रुद्रहृदयोपनिषत्
उपनिषद् रुद्रहृदयोपनिषत् यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् । तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् । तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥ १॥ प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह । को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥ २॥ […]