षामभिप्रत्यैति ॥ ८.३.४.[९] ॥
यन्त्रि राडित्यमुं लोकमरोहन् । यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवासि
धरित्रीतीमं लोकमिषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चत्वारश्चतुष्पादाः
पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंलोके
प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः
पशुभिरेतेनान्नेनास्मिंलोके प्रतितिष्ठति ॥ ८.३.४.[१०] ॥
अथातः संस्कृतिरेव । या अमूरेकादशेष्टका उपदधाति योऽसौ प्रथमो
ऽनुवाकस्तदन्तरिक्षं स आत्मा तद्यत्ता एकादश भवन्त्येकादशाक्षरा वै
त्रिष्टुप्त्रैष्टुभमन्तरिक्षमथ या उत्तराः षष्टिः स वायुः स प्रजापतिः सोऽग्निः
स यजमानः ॥ ८.३.४.[११] ॥
तद्याः पुरस्तादुपदधाति । शिरोऽस्य तास्ता दश भवन्ति दश वै प्राणाः प्राणा उ वै
शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः ॥ ८.३.४.[१२] ॥
अथ या दक्षिणतः । यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्य ता अथ याः
पश्चाद्यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्य ताः प्रतिष्ठैवोत्तरतः ॥ ८.३.४.[१३] ॥
तद्याः सप्त पुरस्ताद्वालखिल्या उपदधाति । य एवेमे सप्त
पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एताभ्यो दशभ्य
उपदधात्यनन्तर्हितांस्तचीर्ष्णः प्राणान्दधाति ॥ ८.३.४.[१४] ॥
अथ याः सप्त पश्चात् । य एवेमे सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति ता
अनन्तर्हिता एताभ्यो द्वादशभ्य उपदधात्यनन्तर्हितांस्तदात्मनः प्राणान्दधाति
स एष वायुः प्रजापतिरस्मिंस्त्रैष्टुभेऽन्तरिक्षे समन्तं पर्यक्नस्तद्यत्तृतीयां
चितिमुपदधाति वायुं चैव तदन्तरिक्षं च संक्कृत्योपधत्तेऽथ लोकम्पृणे
उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः। ॥ ८.३.४.[१५] ॥
चतुर्थीं चितिमुपदधाति । एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन्नन्तरिक्षं
वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन् ॥ ८.४.१.[१] ॥
तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना एतां चतुर्थीं चितिमपश्यन्यदूर्ध्वमन्तरिक्षादर्वाचीनं
दिवस्तेषामेषा लोकोऽध्रुव इवाप्रतिष्ठित इवमनस्यासीत् ॥ ८.४.१.[२] ॥
ते ब्रह्माब्रुवन् । त्वामिहोपदधामहा इति किं मे ततो भविष्यतीति त्वमेव नः
श्रेष्ठं भविष्यसीति तथेति तेऽत्र ब्रह्मोपादधत तस्मादाहुर्ब्रह्मैव
देवानां श्रेष्ठमिति तदेतया वै चतुर्थ्या चित्येमे द्यावापृथिवी विष्टब्धे ब्रह्म
वै चतुर्थी चितिस्तस्मादाहुर्ब्रह्मणा द्यावापृथिवी विष्टब्धे इति स्तोमानुपदधाति
प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मैवैतदुपदधाति ॥ ८.४.१.[३] ॥
यद्वेव स्तोमानुपदधाति । एतद्वै देवाः प्रजापतिमब्रुवंस्त्वामिहोपदधामहा
इति तथेति स वै नाब्रवीत्किं मे ततो भविष्यतीति यदु ह किं च
प्रजापतिर्देवेष्वीषे किमस्माकं ततो भविष्यतीत्येवोचुस्तस्मादु हैतद्यत्पिता
पुत्रेष्विच्छते किमस्माकं ततो भविष्यतीत्येवाहुरथ यत्पुत्राः पितरि
तथेत्येवाहैवं हि तदग्रे प्रजापतिश्च देवाश्च समवदन्त स्तोमानुपदधाति
प्राणा वै स्तोमाः प्राणा उ वै प्रजापतिः प्रजापतिमेवैतदुपदधाति ॥ ८.४.१.[४] ॥
यद्वेव स्तोमानुपदधाति । ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यन्ये त
एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः
प्राणा उ वा ऋषय ऋषीनेवैतदुपदधाति ॥ ८.४.१.[५] ॥
यद्वेव स्तोमानुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य
युदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्य वायुरादायोत्क्रम्यातिष्ठद्देवताश्च
भूत्वा संवत्सररूदाणि च ॥ ८.४.१.[६] ॥
तमब्रवीत् । उप मेहि प्रति म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो
भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतद्वायुः प्रत्यपधात् ॥ ८.४.१.[७] ॥
तद्या एता अष्टादश प्रथमाः । एतदस्य तदात्मनस्तद्यदेता अत्रोपदधाति
यदेवास्यैता आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेता अत्रोपदधाति
स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणाउ वै वायुर्वायुमेवैतदुपदधाति ॥ ८.४.१.[८] ॥
स पुरस्तादुपदधाति । आशुस्त्रिवृदिति य एव त्रिवृत्स्तोमस्तं तदुपदधाति
तद्यत्तमाहाशुरित्येष हि स्तोमानामाशिष्ठोऽथो वायुर्वा आशुस्त्रिवृत्स एषु त्रिषु
लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषां भूतानामाशिष्ठो वायुर्ह भूत्वा
पुरस्तात्तस्थौ तदेव तद्रूपमुपदधाति ॥ ८.४.१.[९] ॥
भान्तः पञ्चदश इति । य एव पञ्चदश स्तोमस्तं तदुपदधाति तद्यत्तमाह
भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः
स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि
चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१०] ॥
व्योमा सप्तदश इति । य एव सप्तदश स्तोमस्तं तदुपदधाति तद्यत्तमाह
व्योमेति प्रजापतिर्वै व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वाव व्योमा
सप्तदशस्तस्य द्वादश मासाः पञ्चऽर्तवस्तद्यत्तमाह व्योमेति व्योमा हि
संवत्सरः संवत्सरो ह भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति ॥ ८.४.१.[११] ॥
धरुण एकविंश इति । य एवैकविंश स्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण
इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वा आदित्यो धरुण
एकविंशस्तस्य द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावेवादित्यो धरुण
एकविंशस्तद्यत्तमाह धरुण इति यदा ह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियत
आदित्यो ह भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ
संवत्सररूपाण्युपदधाति ॥ ८.४.१.[१२] ॥
प्रतूर्तिरष्टादश इति । य एवाष्टादश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
प्रतूर्तिरष्टादशस्तस्य द्वादश मासाः पञ्चऽर्तवः संवत्सर एव
प्रतूर्तिरष्टादशस्तद्यत्तमाह प्रतूर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति
तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१३] ॥
तपो नवदश इति । य एव नवदश स्तोमस्तं तदुपदधात्यथो संवत्सरो तपो
नवदशस्तस्य द्वादश मासाः षडृतवः संवत्सर एव तपो नवदशस्तद्यत्तमाह
तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१४] ॥
अभीवर्तः सविंश इति । य एव सविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वा
अभीवर्तः सविंशस्तस्य द्वादश मासाः सप्तऽर्तवः संवत्सर एवाभीवर्तः
सविंशस्तद्यत्तमाहाभीवर्त इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेव
तद्रूपमुपदधाति ॥ ८.४.१.[१५] ॥
वर्चो द्वाविंश इति । य एव द्वाविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
वर्चो द्वाविंशस्तस्य द्वादश मासाः सप्तऽर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो
द्वाविंशस्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां
वर्चस्वितमस्तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१६] ॥
सम्भरणस्त्रयोविंश इति य एव त्रयोविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो
वाव सम्भरणस्त्रयोविंसस्तस्य त्रयोदश मासा सप्तऽर्तवो द्वे अहोरात्रे संवत्सर
एव सम्भरणस्त्रयोविंशस्तद्यत्तमाह सम्भरण इति संवत्सरो हि सर्वाणि भूतानि
सम्भृतस्तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१७] ॥
योनिश्चतुर्विंश इति । य एव चतुर्विंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
योनिश्चतुर्विंशस्तस्य चतुर्विंशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि
सर्वेषां भूतानां योनिस्तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१८] ॥
गर्भाः पञ्चविंश इति । य एव पञ्चविंश स्तोमस्तं तदुपदधात्यथो संवत्सरो
वाव गर्भाः पञ्चविंशस्तस्य चतुर्विंशतिरर्धमासाः संवत्सर एव गर्भाः
पञ्चविंशस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशो मासो गर्भो भूत्व
ऽर्तून्प्रविशति तदेव तद्रूपमुपदधाति ॥ ८.४.१.[१९] ॥
ओजस्त्रिणव इति । य एव त्रिणव स्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति व्!ज्रो वा
ओजो वज्रस्त्रिणवोऽथो संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विंशतिरर्धमासा द्वे
अहोरात्रे संवत्सर एवौजस्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषाम्
भूतानामोजस्वितमस्तदेव तद्रूपमुपदधाति ॥ ८.४.१.[२०] ॥
क्रतुरेकत्रिंश इति । य एवैकत्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
क्रतुरेकत्रिंशस्तस्य चतुर्विंशतिरर्धमासाः षदृतवः संवत्सर एव
क्रतुरेकत्रिंशस्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति तदेव
तद्रूपमुपदधाति ॥ ८.४.१.[२१] ॥
प्रतिष्ठा त्रयस्त्रिंश इति । य एव त्रयस्त्रिंश स्तोमस्तं तदुपदधाति तद्यत्तमाह
प्रतिष्ठेति प्रतिष्ठा हि त्रयस्त्रिंशोऽथो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रिंशस्तस्य
चतुर्विंशतिरर्धमासाः षदृतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा
त्रयस्त्रिंशस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा
तदेव तद्रूपमुपदधाति ॥ ८.४.१.[२२] ॥
ब्रध्नस्य विष्टपं चतुस्त्रिंश इति । य एत चतुस्त्रिंश स्तोमस्तं तदुपदधात्यथो
संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तस्य चतुर्विंशतिरर्धमासाः सप्त
ऽर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिंशस्तद्यत्तमाह
ब्रध्नस्य विष्टपमिति स्वाराज्यं वै ब्रध्नस्य विष्टपं स्वाराज्य
चतुस्त्रिंशस्तदेव तद्रूपमुपदधाति ॥ ८.४.१.[२३] ॥
नाकः षट्त्रिंश इति । य एव षट्त्रिंश स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव
नाकः षट्त्रिंशस्तस्य चतुर्विंशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न
हि तत्र गताय कस्मै चनाकं भवत्यथो संवत्सरो वाव नाकः संवत्सरः
स्वर्गो लोकस्तदेव तद्रूपमुपदधाति ॥ ८.४.१.[२४] ॥
विवर्तोऽष्टाचत्वारिंश इति । य एवाष्टाचत्वरिंश स्तोमस्तं तदुपदधात्यथो
संवत्सरो वाव विवर्तोऽष्टाचत्वारिंशस्तस्य षड्विंशतिरर्धमासास्त्रयोदश मासाः
सप्तऽर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि
विवर्तन्ते तदेव तद्रूपमुपदधाति ॥ ८.४.१.[२५] ॥
धर्त्रं चतुष्टोम इति । य एव चतुष्टोम स्तोमस्तं तदुपदधाति तद्यत्तमाह
धर्त्रमिति प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोमोऽथो वायुर्वाव धर्त्रं
चतुष्टोमः स आभिश्चतसृभिर्दिग्भि स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै
धर्त्रं वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति स वै
वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि
भूतान्युभयतः परिगृह्णाति ॥ ८.४.१.[२६] ॥
ता वा एताः । अष्टादशेष्टका उपदधाति तौ द्वौ त्रिवृतौ प्राणो वै त्रिवृद्वायुरु प्राणो
वायुरेषा चितिः ॥ ८.४.१.[२७] ॥
यद्वेवाष्टादश । अष्टादशो वै संवत्सरो द्वादश मासाः पञ्चऽर्तवः संवत्सर
एव प्रजापतिरष्टादशः प्र्जापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा
तावत्तत्कृत्वोपदधाति ॥ ८.४.१.[२८] ॥
अथ स्पृत उपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते सर्वाणि भूतानि
गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात् ॥ ८.४.२.[१] ॥
स देवानब्रवीत् । युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणवानीति
किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्त्वित्येके
ऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाण्
इ भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात्स्पृतस्तथैवैतद्यजमानो
भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्यो स्पृणोति
तस्मादु सर्वास्वेव स्पृतंस्पृतमित्यनुवर्तते ॥ ८.४.२.[२] ॥
अग्निर्भागोऽसि । दीक्षाया आधिपत्यमिति वाग्वै दीक्षाग्नये भागं कृत्वा वाच
आधिपत्यमकरोद्ब्रह्म स्पृतं त्रिवृत्स्तोम इति ब्रह्म प्रजानां त्रिवृता स्तोमेन
पाप्मना मृत्योरस्पृणोत् ॥ ८.४.२.[३] ॥
इन्द्रस्य भागोऽसि । विष्णोराधिपत्यमितीन्द्राय भागं कृत्वा विष्णव
आधिपत्यमकरोत्क्षत्रं स्पृतं पञ्चदश स्तोम इति क्षत्रं प्रजानाम्
पञ्चदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[४] ॥
नृचक्षसां भागोऽसि । धातुराधिपत्यमिति देवा वै नृचक्षसो देवेभ्यो भागं
कृत्वा धात्र आधिपत्यमकरोज्जनित्रं स्पृतं सप्तदश स्तोम इति विड्वै जनित्रं
विशं प्रजानां सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[५] ॥
मित्रस्य भागोऽसि । वरुणस्याधिपत्यमिति प्राणो वै मित्रोऽपानो वरुणः प्राणाय
भागं कृत्वापानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं
च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[६] ॥
वसूनां भागोऽसि । रुद्राणामाधिपत्यमिति प्राणो वै मित्रोऽपानो वरुणः प्राणाय
भागं कृत्वापानायाधिपत्यमकरोद्दिवो वृष्टिर्वात स्पृत एकविंश स्तोम इति वृष्टिं
च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[७] ॥
आदित्यानां भागोऽसि । मरुतामाधिपत्यमित्यादित्येभ्यो भागं कृत्वा मरुद्भ्य
आधिपत्यमकरोद्गर्भा स्पृताः पञ्चविंश स्तोम इति गर्भान्प्रजानां पञ्चविंशेन
स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[८] ॥
अदित्यै भागोऽसि । पूष्णं आधिपत्यमितीयं वा अदितिरस्यै भागं कृत्वा पूष्ण
आधिपत्यमकरोदोज स्पृतं त्रिणव स्तोम इत्योजः प्रजानां त्रिणवेन स्तोमेन
पप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[९] ॥
देवस्य सवितुर्भागोऽसि । बृहस्पतेराधिपत्यमिति देवाय सवित्रे भागं कृत्वा
बृहस्पतय आधिपत्यमकरोत्समीचीर्दिश स्पृताश्चतुष्टोम स्तोम इति सर्वा दिशः
प्रजानां चतुष्टोमेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[१०] ॥
यवानां भागोऽसि । अयवानामाधिपत्यमिति पूर्वपक्षा वै यवा अपरपक्षा
अयवास्ते हीदं सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं
कृत्वापरपक्षेभ्य आधिपत्यमकरोत्प्रजा स्पृताश्चतुश्चत्वारिंश स्तोम इति सर्वाः
प्रजाश्चतुश्चत्वारिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८.४.२.[११] ॥
ऋभूणां भागोऽसि । विष्वेषां देवानामाधिपत्यमित्यृभुभ्यो भागं कृत्वा
विश्वेभ्यो देवेभ्य आधिपत्यमकरोद्भूतं स्पृतं त्रयस्त्रिंश स्तोम इति सर्वाणि
भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्तथैवैतद्यजमानः सर्वाणि
भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्यो स्पृणोति ॥ ८.४.२.[१२] ॥
ता वा एता दशेष्टका उपदधाति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश
प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तदेतानि सर्वाणि भूतानि
पाप्मनो मृत्यो स्पृणोति ॥ ८.४.२.[१३] ॥
अथऽर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति सहश्च
सहस्यश्च हैमन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति
द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोति ॥ ८.४.२.[१४] ॥
तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य
यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त
ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति
तस्मादेते अत्रोपदधाति ॥ ८.४.२.[१५] ॥
यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य
यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त
ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति
तस्मादेते अत्रोपदधाति ॥ ८.४.२.[१६] ॥
अथ सृष्टीरुपदधाति । एतद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो
मृत्योर्मुक्त्वाकामयत प्रजाः सृजेय प्रजायेयेति ॥ ८.४.३.[१] ॥
स प्राणानब्रवीत् । युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह
इति मया चैव युष्माभिश्चेति तथेति ते प्राणैश्चैव प्रजापतिना चास्तुवत यदु ह किं
च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो यज्ञेनैव तत्कुर्वते
तस्मादु सर्वास्वेवास्तुवतास्तुवतेत्यनुवर्तते ॥ ८.४.३.[२] ॥
एकयास्तुवतेति । वाग्वा एका वाचैव तदस्तुवत प्रजा अधीयन्तेति प्रजा अत्राधीयन्त
प्रजापतिरधिपतिरासीदिति प्रजापतिरत्राधिपतिरासीत् ॥ ८.४.३.[३] ॥
तिसृभिरस्तुवतेति । त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेव तदस्तुवत
ब्रह्मासृज्यतेति ब्रह्मात्रासृज्यत ब्रह्मणस्पतिरधिपतिरासीदिति
ब्रह्मणस्पतिरत्राधिपतिरासीत् ॥ ८.४.३.[४] ॥
पञ्चभिरस्तुवतेति । य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत
भूतान्यसृज्यन्तेति भूतान्यत्रासृज्यन्त भूतानां पतिरधिपतिरासीदिति भूतानाम्
पतिरत्राधिपतिरासीत् ॥ ८.४.३.[५] ॥
सप्तभिरस्तुवतेति । य एवेमे सप्त शीर्षन्प्राणास्तैरेव तदस्तुवत सप्त ऋषयो
ऽसृज्यन्तेति सप्तऽर्षयोऽत्रासृज्यन्त धाताधिपतिरासीदिति धातात्राधिपतिरासीत् ॥ ८.४.३.[६] ॥
नवभिरस्तुवतेति । नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तैरेव तदस्तुवत
पितरोऽसृज्यन्तेति पितरोऽत्रासृज्यन्तादितिरधिपत्न्यासीदित्यदितिरत्राधिपत्न्यासीत् ॥ ८.४.३.[७] ॥
एकादशभिरस्तुवतेति । दश प्राणा आत्मैकादशस्तेनैव तदस्तुवत ऋतवो
ऽसृज्यन्तेत्यृतवोऽत्रासृज्यन्तार्तवा अधिपतय आसन्नित्यार्तवा अत्राधिपतय आसन् ॥ ८.४.३.[८] ॥
त्रयोदशभिरस्तुवतेति । दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशस्तेनैव तदस्तुवत
मासा असृज्यन्तेति मासा अत्रासृज्यन्त संवत्सरोऽधिपतिरासीदिति संवत्सरो
ऽत्राधिपतिरासीत् ॥ ८.४.३.[९] ॥
पञ्चदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं
नाभेस्तत्पञ्चदशं तेनैव तदस्तुवत क्षत्रमसृज्यतेति क्षत्रमसृज्यतेति
क्षत्रमत्रासृज्यतेन्द्रोऽधिपतिरासीदितीन्द्रोऽत्राधिपतिरासीत् ॥ ८.४.३.[१०] ॥
सप्तदशभिरस्तुवतेति । दश पाद्या अङ्गुलयश्चत्वार्यूर्वष्ठीवानि द्वे प्रतिष्ठे
यदवाङ्नाभेस्तत्सप्तदशं तेनैव तदस्तुवत ग्राम्याः पशवोऽसृज्यन्तेति ग्राम्याः
पशवोऽत्रासृज्यन्त बृहस्पतिरधिपतिरासीदिति बृहस्पतिरत्राधिपतिरासीत् ॥ ८.४.३.[११] ॥
नवदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयो नव प्राणास्तैरेव तदस्तुवत
शूद्रार्यावसृज्येतामिति शूद्रार्यावत्रासृज्येतामहोरात्रे अधिपत्नी आस्तामित्यहोरात्रे
अत्राधिपत्नी आस्ताम् ॥ ८.४.३.[१२] ॥
एकविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तेनैव
तदस्तुवतैकशफाः पशवोऽसृज्यन्तेत्येकशफाः पशवोऽत्रासृज्यन्त वरुणो
ऽधिपतिरासीदिति वरुणोऽत्राधिपतिरासीत् ॥ ८.४.३.[१३] ॥
त्रयोविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा
त्रयोविंशस्तेनैव तदस्तुवत क्षुद्राः पशवोऽसृज्यन्तेति क्षुद्राः पशवो
ऽत्रासृज्यन्त पूषाधिपतिरासीदिति पूषाधिपतिरासीत् ॥ ८.४.३.[१४] ॥
पञ्चविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गान्यात्मा
पश्चविंशस्तेनैव तदस्तुवतारण्याः पशवोऽसृज्यन्तेत्यारण्याः पशवोऽत्रासृज्यन्त
वायुरधिपतिरासीदिति वायुरत्राधिपतिरासीत् ॥ ८.४.३.[१५] ॥
सप्तविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे
आत्मा सप्तविंशस्तेनैव तदस्तुवत द्यावापृथिवी व्यैतामिति द्यावापृथिवी अत्र व्यैतां
वसवो रुद्रा आदित्या अनुव्यायन्निति वसवो रुद्रा आदित्या अत्रानुव्यायंस्त एवाधिपतय
आसन्निति त उ एवात्राधिपतय आसन् ॥ ८.४.३.[१६] ॥
नवविंशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणास्तैरेव
तदस्तुवत वनस्पतयोऽसृज्यन्तेति वनस्पतयोऽत्रासृज्यन्त सोमोऽधिपतिरासीदिति
सोमोऽत्राधिपतिरासीत् ॥ ८.४.३.[१७] ॥
एकत्रिंशतास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा
आत्मैकत्रिंशस्तेनैव तदस्तुवत प्रजा असृज्यन्तेति प्रजा अत्रासृज्यन्त
यवाश्चायवाश्चाधिपतय आसन्निति पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् ॥ ८.४.३.[१८] ॥
त्रयस्त्रिंशतास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे
आत्मा त्रयस्त्रिंशस्तेनैव तदस्तुवत भूतान्यशाम्यन्निति सर्वाणि
भूतान्यत्राशाम्यन्प्रजापतिः परमेष्ठ्यधिपतिरासीदिति प्रजापतिः
परमेष्ठ्यत्राधिपतिरासीत् ॥ ८.४.३.[१९] ॥
ता वा एताः । सप्तदशेष्टका उपदधाति सप्तदशो वै संवत्सरः प्रजापतिः स
प्रजनयिता तदेतेन वै सप्तदशेन संवत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः
प्राजनयद्यत्प्राजनयदसृजत तद्यदसृजत तस्मात्सृष्टयस्ताः
सृष्ट्वात्मन्प्रापादयत तथैवैतद्यजमान एतेन सप्तदशेन संवत्सरेण
प्रजापतिना प्रजनयित्रैताः प्रजाः प्रजनयति ताः सृष्ट्वात्मन्प्रपादयते
रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः
प्रजाः प्रपादयति सर्वत उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति ॥ ८.४.३.[२०] ॥
अथातोऽन्वावृतम् । त्रिवृद्वतीं पुरस्तादुपदधात्येकविंशवतीम्
पश्चात्पञ्चदशवतीं दक्षिणतः सप्तदशवतीमुत्तरतः ॥ ८.४.४.[१] ॥
एतद्वै प्रजापतिम् । त्रिवृद्वत्यामुपहितायां पञ्चदशवत्याम्
मृत्युरसीददिमामत उपधास्यते तमत्र ग्रहीष्यामीति तं प्रापश्यत्तम्
प्रख्याय परिक्रम्यैकविंशवतीमुपाधत्तैकविंशवतीम्
मृत्युरागच्छत्पञ्चदशवतीमुपाधत्त पञ्चदशवतीम्
मृत्युरागच्छत्सप्तदशवतीमुपाधत्त सोऽत्रैव मृत्युं
न्यकरोदत्रामोहयत्तथैवैतद्यजमानोऽत्रैव सर्वान्पाप्मनो निकरोत्यत्र
मोहयति ॥ ८.४.४.[२] ॥
अथोत्तराः । त्रिवृद्वत्यामेव त्रिवृद्वतीमनूपदधात्येकविंशवत्यामेकविंशवतीम्
पञ्चदशवत्यां सप्तदशवतीं सप्तदशवत्यां पञ्चदशवतीं ता यदेवं
व्यतिहारमुपदधाति तस्मादक्ष्णयास्तोमीया अथो यदेते स्तोमा अतोऽन्यथानुपूर्वं
तस्माद्वेवाक्ष्णयास्तोमीया अथो एवं देवा उपादधतेतरथासुरास्ततो देवा
अभवन्परासुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ८.४.४.[३] ॥
स एष पशुर्यदग्निः । सोऽत्रैव सर्वः कृत्स्नः संस्कृतस्तस्य त्रिवृद्वत्यावेव शिरस्ते
यत्त्रिवृद्वत्यौ भवतस्त्रिवृद्धि शिरो द्वे भवतो द्विकपालं हि शिरः पूर्वार्ध
उपदधाति पुरस्ताद्धीदं शिरः ॥ ८.४.४.[४] ॥
प्रतिष्ठैकविंशवत्यौ । ते यदेकविंशवत्यौ भवतः प्रतिष्ठा ह्येकविंशो द्वे
भवतो द्वन्द्वं हि प्रतिष्ठा पश्चादुपदधाति पश्चाद्धीयं प्रतिष्ठा ॥ ८.४.४.[५] ॥
बाहू पञ्चदशवत्यौ । ते यत्पञ्चदशवत्यौ भवतः पञ्चदशौ हि बाहू द्वे
भवतो द्वौ हीमौ बाहू पार्श्वत उपदधाति पार्श्वतो हीमौ बाहू ॥ ८.४.४.[६] ॥
अन्नं सप्तदशवत्यौ । ते यत्सप्तदशवत्यौ भवतः सप्तदशं ह्यन्नं द्वे
भवतो द्व्यक्षरं ह्यन्नं ते अनन्तर्हिते
पञ्चदशवतीभ्यामुपदधात्यनन्तर्हितं तद्बाहुभ्यामन्नं दधाति बाह्ये
पञ्चदशवत्यौ भवतोऽन्तरे सप्तदशवत्यौ बाहुभ्यां तदुभयतोऽन्नम्
परिगृह्णाति ॥ ८.४.४.[७] ॥
अथ या मध्य उपदधाति । स आत्मा ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै
रेतःसिचौ मध्यमु पृष्टयो मध्यतो ह्ययमात्मा सर्वत उपदधाति सर्वतो
ह्ययमात्माथ यदतोऽन्यदतिरिक्तं तद्यद्वै देवानामतिरिक्तं छन्दांसि तानि
तद्यानि तानि छन्दांसि पशवस्ते तद्ये ते पशवः पुण्यास्ता लक्ष्म्यस्तद्यास्ताः पुण्या
लक्ष्म्योऽसौ स आदित्यः स आसामेष दक्षिणतः ॥ ८.४.४.[८] ॥
ता हैकेऽनन्तर्हितास्त्रिवृद्वतीभ्यामुपदधति । जिह्वाहनू इति वदन्तो याश्चतुर्दश
ते हनू याः षट्सा जिह्वेति न तथा कुर्यादति ते रेचयन्ति यथा पूर्वयोर्हन्वोरपरे
हनू अनूपदध्याद्यथा पूर्वस्यां जिह्वायामपरां
जिह्वामनूपदध्यात्तादृक्तद्यत्राहैव शिरस्तदेव हनू तज्जिह्वा ॥ ८.४.४.[९] ॥
अस्मिन्नु हैकेऽवान्तरदेश उपदधति । असौ वा आदित्य एता अमुं तदादित्यमेतस्यां
दिशि दध्म इति न तथा कुर्यादन्यानि वाव तानि कर्माणि यैरेतमत्र दधाति ॥ ८.४.४.[१०] ॥
दक्षिणत उ हैक उपदधति । तदेताः पुण्या लक्ष्मीर्दक्षिणतो दध्मह इति
तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षत उत्तरत
स्त्रिया उत्तरतआयतना हि स्त्री तत्तत्कृतमेव पुरस्तात्त्वेवैना उपदध्याद्यत्राहैव
शिरस्तदेव हनू तज्जिह्वाथैताः पुण्या लक्ष्मीर्मुखतो धत्ते तस्माद्यस्य मुखे
लक्ष्म भवति तं पुण्यलक्ष्मीक इत्याचक्षते ॥ ८.४.४.[११] ॥
सैषा ब्रह्मचितिः । यद्ब्रह्मोपादधत तस्माद्ब्रह्मचितिः सा
प्रजापतिचितिर्यत्प्रजापतिमुपादधत तस्मात्प्रजापतिचितिः स
ऽर्षिचितिर्यदृषीनुपादधत तस्मादृषिचितिः सा वायुचितिर्यद्वायुमुपादधत
तस्माद्वायुचितिः सा स्तोमचितिर्यत्स्तोमानुपादधत तस्मात्स्तोमचितिः सा
प्राणचितिर्यत्प्राणानुपादधत तस्मात्प्राणचितिरतो यतमदेव कतमच्च विद्यात्तेन
हैवास्यैषार्षेयवती बन्धुमती चितिर्भवत्यथ लोकम्पृणे उपदधात्यस्यां
स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः ॥ ८.४.४.[१२] ॥
पञ्चमीं चितिमुपदधाति । एतद्वै देवाश्चतुर्थीं चितिं चित्वा
समारोहन्यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तदेव तत्संस्कृत्य समारोहन् ॥ ८.५.१.[१] ॥
तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते
चेतयमाना दिवमेव विराजं पञ्चमीं चितिमपश्यंस्तेभ्य एष लोकोऽच्छन्दयत् ॥ ८.५.१.[२] ॥
तेऽकामयन्त । असपत्नमिमं लोकमनुपबाधं कुर्वीमहीति तेऽब्रुवन्नुप
तज्जानीत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमं
लोकमसपत्नमनुपबाधं करवामहा इति ॥ ८.५.१.[३] ॥
ते चेतयमानाः । एता इष्टका अपश्यन्नसपत्नास्ता उपादधत ताभिरेतं
लोकमसपत्नमनुपबाधमकुर्वत तद्यदेताभिरिमं
लोकमसपत्नमनुपबाधमकुर्वत तस्मादेता असपत्नास्तथेवैतद्यजमानो
यदेता उपदधातमेवैतल्लोकमसपत्नमनुपबाधं कुरुते सर्वत उपदधाति
सर्वत एवैतदेतं लोकमसपत्नमनुपबाधं कुरुते परार्ध उपदधाति
सर्वमेवैतदेतं लोकमसपत्नमनुपवाधं कुरुते ॥ ८.५.१.[४] ॥
अथ विराज उपदधाति । एषा वै सा विराड्यां तद्देवा विराजं पञ्चमीं
चितिमपश्यंस्ता दशदशोपदधाति दशाक्षरा विराड्विराडेषा चितिः सर्वत
उपदधाति यो वा एकस्यां दिशि विराजति न वै स विराजति यो वाव सर्वासु दिक्षु विराजति
स एव विराजति ॥ ८.५.१.[५] ॥
यद्वेवैता असपत्ना उपदधाति । एतद्वै प्रजापतिमेतस्मिन्नात्मनः प्रतिहिते
सर्वतः पाप्मोपायतत स एता इष्टका अपश्यदसपत्नास्ता उपाधत्त ताभिस्तम्
पाप्मानमपाहत पाप्मा वै सपत्नस्तद्यदेताभिः पाप्मानं सपत्नमपाहत
तस्मादेता असपत्नाः ॥ ८.५.१.[६] ॥
तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं न्विमं स पाप्मा नोपयतते
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा यः
सपत्नस्तमेताभिरपहते तद्यदेताभिः पाप्मानं सपत्नमपहते तस्मादेता
असपत्नाः सर्वत उपदधाति सर्वत एवैतत्पाप्मानं सपत्नमपहते परार्ध
उपदधाति सर्वस्मादेवैतदात्मनः पाप्मानं सपत्नमपहते ॥ ८.५.१.[७] ॥
स पुरस्तादुपदधाति । अग्ने जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा
बन्धुरथ पश्चात्सहसा जातान्प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुः ॥ ८.५.१.[८] ॥
सा या पुरस्तादग्निः सा । या पश्चादग्निः साग्निनैव
तत्पुरस्तात्पाप्मानमपाहताग्निना
पश्चात्तथैवैतद्यजमानोऽग्निनैव पुरस्तात्पाप्मानमपहतेऽग्निना पश्चात् ॥ ८.५.१.[९] ॥
अथ दक्षिणतः । षोडशी स्तोम ओजो द्रविणमित्येकादशाक्षरा वै
त्रिष्टुप्त्रैष्टुभमन्तरिक्षं चतस्रो दिश एष एव वज्रः
पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्ता स एतेन पञ्चदशेन
वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपाहत तथैवैतद्यजमान एतेन
पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमपहते ॥ ८.५.१.[१०] ॥
अथोत्तरतः । चतुश्चत्वारिंश स्तोमो वर्चो द्रविणमिति चतुश्चत्वारिंशदक्षरा वै
त्रिष्टुप्त्रैष्टुभो वज्रः स एतेन चतुश्चत्वारिंशेन वज्रेणैतया त्रिष्टुभोत्तरतः
पाप्मानमपाहत तथैवैतद्यजमान एतेन चतुश्चत्वारिंशेन वज्रेणैतया
त्रिष्टुभोत्तरतः पाप्मानमपहते ॥ ८.५.१.[११] ॥
अथ मध्ये । अग्नेः पुरीषमसीति ब्रह्म वै चतुर्थी चितिरग्निरु वै ब्रह्म तस्या
एतत्पुरीषमिव यत्पञ्चम्यप्सो नामेति तस्योक्तो बन्धुः ॥ ८.५.१.[१२] ॥
तां प्राचीं तिरश्चीमुपदधाति । एतद्धैतया प्रजापतिः पाप्मनो
मूलमवृश्चत्तथैवैनयायमेतत्पाप्मनो मूलं वृश्चति दक्षिणतो
दक्षिणतौद्यामो हि वज्रोऽन्तरेण दक्षिणां दिश्यामुद्यामाय ह तमवकाशं
करोति ॥ ८.५.१.[१३] ॥
सा या पुरस्तात्प्राणः सा । या पश्चादपानः सा प्राणेनैव
तत्पुरस्तात्पाप्मानमपाहतापानेन पश्चात्तथैवैतद्यजमानः प्राणेनैव
पुरस्तात्पाप्मानमपहतेऽपानेन पश्चात् ॥ ८.५.१.[१४] ॥
अथ ये अभितः । तौ बाहू स योऽस्याभितः पाप्मासीद्बाहुभ्यां तमपाहत
तथैवैतद्यजमानो योऽस्याभितः पाप्मा भवति बाहुभ्यामेव तमपहते ॥ ८.५.१.[१५] ॥
अन्नं पुरीषवती । स योऽस्योपरिष्ठात्पाप्मासीदन्नेन तमपाहात
तथैवैतद्यजमानो योऽस्योपरिष्टात्पाप्मा भवत्यन्नेनैव तमपहते ॥ ८.५.१.[१६] ॥
स यद्ध वा एवंवित्प्राणिति । योऽस्य पुरस्तात्पाप्मा भवति तं तेनापहतेऽथ
यदपानिति तेन तं यः पश्चादथ यद्बाहुभ्यां कर्म कुरुते तेन तं योऽभितो
ऽथ यदन्नमत्ति तेन तं य उपरिष्टात्सर्वदा ह वा एवंवित्पाप्मानमपहतेऽपि
स्वपंस्तस्मादेवं विदुषः पापं न कीर्तयेन्नेदस्य पाप्मासानीति ॥ ८.५.१.[१७] ॥
अथ च्छन्दस्या उपदधाति । एतद्वै प्रजापतिः पाप्मनो
मृत्योर्मुक्त्वान्नमैच्छत्तस्मादु हैतदुपतापी वसीयान्भूत्वान्नमिच्छति
तस्मिन्नाशंसन्तेऽन्नमिच्छति जीविष्यतीति तस्मै देवा एतदन्नम्
प्रायच्छन्नेताश्छन्दस्याः पशवो वै छन्दांस्यन्नं पशवस्तान्यस्मा अच्छदयंस्तानि
यदस्मा अच्छदयंस्तस्माच्चन्दांसि ॥ ८.५.२.[१] ॥
ता दशदशोपदधाति । दशाक्षरा विराड्विराडु कृत्स्नमन्नं
सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत उपदधाति सर्वत
एवास्मिन्नेतत्कृत्स्नमन्नं दधाति ॥ ८.५.२.[२] ॥
एवश्छन्द इति । अयं वै लोक एवश्छन्दो वरिवश्छन्द इत्यन्तरिक्षं वै वरिवश्छन्दः
शम्भूश्छन्द इति द्यौर्वै शम्भूश्छन्दः परिभूश्छन्द इति दिशो वै परिभूश्छन्द
आच्छच्छन्द इत्यन्नं वा आच्छच्छन्दो मनश्छन्द इति प्रजापतिर्वै मनश्छन्दो
व्यचश्छन्द इत्यसौ वा आदित्यो व्यचश्छन्दः ॥ ८.५.२.[३] ॥
सिन्धुश्छन्द इति । प्राणो वै सिन्धुश्छन्दः समुद्रश्छन्द इति मनो वै
समुद्रश्छन्दः सरिरं च्छन्द इति वाग्वै सरिरं छन्दः ककुप्छन्द इति प्राणो वै
ककुप्छन्दस्त्रिककुप्छन्द इत्युदानो वै त्रिककुप्चन्दः काव्यं च्छन्द इति त्रयी वै
विद्या काव्यं च्छन्दोऽङ्कुपं च्छन्द इत्यापो वा अङ्कुपं च्छन्दोऽक्षरपङ्क्तिश्छन्द
इत्यसौ वै लोकोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्द इत्ययं वै लोकः
पदपङ्क्तिश्छन्दो विष्टारपङ्क्तिश्छन्द इति दिशो वै विष्टारपङ्क्तिश्छन्दः क्षुरो
भ्रजश्छन्द इत्यसौ वा आदित्यः क्षुरो भ्रजश्छन्द आच्छच्छन्दः प्रच्छच्छन्द
इत्यन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्दः ॥ ८.५.२.[४] ॥
संयच्चन्द इति । रात्रिर्वै संयच्चन्दो वियच्चन्द इत्यहर्वै वियच्चन्दो बृहच्चन्द
इत्यसौ वै लोको बृहच्चन्दो रथन्तरं च्छन्द इत्ययं वै लोको रथन्तरं च्छन्दो
निकायश्छन्द इति वायुर्वै निकायश्छन्दो विवधश्छन्द इत्यन्तरिक्षं वै
विवधश्छन्दो गिरश्छन्द इत्यन्नं वै गिरश्छन्दो भ्रजश्छन्द इत्यग्निर्वै
भ्रजश्छन्दः संस्तुप्छन्दोऽनुष्टुप्छन्द इति वागेव संस्तुप्छन्दो
वागनुष्टुप्छन्द एवस्=च्छन्दो वरिवश्छन्द इति तस्योक्तो बन्धुः ॥ ८.५.२.[५] ॥
वयश्छन्द इति । अन्नं वै वयश्छन्दो वयस्कृच्चन्द इत्यग्निर्वै वयस्कृच्चन्दो
विष्पर्धाश्छन्द इत्यसौ वै लोको विष्पर्धाश्छन्दो विशालं च्छन्द इत्ययं वै लोको
विशालं च्छन्दश्चदिश्छन्द इत्यन्तरिक्षं वै छदिश्छन्दो दूरोहणं च्छन्द इत्यसौ वा
आदित्यो दूरोहणं च्छन्दस्तन्द्रं च्छन्द इति पङ्क्तिर्वै तन्द्रं च्छन्दोऽङ्काङ्कं च्छन्द
इत्यापो वा अङ्काङ्कं छन्दः ॥ ८.५.२.[६] ॥
तद्याः पुरस्तादुपदधाति । प्राणस्तासां प्रथमा व्यानो
द्वितीयोदानस्तृतीयोदानश्चतुर्थी व्यानः पञ्चमी प्राणः षष्ठी प्राणः सप्तमी
व्यानोऽष्टम्युदानो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां
विराज्यध्यूढः प्रतिष्ठितः प्राणमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादिमे
प्राणा अर्वाञ्चश्च पराञ्चश्च ॥ ८.५.२.[७] ॥
अथ या दक्षिणतो ।ऽग्निस्तासां प्रथमा वायुर्द्वितीयादित्यस्तृतीयादित्यश्चतुर्थी वायुः
पञ्चम्यग्निः षष्ठ्यग्निः सप्तमी वायुरष्टम्यादित्यो नवमी यजमान एवात्र
दशमी स एष यजमान एतस्यां विराज्यधूढः प्रतिष्ठितो देवतामय्यामर्वाचीश्च
पराचीश्चोपदधाति तस्मादेते देवा अर्वाञ्चश्च पराञ्चश्च ॥ ८.५.२.[८] ॥
अथ याः पश्चात् । अयं लोकस्तासां प्रथमान्तरिक्षं द्वितीया द्यौस्तृतीया
द्यौश्चतुर्थ्यन्तरिक्षं पञ्चम्ययं लोकः षष्ठ्ययं लोकः
सप्तम्यन्तरिक्षमष्टमी द्यौर्नवमी यजमान एवात्र दशमी स एष यजमान
एतस्यां विराज्यध्यूढः प्रतिष्ठितो लोकमय्यामर्वाचीश्च पराचीश्चोपदधाति
तस्मादिमे लोका अर्वाञ्चश्च पराञ्चश्च ॥ ८.५.२.[९] ॥
अथ या उत्तरतः । ग्रीष्मस्तासां प्रथमा वर्षा द्वितीया हेमन्तस्तृतीया
हेमन्तश्चतुर्थी वर्षाः पञ्चमी ग्रीष्मः षष्ठी ग्रीष्मः सप्तमी वर्षा
अष्टमी हेमन्तो नवमी यजमान एवात्र दशमी स एष यजमान एतस्यां
विराज्यध्यूढः प्रतिष्ठित ऋतुमय्यामर्वाचीश्च पराचीश्चोपदधाति तस्मादेत ऋतवो
ऽर्वाञ्चश्च पराञ्चश्च ॥ ८.५.२.[१०] ॥
अथ पुनरेव । याः पुरस्तादुपदधाति प्राणास्ते ता दश भवन्ति दश वै प्राणाः
पूर्वार्ध उपदधाति पुरस्ताद्धीमे प्राणाः ॥ ८.५.२.[११] ॥
अथ या दक्षिणतः । एतास्ता देवता अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च
द्यौश्च चन्द्रमाश्च नक्षत्राणि चान्नं चापश्च ॥ ८.५.२.[१२] ॥
अथ याः पश्चात् । दिशस्ताश्चतस्रो दिशश्चतस्रोऽवान्तरदिश ऊर्ध्वा चेयं च ॥ ८.५.२.[१३] ॥
अथ या उत्तरतः । मासास्ते वासन्तिकौ द्वौ ग्रैष्मौ द्वौ वार्षिकौ द्वौ शारदौ
द्वौ हैमन्तिकौ द्वौ ॥ ८.५.२.[१४] ॥
अथ पुनरेव । या प्रथमा दशदयं स लोको या द्वितीयान्तरिक्षं तद्या तृतीया
द्यौः सेममेव लोकं प्रथमया दशतारोहन्नन्तरिक्षं द्वितीयया दिवं
तृतीयया तथैवैतद्यजमान इममेव लोकं प्रथमया दशता रोहत्यन्तरिक्षं
द्वितीयया दिवं तृतीयया ॥ ८.५.२.[१५] ॥
स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते देवा इमाम्
प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैत्यथ
योत्तमा दशदयं स लोकस्तस्माद्यथैव प्रथमायै दशतः
प्रभृतिरेवमुत्तमायै समानं ह्येतद्यदेते दशतावयमेव लोकः ॥ ८.५.२.[१६] ॥
ता वा एताः । चत्वारिंशदिष्टकाश्चत्वारिंशद्यजूंषि
तदशीतिरन्नमशीतिस्तद्यद्यदेतदाह तदस्मा अन्नमशीतिं कृत्वा प्रयच्छति
तेनैनं प्रीणाति ॥ ८.५.२.[१७] ॥
अथ स्तोमभागा उपदधाति । एतद्वै प्रजापतेरेतदन्नमिन्द्रोऽभ्यध्यायत्सो
ऽस्मादुदचिक्रमिषत्तमब्रवीत्कथोत्क्रामसि कथा मा जहासीति स वै मेऽस्यान्नस्य
रसं प्रयच्छेति तेन वै मा सह प्रपद्यस्वेति तथेति तस्मा एतस्यान्नस्य रसम्
प्रायच्छत्तेनैनं सह प्रापद्यत ॥ ८.५.३.[१] ॥
स यः स प्रजापतिः । अयमेव स योऽयमग्निश्चीयतेऽथ यत्तदन्नमेतास्ताश्छन्दस्या
अथ यः सोऽन्नस्य रस एतास्ता स्तोमभागा अथ यः स इन्द्रोऽसौ स आदित्यः स एष
एव स्तोमो यद्धि किं च स्तुवत एतमेव तेन स्तुवन्ति तस्मा एतस्मै स्तोमायैतम्
भागं प्रायच्छत्तद्यदेतस्मै स्तोमायैतं भागं प्रायच्छत्तस्मात्स्तोमभागाः ॥ ८.५.३.[२] ॥
रश्मिना सत्याय सत्यं जिन्वेति । एष वै रश्मिरन्नं रश्मिरेतं च तद्रसं च
संधायात्मन्प्रपादयते प्रेतिना धर्मणा धर्मं जिन्वेत्येष वै प्रेतिरन्नम्
प्रेतिरेतं च तद्रसं च संधायात्मन्प्रपादयतेऽन्वित्या दिवा दिवं जिन्वेत्येष वा
अन्वितिरन्नमन्वितिरेतं च तद्रसं च संधायात्मन्प्रपादयते तद्यद्यदेतदाह
तच्च तद्रसं च संधायात्मन्प्रपादयतेऽमुनादो जिन्वादोऽस्यमुष्मै
त्वाधिपतिनोर्जोर्जं जिन्वेति त्रेधाविहितास्त्रेधाविहितं ह्यन्नम् ॥ ८.५.३.[३] ॥
यद्वेव स्तोमभागा उपदधाति । एतद्वै देवा विराजं चितिं चित्वा समारोहंस्ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना नाकमेव
स्वर्गं लोकमपश्यंस्तमुपादधत स यः स नाकः स्वर्गो लोक एतास्ता
स्तोमभागास्तद्यदेता उपदधाति नाकमेवैतत्स्वर्गं लोकमुपधत्ते ॥ ८.५.३.[४] ॥
तद्यास्तिस्रः प्रथमाः । अयं स लोको या द्वितीया अन्तरिक्षं तद्यास्तृतीया द्यौः सा
याश्चतुर्थ्यः प्राची सा दिग्याः पञ्चम्यो दक्षिणा सा याः षष्ठ्यः प्रतीची सा याः
सप्तम्य उदीची सा ॥ ८.५.३.[५] ॥
ता वा एताः । एकविंशतिरिष्टका इमे च लोका दिशश्चेमे च वै लोका दिशश्च प्रतिष्ठेमे
च लोका दिशश्चैकविंशस्तस्मादाहुः प्रतिष्ठैकविंश इति ॥ ८.५.३.[६] ॥
अथ या अष्टाविष्टका अतियन्ति । साष्टाक्षरा गायत्री ब्रह्म गायत्री
तद्यत्तद्ब्रह्मैतत्तद्यदेतन्मण्डलं तपति तदेतस्मिन्नेकविंशे प्रतिष्ठायाम्
प्रतिष्ठितं तपति तस्मान्नावपद्यते ॥ ८.५.३.[७] ॥
तद्धैके । वेषश्रीः क्षत्राय क्षत्रं जिन्वेति त्रिंशत्तमीमुपदधति
त्रिंशदक्षरा विराड्विराडेषा चितिरिति न तथा कुर्यादति ते
रेचयन्त्येकविंशसम्पदमथो गायत्रीसम्पदमथो इन्द्रलोको हैष यैषान्यूना
विराडिन्द्राय ह त इन्द्रलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं
कुर्वन्तीन्द्रमिन्द्रलोकान्नुदन्ते यजमानो वै स्वे यज्ञ इन्द्रो यजमानाय ह ते
यजमानलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्ति यजमानं
यजमानलोकान्नुदन्ते यं वा एतमग्निमाहरन्त्येष एव यजमान आयतनेनैष उ
एवात्र त्रिंशत्तमी ॥ ८.५.३.[८] ॥
ता अषाढायै वेलयोपदधाति । वाग्वा अषाढा रस एष वाचि तद्रसं दधाति
तस्मात्सर्वेषामङ्गानां वाचैवान्नस्य रसं विजानाति ॥ ८.५.४.[१] ॥
यद्वेवाषाढायै । इयं वा अषाढासावादित्य स्तोमभागा अमुं तदादित्यमस्याम्
प्रतिष्ठायां प्रतिष्ठापयति ॥ ८.५.४.[२] ॥
यद्वेवाषाढायै । इयं वा अषाढा हृदयं स्तोमभागा अस्यां तद्धृदयं मनो
दधाति तस्मादस्यां हृदयेन मनसा चेतयते सर्वत उपदधाति
सर्वतस्तद्धृदयं मनो दधाति तस्मादस्यां सर्वतो हृदयेन मनसा चेतयते
ऽथो पुण्या हैता लक्ष्म्यस्ता एतत्सर्वतो धत्ते तस्माद्यस्य सर्वतो लक्ष्म भवति
तं पुण्यलक्ष्मीक इत्याचक्षते ॥ ८.५.४.[३] ॥
अथैनाः पुरीषेण प्रच्छादयति । अन्नं वै पुरीषं रस एष तमेतत्तिरः करोति
तस्मात्तिर इवान्नस्य रसः ॥ ८.५.४.[४] ॥
यद्वेव पुरीषेण । अन्नं वै पुरीषं रस एषोऽन्नं च तद्रसं च संतनोति
संदधाति ॥ ८.५.४.[५] ॥
यद्वेव पुरीषेण । हृदयं वै स्तोमभागाः पुरीतत्पुरीषं हृदयं तत्पुरीतता
प्रच्छादयति ॥ ८.५.४.[६] ॥
यद्वेव पुरीषेण । संवत्सर एषोऽग्निस्तमेतच्चितिपुरीषैर्व्यावर्तयति
तद्याश्चतस्रः प्रथमाश्चितयस्ते चत्वार ऋतवोऽथ स्तोमभागा उपधाय पुरीषं
निवपति सा पञ्चमी चितिः स पञ्चम ऋतुः ॥ ८.५.४.[७] ॥
तदाहुः । यल्लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकम्पृणामुपदधाति कात्र
लोकम्पृणेत्यसौ वा आदित्यो लोकम्पृणैष उ एषा चितिः सैषा स्वयं लोकम्पृणा चितिरथ
यदत ऊर्ध्वमा पुरीषात्सा षष्ठी चितिः स षष्ठ ऋतुः ॥ ८.५.४.[८] ॥
अथ पुरीषं निवपति । तत्र विकर्णीं चोपदधाति हिरण्यशकलैः
प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिः स सप्तम ऋतुः ॥ ८.५.४.[९] ॥
ता उ वै षडेव । यद्धि विकर्णी च स्वयमातृणा च षष्ठ्या एव तच्चितेः ॥ ८.५.४.[१०] ॥
ता उ वै पञ्चैव । यजुषान्यासु पुरीषं निवपति तूष्णीमत्र तेनैषा न चितिरथो
लोकम्पृणान्ता अन्याश्चितयो भवन्ति नात्र लोकन्पृणामुपधाति तेनो एवैषा न चितिः ॥ ८.५.४.[११] ॥
ता उ वै तिस्र एव । अयमेव लोकः प्रथमा चितिर्द्यौरुत्तमाथ या
एतास्तिस्रस्तदन्तरिक्षं तद्वा इदमेकमिवैवान्तरिक्षं ता एवं तिस्र एवं पञ्चैवं
षडेवं सप्त ॥ ८.५.४.[१२] ॥
नाकसद उपदधाति । देवा वै नाकसदोऽत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र
नाकः स्वर्गो लोकस्तस्मिन्देवा असीदंस्तद्यदेतस्मिन्नाके स्वर्गे लोके देवा
असीदंस्तस्माद्देवा नाकसदस्तथैवैतद्यजमानो यदेता
उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति ॥ ८.६.१.[१] ॥
यद्वेव नाकसद उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता
स्तोमभागास्तेऽब्रुवन्नुप तज्जानीत यथास्मिन्नाके स्वर्गे लोके सीदामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्नाके स्वर्गे
लोके सीदामेति ॥ ८.६.१.[२] ॥
ते चेतयमानाः । एता इष्टका अपश्यन्नाकसदस्ता उपादधत ताभिरेतस्मिन्नाके स्वर्गे
लोकेऽसीदंस्तद्यदेताभिरेतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तस्मादेता
नाकसदस्तथैवैकद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके
सीदति ॥ ८.६.१.[३] ॥
दिक्षूपदधाति । दिशो वै स नाकः स्वर्गो लोकः स्वर्ग एवैना एतल्लोके
सादयत्यृतव्यानां वेलया संवत्सरो वा ऋतव्याः संवत्सरः स्वर्गो लोकः स्वर्ग एवैना
एतल्लोके सादयत्यन्तस्तोमभागमेष वै स नाकः स्वर्गो लोकस्तस्मिन्नेवैना
एतत्प्रतिष्ठापयति ॥ ८.६.१.[४] ॥
स पुरस्तादुपदधाति । राज्ञ्यति प्राची दिगिति राज्ञी ह नामैषा प्राची दिग्वसवस्ते
देवा अधिपतय इति वसवो हैतस्य दिशो देवा अधिपतयोऽग्निर्हेतीनाम्
प्रतिधर्तेत्यग्निर्हैवात्र हैतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयत्विति
त्रिवृता हैषा स्तोमेन पृथिव्यां श्रिताज्यमुक्थमव्यथायै स्तभ्नात्वित्याज्येन
हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष इति
रथन्तरेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा प्रथमजा देवेष्विति प्राणा
वा ऋषयः प्रथमजास्तद्धि ब्रह्म प्रथमजं दिवो मात्रया वरिम्णा प्रथन्त्विति
यावती द्यौस्तावतीं वरिम्णा प्रथन्त्वित्येतद्विधर्ता चायमधिपतिश्चेति वाक्च तौ
मनश्च तौ हीदं सर्वं विधारयतस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे
लोके यजमानं च सादयन्त्विति यथैव यजुस्तथा बन्धुः ॥ ८.६.१.[५] ॥
अथ दक्षिणतः । विराडसि दक्षिणा दिगिति विराड्ढ नामैषा दक्षिणा दिग्रुद्रास्ते
देवा अधिपतय इति रुद्रा हैतस्य दिशो देवा अधिपतय इन्द्रो हेतीनाम्
प्रतिधर्तेतीन्द्रो हैवात्र हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्यां
श्रयत्विति पञ्चदशेन हैषा स्तोमेन पृथिव्यां श्रिता प्रौगमुक्थमव्यथायै
स्तभ्नात्विति प्रौगेण हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा बृहत्साम
प्रतिष्ठित्या अन्तरिक्ष इति बृहता हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः ॥ ८.६.१.[६] ॥
अथ पश्चात् । सम्राडसि प्रतीची दिगिति सम्राड्ढ नामैषा प्रतीचि दिगादित्यास्ते देवा
अधिपतय इत्यादित्या हैतस्यै दिशो देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तेति
वरुणो हैवात्र हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयत्विति
सप्तदशेन हैषा स्तोमेन पृथिव्यां श्रिता मरुत्वतीयमुक्थमव्यथायै
स्तभ्नात्विति मरुत्वतीयेन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वैरूपं साम
प्रतिष्ठित्या अन्तरिक्ष इति वैरूपेण हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः ॥ ८.६.१.[७] ॥
अथोत्तरतः स्वराडस्युदीची दिगिति स्वराड्ढ नामैषोदीची दिङ्मरुतस्ते देवा
अधिपतय इति मरुतो हैतस्यै दिशो देवा अधिपतयः सोमो हेतीनां प्रतिधर्तेति
सोमो हैवात्र हेतीनां प्रतिधर्तैकविंशस्त्वा स्तोमः पृथिव्यां
श्रयत्वित्येकविंशेन हैषा स्तोमेन पृथिव्यां श्रिता निष्केवल्यमुक्थमव्यथायै
स्तभ्नात्विति निष्केवल्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा वै राजं साम
प्रतिष्ठित्या अन्तरिक्ष इति वैराजेन हैषा साम्ना प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः ॥ ८.६.१.[८] ॥
अथ मध्ये । अधिपत्न्यसि बृहती दिगित्यधिपत्नी ह नामैषा बृहती दिग्विश्वे ते
देवा अधिपतय इति विश्वे हैतस्यै दिशो देवा अधिपतयो बृहस्पतिर्हेतीना
प्रतिधर्तेति बृहस्पतिर्हैवात्र हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ
पृथिव्यां श्रयतामिति त्रिणवत्रयस्त्रिंशाभ्यां हैषा स्तोमाभ्यां पृथिव्यां श्रिता
वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीतामिति वैश्वदेवाग्निमारुताभ्यां
हैषोक्थाभ्यामव्यथायै पृथिव्यां स्तब्धा शाक्वररैवते सामनी प्रतिष्ठित्या
अन्तरिक्ष इति शाक्वररैवताभ्यां हैषा सामभ्यां प्रतिष्ठितान्तरिक्ष ऋषयस्त्वा
प्रथमजा देवेष्विति तस्योक्तो बन्धुः ॥ ८.६.१.[९] ॥
एतावान्वै सर्वो यज्ञः । यज्ञ उ देवानामात्मा यज्ञमेव तद्देवा आत्मानं
कृत्वैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानो यज्ञमेवात्मानं
कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति ॥ ८.६.१.[१०] ॥
अथ पञ्चचूडा उपदधाति । यज्ञो वै नाकसदो यज्ञ उ एव पञ्चचूडास्तद्य इमे
चत्वार ऋत्विजो गृहपतिपञ्चमास्ते नाकसदो होत्राः पञ्चचूडा अतिरिक्तं वै
तद्यद्धोत्रा यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्ता तस्मात्पञ्चचूडाः ॥ ८.६.१.[११] ॥
यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदो मिथुनं पञ्चचूडा
अर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः
कृत्स्नतायै ॥ ८.६.१.[१२] ॥
यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदः प्रजा पञ्चचूडा अतिरिक्तं
वै तदात्मनो यत्प्रजा यदु वा अतिरिक्तं चूडः स
तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः ॥ ८.६.१.[१३] ॥
यद्वेव नाकसत्पञ्चचूडा उपदधाति । दिशो वै नाकसदो दिश उ एव पञ्चचूडास्तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदो याः पराच्यस्ताः पञ्चचूडा अतिरिक्ता वै ता दिशो या अमुष्मादादित्यात्पराच्यो यदु वा अतिरिक्तं चूडः स तद्यत्पञ्चातिरिक्तास्तस्मात्पञ्चचूडाः ॥ ८.६.१.[१४] ॥
यद्वेव पञ्चचूडा उपदधाति । एतद्वै देवा अबिभयुर्यद्वै न इमाँल्लोकानुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति त एतानेषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत – य एते हेतयश्च प्रहेतयश्च। तथैवैतद्यजमान एतानेषां लोकानामुपरिष्टाद्गोप्तॄन्कुरुते य एते हेतयश्च प्रहेतयश्च। ॥ ८.६.१.[१५] ॥
स पुरस्तादुपदधाति । अयं पुरो हरिकेश इत्यग्निर्वै पुरस्तद्यत्तमाह पुर इति प्राञ्चं ह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्धरिकेश इत्याह हरिरिव ह्यग्निः सूर्यरश्मिरिति सूर्यस्येव ह्यग्ने रश्मयस्तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्याविति वासन्तिकौ तावृतू पुञ्जिकस्थला च क्रतुस्थला चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिः सेना च तु ते समितिश्च दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यद्वै सेनायां च समितौ चऽर्तीयन्ते दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिरिति यदन्योऽन्यं घ्नन्ति स पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति तेनो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत
स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि ॥ ८.६.१.[१६] ॥
अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मेत्ययं वै वायुर्विश्वकर्मा योऽयम्
पवत एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव
भूयिष्ठं वाति तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्याविति ग्रैष्मौ
तावृतू मेनका च सहजन्या चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिरिमे तु
ते द्यावापृथिवी यातुधाना हेती रक्षांसि प्रहेतिरिति यातुधाना हैवात्र हेती रक्षांसि
प्रहेतिस्तेभ्यो नमो अस्त्विति तस्योक्तो बन्धुः ॥ ८.६.१.[१७] ॥
अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष
उदेत्यथेदं सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतम्
प्रत्यञ्चमेव यन्तं पश्यन्ति तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्याविति
वार्षिकौ तावृतू प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह
माहित्थिरहोरात्रे तु ते ते हि प्र च म्लोचतोऽनु च म्लोचतो व्याघ्रा हेतिः सर्पाः
प्रहेतिरिति व्याघ्रा हैवात्र हेतिः सर्पाः प्रहेतिस्तेभ्यो नमो अस्त्वितितस्योक्तो बन्धुः ॥ ८.६.१.[१८] ॥
अथोत्तरतः । अयमुत्तरात्संयद्वसुरिति यज्ञो वा
उत्तरात्तद्यत्तमाहोत्तरादित्युत्तरतौपचारो हि यज्ञोऽथ यत्संयद्वसुरित्याह
यज्ञं हि संयन्तीतीदं वस्विति तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्याविति
शारदौ तावृतूविश्वाची च घृताची चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह
माहित्थिर्वेदिश्च तु ते स्रुक्च वेदिरेव विश्वाची स्रुग्घृताच्यापो हेतिर्वातः
प्रहेतिरित्यापो हैवात्र हेतिर्वातः प्रहेतिरतो ह्येवोष्णो वात्यतः शीतस्तेभ्यो नमो
अस्त्विति तस्योक्तो बन्धुः ॥ ८.६.१.[१९] ॥
अथ मध्ये । अयमुपर्यर्वाग्वसुरिति पर्जन्यो वा उपरि तद्यत्तमाहोपरीत्युपरि हि
पर्जन्योऽथ यदर्वाग्वसुरित्याहातो ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते
तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्याविति हैमन्तिकौ तावृतू उर्वशी च
पूर्वचित्तिश्चाप्सरसाविति दिक्चोपदिशा चेति ह स्माह माहित्थिराहुतिश्च तु ते दक्षिणा
चावस्फूर्जन्हेतिर्विद्युत्प्रहेतिरित्यवस्फूर्जन्हैवात्र हेतिर्विद्युत्प्रहेतिस्तेभ्यो
नमो अस्त्विति तस्योक्तो बन्धुः ॥ ८.६.१.[२०] ॥
एते वै ते हेतयश्च प्रहेतयश्च । यांस्तद्देवा एषां
लोकानामुपरिष्टाद्गोप्तॄनकुर्वताथ यास्ताः प्रजा एते ते सेनानीग्रामण्योऽथ
यत्तन्मिथुनमेतास्ता अप्सरसः सर्व एव तद्देवाः कृत्स्ना भूत्वा सह प्रजया सह
मिथुनेनैतस्मिन्नाके स्वर्गे लोकेऽसीदंस्तथैवैतद्यजमानः सर्व एव कृत्स्नो
भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके सीदति ॥ ८.६.१.[२१] ॥
ता वा एताः । दशेष्टका उपदधाति दशाक्षरा विराड्विराडेषा चितिस्ता उ वै पञ्चैव
द्वेद्वे ह्युपदधाति ता हैता अग्नेराशिषस्ता उत्तमायां चिता उपदधात्यन्त एषो
ऽग्नेर्यदुत्तमा चितिरन्ततस्तदग्नेराशिषो निराह पञ्च भवन्ति पञ्च हि यज्ञ आशिषो
ऽथैने अन्तरा पुरीषं निवपत्यग्नी हैतौ यदेते इष्टके नेदिमावग्नी संशोचात
इत्यथो अन्नं वै पुरीषमन्नेनैवाभ्यामेतत्संज्ञां करोति ॥ ८.६.१.[२२] ॥
अथातोऽन्वावृतम् । पुरस्तादुपधाय दक्षिणतः पश्चादुत्तरतो मध्य
उपदधात्यथोत्तराः पुरस्तादेवाग्र उपधाय दक्षिणत उत्तरतो मध्ये
पश्चादुपदधात्यवस्तात्प्रपदनो ह स्वर्गो लोक एतद्वै देवा इमांलोकान्त्सर्वतः
समपिधायावस्तात्स्वर्गं लोकं प्रापद्यन्त तथैवैतद्यजमान
इमांलोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रपद्यते ॥ ८.६.१.[२३] ॥
च्छन्दस्या उपदधाति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र श्रियमैच्छन्नो हैषो
ऽतः पुरा तस्मा अलमास यच्रियमधारयिष्यत्तस्मादिदमप्येतर्ह्याहुर्न वा एषो
ऽलं श्रियै धारणाय राज्याय वा ग्रामणीथ्याय वेति तस्मै देवा एतां श्रियम्
प्रायच्छन्नेताश्छन्दस्याः पशवो छन्दांस्यन्नं पशवोऽन्नमु श्रीः ॥ ८.६.२.[१] ॥
त्रिचान्युपदधाति । त्रिवृद्वै पशुः पिता माता पुत्रोऽथो गर्भ उल्बं जरायुअथो
त्रिवृद्वा अन्नं कृषिर्वृष्टिर्वीजमेकैवातिच्छन्दा भवत्येका ह्येव सा सर्वाणि
छन्दांस्यति सा या सा श्रीर्महत्तदुक्थं तद्यत्तन्महदुक्थमेतास्ताश्छन्दस्याः ॥ ८.६.२.[२] ॥
तस्य शिरो गायत्र्यः । आत्मा त्रिष्टुभोऽनूकं जगत्यः पक्षौ पङ्क्तयोऽथैतासां
ककुभां चत्वारि चत्वार्यक्षराण्यादायातिच्छन्दस्युपदधाति सा सातिच्छन्दा एव भवति
गायत्र्य इतराः सम्पद्यन्ते सैव गायत्र्यशीतिर्या बृहत्यः सा बार्हती या उष्णिहः
सौष्णिह्यथ यद्वशो यदर्धर्चौ यदैन्द्राग्नं यदावपनं तदतिच्छन्दा अथ
यन्नदो यत्सूददोहा यत्पदनुषङ्गा यत्किंचात्रानुष्टुप्कर्मीणं तदनुष्टुभः ॥ ८.६.२.[३] ॥
प्रतिष्ठा द्विपदाः । एतावद्वै महदुक्थं महदुक्थं श्रीः सर्वामेवास्मा एतां
देवाः प्रायचंस्तथैवास्मा अयमेतां सर्वां श्रियं प्रयच्छति ॥ ८.६.२.[४] ॥
यद्वेव च्छन्दस्या उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्नेता
स्तोमभागास्तस्मिन्नविशंस्तेषां विशतां प्रजापतिरुत्तमोऽविशत्स यः स
प्रजापतिरेतास्ताश्छन्दस्याः ॥ ८.६.२.[५] ॥
तस्य शिरो गायत्र्यः । ता यद्गायत्र्यो भवन्ति गायत्रं हिशिरस्तिस्रो भवन्ति त्रिवृद्धि
शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः ॥ ८.६.२.[६] ॥
उरस्त्रिष्टुभः । ता रेतःसिचोर्वेलयोपदधाति पृष्टयो वै रेतःसिचा उरो वै प्रति
पृष्टयः ॥ ८.६.२.[७] ॥
श्रोणी जगत्यः । स यावति पुरस्तात्स्वयमातृणायै त्रिष्टुभ उपदधाति तावति
पश्चाज्जगतीर्यो वा अयं मध्ये प्राणस्तदेषा स्वयमातृणा यावत्यु वा
एतस्मात्प्राणात्पुरस्तादुरस्तावति पश्चाच्रोणी ॥ ८.६.२.[८] ॥
सक्थ्यावनुष्टुभः । ता अनन्तर्हिता जगतीभ्य उपदधात्यनन्तर्हिते तच्रोणिभ्यं
सक्थ्यो दधाति ॥ ८.६.२.[९] ॥
पर्शवो बृहत्यः । कीकसाः ककुभः सोऽन्तरेण त्रिष्टुभश्च ककुभश्च
बृहतीरुपदधाति तस्मादिमा उभयत्र पर्शवो बद्धाः कीकसासु च जत्रुषु च ॥ ८.६.२.[१०] ॥
ग्रीवा उष्णिहः । ता अनन्तर्हिता गायत्रीभ्य उपदधात्यनन्तर्हितास्तचीर्ष्णो ग्रीवा
दधाति ॥ ८.६.२.[११] ॥
पक्षौ पङ्क्तयः । ता यत्पङ्क्तयो भवन्ति पाङ्क्तौ हि पक्षौ पार्श्वत उपदधाति
पार्श्वतो हीमौ पक्षौ यद्वर्षीयश्छन्दस्तद्दक्षिणत उपदधाति दक्षिणं
तदर्धं पशोर्वीर्यवत्तरं करोति तस्माद्दक्षिणोऽर्धः पशोवीर्यवत्तरः ॥ ८.६.२.[१२] ॥
उदरमतिच्छन्दाः । पशवो वै छन्दांस्यन्नं पशव उदरं वा अन्नमत्त्युदरं हि
वा अन्नमत्ति तस्माद्यदोदरमन्नं प्राप्नोत्यथ तज्जग्धं यातयामरूपम्
भवति तद्यदेषा पशूंश्चन्दांस्यत्ति तस्मादत्तिच्छन्दा अत्तिच्छन्दा ह वै तामतिच्छन्दा
इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः ॥ ८.६.२.[१३] ॥
योनिः पुरीषवती । ते संसोऋष्टे उपदधाति संस्पृष्टे ह्युदरं च योनिश्च
पुरीशसंहिते भवतो मांसं वै पुरीषं मांसेन वा उदरं च योनिश्च संहिते
पूर्वातिच्छन्दा भवत्यपरा पुरीषवत्युत्तरं ह्युदरमधरा योनिः ॥ ८.६.२.[१४] ॥
ते प्राच्या उपदधाति । प्राङ्ह्येषोऽग्निश्चीयतेऽथो प्राग्वै प्राच उदरं प्राची
योनिर्बहिस्तोमभागं हृदयं वै स्तोमभागा हृदयमु वा उत्तमथोदरमथ
योनिः ॥ ८.६.२.[१५] ॥
ते दक्षिणतः स्वयमातृणाया उपदधाति । अथ प्रथमायां चिता उत्तररः
स्वयमातृणाया उदरं च योनिं चोपदधाति यो वा अयं मध्ये प्राणस्तदेषा
स्वयमातृणैतस्य तत्प्राणस्योभयत उदरं च योनिं च दधाति तस्मादेतस्य
प्राणस्योभयत उदरं च योनिश्च ॥ ८.६.२.[१६] ॥
प्रतिष्ठा द्विपदाः । ता यद्द्विपदा भवन्ति द्वन्द्वं हि प्रतिष्ठा तिस्रो भवन्ति
त्रिवृद्धि प्रतिष्ठा पश्चादुपदधाति पश्चाधीयं प्रतिष्ठा ॥ ८.६.२.[१७] ॥
सोऽस्यैष सुकृत आत्मा । तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्त्येतं ह स
सुकृतमात्मानमभिसम्भवत्यथ यस्य हैतमतोऽन्यथा कुर्वन्ति दुष्कृतं ह
तस्यात्मानं कुर्वन्ति स ह स दुष्कृतमेवात्मानमभिसम्भवति ॥ ८.६.२.[१८] ॥
तदेते सामनिधने अभ्युक्ते । अर्को देवानां परमे व्योमन्नर्कस्य देवाः परमे
व्योमन्नित्येतद्वै देवानां विशतां प्रजापतिरुत्तमोऽविशत्तस्मादाहार्को देवानाम्
परमे व्योमन्नित्यथ यदाहार्कस्य देवाः परमे व्योमन्नित्ययं वा
अग्निरर्कस्तस्यैतदुत्तमायां चितौ सर्वे देवा विष्टास्तस्मादाहार्कस्य देवाः परमे
व्योमन्निति ॥ ८.६.२.[१९] ॥
गार्हपत्यमुपदधाति । एतद्वै देवाः प्राप्य राद्ध्वेवामन्यन्त ते
ऽब्रुवन्केनेदमरात्स्मेति गार्हपत्येनैवेत्यव्रुवन्गार्हपत्यं वै चित्वा समारुह्य
प्रथमां चितिमपश्याम प्रथमायै द्वितीयां द्वितीयायै तृतीयां तृतीयायै चतुर्थीं
चतुर्थ्यै पञ्चमीं पञ्चम्या इदमिति ॥ ८.६.३.[१] ॥
तऽब्रुवन् । उप तज्जानीत यथेयमस्मास्वेव राद्धिरसदिति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेयमस्मास्वेव
राद्धिरसदिति ॥ ८.६.३.[२] ॥
ते चेतयमानाः । एतदपश्यन्निहेममाहृत्योपदधामहा इति तमिहाहृत्योपादधत
तस्मिन्व्यवदन्त वसवः पुरस्ताद्रुद्रा दक्षिणत आदित्याः पश्चान्मरुत उत्तरतो
विश्वे देवा उपरिष्टादिहोपदधामेहोपदधामेति ॥ ८.६.३.[३] ॥
तेऽब्रुवन् । मध्य एवोपदधामहै स नो मध्य उपहितः सर्वेषाम्
भविष्यतीति तं मध्य उपादधत तदेतां राद्धिमात्मन्नदधत मध्यतो
मध्यत एवैतदेतां राद्धिमात्मन्नदधत तथैवैतद्यजमानो
यद्गार्हपत्यमुपदधात्येतामेवैतद्राद्धिमात्मन्धत्ते मध्यतो मध्यत
एवैतदेतां राद्धिमात्मन्धत्ते ॥ ८.६.३.[४] ॥
यद्वेव गार्हपत्यमुपदधाति । अन्नं वै गार्हपत्योऽत्तायमग्निश्चितोऽत्त्र
एवैतदन्नमपिदधाति मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति ॥ ८.६.३.[५] ॥
यद्वेव गार्हपत्यमुपदधाति । वेदिर्वै देवलोकोऽथ वा एष बहिर्वेदि चितो
भवति तं यदिहाहृत्योपदधाति तदेनं वेदौ देवलोके प्रतिष्ठापयति ॥ ८.६.३.[६] ॥
यद्वेव गार्हपत्यमुपदधाति । योनिर्वै पुष्करपर्णमथ वा एष बहिर्योनि चितो
भवति बहिर्धो वा एतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णात्तं
यदिहाहृत्योपदधाति तदेनं योनौ पुष्करपर्णे प्रतिष्ठापयति तथो हैषो
ऽबहिर्धा भवत्यष्टाविष्टका उपदधाति तस्योक्तो बन्धुस्तं वा एतैरेव
यजुर्भिरेतयावृता चिनोति यो ह्येवासौ स एवायं तमेवैतदाहृत्येहोपदधाति ॥ ८.६.३.[७] ॥
अथ पुनश्चितिमुपदधाति । एतद्वै देवा गार्हपत्यं चित्वा तस्मिन्राद्धिं
नापश्यन्योनिर्वै गार्हपत्या चितिरेषो वै योने राद्धिर्यद्रेतः प्रजातिस्तस्यामेतस्यां
योनौ रेतः प्रजातिं नापश्यन् ॥ ८.६.३.[८] ॥
तेऽब्रुवन् । उप तज्जानीत यथास्यां योनौ रेतः प्रजातिं दधामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्यां योनौ रेतः
प्रजातिं दधामेति ॥ ८.६.३.[९] ॥
ते चेतयमानाः । एतां पुनश्चितिमपश्यंस्तामुपादधत तदेतस्यां योनौ रेतः
प्रजातिमदधुर्मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः
प्रजातिमदधुस्तथैवैतद्यजमानो यत्पुनश्चितिमुपदधात्येतस्यामेवैतद्योनौ
रेतः प्रजातिं दधाति मध्यतो मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिं
दधाति ॥ ८.६.३.[१०] ॥
तां हैके जघनार्ध उपदधति । जघनार्धाद्वै रेतः सिच्यते पुच्छसंधौ
पुच्छाद्वै रेतः सिच्यत इति न तथा कुर्याद्बहिर्धा ह ते योने रेतः प्रजातिं दधति
ये तथा कुर्वन्ति मध्य एवोपदध्यात्तत्सम्प्रति योनौ रेतः प्रजातिं दधाति ॥ ८.६.३.[११] ॥
अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतद्रेतो भूतं सिञ्चति पञ्च कृत्वः सादयति पञ्चचितिकोऽग्निः
पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्रेतो भूतं सिञ्चत्यष्टाविष्टकाः पञ्च कृत्वः सादयति तत्त्रयोदश
त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा
तावत्तद्भवति ॥ ८.६.३.[१२] ॥
यद्वेव पुनश्चितिमुपदधाति । एतद्वा एतदयथायथं करोति
यदाहवनीयाद्गार्हपत्यमुत्तरं चिनोति तद्यत्पुनश्चितिमुपदधाति य
एवायमग्निश्चितस्तमेवैतदाहृत्यास्योपरिष्टात्पुनश्चिनोति तद्यच्चितं सन्तम्
पुनश्चिनोति तस्मात्पुनश्चितिः ॥ ८.६.३.[१३] ॥
तद्धैके । जघनार्धे गार्हपत्यमुपदधति पूर्वार्धे पुनश्चितिमाहवनीयश्च
वा एतौ गार्हपत्यश्चैवं वा एतावग्नी इति न तथा कुर्यादयं वै लोको गार्हपत्यो
द्यौराहवनीय उत्तरो वा असावस्यै तस्मादेनामुत्तरामेवोपदध्यात् ॥ ८.६.३.[१४] ॥
यद्वेव गार्हपत्यं च पुनश्चितिं चोपदधाति । वेदिश्च हैते अग्नेरुत्तरवेदिश्चाथ
ये अमू पूर्वे निवपत्यध्वरस्य ते अथ हैते अग्नेस्तद्यदेते उपधायाग्निं
निदधाति वेदौ चैवैनमेतदुत्तरवेदौ च प्रतिष्ठापयति ॥ ८.६.३.[१५] ॥
यद्वेव पुनश्चितिमुपदधाति । पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या
पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनं पुनर्यज्ञो
नमति ॥ ८.६.३.[१६] ॥
यद्वेव पुनश्चितिमुपदधाति । यं वै तं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वन्त्स
एष तमेवैतत्पुनश्चिनोति तद्यच्चितं सन्तं पुनश्चिनोति तस्माद्वेव पुनश्चितिः ॥ ८.६.३.[१७] ॥
येन ऋषयस्तपसा सत्त्रमायन्निति । अमूनेतदृषीनाहेन्धाना अग्निं स्वराभरन्त
इतीन्धाना अग्निं स्वर्गं लोकमाहरन्त इत्येतत्तस्मिन्नहं निदधे नाके अग्निमिति
स्वर्गो वै लोको नाको यमाहुर्मनव स्तीर्णबर्हिषमिति ये विद्वांसस्ते मनव
स्तीर्णबर्हिषमिति सर्वदा हैव स स्तीर्णबर्हिः ॥ ८.६.३.[१८] ॥
तं पत्नीभिरनुगच्छेम देवाः । पुत्रैर्भ्रातृभिरुत वा हिरण्यैरित्येतेनैनं
सर्वेणानुगच्छेमेत्येतन्नाकं गृभ्णानाः सुकृतस्य लोक इति स्वर्गो वै लोको नाकः
स्वर्गं लोकं गृह्णानाः सुकृतस्य लोक इत्येतत्तृतीये पृष्ठे अधि रोचने दिव
इत्येतद्ध तृतीयं पृष्ठं रोचनं दिवो यत्रैष एतत्तपति ॥ ८.६.३.[१९] ॥
आ वाचो मध्यमरुहद्भुरण्युरिति । एतद्ध वाचो मध्यं यत्रैष एतच्चीयते
भुरण्युरिति भर्तैत्येतदयमग्निः सत्पतिश्चेकितान इत्ययमग्निः सताम्
प्रतिश्चेतयमान इत्येतत्पृष्ठे पृथिव्या निहितो दविद्युतदिति पृष्ठे पृथिव्या निहितो
दीप्यमान इत्येतदधस्पदं कृणुतां ये पृतन्यव इत्यधस्पदं कुरुतां
सर्वान्पाप्मन इत्येतत् ॥ ८.६.३.[२०] ॥
अयमग्निर्वीरतमो वयोधा इति । अयमग्निर्वीर्यवत्तमो वयोधा इत्येतत्सहस्रियो
द्योततामप्रयुच्छन्निति सहस्रियो दीप्यतामप्रमत्त इत्येतद्विभ्राजमानः सरिरस्य
मध्य इतीमे वै लोकाः सरिरं दीप्यमान एषु लोकेष्वित्येतदुप प्रत्याहि दिव्यानि
धामेत्युप प्रयाहि स्वर्गं लोकमित्येतत् ॥ ८.६.३.[२१] ॥
सम्प्रच्यवध्वमुप सम्प्रयातेति । अमूनेतदृषीनाह समेनम्
प्रच्यवध्वमुप चैनं सम्प्रयातेत्यग्ने पथो देवयानान्कृणुध्वमिति यथैव
यजुस्तथा बन्धुः पुनः कृण्वाना पितरा युवानेति वाक्च वै मनश्च पितरा युवाना
वाक्च मनश्चैतावग्नी अन्वातांसीत्त्वयि तन्तुमेतमिति यो
ऽसावृषिभिस्तन्तुस्ततस्तमेतदाह ॥ ८.६.३.[२२] ॥
उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिति । इममेतदग्निमाहोच्चैनं बुध्यस्व प्रति
चैनं जागृहीतीष्टापूर्ते संसृजेथामयं चेति यथैव यजुस्तथा
बन्धुरस्मिन्त्सधस्थे अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा
यजमानश्च सीदतेति तद्विश्वैर्देवैः सह यजमानं सादयति ॥ ८.६.३.[२३] ॥
येन वहसि सहस्रम् । येनाग्ने सर्ववेदसमित्येतद्धास्य प्रतिज्ञाततमं धाम
येन सहस्रं वहति येन सर्ववेदसं तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तव
इति तेन न इमं यज्ञं नय स्वर्गं लोकं देवेषु गन्तव इत्येतदयं ते
योनिर्ऋत्विय इति तस्योक्तो बन्धुरष्टाविष्टका उपदधाति तस्यो एवोक्तः ॥ ८.६.३.[२४] ॥
ऋतव्या उपदधाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति तदेतत्सर्वं
यदृतव्याः संवत्सरो वा ऋतव्याः संवत्सर इदं
सर्वमिदमेवैतत्सर्वमुपदधात्यथो प्रजननमेतत्संवत्सरो वा ऋतव्याः
संवत्सरः प्रजननं प्रजननमेवैतदुपदधाति ॥ ८.७.१.[१] ॥
यद्वेवऽर्तव्या उपदधाति । क्षत्र वा ऋतव्या विश इमा इतरा इष्टकाः क्षत्रं
तद्विश्यत्तारं दधाति ताः सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि क्षत्रमत्तारं
दधाति ॥ ८.७.१.[२] ॥
यद्वेवऽर्तव्या उपदधाति । संवत्सर एषोऽग्निः स ऋतव्याभिः संहितः
संवत्सरमेवैतदृतुभिः संतनोति संदधाति ता वै नानाप्रभृतयः समानोदर्का
ऋतवो वा असृज्यन्त ते सृष्टा नानैवासन् ॥ ८.७.१.[३] ॥
तेऽब्रुवन् । न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुं रूपैः समायामेति त
एकैकमृतुं रूपैः समायंस्तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूनां रूपं ता
यन्नानाप्रभृतयो नाना ह्यसृज्यन्ताथ यत्समानोदर्का रूपैर्हि समायन् ॥ ८.७.१.[४] ॥
स उपदधाति । तपश्च तपस्यश्च शैशिरावृतू इति नामनी एनयोरेते नामभ्यामेवैने
एतदुपदधात्यसौ वा आदित्यस्तपस्तस्मादेतावृतू अनन्तर्हितौ तद्यदेतस्मादेतावृतू
अनन्तर्हितौ तस्मादेतौ तपश्च तपस्यश्च ॥ ८.७.१.[५] ॥
अग्नेरन्तःश्लेषोऽसीति । संवत्सर एषोऽग्निः स ऋतव्याभिः संहितः
संवत्सरमेवैतदृतुभिः संतनोति संदधाति कल्पेतां द्यावापृथिवी कल्पन्तामाप
ओषधय इतीदमेवैतत्सर्वमृतुभिः कल्पयति कल्पन्तामग्नयः पृथङ्नम
ज्यैष्ठ्याय सव्रता इत्यग्नयो हैते पृथग्यदेता इष्टकास्ते
यथानयोर्ऋत्वोर्ज्यैष्ठ्याय कल्पेरन्नेवमेतदाह ये अग्नयः समनसोऽन्तरा
द्यावापृथिवी इमे इति यथैव यजुस्तथा बन्धुः शैशिरावृतू अभिकल्पमाना
इन्द्रमिव देवा अभिसंविशन्त्विति यथेन्द्रं देवा अभिसंविष्टा एवमिमावृतू
ज्यैष्ठ्यायाभिसंविशन्त्वित्येतद्द्वे इष्टके भवतो द्वौ हि मासावृतुः
सकृत्सादयत्येकं तदृतुं करोति ॥ ८.७.१.[६] ॥
तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य द्यौरेव
पञ्चमी चितिर्द्यौरस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति ॥ ८.७.१.[७] ॥
यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य शिर एव
पञ्चमी चितिः शिरोऽस्य शिशिर ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते
आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते अत्रोपदधाति ॥ ८.७.१.[८] ॥
स पुरस्तात्स्वयमातृणायै च विश्वज्योतिषश्चऽर्तव्ये उपदधाति । द्यौर्वा उत्तमा
स्वयमातृणादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिवश्चादित्याच्चऽर्तून्दधाति
तस्मादर्वाचीनमेवात ऋतवोऽथो प्रजननमेतदर्वाचीनं तद्दिवश्चादित्याश्च
प्रजननं दधाति तस्मादर्वाचीनमेवातः प्रजायते स्थितं हैवातः
पराक्प्रजननं यावन्तो ह्येव सनाग्रे देवास्तावन्तो देवाः ॥ ८.७.१.[९] ॥
अथ प्रथमायै स्वयमातृणायै प्रथमायै च विश्वज्योतिष उपरिष्टादृतव्ये
उपदधाति । इयं वै प्रथमा स्वयमातृणाग्निः प्रथमा
विश्वज्योतिस्तदूर्ध्वानृतून्दधाति तस्मादित ऊर्ध्वा ऋतवोऽथो
प्रजननमेतदितस्तदूर्ध्वं प्रजननं दधाति तस्मादित ऊर्ध्वमेव प्रजायते ॥ ८.७.१.[१०] ॥
ता न व्यूहेत् । नेदृतून्व्यूहानीति यो वै म्रियत ऋतवो ह तस्मै व्युह्यन्ते
तस्माद्यत्रैव प्रथमे उपदधाति तत्सर्वा उपदध्यात् ॥ ८.७.१.[११] ॥
अथो इमे वै लोका ऋतव्याः । इमांस्तल्लोकानूर्ध्वांश्चितिभिश्चिनोत्यथो क्षत्रं वा
ऋतव्याः क्षत्रं तदूर्ध्वं चितिभिश्चिनोत्यथो संवत्सरो वा ऋतव्याः संवत्सरं
तदूर्ध्वं चितिभिश्चिनोति ता नान्यया
यजुष्मत्येष्टकयोपरिष्टादभ्युपदध्यान्नेत्क्षत्रं विशाभ्युपदधानीति ॥ ८.७.१.[१२] ॥
ता हैता एव संयान्यः । एतद्वै देवा
ऋतव्याभिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमान
ऋतव्याभिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः ॥ ८.७.१.[१३] ॥
तदु ह चरकाध्वर्यवः । अन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव
रेचयन्त्येता उ एव संयान्यः ॥ ८.७.१.[१४] ॥
अथ विश्वज्योतिषमुपदधाति । आदित्यो वा उत्तमा विश्वज्योतिरादित्यो ह्येवामुष्मिंलोके
विश्वज्योतिरादित्यमेवैतदुपदधाति ॥ ८.७.१.[१५] ॥
यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः
प्रजननमेवैतदुपदधाति ॥ ८.७.१.[१६] ॥
स पुरस्तात्स्वयमातृणायै विश्वज्योतिषमुपदधाति । द्यौर्वा उत्तमा
स्वयमातृणादित्य उत्तमा विश्वज्योतिरर्वाचीनं तद्दिव आदित्यं दधाति तस्मादेषो
ऽर्वाचीनमेवातस्तप त्यथो प्रजननमेतदर्वाचीनं तद्दिवः प्रजननं दधाति
तस्मादर्वाचीनमेवातः प्रजायते ॥ ८.७.१.[१७] ॥
अथ प्रथमायै स्वयमातृणायै । उपरिष्टाद्विश्वज्योतिषमुपदधातीयं वै
प्रथमा स्वयमातृणाग्निः प्रथमा विश्वज्योतिरितस्तदूर्ध्वमग्निं दधाति
तस्मादित ऊर्ध्वोऽग्निर्दीप्यतेऽथो प्रजननमेतदितस्तदूर्ध्वं प्रजननं
दधाति तस्मादित ऊर्ध्वमेव प्रजायते ॥ ८.७.१.[१८] ॥
अथ मध्यमायै स्वयमातृणायै । उपरिष्टाद्विश्वज्योतिषमुपदधात्यन्तरिक्षं
वै मध्यमा स्वयमातृणा वायुर्मध्यमा विश्वज्योतिरन्तरिक्षे तद्वायुं दधाति
तस्मादयमन्तरिक्षे वायुः ॥ ८.७.१.[१९] ॥
तान्येतानि ज्योतींषि । तद्यदेता एवमुपदधात्येतान्येवैतज्ज्योतींषि सम्यञ्चि दधाति
तस्मादित ऊर्ध्वोऽग्निर्दीप्यतेऽर्वाङ्सावादित्यस्तपत्यन्तरिक्षेऽयं तिर्यङ्वायुः पवते ॥ ८.७.१.[२०] ॥
परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं
चितिमपश्यद्दिवस्पृष्ठे ज्योतिष्मतीमिति दिवो ह्यसौ पृष्ठे ज्योतिष्मानादित्यः ॥ ८.७.१.[२१] ॥
विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै
प्राणो
विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतत्सूर्यस्तेऽधिपतिरिति सूर्यमेवास्या अधिपतिं
करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुः ॥ ८.७.१.[२२] ॥
ता हैता एव संयान्यः । एतद्वै देवा
विश्वज्योतिर्भिरेवेमांलोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो
विश्वज्योतिर्भिरेवेमांलोकान्त्संयातीतश्चोर्ध्वानमुतुश्चार्वाचः ॥ ८.७.१.[२३] ॥
तदु ह चरकाध्वर्यवो ।ऽन्या एव संयानीरित्युपदधति न तथा कुर्यादत्यहैव
रेचयन्त्येता उ एव संयान्यः ॥ ८.७.१.[२४] ॥
अथ लोकम्पृणामुपदधाति । असौ वा आदित्यो लोकम्पृणैष
हीमांलोकान्पूरयत्यमुमेवैतदादित्यमुपदधाति तां सर्वासु चितिषूपदधातीमे
वै लोका एताश्चितयोऽमुं तदादित्यमेषु लोकेषु दधाति तस्मादेष सर्वेभ्य
एवैभ्यो लोकेभ्यस्तपति ॥ ८.७.२.[१] ॥
यद्वेव लोकम्पृणामुपदधाति । क्षत्रं वै लोकम्पृणा विश इमा इतरा इष्टकाः
क्षत्रं तद्विश्यत्तारं दधाति तां सर्वासु चितिषूपदधाति सर्वस्यां तद्विशि
क्षत्रमत्तारं दधाति ॥ ८.७.२.[२] ॥
सैषैकैव भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोत्यथ या द्वितीया
मिथुनं तदर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वो
ऽथ कृत्स्नः कृत्स्नताया एकेन यजुषा बह्वीरिष्टका उपदधाति क्षत्रं
तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं करोत्यथेतराः पृथङ्नाना
यजुर्भिरुपदधाति विशं तत्क्षत्रादवीर्यतरां करोति पृथग्वादिनीं नानाचेतसम् ॥ ८.७.२.[३] ॥
स वा अस्यां स्रक्त्यां प्रथमे उपदधाति । अमुं तदादित्यमेतस्यां दिशि
पधात्यथेतस्तस्मादतोऽनुपर्यैत्यथेतस्तस्मादतोऽनुपर्यैत्यथेतस्तस्मादतो
ऽनुपर्यैत्यथातस्तस्मादतोऽनुपर्यैति ॥ ८.७.२.[४] ॥
स यद्यत्रैव प्रथमे उपदधाति । तदुत्तमे अनूपदध्यात्सकृद्धैवासावादित्य
इमांलोकान्पर्येत्य नातिप्रच्यवेतातिहृत्य पूर्वे उत्तमे अनूपदधात्यमुं
तदादित्यमिमांलोकानतिप्रच्यावयति तस्मादसावादित्य इमांलोकानसंस्थितो
दक्षिणावृत्पुनः पुनरनुपर्यैति ॥ ८.७.२.[५] ॥
लोकं पृण च्छिद्रं पृणेति । लोकं च पूरय च्छिद्रं च पूरयेत्येतदथो सीद ध्रुवा
त्वमित्यथो सीद स्थिरा त्वं प्रतिष्ठितेत्येतदिन्द्राग्नी त्वा
बृहस्पतिरस्मिन्योनावसीषदन्नितीन्द्राग्नी च त्वा बृहस्पतिश्चास्मिन्योनौ
प्रत्यतिष्ठिपन्नित्येतदनुष्टुभा वाग्वा अनुष्टुब्वागिन्द्र इन्द्रो लोकम्पृणा न
सादयत्यसन्नो ह्येष सूददोहसा वदति प्राणो वै सूददोहाः
प्राणेनैवैनमेतत्संतनोति संदधाति ॥ ८.७.२.[६] ॥
तदाहुः । कथमेषा लोकम्पृणायातयाम्नी भवतीत्यसौ वा आदित्यो
लोकम्पृणायातयामा वा एषोऽथो वाग्वै लोकम्पृणायातयाम्न्यु वै वाक् ॥ ८.७.२.[७] ॥
स वै यजुष्मतीरुपधाय । लोकम्पृणया प्रच्छादयत्यन्नं वै यजुष्मत्य इष्टका
आत्मा लोकम्पृणान्नं तदात्मना परिदधाति तस्मादन्नमात्मना परिहितमात्मैव
भवति ॥ ८.७.२.[८] ॥
स वा आत्मन्नेव । यजुष्मतीरुपदधाति न पक्षपुच्छेष्वात्मंस्तदन्नं दधाति
यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुच्छान्यथ
यत्पक्षपुच्छेषु नैव तदात्मानमवति न पक्षपुच्छानि ॥ ८.७.२.[९] ॥
उभयीर्यजुष्मतीश्च लोकम्पृणाश्चात्मन्नुपदधाति । तस्मादयमात्मा द्विगुणो
बहुलतर इव लोकम्पृणा एव पक्षपुच्छेषु तस्मात्पक्षपुच्छानि तनीयांसीवानूचीश्च
तिरश्चीत्मन्नुपदधात्यस्थीनि वा इष्टकास्तस्मादिमान्यन्वञ्चि च तिर्यञ्चि
चात्मन्नस्थीनि पराचीरेव पक्षपुच्छेषु न हि किं चन पक्षपुच्छेषु
तिर्यगस्थ्यस्ति तद्धैतदेव चितस्य चाचितस्य च विज्ञानमेवमेव चित इतरथाचितः ॥ ८.७.२.[१०] ॥
स वै स्वयमातृणां लोकम्पृणया प्रच्छादयति । प्राणो वै स्वयमातृणादित्यो लोकम्पृणा
प्राणं तदादित्येन समिन्द्धे तस्मादयमुष्णः प्राणस्तया सर्वमात्मानम्
प्रच्छादयति सर्वं तदात्मानमादित्येन समिन्द्धे तस्मादयं सर्व
एवात्मोष्णस्तद्धैतदेव जीविष्यतश्च मरिष्यतश्च विज्ञानमुष्ण एव जीविष्यञ्चीतो
मरिष्यन् ॥ ८.७.२.[११] ॥
स यस्यां स्रक्त्यां प्रथमे उपदधाति । ततो दशभिर्दशभिः संच्छादयन्नेत्या
स्वयमातृणायै स तेनैव दक्षिणावृज्जघनेन स्वयमातृणां संच्छादयन्नेत्यानूक्याया
अथ पुनरेत्य तमवधिं संच्छादयति ॥ ८.७.२.[१२] ॥
आत्मानमग्रे संच्छादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्
पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्राथो एवं वा असावादित्य
इमांलोकान्दक्षिणावृदनुपर्यैति ॥ ८.७.२.[१३] ॥
स एष प्राण एव यल्लोकम्पृणा । तया सर्वमात्मानं प्रच्छादयति
सर्वस्मिस्तदात्मन्प्राणं दधाति तद्यद्धास्यैषाङ्गं नाभिप्राप्नुयात्प्राणो हास्य
तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वै
तन्म्लायति वा तस्मादेनं सर्वमेवैतया प्रच्छादयेत् ॥ ८.७.२.[१४] ॥
स वा आत्मन एवाधि पक्षपुच्छानि चिनोति । आत्मनो ह्येवाध्यङ्गानि प्ररोहन्त्यथ
यत्पुरस्तादर्वाचीरुपदध्याद्यथान्यत आहृत्याङ्गं प्रतिदध्यात्तादृक्तत् ॥ ८.७.२.[१५] ॥
न भिन्नां न कृष्णामुपदध्यात् । आर्चति वा एषा या भिद्यत आर्तम्वेतद्रूपं
यत्कृष्णं नेदार्तमात्मानमभिसंस्करवा इति नाभिन्नाम्
परास्येन्नेदनार्तमात्मनो बहिर्धा करवाणीति धिष्ण्येभ्यः प्रतिसंख्याय या
विराजमतिरिच्येरन्नोत्तरामुद्भवेयुस्तद्वै खलु ता आर्चन्ति ता भित्त्वोत्कर
उत्किरेदुत्करो वा अतिरिक्तस्य प्रतिष्ठा तद्यत्रातिरिक्तस्य प्रतिष्ठा तदेवैना
एतत्प्रतिष्ठापयति ॥ ८.७.२.[१६] ॥
अथात इष्टकामात्राणामेव । पादमात्रीः प्रथमायां चोत्तमायां च
चित्योरुपदध्यात्प्रतिष्ठा वै पादो यो वै पादः स हस्त ऊर्वस्थमात्र्यो वर्षिष्ठाः
स्युर्न ह्यूर्वस्थात्किं चन वर्षीयोऽस्थ्यस्ति त्र्यालिखितवत्यस्तिस्रश्चितयः स्युस्त्रिवृतो
हीमे लोका अपरिमितालिखिते द्वे रसो हैते चिती अपरिमित उ वै रसः सर्वास्त्वेव
त्र्यालिखितवत्यः स्युः सर्वे ह्येवेमे लोकास्त्रिवृतः ॥ ८.७.२.[१७] ॥
अथात इष्टकानामेवावपनस्य । यां कां च यजुष्मतीमिष्टकां विद्यात्ताम्
मध्यमायां चिता उपदध्यादन्तरिक्षं वै मध्यमा चितिरन्तरिक्षमु वै
सर्वेषां भूतानामावपनमथो अन्नं वै यजुष्मत्य इष्टका उदरं मध्यमा
चितिरुदरे तदन्नं दधाति ॥ ८.७.२.[१८] ॥
तदाहुः । नोपदध्यान्नेदतिरेचयानीति स वा उपैव दध्यात्कामेभ्यो वा एता इष्टका
उपधीयन्ते न वै कामानामतिरिक्तमस्ति स वै नैवोपदध्यादेतावद्वा एतद्देवा
अकुर्वन् ॥ ८.७.२.[१९] ॥
अथ पुरीषं निवपति । मांसं वै पुरीषं मांसेनैवैनमेतत्प्रच्छादयतीष्टका
उपधायास्यीष्टका अस्थि तन्मांसैः संच्छादयति ॥ ८.७.३.[१] ॥
स वै स्वयमातृणायामावपति । प्राणो वै स्वयमातृणान्नं पुरीषं प्राणे तदन्नं
दधाति तेन सर्वमात्मानं प्रच्छादयति तम्माद्यत्प्राणेऽन्नं धीयते
सर्वमात्मानमवति सर्वमात्मानमनुव्येति ॥ ८.७.३.[२] ॥
न स्वयमातृणायामावपेदित्यु हैक आहुः । प्राणः स्वयमातृणा
नेत्प्राणानपिदधानीति
स वा ऐव वपेदन्नेन वै प्राणा विष्टब्धा यो वा अन्नं नात्ति सं वै तस्य प्राणा
रोहन्ति तद्यस्य ह तथा कुर्वन्ति यथा शुष्का सूर्मी सुषिरैवं ह सो
ऽमुष्मिंलोके सम्भवति तस्मात्स्वयमातृणायामैव वपेत् ॥ ८.७.३.[३] ॥
स्वयमातृणायामोप्य । अनूक्यया संच्छादयन्नेत्या परिश्रिद्भ्यः स तेनैव
दक्षिणावृज्जघनेन स्वयमातृणां संच्छादयन्नैत्या पुनरनूक्यायै ॥ ८.७.३.[४] ॥
आत्मानमग्रे संच्छादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्
पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा ॥ ८.७.३.[५] ॥
स एष प्राण एव यत्पुरीषम् । तेन सर्वमात्मानं प्रच्छादयति
सर्वस्मिंस्तदात्मन्प्राणं दधाति तद्यद्धास्यैतदङ्गं नाभिप्राप्नुयात्प्राणो
हास्य तदङ्गं नाभिप्राप्नुयाद्यदु वै प्राणोऽङ्गं नाभिप्राप्नोति शुष्यति वा वै
तन्म्लायति वा तस्मादेनं सर्वमेवैतेन प्रच्छादयेत् ॥ ८.७.३.[६] ॥
इन्द्रं विश्वा अवीवृधन्निति । इन्द्रं हि सर्वाणि भूतानि वर्धयन्ति समुद्रव्यचसं
गिर इति महिमानमस्यैतदाह रथीतमं रथीनामिति रथितमो ह्येष रथिनां
वाजानां सत्पतिं पतिमित्यन्नं वै वाजा अन्नानां सत्पतिम्
पतिमित्येतदैन्द्र्यानुष्टुभा निवपत्यैन्द्रं हि पुरीषं
तदेतदर्धमग्नेर्यत्पुरीषमर्धमैष्टकम् ॥ ८.७.३.[७] ॥
तदाहुः । यत्सर्वैश्छन्दोभिः सर्वाभिर्देवताभिरिष्टका
उपदधात्यथैतदेकयैकदेवत्यया निवपति कथमेतदर्धमग्नेरितीन्द्रो वै
सर्वान्देवान्प्रतिस्तद्यदैन्द्र्या निवपति तेनैतदर्धमग्नेरथ यदनुष्टुभा
वाग्वा अनुष्टुब्वागु सर्वाणि छन्दांसि तेनो एवार्धम् ॥ ८.७.३.[८] ॥
अथ विकर्णीं च स्वयमातृणां चोपदधाति । वायुर्वै विकर्णी द्यौरुत्तमा
स्वयमातृणा वायुं च तद्दिवं चोपदधात्युत्तमे उपदधात्युत्तमे हि वायुश्च
द्यौश्च संस्पृष्टे संस्पृष्टे हि वायुश्च द्यौश्च पूर्वां
विकर्णीमुपदधात्यर्वाचीनं तद्दिवो वायुं दधाति तस्मादेषोऽर्वाचीनमेव वातः
पवते ॥ ८.७.३.[९] ॥
यद्वेव विकर्णीमुपदधाति । यत्र वा अदोऽश्वं चितिमवघ्रापयन्ति तदसावादित्य
इमांलोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रं वायुः स स यः स वायुरेषा सा विकर्णी
तद्यदेतामुपदधात्यसावेव तदादित्य इमांलोकान्त्सूत्रे समावयते ॥ ८.७.३.[१०] ॥
यद्वेव विकर्णीं च स्वयमातृणां चोपदधाति । आयुर्वै विकर्णी प्राणः
स्वयमातृणायुश्च तत्प्राणं चोपदधात्युत्तमे उपदधात्युत्तमे ह्यायुश्च प्राणश्च
संस्पृष्टे संस्पृष्टे ह्यायुश्च प्राणश्च पूर्वामुत्तरां विकर्णीमुपदधात्यायुषा
तत्प्राणमुभयतः परिगृह्णाति ॥ ८.७.३.[११] ॥
प्रोथदश्वो न यवसे ।ऽविष्यन्यदा महः संवरणाद्व्यस्थात् आदस्य वातो अनुवाति
शोचिरध स्म ते व्रजनं कृष्णमस्तीति यदा वा एतस्य वातोऽनुवाति शोचिरथैतस्य
व्रजनं कृष्णं भवति त्रिष्टुभोपदधाति त्रैष्टुभो हि वायुराग्नेय्याग्निकर्म
ह्यनिरुक्तयानिरुक्तो हि वायुरथ यद्वात इत्याह वातो हि वायुः ॥ ८.७.३.[१२] ॥
अथ स्वयमातृणामुपदधाति । आयोष्ट्वा सदने सादयामीत्येष वा
आयुस्तस्यैतत्सदनमवत इत्येष हीदं सर्वमवति च्छायायामित्येतस्य हीदं सर्वं
च्छायायां समुद्रस्यह्येतद्धृदयं रश्मीवतीं भास्वतीमिति रश्मीवती हि
द्यौर्भास्वत्या या द्यां भास्या पृथिवीमोर्वन्तरिक्षमित्येवं ह्येष
इमांलोकानाभाति ॥ ८.७.३.[१३] ॥
परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यन् ॥ ८.७.३.[१४] ॥
यद्वेव परमेष्ठिनोपदधाति । प्रजापतिं विस्रस्तं देवता आदाय
व्युदक्रामंस्तस्य परमेष्ठी शिर आदायोत्क्रम्यातिष्ठन् ॥ ८.७.३.[१५] ॥
तमब्रवीत् । उप मेहि म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो
भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति
तदस्मिन्नेतत्परमेष्ठी प्रत्यदधात् ॥ ८.७.३.[१६] ॥
तद्यैषोत्तमा स्वयमातृणा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति
यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति ॥ ८.७.३.[१७] ॥
दिवस्पृष्ठे व्यचस्वतीं प्रथस्वतीमिति । दिवो ह्येतत्पृष्ठं
व्यचस्वत्प्रथस्तद्दिवं यच्छ दिवं दृंह दिवं मा हिंसीरित्यात्मानं यच्छात्मानं
दृंहात्मानं मा हिंसीरित्येतत् ॥ ८.७.३.[१८] ॥
विश्वस्मै प्रणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृणा सर्वस्मा उ वा
एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृणा इम उ लोकाः
प्रतिष्ठा चरित्रं सूर्यस्त्वाभिपात्विति सूर्यस्त्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति
महत्या स्वस्त्येत्येतच्चर्दिषा शंतमेनेति यच्चर्दिः शंतमं तेनेत्येतत् ॥ ८.७.३.[१९] ॥
नानोपदधाति । नाना हि वायुश्च द्यौश्च सकृत्सादयति समानं तत्करोति समानं
ह्यायुश्च प्राणश्च ते वा उभे एव शर्करे भवत उभे स्वयमातृणे समानं
ह्येवायुश्च प्राणश्चाथैने सूददोहसाधिवदति प्राणो वै सूददोहाः प्राणेणैवैने
एतत्संतनोति संदधाति ॥ ८.७.३.[२०] ॥
ता अस्य सूददोहस इति । आपो वै सूदोऽन्नं दोहः सोमं श्रीणन्ति पृश्नय इत्यन्नं वै
पृश्नि जन्मन्देवानामिति संवत्सरो वै देवानां जन्म विश इति यज्ञो वै विशो यज्ञे हि
सर्वाणि भूतानि विष्टानि त्रिष्वा रोचने दिव इति सवनानि वै त्रीणि रोचनानि
सवनान्येतदाहानुष्टुभा वाग्वा अनुष्टुब्वागु सर्वे प्राणा वाचा चैवैने एतत्प्राणेन
च संतनोति संदधाति सा वा एषैका सती सूददोहाः सर्वा इष्टका अनुसंचरति प्राणो
वै सूददोहास्तस्मादयमेक एव प्राणः सन्त्सर्वाण्यङ्गानि
सर्वमात्मानमनुसंचरति ॥ ८.७.३.[२१] ॥
अथ स्वयमातृणासु सामानि गायति । इमे वै लोकाः स्वयमातृणास्ता एताः शर्करास्ता
देवा
उपधायैतादृशीरेवापश्यन्यथैताः शुष्काः शर्कराः ॥ ८.७.४.[१] ॥
तेऽब्रुवन् । उप तज्जानीत यथैषु लोकेषु रमसुपजीवनं दधामेति ते
ऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथैषु लोकेषु
रसमुपजीवनं दधामेति ॥ ८.७.४.[२] ॥
ते चेतयमानाः । एतानि सामान्यपश्यंस्तान्यगायंस्तैरेषु लोकेषु
रसमुपजीवनमदधुस्तथैवैतद्यजमानो यदेतानि सामानि
गायत्येष्वेवैतल्लोकेषु रसमुपजीवनं दधाति ॥ ८.७.४.[३] ॥
स्वयमातृणासु गायति । इमे वै लोकाः स्वयमातृणा एष्वेवैतल्लोकेषु रसमुपजीवनं
दधाति ॥ ८.७.४.[४] ॥
स वै भूर्भुवः स्वरिति । एतासु व्याहृतिषु गायति भूरिति वा अयं लोको भुव
इत्यन्तरिक्षलोकः स्वरित्यसौ लोक एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति ॥ ८.७.४.[५] ॥
तानि वै नानाप्रस्तावानि । समाननिधनानि तानि यन्नानाप्रस्तावानि नाना
ह्यपश्यन्नथ यत्समाननिधनान्येका ह्येव यज्ञस्य प्रतिष्ठैकं निधनं
स्वर्ग एव लोकस्तस्मात्स्वर्ज्योतिर्निधनानि ॥ ८.७.४.[६] ॥
अथैनं हिरण्यशकलैः प्रोक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा
एतदमृतं रूपमुत्तमदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं
दधाति ॥ ८.७.४.[७] ॥
यद्वेवैनं हिरण्यशकलैः प्रोक्षति । एतद्वा अस्मिन्नदोऽमूं पुरस्ताद्रम्यां
तनूं मध्यतो दधाति रुक्मं च पुरुषं
चाथैनमेतत्सर्वमेवोपरिष्टाद्रम्यया तन्वा प्रच्छादयति ॥ ८.७.४.[८] ॥
द्वाभ्यांद्वाभ्यां शताभ्याम् । द्विपाद्यजमानो यजमानो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति
पञ्च कृत्वः पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानाग्नर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति
सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति ॥ ८.७.४.[९] ॥
पश्चादग्रे प्राङ्तिष्ठन् । अथोत्तरतो दक्षिणाथ पुरस्तात्प्रत्यङ्ङथ जघनेन
परीत्य दक्षिणत उदङ्तिष्ठंस्तद्दक्षिणावृत्तद्धि देवत्राथानुपरीत्य पश्चात्प्राङ्
तिष्ठंस्तथो हास्यैतत्प्रागेव कर्म कृतं भवति ॥ ८.७.४.[१०] ॥
सहस्रस्य प्रमासि । सहस्रस्य प्रतिमासि सहस्रस्योन्मासि साहस्रोऽसि सहस्राय त्वेति
सर्वं वै सहस्रं सर्वमसि सर्वस्मै त्वेत्येतत् ॥ ८.७.४.[११] ॥
अथातश्चितिपुरीषाणामेव मीमांसा । अयमेव लोकः प्रथमा चितिः पशवः पुरीषं
यत्प्रथमां चितिं पुरीषेण प्रच्छादयतीमं तल्लोकं पशुभिः प्रच्छादयति ॥ ८.७.४.[१२] ॥
अन्तरिक्षमेव द्वितीया चितिः । वयांसि पुरीषं यद्द्वितीयां चितिं पुरीषेण
प्रच्छादयत्यन्तरिक्षं तद्वयोभिः प्रच्छादयति ॥ ८.७.४.[१३] ॥
द्यौरेव तृतीया चितिः । नक्षत्राणि पुरीषं यत्तृतीयां चितिं पुरीषेण प्रच्छादयति
दिवं तन्नक्षत्रैः प्रच्छादयति ॥ ८.७.४.[१४] ॥
यज्ञ एव चतुर्थी चितिः । दक्षिणाः पुरीषं यच्चतुर्थी चितिं पुरीषेण प्रच्छादयति
यज्ञं तद्दक्षिनाभिः प्रच्छादयति ॥ ८.७.४.[१५] ॥
यजमान एव पञ्चमी चितिः । प्रजा पुरीषं यत्पञ्चमीं चितिं पुरीषेण प्रच्छादयति
यजमानं तत्प्रजया प्रच्छादयति ॥ ८.७.४.[१६] ॥
स्वर्ग एव लोकः षष्ठी चितिः । देवाः पुरीषं यत्षष्ठीं चितिं पुरीषेण
प्रच्छादयति स्वर्गं तल्लोकं देवैः प्रच्छादयति ॥ ८.७.४.[१७] ॥
अमृतमेव सप्तमी चितिः तामुत्तमामुपदधात्यमृतं तदस्य सर्वस्योत्तमं
दधाति तस्मादस्य सर्वस्यामृतमुत्तमं तस्माद्देवा अनन्तर्हितास्तस्मादु तेऽमृता
इत्यधिदेवतम् ॥ ८.७.४.[१८] ॥
अथाध्यात्मम् । यैवेयं प्रतिष्ठा यश्चायमवाङ्प्राणस्सत्प्रथमा चितिर्मांसम्
पुरीषं यत्प्रथमां चितिं पुरीषेण प्रच्छादयत्येतस्य तदात्मनो मांसैः
संच्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति
नाधस्तात्संच्छादयति तस्मादिमे प्राणा अधस्तादसंच्छन्ना उपरिष्टात्तु
प्रच्छादयत्येतदस्य तदात्मन उपरिष्टान्मांसैः संच्छादयति तस्मादस्यैतदात्मन
उपरिष्टान्मांसैः संच्छन्नं नावकाशते ॥ ८.७.४.[१९] ॥
यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात् । तद्द्वितीया चितिर्मांसं पुरीषं
यद्द्वितीयां चितिं पुरीषेण प्रच्छादयत्येतदस्य तदात्मनो मांसैः
संच्छादयतीष्टका उपधायास्थीष्टका अस्थि तन्मांसैः संच्छादयति पुरीष
उपदधाति पुरीषेण प्रच्छादयत्येतदस्य तदात्मन उभयतो मांसैः संच्छादयति
तस्मादस्यैतदात्मन उभयतो मांसैः संच्छन्नं नावकाशते ॥ ८.७.४.[२०] ॥
मध्यमेव तृतीया चितिः । यदूर्ध्वं मध्यादवाचीनं ग्रीवाभ्यस्तच्चतुर्थी
चितिर्ग्रीवा एव पञ्चमी चितिः शिर एव षष्ठी चितिः प्राणा एव सप्तमी
चितिस्तामुत्तमामुपदधाति प्राणांस्तदस्य सर्वस्योत्तमान्दधाति तस्मादस्य
सर्वस्य प्राणा उत्तमाः पुरीष उपदधाति मांसं वै पुरीषं मांसेन
तत्प्राणान्प्रतिष्ठापयति नोपरिष्टात्प्रच्छादयति तस्मादिमे प्राणा
उपरिष्टादसंच्छन्नाः ॥ ८.७.४.[२१] ॥