पुराणोंके लक्षण – श्रीमद्भागवतम् द्वादश स्कन्ध
।।श्रीहरिः।। अथ सप्तमोऽध्याय: अथर्ववेदकी शाखाएँ और पुराणोंके लक्षण सूत उवाच अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् ।संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ।।१शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः ।वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु ।।२कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ।बभ्रुः शिष्योऽथांगिरसः सैन्धवायन एव च ।अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे ।।३नक्षत्रकल्पः शान्तिश्च कश्यपांगिरसादयः ।एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ।।४त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः ।वैशम्पायन हारीतौ षड् वै पौराणिका इमे […]
पुराणोंके लक्षण – श्रीमद्भागवतम् द्वादश स्कन्ध Read More »