| क्षुरिकोपनिषद्विवरणम् [[लेखकः :|]] |
क्षुरिकोपनिषत्
सह नाववतु- इति शान्तिः
योगाधिकारः
क्षुरिकां संप्रवक्ष्यामि धारणां योगसिद्धये ।
यां प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ।। १ ।।
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ।
विवरणम्
कैवल्यनाडिकान्तस्थपराभूमिवरासनम् ।
क्षुरिकोपनिषद्योगभासुरं राममाश्रये ।।
इह खलु कृष्णयजुर्वेदान्तर्गतेयं क्षुरिकोपनिषत् ज्ञानप्रतिबन्धकनिरसनयोगशास्त्ररूपिणी प्रवृत्ता । तस्याः उपोद्धातादि कठवल्लीवदूह्यम् । उक्तलक्षणलक्षितायाः अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते । श्रुतिरेव यथोक्ताधिकारिण उद्दिश्य स्वच्छन्दं प्रवृत्तेति यत् तद्विद्यास्तुत्यर्थम् । केयं श्रुतिरित्यत आह- क्षुरिकामिति । ये यथोक्तयोगसाधनसंपन्नाः तान् प्रति स्वाज्ञानहृदयग्रन्थिच्छेदनपट्वीं क्षुरिकामिव शस्त्ररूपां धारणां ब्रह्मातिरिक्तं न किंचिदस्तीति भावनालक्षणां सम्यक् प्रवक्ष्यामि । किमर्थम् ? ब्रह्ममात्रानुसंधानं
प्. ३७) योगः तत्सिद्धये तदवगतय इत्यर्थः । याम् उक्तलक्षणलक्षितां धारणां प्राप्य योगयुक्तस्य मुनेः न पुनर्जन्म जायते जनिमृतिकलना न हि भवति तामेव संप्रवक्ष्यामीति पूर्वेणान्वयः ।। १ ।। किं तद्योगलक्षणं, केनोक्तं, किं तत्साधनजातम्, इत्यत आह- वेदेति । स्वयमेव भवतीति स्वयंभूः तेन स्वयंभुवा ब्रह्मणा परमेश्वरेण योगशिखादौ ब्रह्माणं प्रति यथोक्तं तत् वेदतत्त्वार्थविहितं सर्ववेदान्तसंमतमित्यर्थः ।।
आसनप्राणायामौ
निःशब्दं देशमास्थाय तत्रासनमवस्थितः ।। २ ।।
कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ।
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ।। ३ ।।
पूरयेत् सर्वमात्मानं सर्वद्वारं निरुध्य च ।
उरोमुखकटिग्रीवं किञ्चिद्धृदयमुन्नतम् ।। ४ ।।
प्राणान् संसारयेत् तस्मिन् नासाभ्यन्तरचारिणः ।
भूत्वा तत्रायतप्राणः शनैरुच्छ्वासमुच्छ्वसेत् ।। ५ ।।
तथाविधयोगसिद्धये साधनान्युपदिशति- निःशब्दमिति । यो निर्विकल्पकयोगार्थी सोऽयं जनसंबाधराहित्यात् निःशब्दं देशमास्थाय तत्र रहस्यप्रदेशे सिद्धपद्माद्यासनम् अवस्थितः सन् ।। २ ।। श्रोत्रादीनीन्द्रियाणि कूर्मोऽङ्गानीव संहृत्य स्वहृदि मनो निरुध्य । चशब्दात् प्राणेन्द्रियद्वारसंकल्पविरलं मनः कृत्वेति द्योत्यते ।
जानू प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
अङ्गुलीस्फोटनं कुर्यात् सा मात्रा परिकीर्तिता ।।
प्. ३८) इति श्रुतिसिद्धकालरूपमात्राद्वादशयोगेन चतुर्मात्रप्रणवेन शनैः शनैः ।। ३ ।। सर्वमात्मानं स्वशरीरं वायुना पूरयेत् । वायुनिर्गमनद्वारेषु सत्सु कथं वायुधारणा स्यादित्यत्र अपानादिसर्वद्वारं निरुध्य । चशब्दात् पूरितं वायुम् अष्टचत्वारिंशन्मात्राकालं कुम्भयेदिति द्योत्यते । एवं धारणां कृत्वा यथावत् रेचयेत् इत्याह- उर इति । सिद्धाद्यासनस्थितो योगी उरश्च मुखं च कटिश्च ग्रीवा च उरोमुखकटिग्रीवमिति । प्राण्यङ्गत्वात् एकवद्भावः । हृदयं च किंचित् उन्नतं विधाय ।। ४ ।। एवं यथोक्तकालम् आयतप्राणो भूत्वा शनैः शनैः उच्छ्वासम् उच्छ्वसेत् चतुर्विंशतिमात्राकालं पूरितं वायुं रेचयेत् । इडया वायुमापूर्य कुम्भयित्वा पिङ्गलया विरेच्य पुनः पिङ्गलया आपूर्य कुम्भयित्वा इडया विरेचयेत् । एवं प्रतिदिनं चतुष्कालम् अशीतिप्राणायामं कुर्यात् इति भावः ।। ५ ।।
प्रत्याहारः
स्थिरमात्मदृढं कृत्वा अङ्गुष्ठेन समाहितः ।
द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ।। ६ ।।
द्वे जानुनी तथोरू द्वे गुदे शिश्ने त्रयस्त्रयः ।
पायोरायतनं तत्र नाभिदेशे समाश्रयेत् ।। ७ ।।
तत्र नाडी सुषुम्ना तु नाडीभिर्दशभिर्वृता ।
तत्र रक्ता च पीता च कृष्णा ताम्रा विलोहिता ।। ८ ।।
अतिसूक्ष्मा च तन्वी च शुक्लां नाडीं समाश्रयेत् ।
तत्र संचारयेत् प्राणान् ऊर्णनाभीव तन्तुना ।। ९ ।।
प्. ३९) ततो रक्तोत्पलाभासं हृदयायतनं महत् ।
दहरं पुण्डरीकं तद् वेदान्तेषु निगद्यते ।। १० ।।
तद्भित्त्वा कण्ठमायाति तन्नाडीं पूरयेदिति ।
आसनप्राणायामलक्षणमुक्त्वा प्रत्याहारलक्षणमाह- स्थिरमिति । एवं प्राणाभ्यासपाटवात् योगी सिद्धं पद्मासनं वा आस्थाय समाहितेन्द्रियो भूत्वा कनिष्ठिकानामिकाभ्यां सहाङ्गुष्ठेन नासिकापुटं निरुध्य हृदये स्थिरं यथा भवति तथा स्वात्ममनःप्राणं दृढं कृत्वा केवलकुम्भकमास्थाय । अथ द्वे गुल्फे वर्तेते तत्र वायुं समारोप्य धारणां कुर्वीत । तुशब्दतः पादाङ्गुलीष्वपि वायुमारोपयेदिति द्योत्यते । ततो जङ्घे जङ्घाप्रदेशे चैव त्रयस्त्रय इत्यावृत्तिः आदरार्था । पादाङ्गुलीगुल्फजङ्घेषु त्रयस्त्रय इति द्वितीयार्थे प्रथमा- त्रिसंख्याकान् दृष्टिमनःप्राणान् क्रमेण आरोप्य ततस्ततः प्रत्याहरेत् ।। ६ ।। तथा द्वे जानुनी ऊरू द्वे गुदे शिश्ने च त्रयस्त्रयो दृष्टिमनःप्राणान् प्रत्याहरेत् । जानूरुमूलाधारस्वाधिष्ठानेषु तत्र तत्र कुम्भित्वा प्रत्याहृत्य अथ पायोः मूलाधारादेः यदायतनं आश्रयः तत्र नाभिदेशे मणिपूरके दृष्टिमनःप्राणान् समारोप्य तज्जयपर्यन्तं समाश्रयेत् ।। ७ ।। तत्र मणिपूरकाश्रयनाडीकन्दे इडापिङ्गलादिनाडीभिः दशभिः वृता सती सुषुम्ना नाम काचन ब्रह्मनाडी वर्तते । तत्रैव नाडीकन्दे रक्ता, चशब्दात् कपिशा, पीता चशब्दात् पिङ्गला, कृष्णा, ताम्रा, विलोहिता । पाण्डरादिवर्णविशिष्टा इदा- पिङ्गला- गान्धारा- वरुणेत्यादिदशनाडीततिः ।। ८ ।। सूक्ष्मा च तन्वी च । चशब्दद्वयतः द्वासप्ततिसहस्रसंख्याः प्रधाननाड्यः सन्तीति द्योत्यते । सर्वासु नाडीषु या प्रधानभूता शुक्लवर्णोज्ज्वला तां शुक्लां सुषुम्नानाडीं समाश्रयेत् । तत्र दृङ्मनःप्राणान् प्रत्याहरेत् इत्याह- तत्रेति । यथा ऊर्णनाभिः तन्तुना संचरति तथा तत्र सुषुम्नायां दृगादीन् संक्रमेत् इत्यर्थः ।। ९ ।। ततः सुषुम्नामार्गात् रक्तोत्पलाभासं हृदयायतनं नाड्यपेक्षया
प्. ४०) महत् । दहरं पुण्डरीकं वेश्म इत्यादिवेदान्तेषु यत् दहरं पुण्डरीकं निगद्यते तत्र सुषुम्नानालार्पितहृदये दृगादीन् त्रीनपि प्रत्याहरेत् ।। १० ।। ततः तत् हृदयपङ्कजं भित्त्वा दृगादिः कण्ठं तद्गतविशुद्धिचक्रं याति । तत्र प्रत्याहृत्य, ततो भ्रूमध्यम् आज्ञाचक्रं ततः सहस्रारचक्रं च पूरयेत् प्रत्याहरेत् । इति शब्दः प्रत्याहारसमाप्त्यर्थः ।।
धारणाध्यानसमाधयः
मनसस्तु परं गुह्यं सुतीक्ष्णं बुद्धिनिर्मलम् ।। ११ ।।
पदस्योपरि यन्मर्म तद्रूपं नाम चिन्तयेत् ।
मनोधारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ।। १२ ।।
इन्द्रवज्रमिति प्रोक्तं मर्मजङ्घानुकृन्तनम् ।
तद्ध्यानवलयोगेन धारणाभिर्निकृन्तयेत् ।। १३ ।।
ऊर्ध्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।
चतुरभ्यस्य योगेन छिन्देदनभिशङ्कितः ।। १४ ।।
ततः कण्ठान्तरे योगी समूहेन्नाडिसंचये ।
एकोत्तरं नाडिशतं तासां मध्ये परा स्थिता ।। १५ ।।
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ।
इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु ।। १६ ।।
तयोर्मध्ये परं स्थानं यस्तं वेद स वेदवित् ।
द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ।। १७ ।।
प्. ४१) छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते ।
योगनिर्मलसारेण क्षुरेणानलवर्चसा ।। १८ ।।
छिन्देन्नाडीशतं धीरः प्रभवादिह जन्मनि ।
जातीपुष्पसमं योगी यदा पश्यति तैतिलम् ।। १९ ।।
एवं शुभाशुभैर्भावैः सा नाडीनां विभावयेत् ।
तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ।। २० ।।
ततो धारणाध्यानसमाधिलक्षणमाह- मनस इति । मनसः अन्तःकरणवृत्तिसहस्रात् परम् । तुशब्दो मनस्तत्कार्यस्य वस्तुतोऽसंभवार्थः । गुह्यम्, अनधिकारिणो गोपनीयत्वात् । सुतीक्ष्णं, स्वाज्ञानतत्कार्यतन्तुछेदनसुतीक्ष्णस्वज्ञानशस्त्रवत्त्वात् । बुद्धिनिर्मलं, निर्मलबुद्धिवेद्यत्वात् ।। ११ ।। विश्वविराडोत्रादिपादजातस्य उपरि यन्मर्म विश्वाद्यसंभवप्रबोधसिद्धसीम तद्रूपं नाम तदस्मीति चिन्तयेत् धारयेत् । एवं ब्रह्मधारणं स्वाज्ञानग्रन्थिछेदकं स्यादित्याह- मन इति । एवं नित्यशः सदा तीक्ष्णेन मनोधारेण ब्रह्मातिरिक्तं न किंचिदस्तीति मनोधारणारूपशस्त्रेण, स्वाज्ञानं भ्रमं छिन्देत् इत्यन्वयः ।। १२ ।। यत् स्वाज्ञानपर्वतभेदेन इन्द्रवज्रमिति प्रोक्तं स्वातिरिक्तमर्माद्यवयवकृन्तनं तथाविधयोगं सुषुम्नाभेदनलक्षणं आश्रित्य तद्ब्रह्माहमस्मीति ध्यानबलयोगेन तद्विशिष्टपदाङ्गुष्ठादिसहस्रारान्तधारणाभिः स्वातिरिक्तं भ्रमं निकृन्तयेत् ।। १३ ।। यदि पुनः स्वातिरिक्तभ्रम उदेति तदा स्वाविद्यापदस्य ऊर्वोः व्यष्टिसमष्ट्योः तदारोपापवादाधारविश्वविराट्तत्तुर्ययोः यत् मध्यम् अविकल्पं तस्मिन् मध्ये दृङ्मनःप्राणान् संस्थाप्य धारणां कृत्वा । तुशब्दः अवधारणार्थः । यथोक्तयोगेन स्थूलादिचतुरंशाढ्यस्वाविद्यापदतत्कार्यं मर्म । तदारोपापवादाधारः प्राणो विश्वविराडोत्रादिः तन्मोचनं चतुरभ्यस्य मर्मप्राणस्थूलादिचतुरंशापवादं कृत्वा तदपवादाधिकरणं
प्. ४२) ब्रह्मास्मीति धारणाबलेन अनभिशङ्कितः सन् योगी योगान्तरायं छिन्देत् ।। १४ ।। ततः किमित्यत आह- तत इति । यतः नाडीसंचयशुद्धिं विना योगसिद्धिः न भवति ततः कारणात् योगी स्वकण्ठान्तरे विलसन्नाडीसंचये प्राणवायुं सम्यक् ऊहेत्, केवलकुम्भकोपायतो नाडीसंचयशुद्धिं कुर्यात् । प्रधाननाडयः का इत्यत आह- एकेति । स्वदेहमध्ये एकोत्तरम् इडादिप्रधाननाडीशतं विद्यते । तासां मध्ये स्थिरा सुषुम्ना नाडी परा सर्वोत्कृष्टा ।। १५ ।। सेयं सुषुम्ना तु परे ब्रह्मणि लीना; ब्रह्मसूत्रवात् । विरजा, रजस्तमोविकारवैरल्यात् । ब्रह्मरूपिणी, ब्रह्मलोकाप्तिहेतुत्वात् । सुषुम्नाज्ञानफलमाह- इडेति । सुषुम्नाया वामभागेन, सप्तम्यर्थे तृतीया, सुषुम्नावामदक्षिणपार्श्वयोः इडा पिङ्गला च तिष्ठति ।। १६ ।। तयोर्मध्ये सुषुम्नायां परमुत्कृष्टं ब्रह्मस्थानं वर्तते । तं तत्रत्यपरमात्मानं प्रत्यगभेदेन यो वेद स मुनिः वेदार्थब्रह्मवित् भवति । यथोक्तध्यानयोगेन सुषुम्नेतरनाडीषु प्राणगतिः छिद्यते, सुषुम्नाप्राणगतिस्तु न छिद्यत इत्याह- द्वासप्ततीति ।। प्रधाननाड्यस्तु द्वासप्ततिसहस्राणि भवन्ति । तत्र सुषुम्ना-नाड्यन्तर्गतकैवल्यनाडिकान्तःस्थनिष्प्रतियोगिकचिन्मात्रध्यानयोगेन प्रतिनाडीषु प्राणवायोस्तैतिलं गतागतलक्षणम् ।। १७ ।। छिद्यते विच्छिद्यते । तदानीं सुषुम्ना एका सुषुम्नामध्यगकैवल्यनाडिकायां दृङ्मनःप्राणवृत्तिः न छिद्यते आब्रह्मकल्पं न नश्यति, न बहिः निर्गच्छति, कल्पान्ते विरूपविलयं भजति । अत एव कैवल्यनाडीप्रविष्टदृग्वायुमनोवृत्तिमन्मुनिकलेबरम् आब्रह्मकल्पं तिष्ठतीत्यत्र भगवद्वचनं मानम-
मत्तत्त्ववेत्तुः करणालिरादौ कैवल्यनाड्यन्तर चित्खमेत्य ।
आब्रह्मकल्पं विलयं भजन् सन् कायेन कैवल्यमवाप्य तिष्ठेत् ।।
इति । यतः एवम् अतो धीरो योगी योगः तत्त्वज्ञानं तथाविधयोग एव निर्मलसारः सूक्ष्मधारारूपः तेन योगनिर्मलसारेण क्षुरेण अनलवर्चसा ।। १८ ।। इह अस्मिन्नेव जन्मनि प्रभवात् ब्रह्मातिरिक्तं न किंचिदस्तीति भावनाबलात् नाडीशतं तद्गतप्राणप्रचरान् छिन्देत् कैवल्यनाड्यामेव
प्. ४३) दृङ्मनःप्राणप्रचारं कुर्यात् इति भावः । कैवल्यतदितरनाडीवायुप्रचाराप्रचारतो योगी कृतकृत्यो भवतीत्याह- जातीति । यथोक्तसाधनसंपन्नो योगी जातीपुष्पपरिमलाविनाभाववत् यदा कैवल्यनाड्यां दृङ्मनःप्राणतैतिलं स्थैर्यं पश्यति तदा विदेहमुक्तो भवति, गमनं तैतिलं स्थैर्यम् इति कोशात् ।। १९ ।। एवं यदा सुषुम्नान्तःस्थकैवल्यनाडीतरनाडीनां या दृङ्मनःप्राणगतिः सेयं स्वर्गनरकगमनागमनलक्षणैः शुभाशुभैः भावैः युक्तेति विभावयेत् । अपुनर्भवगतिप्रदा इयं सुषुम्ना नाडी, कैवल्यगतिप्रदा इयं सुषुम्नान्तर्गतकैवल्यनाडी, तदितररमादिनाडीततिः शुभफलस्वर्गादिप्रापिका, अरमादिनाडीततिः अशुभफलनरकादिप्रापिका, तदितरनाड्यस्तु नानाविचित्ररोगादिगतिप्रापिका इत्यत्र रमा पुण्येन पुण्यं लोकं नयति अरमा पापेन पापम् इच्छया यत् स्मरति तदभिसंपद्यते अपुनर्भवायाकोशं भिनत्ति इत्यादि मृत्युर्वै परे देव एकीभवति इत्यादि श्रुतेः । यतः इतरनाडीवायुप्रचारः शुभाशुभहेतुः अतो योगाभ्यासेन तद्गतिनिरोधं कृत्वा सुषुम्नादिनाड्यामेव वायुप्रचारं भावयेत् । एवं भावनाफलमाह- तदिति । एवं सुषुम्नादौ प्राणमारोप्य तद्ब्रह्माहमस्मीति धिया भाविता एवं भावनया ते पुनर्जन्मविवर्जिताः सन्तः तदेव ब्रह्म प्रपद्यन्ते ।। २० ।।
योगसाधनं तदधिकारी च
तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।
निःसङ्गः साङ्गयोगज्ञो निरपेक्षः शनैः शनैः ।। २१ ।।
तद्योगसाधनं अधिकारिणं च निरूपयति- तप इति । स्वाश्रमाचारसहकृतयोगाभ्यासतपसा विजितचित्तस्तु योगी निर्विकल्पकसमाध्यर्थं जनसम्बाधराहित्यात् निःशब्दं देशमास्थितः स्वान्तर्बहिःकलनानिःसङ्गः साङ्गयोगज्ञः अष्टाङ्गयोगतत्त्ववित् स्वातिरिक्तनिरपेक्षः सन् शनैः शनैः विकल्पजातं हित्वा निर्विकल्पकसमाधिनिष्ठो भवेत् इति वाक्यशेषः ।। २१ ।।
प्. ४४) समाधिफलम्
पाशांश्छित्त्वा यथा हंसो निर्विशङ्कं खमुत्पतेत् ।
छिन्नपाशस्तथा जीवः संसारं तरते सदा ।। २२ ।।
यथा निर्वाणकाले तु दीपो दग्ध्वा लयं ब्रजेत् ।
तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ।। २३ ।।
प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् ।
वैराग्योपलघृष्टेन च्छित्त्वा तन्तुं न बध्यते ।। २४ ।।
इत्युपनिषट् ।।
सदृष्टान्तं समाधिफलमाह- पाशानिति । यथा हंसः स्वतुण्डेन स्वपादबन्धनमानससरोरुहकमलपाशान् छित्त्वा निर्विशङ्कं यथा भवति तथा खमुत्पतेत् तथा योगी जीवः सदा योगाभ्यासतीक्ष्णखड्गेन संछिन्नसंसृतिपाशः सन् संसारं तरते ।। २२ ।। किं च- यथा दीपो निर्वाणकाले स्वाश्रयवर्त्त्यादिकं दग्ध्वा स्वयोनौ लयं शान्तिं ब्रजेत् तथा योगी स्वावारकब्रह्ममात्रावरणसर्वकर्मजालं दग्ध्वा स्वातिरिक्तलयमपह्नवं ब्रजेत् ।। २३ ।। उक्तोपनिषदर्थमुपसंहरति- प्राणेति । यथोक्तयोगवित् मुनिः प्राणायामादिसाधनसुतीक्ष्णेन सम्यक्तीव्रतरवैराग्ययोपलघृष्टेन अर्धमात्राधारेण स्वज्ञानशस्त्रेण स्वज्ञानतन्तुं छित्त्वा न पुनः बध्यते स्वाज्ञानेन । स्वज्ञानेन तन्तुच्छेदनसमकालं योगी स्वमात्रमवशिष्यते । इतिशब्दो निःसंशयार्थः । उपनिषच्छब्दः प्रकृतोपनिषत्परिसमाप्त्यर्थः ।। २४ ।।
श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
लिखितं स्याद्विवरणं क्षुरिकायाः स्फुटं लघु ।
क्षुरिकोपनिषद्व्याख्या विंशत्यधिशतं स्मृता ।।
इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे एकत्रिंशत्संख्यापूरकं क्षुरिकोपनिषद्विवरणं संपूरणम्