कठोपनिषत्/प्रथमोध्यायः/द्वितीयवल्ली

अन्यच्छ्रेयोऽन्यदुतैव प्रेय- स्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥ श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २ ॥ स त्वं प्रियान्प्रियरूपांश्च कामान् अभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥ […]

कठोपनिषत्/प्रथमोध्यायः/द्वितीयवल्ली Read More »

शाट्यायनीयोपनिषत्

उपनिषद् ॥ शाट्यायनीयोपनिषत् ॥ शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति । यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ वह (ईश्वर) पूर्ण है, यह (संसार) भी पूर्ण है। पूर्ण से पूर्ण उत्पन्न होता है। पूर्ण में से पूर्ण को ले लेने पर भी पूर्ण ही शेष रहता है। ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ

शाट्यायनीयोपनिषत् Read More »

कठोपनिषत्/द्वितीयोध्यायः/द्वितीयवल्ली

पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥ हँसः शुचिषद्वसुरान्तरिक्षसद्- होता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥ ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥ अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥ न

कठोपनिषत्/द्वितीयोध्यायः/द्वितीयवल्ली Read More »

अमृतबिन्दूपनिषद्विवरणम्

अमृतबिन्दूपनिषद्विवरणम् [[लेखकः :|]] MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: amṛtabindu upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva अमृतबिन्दूपनिषत् सह नाववतु-इति शान्तिः मन एव बन्धमोक्षयोः कारणम् मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च | अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् || १ || मन

अमृतबिन्दूपनिषद्विवरणम् Read More »

कठोपनिषद्-शाङ्करभाष्यम्

कठोपनिषद्-शाङ्करभाष्यम् [[लेखकः :|]] शान्तिपाठ ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवाबहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ शांति शांति शांति। सम्बन्ध भाष्य ॐ नमो भगवते वैवस्वताय मृत्यवे ब्राहृविद्याचार्याय नचिकेतसे च। सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपमुपनिषदिति। उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते। केन पुनरर्थयोगेन उपनिषच्छब्देन विद्योच्यत इत्युच्यते। ये मुमुक्षवो द्दष्टानुश्रविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन

कठोपनिषद्-शाङ्करभाष्यम् Read More »

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.