तुरीयातीतोपनिषत्
उपनिषद् तुरीयातीतोपनिषत् ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्शरम् । तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥ तुरीयातीतसंन्यासपरिव्राजाक्शमालिका । अव्यक्तैकाक्शरं पूर्णा सूर्याक्श्यध्यात्मकुण्डिका ॥ हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं परिसमेत्योवाच। तमाह भगवन्नारायणो योऽयमवधूतमार्गस्थो लोके दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव नित्यपूतः स एव […]