ऐतरेयोपनिषद्भाष्यम्
ऐतरेयोपनिषद्भाष्यम् श्रीशङ्करः ऐतरेयोपनिषद् शान्तिपाठः ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि । वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ओं शान्तिः! शान्ति!! शान्तिः!!! सम्बन्धभाष्य परिसमाप्तं कर्म सहापरब्रह्मविषयविज्ञानेन । सैषा कर्मणो ज्ञानसहितस्य परा गतिरुक्थविज्ञानद्वारेणोपसंहृता । “एतत्सत्यं ब्रह्म प्राणाख्यम्””एष […]
ऐतरेयोपनिषद्भाष्यम् Read More »