श्रीगणेशाय नमः।
श्रीमद्भगवद्गीता शाङ्करभाष्य हिन्दी अनुवादसहित — पृष्ठ 401–410
श्रीमद्भगवद्गीता शाङ्करभाष्य हिन्दी अनुवादसहित · Gita Press, Gorakhpur · पृष्ठ 401–410
पृष्ठ 401
पाठ पढ़ें पाठ छिपाएँ
* शांकरभाष्य अध्याय १७ * ४०१ यत् तु दानं प्रत्युपकारार्थं काले तु अयं मां जो दान प्रत्युपकारके लिये अर्थात् कालान्तरमें प्रत्युपकरिष्यति इति एवम् अर्थं फलं वा अस्य यह मेरा प्रत्युपकार करेगा, इस अभिप्रायसे अथवा इस दानस्य मे भविष्यति अदृष्टम् इति तद् उद्दिश्य दानसे मुझे परलोकमें फल मिलेगा ऐसे उद्देश्यसे पुनः दीयते च परिक्लिष्टं खेदसंयुक्तं तद् राजसं क्लेश - खेदपूर्वक दिया जाता है, वह राजस कहा स्मृतम् ॥ २१ ॥ गया है ॥ २१ ॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं अदेशकाले अपुण्ये देशे म्लेच्छाशुच्यादि-सङ्कीर्णे अकाले पुण्यहेतुत्वेन अप्रख्याते सङ्क्रान्त्यादिविशेषरहिते अपात्रेभ्यः च मूर्ख -तस्करादिभ्यो देशादिसम्पत्तौ च असत्कृतं प्रियवचनपादप्रक्षालनपूजादिरहितम् अवज्ञातं पात्रपरिभवयुक्तं यद् दानं तत् तामसम् उदाहृतम् ॥ २२ ॥
तत्तामसमुदाहृतम् ॥ २२ ॥
जो दान अयोग्य देश - कालमें अर्थात् अशुद्ध वस्तुओं और म्लेच्छादिसे युक्त पापमय देशमें तथा पुण्यके हेतु बतलाये हुए संक्रान्ति आदि विशेषतासे रहित कालमें और मूर्ख, चोर आदि अपात्रोंको दिया जाता है तथा जो अच्छे देश - कालादिमें भी बिना सत्कार किये — प्रिय वचन, पाद - प्रक्षालन और पूजादि सम्मानसे रहित तथा पात्रका अपमान करते हुए दिया जाता है, वह तामस कहा गया है ॥ २२ ॥
यज्ञदानतपःप्रभृतीनां साद्गुण्यकरणाय अयम् यज्ञ, दान और तप आदिको सद्गुणसम्पन्न उपदेश उच्यते- बनानेके लिये यह उपदेश दिया जाता है—
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥
ॐ तत्सद् इति एष निर्देशो निर्दिश्यते अनेन इति निर्देशः त्रिविधो नामनिर्देशो ब्रह्मण: स्मृतः चिन्तितो वेदान्तेषु ब्रह्मविद्भिः । ब्राह्मणाः तेन निर्देशेन त्रिविधेन वेदाः च यज्ञाः च विहिता निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थम् उच्यते ॥ २३ ॥
ओम् तत् सत् — यह तीन प्रकारका ब्रह्मका निर्देश है । जिससे कोई वस्तु बतलायी जाय उसका नाम निर्देश है, अतः यह ब्रह्मका तीन प्रकारका नाम है, ऐसा वेदान्तमें ब्रह्मज्ञानियोंद्वारा माना गया है । पूर्वकालमें इस तीन प्रकारके नामसे ही ब्राह्मण, वेद और यज्ञ-ये सब रचे गये हैं । यह ब्रह्मके नामकी स्तुति करनेके लिये कहा जाता है ॥ २३ ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥
पृष्ठ 402
पाठ पढ़ें पाठ छिपाएँ
४०२ * श्रीमद्भगवद्गीता * तस्माद् ओम् इति उदाहृत्य उच्चार्य इसलिये वेदका प्रवचन - पाठ करनेवाले ब्राह्मणोंकी यज्ञदानतपःक्रिया यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते शास्त्र - विधिसे कही हुई यज्ञ, दान और तपरूप विधानोक्ता: शास्त्रचोदिताः सततं सर्वदा ब्रह्मवादिनां क्रियाएँ ब्रह्मके ' ओम् ' इस नामका उच्चारण करके ही ब्रह्मवदनशीलानाम् ॥ २४ ॥ सर्वदा आरम्भ की जाती हैं ॥ २४ ॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥
तद् इति अनभिसन्धाय तद् इति ब्रह्माभिधानम् ' तत् ' ऐसे इस ब्रह्मके नामका उच्चारण करके उच्चार्य अनभिसन्धाय च कर्मणः फलं यज्ञतपः- और कर्मोंके फलको न चाहकर नाना प्रकारकी यज्ञ क्रिया यज्ञक्रियाः च तपः क्रियाः च यज्ञतपः- और तपरूप तथा दान अर्थात् भूमि, सोना आदिका क्रिया दानक्रियाः च विविधाः क्षेत्रहिरण्य-प्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभि: दान करनारूप क्रियाएँ मोक्षको चाहनेवाले मुमुक्षु मोक्षार्थिभिः मुमुक्षुभिः ॥ २५ ॥ पुरुषोंद्वारा की जाती हैं ॥ २५ ॥
ॐ तच्छब्दयोः विनियोग उक्तः अथ इदानीं ओम् और तत् - शब्दका प्रयोग तो कहा गया, सच्छब्दस्य विनियोगः कथ्यते- - अब सत् - शब्दका प्रयोग कहा जाता है- I
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥
सद्भावे असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि तथा साधुभावे असद्वृत्तस्य असाधोः सवृत्तता साधुभावः तस्मिन् साधुभावे च सद् इति एतद् अभिधानं ब्रह्मणः प्रयुज्यते तत्र उच्यते अभिधीयते प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ युज्यते प्रयुज्यते इति एतत् ॥ २६ ॥
अविद्यमान वस्तुके सद्भावमें यानी जैसे अविद्यमान पुत्रादिके उत्पन्न होनेमें तथा साधुभावमें अर्थात् बुरे आचरणोंवाले असाधु पुरुषका जो सदाचारयुक्त हो जाना है,, उसमें, ' सत् ' ऐसे इस ब्रह्मके नामका प्रयोग किया जाता है अर्थात् वहाँ ' सत् ' शब्द कहा जाता है तथा हे पार्थ! विवाह आदि माङ्गलिक कर्मोंमें भी ' सत् ' शब्द प्रयुक्त होता है अर्थात् ( उनमें भी ) ' सत् ' शब्दका प्रयोग किया जाता है ॥ २६ ॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥
पृष्ठ 403
पाठ पढ़ें पाठ छिपाएँ
* शांकरभाष्य अध्याय १७ * ४०३ यज्ञे यज्ञकर्मणि या स्थितिः तपसि च या स्थितिः दाने च या स्थितिः सा च सद् इति उच्यते विद्वद्भिः कर्म च एव तदर्थीयम् अथवा यस्य अभिधानत्रयं प्रकृतं तदर्थीयं यज्ञदान-तपोऽर्थीयम् ईश्वरार्थीयम् इति एतत् । सद् इति एव अभिधीयते । तद् एतद् यज्ञतप- आदिकर्म असात्त्विकं विगुणम् अपि श्रद्धापूर्वकं ब्रह्मणः अभिधानत्रयप्रयोगेण सगुणं सात्त्विकं सम्पादितं भवति ॥ २७ ॥
जो यज्ञकर्ममें स्थिति है, जो तपमें स्थिति है और जो दानमें स्थिति है, वह भी ‘ सत् है ' ऐसा विद्वानोंद्वारा कहा जाता है । तथा उन यज्ञादिके लिये जो कर्म है अथवा जिसके तीन नामोंका प्रकरण चल रहा है, उस ईश्वरके लिये जो कर्म है, वह भी ' सत् है ' यही कहा जाता है । इस प्रकार किये हुए यज्ञ और तप आदि कर्म, यदि असात्त्विक और विगुण हों तो भी श्रद्धापूर्वक परमात्माके तीनों नामोंके प्रयोगसे सगुण और सात्त्विक बना लिये जाते हैं ॥ २७ ॥
तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वं सम्पाद्यते क्योंकि सभी जगह श्रद्धाकी प्रधानतासे ही सब यस्मात् तस्मात्— कुछ किया जाता है, इसलिये— अश्रद्धया हुतं दत्तं
दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥
अश्रद्धया हुतं हवनं कृतं दत्तं च ब्राह्मणेभ्यः बिना श्रद्धाके किया हुआ हवन, बिना श्रद्धाके अश्रद्धया, तपः तप्तम् अनुष्ठितम् अश्रद्धया, ब्राह्मणोंको दिया हुआ दान, तपा हुआ तप तथा और भी जो कुछ बिना श्रद्धाके किया हुआ स्तुति-तथा अश्रद्धया एव कृतं यत् स्तुतिनमस्कारादि नमस्कारादि कर्म है वह सब, हे पार्थ! मेरी प्राप्तिके तत् सर्वम् असद् इति उच्यते मत्प्राप्तिसाधन- साधनमार्गसे बाह्य होनेके कारण असत् है, ऐसा कहा मार्गबाह्यत्वात् पार्थ अपि प्रेत्य फलाय निन्दितत्वाद् इति ॥ । न च तद् बह्वायासम् जाता है । क्योंकि वह बहुत परिश्रमयुक्त होनेपर भी साधु पुरुषोंद्वारा निन्दित होनेके कारण न तो मरनेके नो अपि इहार्थं साधुभिः पश्चात् फल देनेवाला होता है २८ ॥ सुखदायक होता है ॥ २८ ॥
इति श्रीमहाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन-संवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य श्रीमच्छङ्कर-भगवतः कृतौ श्रीभगवद्गीताभाष्ये श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७ ॥
और न इस लोकमें ही
पृष्ठ 404
पाठ पढ़ें पाठ छिपाएँ
ॐ अष्टादशोऽध्यायः सर्वस्य एव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वः च वेदार्थो वक्तव्य इति एवम् अर्थः अयम् अध्याय आरभ्यते । सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते । अर्जुनः तु सन्यास -त्यागशब्दार्थयोः एव विशेषं बुभुत्सुः उवाच -अर्जुन उवाच— इस अध्यायमें समस्त गीता - शास्त्रका आशय और वेदोंका सम्पूर्ण तात्पर्य इकट्ठा करके कहना है, इस अभिप्रायसे यह अठारहवाँ अध्याय आरम्भ किया जाता है । इस अध्यायमें पहलेके सभी अध्यायोंमें कहा हुआ अभिप्राय मिलता है । तथापि अर्जुन केवल संन्यास और त्याग – इन दो शब्दोंके अर्थोंका भेद जाननेकी इच्छासे ही प्रश्न करता है -अर्जुन बोला— सन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश सन्यासस्य सन्यासशब्दार्थस्य इति एतद् हे महाबाहो तत्त्वं तस्य भावः तत्त्वं याथात्म्यम् इति एतद् इच्छामि वेदितुं ज्ञातुं त्यागस्य च त्यागशब्दार्थस्य इति एतद् हृषीकेश पृथग् इतरेतरविभागतः । केशिनिषूदन । केशिनामा हयच्छद्मा असुरः तं निषूदितवान् भगवान् वासुदेवः तेन तन्नाम्ना सम्बोध्यते अर्जुनेन ॥ १ ॥
पृथक्केशिनिषूदन ॥१ ॥
हे महाबाहो! हे हृषीकेश! हे केशिनिषूदन! मैं संन्यासका अर्थात् संन्यास - शब्दके अर्थका और त्यागका अर्थात् त्याग - शब्दके अर्थका तत्त्व - यथार्थ स्वरूप अलग - अलग विभागपूर्वक जानना चाहता हूँ । भगवान् वासुदेवने छलसे घोड़ेका रूप धारण करनेवाले केशि नामक असुरको मारा था, इसलिये वे उस ( केशिनिषूदन ) नामसे अर्जुनद्वारा सम्बोधित किये गये हैं ॥ १ ॥
तत्र तत्र निर्दिष्टौ सन्यासत्यागशब्दौ न पहले अध्यायोंमें जिनका जगह - जगह निर्देश निलुण्ठितार्थौ पूर्वेषु अध्यायेषु अतः अर्जुनाय किया गया है, वे संन्यास और त्याग – दोनों शब्द स्पष्टार्थयुक्त नहीं हैं, इसलिये ( उनका स्पष्ट अर्थ पृष्टवते तन्निर्णयाय— जाननेकी इच्छासे ) पूछनेवाले अर्जुनको उनका निर्णय श्रीभगवानुवाच— सुनानेके लिये श्रीभगवान् बोले—
काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥
पृष्ठ 405
पाठ पढ़ें पाठ छिपाएँ
* शांकरभाष्य अध्याय १८ * ४०५ काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं परित्यागं सन्यासं सन्यासशब्दार्थम् अनुष्ठेयत्वेन प्राप्तस्य अननुष्ठानं कवयः पण्डिताः केचिद् विदुः विजानन्ति । नित्यनैमित्तिकानाम् अनुष्ठीयमानानां सर्व-कर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः सर्वकर्मफलत्यागः तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताः । यदि काम्यकर्मपरित्यागः फलपरित्यागो वा अर्थो वक्तव्यः सर्वथा अपि त्यागमात्रं सन्यासत्यागशब्दयोः एकः अर्थो न घटपट-शब्दौ इव जात्यन्तरभूतार्थौ । ननु नित्यनैमित्तिकानां कर्मणां फलम् एव नास्ति इति आहुः कथम् उच्यते तेषां फल-त्याग इति । यथा वन्ध्यायाः पुत्रत्यागः । न एष दोषः, नित्यानाम् अपि कर्मणां भगवता फलवत्त्वस्य इष्टत्वात् । वक्ष्यति हि भगवान् ‘ अनिष्टमिष्टम् ' इति ' न तु सन्यासिनाम् ' इति च । सन्यासिनाम् एव हि केवलं कर्मफलासम्बन्धं दर्शयन् दर्शयन् असन्यासिनां नित्यकर्मफलप्राप्तिम् ' भवत्यत्यागिनां प्रेत्य ' इति दर्शयति ॥ २ ॥
कितने ही बुद्धिमान् – पण्डित लोग, अश्वमेधादि सकाम कर्मोंके त्यागको संन्यास समझते हैं अर्थात् कर्तव्यरूपसे प्राप्त ( शास्त्रविहित ) सकाम कर्मोंके न करनेको संन्यास शब्दका अर्थ समझते हैं । कुछ विचक्षण पण्डितजन अनुष्ठान किये जानेवाले नित्य नैमित्तिक सम्पूर्ण कर्मोंके, अपनेसे सम्बन्ध रखनेवाले फलका परित्याग करनारूप जो सर्व - कर्म-फल- त्याग है, उसे ही त्याग कहते हैं, अर्थात् ' त्याग ' शब्दका वे ऐसा अभिप्राय बतलाते हैं । कहनेका अभिप्राय, चाहे काम्य कर्मोंका ( स्वरूपसे ) त्याग करना हो और चाहे समस्त कर्मोंका फल छोड़ना ही हो, सभी प्रकारसे संन्यास और त्याग — इन दोनों शब्दोंका अर्थ तो एकमात्र त्याग ही है । ये दोनों शब्द ' घड़ा ' और ' वस्त्र ' आदि शब्दोंकी भाँति भिन्न जातीय अर्थके बोधक नहीं हैं । पू ० – जब ऐसा कहा जाता है कि नित्य और नैमित्तिक कर्मोंका तो फल ही नहीं होता, फिर यहाँ वन्ध्याके पुत्रत्यागकी भाँति, उनके फलका त्याग करनेके लिये कैसे कहा जाता है? उ ० — नित्यकर्मोंका भी फल होता है - यह बात भगवान्को इष्ट है, इसलिये यह दोष नहीं है । क्योंकि भगवान् स्वयं कहेंगे कि ' मरनेके बाद कर्मोंका अच्छा- - बुरा और मिला हुआ फल असंन्यासियोंको होता है ', ' संन्यासियोंको नहीं ' इस प्रकार वहाँ केवल संन्यासियोंके लिये कर्मफलकी अभाव दिखाकर, असंन्यासियोंके लिये कर्मफलका प्राप्ति अवश्यम्भावी दिखलायेंगे ॥ २ ॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥
पृष्ठ 406
पाठ पढ़ें पाठ छिपाएँ
४०६ * श्रीमद्भगवद्गीता * त्याज्यं त्यक्तव्यं दोषवद् दोषः अस्य अस्ति इति दोषवत् । किं तत् कर्म बन्धहेतुत्वात् सर्वम् एव । अथवा दोषो यथा रागादि: त्यज्यते तथा त्याज्यम् इति एके प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिता अधिकृतानां कर्मिणाम् अपि इति । तत्र एव यज्ञदानतप: कर्म न त्याज्यम् इति च अपरे । कर्मिण एव अधिकृतान् अपेक्ष्य एते विकल्पा न तु ज्ञाननिष्ठान् व्युत्थायिनः सन्यासिनः । अपेक्ष्य । ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता इति कर्माधिकाराद् अपोद्धृता ये न तान् प्रति चिन्ता | ननु ‘ कर्मयोगेन योगिनाम् ' इति अधिकृताः पूर्वं विभक्तनिष्ठा अपि इह सर्वशास्त्रोपसंहार-प्रकरणे यथा विचार्यन्ते तथा साङ्ख्या अपि ज्ञाननिष्ठा विचार्यन्ताम् इति । न, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः । न कायक्लेशनिमित्तानि दुःखानि साङ्ख्या आत्मनि पश्यन्ति इच्छादीनां क्षेत्रधर्मत्वेन एव दर्शितत्वात् । अतः ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति । न अपि ते कर्माणि आत्मनि पश्यन्ति येन नियतं कर्म मोहात् परित्यजेयुः । कितने ही सांख्यादि मतावलम्बी पण्डितजन कहते हैं कि जिसमें दोष हो वह दोषवत् है । वह क्या है? कि बन्धनके हेतु होनेके कारण सभी कर्म दोषयुक्त हैं, इसलिये कर्म करनेवाले कर्माधिकारी मनुष्योंके लिये भी वे त्याज्य हैं, अथवा जैसे राग-द्वेष आदि दोष त्यागे जाते हैं, वैसे ही समस्त कर्म भी त्याज्य हैं इसी विषयमें दूसरे विद्वान् कहते हैं कि यज्ञ, दान और तपरूप कर्म त्याग करनेयोग्य नहीं हैं । ये सब विकल्प, कर्म करनेवाले कर्माधिकारियोंको लक्ष्य करके ही किये गये हैं । समस्त भोगोंसे विरक्त ज्ञाननिष्ठ, संन्यासियोंको लक्ष्य करके नहीं । ( अभिप्राय यह कि ) ' सांख्ययोगियोंकी निष्ठा ज्ञानयोगके द्वारा मैं पहले कह चुका हूँ ' इस प्रकार जो ( संन्यासी ) कर्माधिकारसे अलग कर दिये गये हैं उनके विषयमें यहाँ कोई विचार नहीं करना है । पू ० – ' कर्मयोगियोंकी निष्ठा कर्मयोगसे कही गयी है ' इस कथनसे जिनकी निष्ठाका विभाग पहले किया जा चुका है, उन कर्माधिकारियोंके सम्बन्धमें जिस प्रकार यहाँ गीताशास्त्रके उपसंहार-प्रकरणमें फिर विचार किया जाता है, वैसे ही सांख्यनिष्ठावाले संन्यासियोंके विषयमें भी तो किया जाना उचित ही है । उ ० — नहीं, क्योंकि उनका त्याग मोह या दुःखके निमित्तसे होनेवाला नहीं हो सकता । ( भगवान्ने क्षेत्राध्यायमें ) इच्छा और द्वेष आदिको शरीरके ही धर्म बतलाया है, इसलिये सांख्यनिष्ठ संन्यासी शारीरिक पीड़ाके निमित्तसे होनेवाले दुःखोंको आत्मामें नहीं देखते । अतः वे शारीरिक क्लेशजन्य दुःखके भयसे कर्म नहीं छोड़ते । तथा वे आत्मामें कर्मोंका अस्तित्व भी नहीं देखते, जिससे कि उनके द्वारा मोहसे नियत कर्मोंका परित्याग किया जा सकता हो ।
पृष्ठ 407
पाठ पढ़ें पाठ छिपाएँ
* शांकरभाष्य गुणानां कर्म न एव किञ्चित् करोति इति हि ते सन्न्यसन्ति । ' सर्वकर्माणि मनसा सन्यस्य ' इत्यादिभिः हि तत्त्वविदः सन्यास -प्रकार उक्तः । तस्माद् ये अन्ये अधिकृताः कर्मणि अनात्मविदो येषां च मोहात् त्यागः सम्भवति कायक्लेशभयात् च ते एव तामसाः त्यागिनो राजसाः च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् । ' सर्वारम्भपरित्यागी ' ' मौनी ' ' सन्तुष्टो येन केनचित्’‘अनिकेतः स्थिरमति: ' इति गुणातीत -लक्षणे च परमार्थसन्न्यासिनो विशेषितत्वात् । वक्ष्यति च ‘ ज्ञानस्य या परा निष्ठा ' इति । तस्माद् ज्ञाननिष्ठाः सन्यासिनो न इह विवक्षिताः । कर्मफलत्याग एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया सन्यास उच्यते न मुख्यः सर्वकर्मसन्यासः । सर्वकर्मसन्यासासम्भवे च ' न हि देहभृता ' इति हेतुवचनाद् मुख्य एव इति चेत् । न हेतुवचनस्य स्तुत्यर्थत्वात् । यथा ‘ त्यागाच्छान्तिरनन्तरम् ' इति कर्मफलत्याग-स्तुतिः एव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात्, तथा इदम् अपि अध्याय १८ * ४०७ ' सारे कर्म गुणोंके हैं, मैं कुछ भी नहीं करता ' ऐसा समझकर ही वे कर्मसंन्यास करते हैं, क्योंकि ' सब कर्मोंको मनसे त्यागकर ' इत्यादि वाक्योंद्वारा तत्त्वज्ञानियोंके संन्यासका प्रकार ( ऐसा ही ) बतलाया गया है । अतः जो अन्य आत्मज्ञानरहित कर्माधिकारी मनुष्य हैं, जिनके द्वारा मोहपूर्वक या शारीरिक क्लेशके भयसे कर्मोंका त्याग किया जाना सम्भव है, वे ही तामस और राजस त्यागी हैं । ऐसा कहकर, आत्मज्ञानरहित कर्माधिकारियोंके कर्म - फलत्यागकी स्तुति करनेके लिये, उन राजस - तामस त्यागियोंकी निन्दा की जाती है । क्योंकि ' सर्वारम्भपरित्यागी ' ' मौनी ' ' संतुष्टो येन केनचित्’'अनिकेतः स्थिरमतिः ' इत्यादि विशेषणोंसे ( बारहवें अध्यायमें ) और गुणातीतके लक्षणोंमें भी यथार्थ संन्यासीको पृथक् करके कहा गया है, तथा ' ज्ञानकी जो परानिष्ठा है ' इस प्रकरणमें भी यही बात कहेंगे, इसलिये यहाँ यह विवेचन ज्ञाननिष्ठ संन्यासियोंके विषयमें नहीं है । कर्मफलत्याग ( रूपसंन्यास ) ही सात्त्विकतारूप गुणसे युक्त होनेके कारण यहाँ तामस - राजस त्याग-की अपेक्षा गौणरूपसे संन्यास कहा जाता है । यह ( सात्त्विक त्याग ) सर्वकर्मसंन्यासरूप मुख्य संन्यास नहीं है । पू ० –'न हि देहभृता ' इत्यादि हेतुयुक्त कथनसे यह पाया जाता है कि स्वरूपसे सर्वकर्मोंका संन्यास असम्भव है, अतः कर्मफलत्याग ही मुख्य संन्यास है । उ ० — यह कहना ठीक नहीं, क्योंकि यह हेतुयुक्त कथन कर्मफलत्यागकी स्तुतिके लिये है । जिस प्रकार पूर्वोक्त अनेक साधनोंका अनुष्ठान करनेमें असमर्थ और आत्मज्ञानरहित अर्जुन-के लिये विहित होनेके कारण ' त्यागा-च्छान्तिरनन्तरम् ' यह कहना कर्मफलत्यागकी
पृष्ठ 408
पाठ पढ़ें पाठ छिपाएँ
४०८ * श्रीमद्भगवद्गीता * ‘ न हि देहभृता शक्यम् ' इति कर्मफलत्याग - । स्तुत्यर्थं वचनम् । न सर्वकर्माणि मनसा सन्न्यस्य न एव कुर्वन् न कारयन् आस्ते इति अस्य पक्षस्य अपवादः केनचिद् दर्शयितुं शक्यः । तस्मात् कर्मणि अधिकृतान् प्रति एव एष सन्यासत्यागविकल्पः । ये तु परमार्थदर्शिन: साङ्ख्याः तेषां ज्ञाननिष्ठायाम् एव सर्वकर्म -सन्यासलक्षणायाम् अधिकारो न अन्यत्र इति न ते विकल्पार्हाः । तथा उपपादितम् अस्माभिः ' वेदाविनाशिनम् ' इति अस्मिन् प्रदेशे तृतीयादौ च ॥ ३ ॥
स्तुतिमात्र है । वैसे ही ' न हि देहभृता शक्यम् ' यह कहना भी कर्मफलत्यागकी स्तुतिके लिये ही है । क्योंकि ' सब कर्मोंको मनसे छोड़कर न करता हुआ और न कराता हुआ रहता है ' इस पक्षका अपवाद किसीके द्वारा भी दिखलाया जाना सम्भव नहीं है । सुतरां यह संन्यास और त्यागसम्बन्धी विकल्प, कर्माधिकारियोंके विषयमें ही है । जो यथार्थ ज्ञानी सांख्ययोगी हैं, उनका केवल सर्वकर्मसंन्यासरूप ज्ञाननिष्ठामें ही अधिकार है, अन्यत्र नहीं, अतः वे विकल्पके पात्र नहीं हैं । यही सिद्धान्त हमने ' वेदाविनाशिनम् ' इस श्लोककी व्याख्यामें और तीसरे अध्यायके आरम्भमें सिद्ध किया है ॥ ३ ॥
तत्र एतेषु विकल्पभेदेषु- इन विकल्पभेदोंमें —
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥४ ॥
निश्चयं शृणु अवधारय मे मम वचनात् तत्र त्यागे त्यागसन्यासविकल्पे यथादर्शिते भरतसत्तम भरतानां साधुतम | त्यागो हि त्यागसन्यासशब्दवाच्यो हि यः अर्थः स एक एव इति अभिप्रेत्य आह त्यागो हि इति । पुरुषव्याघ्र त्रिविधः त्रिप्रकार: तामसादिप्रकारैः सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः । यस्मात् तामसादिभेदेन त्यागसन्यास-शब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मज्ञस्य त्रिविधः सम्भवति न परमार्थ -दर्शिन इति अयम् अर्थो दुर्ज्ञानः तस्माद् अत्र हे भरतवंशियोंमें श्रेष्ठतम अर्जुन! उस पूर्वदर्शित त्यागके विषयमें, अर्थात् त्याग - संन्याससम्बन्धी विकल्पोंके विषयमें तू मेरा निश्चय सुन, अर्थात् मेरे वचनोंसे कहा हुआ तत्त्व भली प्रकार समझ । त्याग और संन्यास शब्दका जो वाच्यार्थ है वह एक ही है, इस अभिप्रायसे केवल त्यागके नामसे ही ( प्रश्नका ) उत्तर देते हैं । हे पुरुषसिंह! ( उस ) त्यागका शास्त्रोंमें तामस आदि तीन प्रकारके भेदोंसे भली प्रकार निरूपण किया गया है । जिससे कि आत्मज्ञानरहित कर्माधिकारी– कर्मी पुरुषका ही ' त्याग - संन्यास - शब्दका वाच्यार्थ ( संन्यास ) तामस आदि भेदोंसे तीन प्रकारका होना सम्भव है, परमार्थज्ञानी नहीं ' यह अभिप्राय समझमें आना बड़ा कठिन है, इसलिये इस विषय में
पृष्ठ 409
पाठ पढ़ें पाठ छिपाएँ
* शांकरभाष्य अध्याय १८ * ४० ९ तत्त्वं न अन्यो वक्तुं समर्थः तस्माद् निश्चयं | यथार्थ तत्त्व बतलानेको दूसरा कोई समर्थ नहीं है, परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं अतः तू मुझ ईश्वरका शास्त्रोंके यथार्थ अभिप्रायसे शृणु ॥ ४ ॥ युक्त निश्चय सुन ॥४ ॥
कः पुनः असौ निश्चय इति अत आह- - I वह निश्चय क्या है! इसपर कहते हैं— यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
यज्ञो दानं तप इति एतत् त्रिविधं कर्म न यज्ञ, दान और तप, ये तीन प्रकारके कर्म त्यागनेयोग्य त्याज्यं न त्यक्तव्यं कार्यं करणीयम् एव तत् । नहीं हैं अर्थात् इन तीनोंका त्याग करना उचित नहीं है, कस्माद् यज्ञो दानं तपः च एव पावनानि इन्हें तो करना ही चाहिये; क्योंकि यज्ञ, दान और तप विशुद्धिकारणानि मनीषिणां फलानभिसन्धीनाम् | ये तीनों बुद्धिमानोंको अर्थात् फल - कामनारहित पुरुषोंको, इति एतत् ॥ ५ ॥ पवित्र करनेवाले हैं ॥ ५ ॥
एतान्यपि तु कर्माणि सङ्गं कर्तव्यानीति मे पार्थ एतानि अपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि सङ्गम् आसक्तिं तेषु त्यक्त्वा, फलानि च तेषां त्यक्त्वा परित्यज्य कर्तव्यानि इति अनुष्ठेयानि इति मे मम निश्चितं मतम् उत्तमम् । ' निश्चयं शृणु मे तत्र ' इति प्रतिज्ञाय पावनत्वं च हेतुम् उक्त्वा एतानि अपि कर्माणि कर्तव्यानि इति एतद् निश्चितं मतम् उत्तमम् इति प्रतिज्ञातार्थोपसंहार एव न अपूर्वार्थं वचनम् एतानि अपि इति प्रकृतसन्निकृष्टार्थतोपपत्तेः ।
त्यक्त्वा फलानि च ।
निश्चितं मतमुत्तमम् ॥६ ॥
जो पवित्र करनेवाले बतलाये गये हैं, ऐसे ये यज्ञ, दान और तपरूप कर्म भी तद्विषयक आसक्ति और फलका त्याग करके ही किये जाने चाहिये, अर्थात् आसक्ति और फलके त्यागपूर्वक ही इनका अनुष्ठान करना उचित है । यह मेरा निश्चय किया हुआ उत्तम मत है । ' इस विषयमें मेरा निश्चय सुन ' इस प्रकार प्रतिज्ञा करके और ( उनकी कर्तव्यतामें ) पावनत्वरूप हेतु बतलाकर जो ऐसा कहना है कि ' ये कर्म किये जाने चाहिये ' ' यह मेरा निश्चित उत्तम मत है ' यह प्रतिज्ञा किये हुए विषयका उपसंहार ही है, किसी अपूर्व विषयका वर्णन नहीं है; क्योंकि ' एतानि ' शब्दका आशय प्रकरणमें अत्यन्त निकटवर्ती विषयको ही लक्ष्य कराना होता है ।
पृष्ठ 410
पाठ पढ़ें पाठ छिपाएँ
४१० * श्रीमद्भगवद्गीता * सासङ्गस्य फलार्थिनो बन्धहेतव एतानि अपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपि शब्दस्य अर्थो न तु अन्यानि कर्माणि अपेक्ष्य एतानि अपि इति उच्यते । अन्ये वर्णयन्ति नित्यानां कर्मणां फलाभावात् सङ्गं त्यक्त्वा फलानि च इति न उपपद्यते । एतानि अपि इति यानि काम्यानि कर्माणि नित्येभ्यः अन्यानि एतानि अपि कर्तव्यानि किमुत यज्ञदानतपांसि नित्यानि इति । तद् असत् नित्यानाम् अपि कर्मणां फल-वत्त्वस्य उपपादितत्वात् । ' यज्ञो दानं तपश्चैव पावनानि ' इत्यादि वचनेन । नित्यानि अपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु प्रसङ्गः । ' दूरेण ह्यवरं कर्म ' इति च निन्दितत्वात् ' यज्ञार्थात्कर्मणोऽन्यत्र ' इति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात् ' त्रैगुण्यविषया वेदा: ' ‘ त्रैविद्या मां सोमपाः ’ ‘ क्षीणे पुण्ये मर्त्यलोकं विशन्ति ' इति च दूरव्यवहितत्वात् च न काम्येषु एतानि अपि इति व्यपदेश: ॥ ६ ॥
आसक्तियुक्त और फलेच्छुक मनुष्योंके लिये यद्यपि ये ( यज्ञ, दान और तपरूप ) कर्म बन्धनके कारण हैं, तो भी मुमुक्षुको ( फल - आसक्तिसे रहित होकर ) करने चाहिये, यही ' अपि ' शब्दका अभिप्राय है । यहाँ ( यज्ञ, दान और तपसे अतिरिक्त ) अन्य ( काम्य ) कर्मोंको लक्ष्य करके ' एतानि ' के साथ ' अपि ' शब्दका प्रयोग नहीं है । कुछ अन्य टीकाकार कहते हैं कि नित्यकर्मोंके फलका अभाव होनेके कारण उनको फल और आसक्ति छोड़कर कर्तव्य बतलाना नहीं बन सकता, ( अतः ) ‘ एतान्यपि ' इस पदका अभिप्राय यह है कि जो नित्यकर्मोंसे अतिरिक्त काम्य कर्म हैं वे भी करने चाहिये, फिर यज्ञ, दान और तपरूप नित्यकर्मोंके विषयमें तो कहना ही क्या है । यह अर्थ ( करना ) ठीक नहीं; क्योंकि ' यज्ञो दानं तपश्चैव पावनानि ' इत्यादि वचनोंसे ' नित्यकर्मोंका भी फल होता है; यह सिद्ध किया गया है । नित्यकर्मोंको भी बन्धनकारक होनेकी आशङ्कासे छोड़नेकी इच्छा रखनेवाले मुमुक्षुकी प्रवृत्ति काम्य-कर्मोंमें कैसे हो सकती है? इसके सिवा ‘ सकाम कर्म अत्यन्त निकृष्ट हैं ' इस कथनमें काम्यकर्मोंकी निन्दा की जानेके कारण और ' यथार्थ कर्मके अतिरिक्त अन्य कर्म बन्धनकारक हैं ' इस कथनसे काम्यकर्म बन्धन-कारक माने जानेके कारण, एवं ' वेद त्रिगुणात्मक ( संसार ) - को विषय करनेवाले हैं ' ' तीनों वेदोंको जाननेवाले सोमरस पीनेवाले ' ' पुण्य क्षीण होनेपर मृत्युलोकमें आ जाते हैं ' ऐसा कहा जानेके कारण और साथ ही काम्यकर्मोंका विषय बहुत दूर व्यवधानयुक्त होनेके कारण भी ( यह सिद्ध होता है कि ) ‘ एतान्यपि ' यह कथन काम्यकर्मोंके विषयमें नहीं है ॥ ६ ॥