तैत्तिरीयोपनिषदत्/शिक्षावल्ली

॥ तैत्तिरीयोपनिषत् ॥ ॐ श्री गुरुभ्यो नमः । हरिः ॐ । ॥ शान्तिपाठः ॥ ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । […]

तैत्तिरीयोपनिषदत्/शिक्षावल्ली Read More »

कौषीतकीब्राह्मणोपनिषद्

(1)पूषा यशा(2) सुमनसा(3) रतिः(4) (5)प्राप्तिस्तथा धृतिः(6)। (7)ऋद्धिः सौम्या(8) (9)मरीचिश्च तथा चैवांशुमालिनी(10)॥ (11)अङ्गिरा शशिनी(12) चेति छाया(13) सम्पूर्णमण्डला(14)। (15)तष्टिश्चैवामृता(16) चेति कलाः सोमस्य षोडश॥ तन्त्रोक्ता कला यथा– अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः। शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गादा॥ पूर्णापूर्णामृताकामदायिन्यः शशिनः कलाः। आसां प्रयोजनं कलावतीदीक्षादौ पूजनम्॥ इति रुद्रयामलम्॥ ॥ कौषीतकिब्राह्मणोपनिषत् ॥ ॐ वाङ्मे मनसि प्रतिष्ठिता। मनो मे वाचि प्रतिष्ठितम्। आविरावीर्म

कौषीतकीब्राह्मणोपनिषद् Read More »

दक्षिणामूर्त्युपनिषत्

उपनिषद् ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविन- मुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥१॥ परमरहस्यशिव-तत्त्वज्ञानेनेति स होवाच ॥२॥ किं तत्परमरहस्यशिवतत्त्वज्ञानम् । तत्र को देवः । के मन्त्राः ।

दक्षिणामूर्त्युपनिषत् Read More »

गर्भोपनिषद्

उपनिषद् ॥ गर्भोपनिषत् ॥ यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् । शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥ ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः || ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । तत्सप्तधातुत्रिमलं द्वियोनिं चतुर्विधाहारमयं शरीरं भवति । पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजो-वायुराकाशमिति । अस्मिन्पञ्चात्मके शरीरे का पृथिवी

गर्भोपनिषद् Read More »

अवधूतोपनिषत्

उपनिषद् अवधूतोपनिषत् गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् । तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं लक्ष्म किं संसरणमिति । तं होवाच भगवो दत्तात्रेयः परमकारुणिकः ॥ अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् । तत्त्वमस्यादिलक्ष्यत्वादवधूत

अवधूतोपनिषत् Read More »

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.