निघण्टु प्रथमोध्यायः

निघण्टु प्रथमोध्यायः

अथ प्रथमः अध्यायः
गौः
ग्मा
ज्मा
क्ष्मा
क्षा
क्षमा
क्षोणी
क्षितिः
अवनिः
उर्वी
पृथ्वी
मही
रिपः
अदितिः
इळआ
निरृतिः
भू
भूमिः
पूषा
गातुः
गोत्रा इति पृथिव्याः [ गोत्रा इति एकविंशतिः पृथिवीनामधेयानि ] | १ |

हेम
चन्द्रम्
रुक्मम्
अयः
हिरण्यम्
पेशः
कृशनम्
लोहम्
कनकम्
काञ्चनम्
भर्म
अमृतम्
मरुत
दत्रम
जातरूपम् इति हिरण्यस्य [ जातरूपम् इति पञ्चदश हिरण्यनामानि] | २ |

अम्बरम्
वियत्
व्योम
बर्हिः
धन्व
अन्तरिक्षम्
आकाशम्
आपः
पृथिवी
भूः
स्वयम्भूः
अध्वा
पुष्करम्
सगरः
समुद्रः
अध्वरम् इति अन्तरिक्षस्य
[ अध्वरम् इति षोडश अन्तरिक्षनामानि] | ३ |

स्वः
पृश्निः
नाकः
गौः
विष्टप्
नभः इति साधारणानि [नभः इति षट् साधारणानि ] | ४ |

खेदयः
किरणाः
गावः
रश्मयः
अभीशवः
दीधितयः
गभस्तयः
वनम्
उस्राः
वसवः
मरीचिपा
मयूखाः
सप्त ऋषयः
साध्याः
सुपर्णाः इति रश्मीनाम् [सुपर्णाः इति पञ्चदश रश्मिनामानि ] | ५ |

आताः
आशाः
उपराः
आष्ठाः
काष्ठाः
व्योम
ककुभः
हरितः इति दिशाम् [ हरितः इति अष्टौ दिङ्नामानि ] | ६ |

श्यावी
क्षपा
शर्वरी
अक्तुः
ऊर्म्या
राम्या
यम्या
नम्या
दोषा
नक्ता
तमः
रजः
असिक्नी
पयस्वती
तमस्वती
घृताची
शिरिणा
मोकी
शोकी
ऊधः
पयः
हिम
वस्वाऌ इति रात्रेः [ वस्वी इति त्रयोविंसती रात्रिनामानि ] | ७ |

विभावरी
सूनरी
भास्वती
ओदती
चित्रामघा
अर्जुनी
वाजिनी
वाजिनीवती
सुम्नावरी
अहना
द्योतना
श्वेत्या
अरुषी
सूनृता
सूनृतावती
सूनृतावरी इति उषसः [ सूनृतावरी इति षोडश उषोनामानि] | ८ |

वस्तोः
द्युः
भानुः
वासरम्
स्वसराणि
घ्रंस
घर्मः
घृणः
दिनम्
दिवा
दिवेदिवे
द्यविद्यवि इति अह्नः
[ द्यविद्यवि इति द्वादश अहर्नामानि ] | ९ |

अद्रिः
ग्रावा
गोत्रः
वल
अश्नः
पुरुभोजाः
वलिशानः
अश्मा
पर्वतः
गिरिः
व्रजः
चरुः
वराहः
शंबरह्
रौहिणः
रैवतः
फलिगः
उपरः
उपलः
चमसः
अहिः
अभ्रम्
वलाहकः
मेघः
दृतिः
ओदनः
वृषन्धिः
वृत्रः
असुरः
कोशः इति मेघानाम् [कोशः इति त्रिंशत् मेघनामानि ] | १० |

श्लोकः
धारा
इळआ
गौः
गौरी
गान्धर्वी
गभीरा
गम्भीर
मन्द्रा
मन्द्राजनी
वाशी
वाणी
वाणीची
वाणः
पविः
भारती
धमनिः
नाळईः
मेना
मेळइः
सूर्या
सरस्वती
निवित्
स्वाहा
वग्नु
उपब्दिः
मायुः
काकुत्
जिह्वा
घोषः
स्वरः
शब्दः
स्वनः
ऋक्
होत्रा
गीः
गाथा
गणः
धेना
ग्नाः
विपा
नन
कशा
धिषणा
नौः
अक्षरम्
मही
अदितिः
शची
वाक्
अनुष्टुप्
धेनुः
वल्गुः
गल्दा
सरः
सुपर्णी
बेकुरा इति वाचः [बेकुरा इति सप्तपंचाशत् वाङ्नामानि ] | ११ |

अर्णः
क्षोदः
क्षद्म
नभः
अम्भः
कबन्धम्
सलिलम्
वाः
वनम्
घृतम्
मधु
पुरीषम्
पिप्पलम्
क्षीरम्
विषम्
रेतः
कशः
जन्म
बृबूकम
बुसम्
तुग्र्या
बुर्बुरम्
सुक्षेम
धरुणम्
सुरा
अररिन्दानि
ध्वस्मन्वत्
जामि
आयुधानि
क्षपः
अहिः
अक्षरम्
स्रोतः
तृप्तिः
रसः
उदकम
पयः
सरः
भेषजम्
सहः
शवः
यहः
ओजः
सुखम्
क्षत्रम्
आवयाः
शुभम्
यादुः
भूतम्
भुवनम्
भविष्यत्
आपः
महत
व्योम
यशः
महः
सर्णीकम्
स्वृतीकम्
सतीनम्
गहनम्
गभीरम्
गम्भरम्
ईम्
अन्नम्
हविः
सद्म
सदनम्
ऋतम्
योनिः
ऋतस्य योनिः
सत्यम्
नीरम्
रयिः
सत्
पूर्णम्
सर्वम्
अक्षितम्
बर्हिः
नाम
सर्पिः
अपः
पवित्रम्
अमृतम्
इन्दुः
हेम
स्वः
सर्गाः
शम्बरम्
अभ्वम्
वपुः
अम्बु
तोयम्
तूयम्
कृपीटम्
शुक्रम्
तेजः
स्वधा
वारि
जलम्
जलाषम्
इदम् इति उदकस्य [इदम् इति एकशतम् उदकनामानि ] | १२ |

अवनयः
यव्याः
खा
सीराः
स्रोत्याः
एन्वः
धुनयः
रुजानाः
वक्षणाः
खादः अर्णाः
रोधचक्राः
हरितः
सरितः
अग्रुवः
नभन्वः
वध्वः
हिरण्यवर्णाः
रोहितः
सस्रुतः
अर्णाः
सिन्धवः
कुल्याः
वर्यः
उर्व्यः
इरावत्यः
पार्वत्यः
स्रवन्त्यः
ऊर्जस्वत्यः
पयस्वत्यः
तरस्वत्यः
सरस्वत्यः
हरस्वत्यः
रोधस्वत्यः
भास्वत्यः
अजिराः
मातरः
नद्यः इति नदीनाम् [नद्यः इति सप्तत्रिंशत् नदीनामानि]१३

अत्यः
हयः
अर्वा
वाजी
सप्तिः
वह्निः
दधिक्राः
दधिक्रावा
एतग्वः
एतशः
पैद्वः
दौर्गहः
औच्चैश्रवसः
तार्क्ष्यः
आशुः
ब्रध्नः
अरुष
मांश्चत्वः
अव्यथयः
श्येनासः
सुपर्णाः
पतङ्गाः
नरः
ह्वार्याणाम्
हंसासः
अश्वाः इति अश्वानाम् [अश्वाः इति षड्विंशतिः अश्वनामानि ] | १४ |

हरी इन्द्रस्य
रोहितः अग्नेः
हरितः आदित्यस्य
रासभावश्विनोः
अजाः पूष्णः
पृषत्यः मरुताम्
अरुण्यः गावः उषसाम्
श्यावाः सवितु
विश्वरूपाः बृहस्पतेः
नियुतः वायोः इति [ दश आदिष्टोपयोजनानि ] | १५ |

भ्राजते
भ्राशते
भ्राश्यति
दीदयति
शोचति
मन्दते
भन्दते
रोचते
ज्योतते
द्योतते
द्युमत् इति [ एकादश ] ज्वलतिकर्माणः | १६ |

जमत्
कल्मलीकिनम्
जञ्जणाभवन्
मल्मलाभवन
अर्चि
शोचि
तपः
तेजः
हरः
हृणिः
शृङ्गाणि शृङ्गाणि इति ज्वलतः [शृङ्गाणि इति एकादश ज्वलतः नामधेयानि] | १७ |
इति निघण्टौ प्रथमः अध्याय

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.