तेजोबिन्दूपनिषद्
॥ तेजोबिन्दूपनिषत् ॥ यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा । तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम्॥ ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ प्रथमॊऽध्यायः ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् । आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १ ॥ दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् । […]