योगकुण्डल्युपनिषत्

उपनिषद् योगकुण्डल्युपनिषत् योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् । निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥   ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ 1 हरिः ॐ ॥ हेतुद्वयं हि चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः ॥ १॥ तयोरादौ समीरस्य जयं कुर्यानरः सदा । मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः ॥ २॥ […]

योगकुण्डल्युपनिषत् Read More »

कठोपनिषत्/प्रथमोध्यायः/तृतीयवल्ली

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥ यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् । अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २ ॥ आत्मानँ रथिनं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥ इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।

कठोपनिषत्/प्रथमोध्यायः/तृतीयवल्ली Read More »

आत्मबोधोपनिषत्

आत्मबोधोपनिषत् श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् । स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥ ॐ वाङ्मे मनसीति शान्तिः ॥ ॥प्रथमोऽद्याय:॥ ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकारो उकार मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमोनारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । ॥ १॥ अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं दीपवत्प्रकाशम् ॥२॥ ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।

आत्मबोधोपनिषत् Read More »

वज्रसूच्युपनिषत्

उपनिषद् ॥ वज्रसूचिका उपनिषद् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् । दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ १ ॥ ब्राह्मक्षत्रियवैष्यशूद्रा इति चत्वारो वर्णास्तेषां

वज्रसूच्युपनिषत् Read More »

प्राणाग्निहोत्रोपनिषत्

उपनिषद् प्राणाग्निहोत्रोपनिषत् शरीरयज्ञसंशुद्धचित्तसंजातबोधतः । मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ अथातः सर्वोपनिषत्सारं संसारज्ञानातीत मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः । यस्मिन्नेव पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन संसारविमुक्तिर्भवतीति । स्वेन विधिनान्नं भूमौ निक्षिप्य या ओषधीः सोमराज्ञीरिति

प्राणाग्निहोत्रोपनिषत् Read More »

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.