शतपथ ब्राह्मणम् काण्डम् १

शतपथ ब्राह्मणम् माध्यन्दिनशाखा मूलम्

काण्डम्

व्रतमुपैष्यन् । अन्तरेणाहवनीयं च गार्हपत्यं च प्राङ्तिष्ठन्नप उपस्पृशति
तद्यदप उपस्पृशत्यमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो
मेध्या वा आपो मेध्यो भूत्वा व्रतमुपायानीति पवित्रं वा आपः पवित्रपूतो
व्रतमुपायानीति तस्माद्वा अप उपस्पृशति ॥ १.१.१.
[१] ॥

सोऽग्निमेवाभीक्षमाणो व्रतमुपैति । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं
तन्मे राध्यतामित्यग्निर्वै देवानां व्रतपतिस्तस्मा एवैतत्प्राह व्रतं चरिष्यामि
तच्छकेयं तन्मे राध्यतामिति नात्र तिरोहितमिवास्ति ॥ १.१.१.
[२] ॥

अथ संस्थिते विसृजते । अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मे
राधीत्यशकद्ध्येतद्यो यज्ञस्य संस्थामगन्नराधि ह्यस्मै यो यज्ञस्य
संस्थामगन्नेतेन न्वेव भूयिष्ठा इव व्रतमुपयन्त्यनेन त्वेवोपेयात् ॥ १.१.१.
[३] ॥

द्वयं वा इदं न तृतीयमस्ति । सत्यं चैवानृतं च सत्यमेव देवा अनृतम्
मनुष्या इदमहमनृतात्सत्यमुपैमीति तन्मनुष्येभ्यो देवानुपैति ॥ १.१.१.
[४] ॥

स वै सत्यमेव वदेत् । एतद्धवै देवा व्रतं चरन्ति यत्सत्यं तस्मात्ते यशो यशो
ह भवति य एवं विद्वान्त्सत्यं वदति ॥ १.१.१.
[५] ॥

अथ संस्थिते विसृजते । इदमहं य एवास्मि सोऽस्मीत्यमानुष इव वा एतद्भवति
यद्व्रतमुपैति न हि तदवकल्पते यद्ब्रूयादिदमहं सत्यादनृतमुपैमीति तदु
खलु पुनर्मानुषो भवति तस्मादिदमहं य एवास्मि सोऽस्मीत्येवं व्रतं
विसृजेत ॥ १.१.१.
[६] ॥

अथातोऽशनानशनस्यैव । तदुहाषाढः सावयसोऽनशनमेव व्रतं मेने मनो
ह वै देवा मनुष्यस्याजानन्ति त एनमेतद्व्रतमुपयन्तं विदुः प्रातर्नो
यक्ष्यत इति तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः ॥ १.१.१.
[७] ॥

तन्न्वेवानवकॢप्तम् । यो मनुष्येष्वनश्नत्सु पूर्वोऽश्नीयादथ किमु यो
देवेष्वनश्नत्सु पूर्वोऽश्नीयात्तस्मादु नैवाश्नीयात् ॥ १.१.१.
[८] ॥

तदु होवाच याज्ञवल्क्यः । यदि नाश्नाति पितृदेवत्यो भवति यद्यु अश्नाति
देवानत्यश्नातीति स यदेवाशितमनशितं तदश्नीयादिति यस्य वै हविर्न गृह्णन्ति
तदशितमनशितं स यदश्नाति तेनापितृदेवत्यो भवति यद्यु तदश्नाति यस्य हविर्न
गृह्णन्ति तेनो देवान्नात्यश्नाति ॥ १.१.१.
[९] ॥

स वा आरण्यमेवाश्नीयात् । या वारण्या ओषधयो यद्वा वृक्ष्यं तदु ह स्माहापि
बर्कुर्वार्ष्णो मासान्मे पचत न वा एतेसां हविर्गृह्णन्तीति तदु तथा न
कुर्याद्व्रीहियवयोर्वा एतदुपजं यच्छमीधान्यं तद्व्रीहियवावेवैतेन भूयांसौ
करोति तस्मादारण्यमेवाश्नीयात् ॥ १.१.१.
[१०] ॥

स आहवनीयागारे वैतां रात्रीं शयीत । गार्हपत्यागारे वा देवान्वा एष उपावर्तते यो
व्रतमुपैति स यानेवोपावर्त्तते तेषामेवैतन्मध्ये शेतेऽधः शयीताधस्तादिव हि
श्रेयस उपचारः ॥ १.१.१.
[११] ॥

स वै प्रातरप एव । प्रथमेन कर्मणाभिपद्यतेऽपः प्रणयति यज्ञोवा आपो
यज्ञमेवैतत्प्रथमेन कर्मणाभिपद्यते ताः प्रणयति यज्ञमेवैतद्वितनोति ॥ १.१.१.
[१२] ॥

स प्रणयति । कस्त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा
युनक्तीत्येताभिरनिरुक्ताभिर्व्याहृतिभिरनिरुक्तो वै प्रजापतिह्
प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद्यज्ञं युनक्ति ॥ १.१.१.
[१३] ॥

यद्वेवापः प्रणयति । अद्भिर्वा इदं सर्वमाप्तं तत्प्रथमेनैवैतत्कर्मणा
सर्वमाप्नोति ॥ १.१.१.
[१४] ॥

यद्वेवास्यात्र । होता वाध्वर्युर्वा ब्रह्मा वाग्नीध्रो वा स्वयं वा यजमानो
नाभ्यापयति तदेवास्यैतेन सर्वमाप्तं भवति ॥ १.१.१.
[१५] ॥

यद्वेवापः प्रणयति । देवान्ह वै यज्ञेन यजमानांस्तानसुररक्षसानि
ररक्षुर्न यक्ष्यध्व इति तद्यदरक्षंस्तस्माद्रक्षांसि ॥ १.१.१.
[१६] ॥

ततो देवा एतं वज्रं ददृशुः । यदपो वज्रो वा आपो वज्रो हि वा आपस्तस्माद्येनैता
यन्ति निम्नं कुर्वन्ति यत्रोपतिष्ठन्ते निर्दहन्ति तत एतं
वज्रमुदयचंस्तस्याभयेऽनाष्ट्रे निवाते यज्ञमतन्वत तथो एवैस एतं
वज्रमुद्यच्छति तस्याभयेऽनाष्ट्रे निवाते यज्ञं तनुते तस्मादपः प्रणयति ॥ १.१.१.
[१७] ॥

ता उत्सिच्योत्तरेण गार्हपत्यं सादयति । योषा वा आपो वृषाग्निर्गृहा वै
गार्हपत्यस्तद्गृहेष्वेवैतन्मिथुनं प्रजननं क्रियते वज्रं वा एष उद्यच्छति यो
ऽपः प्रणयति यो वा अप्रतिष्ठितो वज्रमुद्यच्छति नैनं शक्नोत्युद्यन्तुं सं हैनं
शृणाति ॥ १.१.१.
[१८] ॥

स यद्गार्हपत्ये सादयति । गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठायां प्रतितिष्ठति
तथो हैनमेष वज्रो न हिनस्ति तस्माद्गार्हपत्ये सादयति ॥ १.१.१.
[१९] ॥

ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृब्षाग्निर्मिथुनमेवैतत्प्रजननं
क्रियत एवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेते ॥ १.१.१.
[२०] ॥

ता नान्तरेण संचरेयुः । नेन्मिथुनं चर्यमाणमन्तरेण संचरानिति ता नातिहृत्य
सादयेन्नो अनाप्ताः सादयेत्स यदतिहृत्य सादयेदस्ति वा अग्नेश्चापां च
विभ्रातृव्यमिव स यथेव ह तदग्नेर्भवति यत्रास्याप उपस्पृशन्त्यग्नौ हाधि
भ्रातृव्यं वर्धयेद्यदतिहृत्य सादयेद्यद्य अनाप्ताः सादयेन्नो हाभिस्तं
काममभ्यापयेद्यस्मै कामाय प्रणीयन्ते तस्मादु सम्प्रत्येवोत्तरेणाहवनीयम्
प्रणयति ॥ १.१.१.
[२१] ॥

अथ तृणैः परिस्तृणाति । द्वन्द्वं पात्राण्युदाहरति शूर्पं चाग्निहोत्रहवणीं च
स्फ्यं च कपालानिच शम्यां चकृष्णाजिनं चोलूखलमुसले दृषदुपल तद्दश
दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ
यद्द्वन्द्वं द्वन्द्वं वै वीर्यं यदा वै द्वौ सं रभेते अथ तद्वीर्यं भवति
द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते
१.१.२पात्रासादनम् ॥ १.१.१. [२२] ॥

अथ शूर्पं चाग्निहोत्रहवणीं चादत्ते । कर्मणो वां वेषाय वामिति यज्ञो वै कर्म
यज्ञाय हि तस्मादाह कर्मणो वामिति वेषाय वामिति वेवेष्टीव हि यज्ञम् ॥ १.१.२.
[१] ॥

अथ वाचं यच्छति । वाग्वै यज्ञोऽविक्षुब्धो यज्ञं तनवा इत्यथ प्रतपति
प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं रक्षो निष्टप्ता अरातय इति वा ॥ १.१.२.
[२] ॥

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य
आसङ्गाद्बिभयाञ्चक्रुस्तद्यज्ञमुखादेवैतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति ॥ १.१.२.
[३] ॥

अथ प्रैति । उर्वन्तरिक्षमन्वेमीत्यन्तरिक्षं वा अनु
रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायं पुरुषोऽमूल उभयतः
परिच्छिन्नोऽन्तरिक्षमनुचरति तद्ब्रह्मणैवैतदन्तरिक्षमभयमनाष्ट्रं
कुरुते ॥ १.१.२.
[४] ॥

स वा अनस एव गृह्णीयात् । अनो ह वा अग्रे पश्चेव वा इदं यच्छालं स यदेवाग्रे
तत्करवाणिति तस्मादनस एव गृह्णीयात् ॥ १.१.२.
[५] ॥

भूमा वा अनः । भूमा हि वा अनस्तस्माद्यदा बहु
भवत्यनोवाह्यमभूदित्याहुस्तद्भूमानमेवैतदुपैति तस्मादनस एव गृह्णीयात् ॥ १.१.२.
[६] ॥

यज्ञो वसन्ति न कौष्टस्य न कुम्भ्यै भस्त्रायै ह स्मर्षयो गृह्णन्ति
तद्वृषीन्प्रति भस्त्रायै यजूंष्यासुस्तान्येतर्हि प्राकृतानि यज्ञाद्यज्ञं निर्मिमा इति
तस्मादनस एवगृह्णीयात् ॥ १.१.२.
[७] ॥

उतो पात्र्यै गृआमु तर्ह्यवस्तदुपोह्य गृह्णीयाद्यतो युनजाम ततो विमुञ्च्चन्ति ॥ १.१.२. [८] ॥

तस्य वा एतस्यानसः । अग्निरेव धूरग्निर्हि वै धूरथ य
एनद्वहन्त्यग्निदग्धमिवैषां वहं भवत्यथ यज्जघनेन कस्तम्भीं प्र
उगं वेदिरेवास्य सा नीड एव हविर्धानम् ॥ १.१.२.
[९] ॥

स धुरमभिमृशति । धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं
धूर्वयं वयं धूर्वाम इत्यग्निर्वा एष धुर्यस्तमेतदत्येष्यन्भवति
हविर्ग्रहिष्यंस्तस्माएवैतान्निह्नुते तथो हैतमेषोऽतियन्तमग्निर्धुर्यो न
हिनस्ति ॥ १.१.२.
[१०] ॥

तद्ध स्मैतदारुणिराह । अधर्मासशो वा अहं सपत्नान्धूर्वामीत्येतद्ध स्म स
तदभ्याह ॥ १.१.२.
[११] ॥

अथ जघनेन कस्तम्भीमीषामभिमृश्य जपति । देवानामसि वह्नितमं
सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ।ह्रुतमसि हविर्धानं
दृंहस्व मा ह्वारित्यन एवैतदुपस्तौत्युपस्तुताद्रातमनसो हविर्गृह्णानीति मा ते
यज्ञपतिर्ह्वार्षीदिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदुह्वलामाशास्ते ॥ १.१.२.
[१२] ॥

अथाक्रमते । विष्णुस्त्वा क्रमतामिति यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं
विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन
पस्पाराथेदमन्तरिक्षं द्वितीयेन
दिवमुत्तमेनैताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते ॥ १.१.२.
[१३] ॥

अथ प्रेक्षते । उरु वातायेति प्राणो वै वातस्तद्ब्रह्मणैव्
ऐतत्प्राणाय वातायोरुगायं कुरुते ॥ १.१.२.
[१४] ॥

अथापास्यति । अपहतं रक्ष इति यद्यत्र किञ्चिदापन्नं भवति यद्यु नाभ्येव
मृशेत्तन्नाष्ट्रा एवैतद्रक्षां स्यतोऽपहन्ति ॥ १.१.२.
[१५] ॥

अथाभिपद्यते । यच्छन्तां पञ्चति पञ्च वा इमा अङ्गुलयः पाङ्क्तो वै
यज्ञस्तद्यज्ञमेवैतदत्र दधाति ॥ १.१.२.
[१६] ॥

अथ गृह्णाति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्
अग्नये जुष्टं गृह्णामीति सविता वै देवानां प्रसविता तत्सवितृप्रसूत
एवैतद्गृह्णात्यश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू पूष्णो हस्ताभ्यामिति पूषा
भागदुघोऽशनं पाणिभ्यामुपनिधाता सत्यं देवा
अन्तम्मनुष्यास्तत्सत्येनैवैतद्गृह्णाति ॥ १.१.२.
[१७] ॥

अथ देवताया आदिशति । सर्वा ह वै देवता अध्वर्युं हविर्गृहीष्यन्तमुपतिष्ठन्ते
मम नाम ग्रहीष्यति मम नाम ग्रहीष्यतीति ताभ्य एवैतत्सह सतीभ्यो
ऽसमदं करोति ॥ १.१.२.
[१८] ॥

यद्वेव देवताया आदिशति । यावतीभ्यो ह वै देवताभ्यो हवींषि गृह्यन्त ॠणमु
हैव तास्तेन मन्यन्ते यदस्मै तंकामं समर्धयेयुर्यत्काम्या गृह्णाति
तस्माद्वै देवतायाऽआदिशत्येवमेव यथापूर्वं हवींषि गृहीत्वा ॥ १.१.२.
[१९] ॥

अथाभिमृशति । भूताय त्वा नारातय इति तद्यत एव गृह्णाति तदेवैतत्पुनराप्याययति ॥ १.१.२. [२०] ॥

अथ प्राङ्प्रेक्षते । स्वरभिविख्येषमिति परिवृतमिव वा एतदनो भवति
तदस्यैतच्चक्षुः पाप्मगृहीतमिव भवति यज्ञो वै स्वरहर्देवाः
सूर्यस्तत्स्वरेवैतदतो भिविपश्यति ॥ १.१.२.
[२१] ॥

अथावरोहति । दृंहन्तां दुर्याः पृथिव्यामिति गृहा वै दुर्यास्ते हेत ईश्वरो गृहा
यजमानस्य योऽस्यैषोऽध्वर्युर्यज्ञेन चरति तं प्रयन्तमनु
प्रच्योतोस्तस्येश्वरः कुलं विक्षोब्धोस्तानेवैतदस्यां पृथिव्यां दृंहति तथा
नानुप्रच्यवन्ते तथा न विक्षोभन्ते तस्मादाह दृंहन्तां दुर्याः
पृथिव्यामित्यथ प्रैत्युर्वन्तरिक्षमन्वेमीति सोऽसावेव बन्धुः ॥ १.१.२.
[२२] ॥

स यस्य गार्हपत्ये हवींषि श्रपयन्ति । गार्हपत्ये तस्य पात्राणि संसादयन्ति
जघनेनो तर्हि गार्हपत्यं सादयेद्यस्याहवनीये हवींषि श्रपयन्त्याहवनीये
तस्य पात्राणि संसादयन्ति जघनेनो तर्ह्याहवनीयं सादयेत्पृथिव्यास्त्वा नाभौ
सादयामीति मध्यं वै नाभिर्मध्यमभयं तस्मादाह पृथिव्यास्त्वा नाभौ
सादयामीत्यदित्या उपस्थ इत्युपस्थ इवैनदभार्षुरिति वा आहुर्यत्सुगुप्तं
गोपायन्ति तस्मादाहादित्या उपस्थ इत्यग्ने हव्यं रक्षेति तदग्नये चैवैतद्धविः
परिददाति गुप्त्या अस्यै च पृथिव्यै तस्मादाहाग्ने हव्यं रक्षेति
१.१.३प्रोक्षणम् ॥ १.१.२. [२३] ॥

पवित्रे करोति । पवित्रे स्थो वैष्णव्याविति यज्ञो वै विष्णुर्यज्ञिये स्थ इत्येवैतदाह ॥ १.१.३. [१] ॥

ते वै द्वे भवतः । अयं वै पवित्रं योऽयं पवते सोऽयमेक इवैव पवते सो
ऽयं पुरुषेऽन्तः प्रविष्टः प्राङ्च प्रत्यङ्च ताविमौ प्राणोदानौ तदेतस्यैवानु
मात्रां तस्माद्द्वे भवतः ॥ १.१.३.
[२] ॥

अथो अपि त्रीणि स्युः । व्यानो हि तृतीयो द्वे न्वेव भवतस्ताभ्यामेताः प्रोक्षणीरुत्पूय
ताभिः प्रोक्षति तद्यदेताभ्यामुत्पुनाति ॥ १.१.३.
[३] ॥

वृत्रो ह वा इदं सर्वं वृत्वा शिश्ये । यदिदमन्तरेण द्यावापृथिवी स यदेदं सर्वं
वृत्वा शिश्ये तस्माद्वृत्रो नाम
१.१.३[[.]]५
तमिन्द्रो जघान । स हतः पूतिः सर्वत एवापोऽभिप्र सुस्राव सर्वतैव ह्ययं
समुद्रस्तस्मादु हैका आपो बीभत्साञ्चक्रिरे ता उपर्युपर्यतिपुप्रुविरेऽत इमे
दर्भास्ता हैता अनापूयिता आपोऽस्ति वा इतरासु सं सृष्टमिव यदेना वृत्रः
पूतिरभिप्रास्रवत्तदेवासामेताभ्यां पवित्राभ्यामपहन्त्यथ
मेध्याभिरेवाद्भिः प्रोक्षति तस्माद्वा एताभ्यामुत्पुनाति ॥ १.१.३.
[४] ॥

स उत्पुनाति । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति
सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतदुत्पुनात्यच्छिद्रेण पवित्रेणेति यो वा
अयं पवत एषोऽच्छिद्रं पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरित्येते वा
उत्पवितारो यत्सूर्यस्य रश्मयस्तस्मादाह सूर्यस्य रश्मिभिरिति ॥ १.१.३.
[६] ॥

ताः सव्ये पाणौ कृत्वा । दक्षिणेनोदिङ्गयत्युपस्तौत्येवैना एतन्महयत्येव
देवीरापो अग्रेगुवो अग्रेपुव इति देव्यो ह्यापस्तस्मादाह देवीराप इत्यग्रेगुव इति ता
यत्समुद्रं गच्छन्ति तेनाग्रेगुवोऽग्रेपुव इति ता यत्प्रथमाः सोमस्य राज्ञो
भक्षयन्ति तेनाग्रेपुवोऽग्र इममद्य यज्ञं नयताग्रे यज्ञपतिं सुधातुं
यज्ञपतिं देवयुवमिति साधु यज्ञं साधु यजमानमित्येवैतदाह ॥ १.१.३.
[७] ॥

युष्मा इन्द्रोऽवृणीत वृत्रतूर्य इति । एता उ हीन्द्रोऽवृणीत वृत्रेण स्पर्धमान
एताभिर्ह्येनमहंस्तस्मादाह युष्मा इन्द्रोऽवृणीत वृत्रतूर्य इति ॥ १.१.३.
[८] ॥

यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इति । एता उ हीन्द्रमवृणत वृत्रेण
स्पर्धमानमेताभिर्ह्येनमहंस्तस्मादाह यूयमिन्द्रमवृणीध्वं वृत्रतूर्यऽइति ॥ १.१.३.
[९] ॥

प्रोक्षिता स्थेति । तदेताभ्यो निह्नुतेऽथ हविः प्रोक्षत्येको वै प्रोक्षणस्य
बन्धुर्मेध्यमेवैतत्करोति
१.१.३[.१]१
स प्रोक्षति अग्नये त्वा जुष्टं प्रोक्षामीति तद्यस्यै देवतायै हविर्भवति तस्यै
मेध्यं करोत्येवमेव यथापूर्वं हवींषि प्रोक्ष्य ॥ १.१.३.
[१०] ॥

अथ यज्ञपात्राणि प्रोक्षति । दैव्याय कर्मणो शुन्धध्वं देवयज्याया इति दैव्याय
हि कर्मणो शुन्धति देवयज्यायै यद्वोऽशुद्धः पराजघ्नुरिदं वस्तच्छुन्धामीति
तद्यदेवैषामत्राशुद्धस्तक्षा वान्यो वामेध्यः कश्चित्पराहन्ति
तदेवैषामेतदद्भिर्मेध्यं करोति तस्मादाह यद्वोऽशुद्धाः पराजघ्नुरिदं
वस्तच्छुन्धामीति
१.१.४पुरोडाशकरणम् ॥ १.१.३. [१२] ॥

अथ कृष्णाजिनमादत्ते । यज्ञस्यैव सर्वत्वाय यज्ञो ह देवेभ्योऽपचक्राम स
कृष्णो भूत्वा चचार तस्य देवा अनुविद्य त्वचमेवावच्छायाजह्रुः ॥ १.१.४.
[१] ॥

तस्य यानि शुक्लानि च कृष्णानि च लोमानि । तान्यृचां च साम्नां च रूपं यानि शुक्लानि
तानि साम्नां रूपं यानि कृष्णानि तान्यृचां यदि वेतरथा यान्येव कृष्णानि तानि
साम्नां
रूपं यानि शुक्लानि तान्यृचां यान्येव बभ्रूणीव हरीणि तानि यजुषां रूपम् ॥ १.१.४.
[२] ॥

सैषा त्रयी विद्या यज्ञः । तस्या एतच्छिल्पमेष वर्णस्तद्यत्कृष्णाजिनं भवति
यज्ञस्यैव सर्वत्वाय तस्मात्कृष्णाजिनमधि दीक्षन्ते यज्ञस्यैव सर्वत्वाय
तस्मादध्यवहननमधिपेषणं भवत्यस्कन्नं हविरसदिति तद्यदेवात्र
तण्डुलो वा पिष्टं वा स्कन्दात्तद्यज्ञे यज्ञः प्रतितिष्ठादिति
तस्मादध्यवहननमधिपेषणं भवति ॥ १.१.४.
[३] ॥

अथ कृष्णाजिनमादत्ते । शर्मासीति चर्म वा एतत्कृष्णस्य तदस्य तन्मानुषं शर्म
देवत्रा तस्मादाह शर्मासीति तदवधूनोत्यवधूतं रक्षोऽवधूता अरातय इति
तन्नाष्ट्रा एवैतद्रक्षंस्यतोऽपहन्त्यतिनत्येव पात्राण्यवधूनोति
यद्यस्यामेध्यमभूत्तद्यस्यैतदवधूनोति ॥ १.१.४.
[४] ॥

तत्प्रतीचीनग्रीवमुपस्तृणाति । अदित्यास्त्वगसि प्रति त्वादितिर्वेत्त्वितीयं वै
पृथिव्यदितिस्तस्या अस्यै त्वग्यदिदमस्यामधि किञ्च तस्मादाहादित्यास्त्वगसीति प्रति
त्वादितिर्वेत्त्विति प्रति हि स्वः सं जानीते तत्संज्ञामेवैतत्कृष्णाजिनाय च वदति
नेदन्योऽन्यं हिनसात इत्यभिनिहितमेव सव्येन पाणिना भवति ॥ १.१.४.
[५] ॥

अथ दक्षिणेनोलूखलमाहरति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो हि
रक्षसामपहन्ता तस्मादभिनिहितमेव सव्येन पाणिना भवति ॥ १.१.४.
[६] ॥

अथोलूखलं निदधाति । अद्रिरसि वानस्पत्यो ग्रावासि पृथुबुध्न इति वा
तद्यथैवादः सोमं राजानं
ग्रावभिरभिषुण्वन्त्येवमेवैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां
हविर्यज्ञमभिषुणोत्यद्रय इति वै तेषामेकं नाम तस्मादाहाद्रिरसीति वानस्पत्य
इति वानस्पत्यो ह्येष ग्रावासि पृथुबुध्न इति ग्रावा ह्येष पृथुबुध्नो ह्येष प्रति
त्वादित्यास्त्वग्वेत्त्विति तत्संज्ञामेवैतत्कृष्णाजिनाय च वदति नेदन्योऽन्यं हिनसात
इति ॥ १.१.४.
[७] ॥

अथ हविरावपति । अग्नेस्तनूरसि वाचो विसर्जनमिति यज्ञो हि तेनाग्नेस्तनूर्वाचो
विसर्जनमिति यां वा अमूं हविर्ग्रहीष्यन्वाचं यच्छत्यत्र वै तं विसृजते
तद्यदेतामत्र वाचं विसृजत एष हि यज्ञ उलूखले प्रत्यष्ठादेष हि प्रासारि
तस्मादाह वाचो विसर्जनमिति ॥ १.१.४.
[८] ॥

स यदिदं पुरा मानुषीं वाचं व्याहरेत् । तत्रो वैष्णावीमृचं वा यजुर्वा
जपेद्यज्ञो वै विष्णुस्तद्यज्ञं पुनरारभते तस्यो हैषा प्रायश्चित्तिर्देववीतये त्वा
गृह्णामीति देवानवदित्यु हि हविर्गृह्यते ॥ १.१.४.
[९] ॥

अथ मुसलमादत्ते । बृहद्ग्रावासि वानस्पत्य इति बृहद्ग्रावा ह्येष वानस्पत्यो
ह्येष तदवदधाति स इदं देवेभ्यो हविः शमीष्व सुशमि शमीष्वेति स इदं
देवेभ्यो हविः संस्कुरु साधुसंस्कृतं संस्कुर्वित्येवैतदाह ॥ १.१.४.
[१०] ॥

अथ हविष्कृतमुद्वादयति । हविष्कृदेहि हविष्कृदेहीति वाग्वै
हविष्कृद्वाचमेवैतद्विसृजते वागु वै यज्ञस्तद्यज्ञमेवैतत्पुनरुपह्वयते ॥ १.१.४.
[११] ॥

तानि वा एतानि । चत्वारि वाच एहीति ब्राह्मणस्यागह्याद्रवेति वैश्यस्य च
राजन्यबन्धोश्चाधावेति शूद्रस्य स यदेव ब्राह्मणस्य तदाहैतद्धि
यज्ञियतममेतदु ह वै वाचः शान्ततं यदेहीति तस्मादेहीत्येव ब्रूयात् ॥ १.१.४.
[१२] ॥

तद्ध स्मैतत्पुरा । जायैव हविष्कृदुपोत्तिष्ठति तदिदमप्येतर्हि य एव कश्चोपोत्तिष्ठति स यत्रैष हविष्कृतमुद्वादयति तदेको दृषदुपले समाहन्ति तद्यदेतामत्र वाचं प्रत्युद्वादयन्ति ॥ १.१.४. [१३] ॥

मनोर्ह वा ॠषभ आस । तस्मिन्नसुरघ्नी सपत्नघ्नी वाक्प्रविष्टास तस्य ह स्म
श्वसथाद्रवथादसुररक्षसानि मृद्यमानानि यन्ति ते हासुराः समूदिरे पापं वत
नोऽयमृषभः सचते कथं न्विमं दभ्नुयामेति किलाताकुली इति
हासुरब्रह्मावासतुः ॥ १.१.४.
[१४] ॥

तौ होचतुः । श्रद्धादेवो वै मनुरावं नु वेदावेति तौ हागत्योचतुर्मनो याजयाव
त्वेति केनेत्यनेनर्षभेणेति तथेति तस्यालब्धस्य सा वागपचक्राम ॥ १.१.४.
[१५] ॥

सा मनोरेव जायां मनावीं प्रविवेश । तस्यै ह स्म यत्र वदन्त्यै शृण्वन्ति ततो
ह स्मैवासुररक्षसानि मृद्यमानानि यन्ति ते हासुराः समूदिर इतो वै नः पापीयः
सचते भूयो हि मानुषी वाग्वदतीति किलाताकुली हैवोचतुः श्रद्धादेवो वै
मनुरावं न्वेव वेदावेति तौ हागत्योचतुर्मनो याजयाव त्वेति केनेत्यनयैव जाययेति तथेति तस्या आलब्धायै सा वागपचक्राम ॥ १.१.४.
[१६] ॥

सा यज्ञमेव यज्ञपात्राणि प्रविवेश । ततो हैनां न शेकतुर्निर्हन्तुं
सैषासुरघ्नी वागुद्वदति स यस्य हैवंविदुष एतामत्र वाचं प्रत्युद्वादयन्ति
पापीयांसो हैवास्य सपत्ना भवन्ति ॥ १.१.४.
[१७] ॥

स समाहन्ति । कुक्कुटोऽसि मधुजिह्व इति मधुजिह्वो वै स देवेभ्य आसीद्विषजिह्वो
ऽसुरेभ्यः स यो देवेभ्य आसीः सन एधीत्ये वैतदाहेषमूर्जमावद त्वया वयं
सङ्घातं सङ्घातं जेष्मेति नात्र तिरोहितमिवास्ति ॥ १.१.४.
[१८] ॥

अथ शूर्पमादत्ते । वर्षवृद्धमसीति वर्षवृद्धं ह्येतद्यदि नडानां यदि
वेणूनां यदीषीकाणां वर्षमुह्येवैता वर्धयति ॥ १.१.४.
[१९] ॥

अथ हविर्निर्वपति । प्रति त्वा वर्षवृद्धं वेत्त्विति वर्षवृद्धा उ ह्येवैते यदि
व्रीहयो यदि यवा वर्षमुह्येवैतान्वर्धयति तत्संज्ञामेवैतचूर्पाय च वदति
नेदन्योऽन्यं हिनसात इति ॥ १.१.४.
[२०] ॥

अथ निष्पुनाति । परापूतं रक्षः परापूता अरातय इत्यथ तुषान्प्रहन्त्यपहतं
रक्ष इति तन्नाष्ट्रा एवैतद्रक्षांस्यतोऽपहन्ति ॥ १.१.४.
[२१] ॥

अथापविनक्ति । वायुर्वो विविनक्त्वित्ययं वै वायुर्योऽयं पवत एष वा इदं सर्वं
विविनक्ति यदिदं किंच विविच्यते तदेनानेष एवैतद्विविनक्तिस यदैत
एतत्प्राप्नुवन्ति यत्रैनानध्यपविनक्ति ॥ १.१.४.
[२२] ॥

अथानुमन्त्रयते । देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वाच्छिद्रेण पाणिना
सुप्रतिगृहीता असन्नित्यथ त्रिः फलीकरोति त्रिवृद्धि यज्ञः ॥ १.१.४.
[२३] ॥

तद्धैके देवेभ्यः शुन्धध्वं देवेभ्यः शुन्धध्वमिति फलीकुर्वन्ति तदु
तथा न कुर्यादादिष्टं वा एतद्देवतायै हविर्भवत्यथैतद्वैश्वदेवं करोति
यदाह देवेभ्यः शुन्धध्वमिति तत्समदं करोति तस्मादु तूष्णीमेव
फलीकुर्यात् ॥ १.१.४.
[२४] ॥

स वै कपालान्येवान्यतर उपदधाति । दृषदुपले अन्यतरस्तद्वा एतदुभयं सह
क्रियते तद्यदेतदुभयं सह क्रियते ॥ १.२.१.
[१] ॥

शिरो ह वा एतद्यज्ञस्य यत्पुरोडाशः स यान्येवेमानि शीर्ष्णः कपालान्येतान्येवास्य
कपालानि मस्तिष्क एव पिष्टानि तद्वा एतदेकमङ्गमेकं सह करवाव समानं
करवावेति तस्माद्वा एतदुभयं सह क्रियते ॥ १.२.१.
[२] ॥

स यः कपालान्युपदधाति । स उपवेषमादत्ते धृष्टिरसीति स यदेनेनाग्निं
धृष्णिवोपचरति तेन धृष्टिरथ यदेनेन यज्ञ उपालभत उपेव वा
एनेनैतद्वेष्टि तस्मादुपवेषो नाम ॥ १.२.१.
[३] ॥

तेन प्राचोऽङ्गारानुदूहति । अपाग्ने अग्निमामादं जहि निष्क्रव्यादं सेधेत्ययं वा
आमाद्येनेदं मनुष्याः पक्त्वाश्नन्त्यथ येन पुरुषं दहन्ति स
क्रव्यादेतावेवैतदुभावतोऽपहन्ति ॥ १.२.१.
[४] ॥

अथाङ्गारमास्कौति । आ देवयजं वहेति यो देवयाट्तस्मिन् हवींषि श्रपयाम
तस्मिन्यज्ञं तनवामहा इति तस्माद्वाआस्कौति ॥ १.२.१.
[५] ॥

तं मध्यमेन कपालेनाभ्युपदधाति । देवा ह वै यज्ञंतन्वानास्ते
ऽसुररक्षसेभ्य आसङ्गाद्बिभयांचक्रुर्नेन्नोऽधस्तान्नाष्ट्रा
रक्षांस्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तस्मादेवमुपदधाति
तद्यदेष एव भवति नान्य एष हि यजुष्कृतो मेध्यस्तस्मान्मध्यमेन
कपालेनाभ्युपदधाति ॥ १.२.१.
[६] ॥

स उपदधाति । ध्रुवमसि पृथिवीं दृंहेति पृथिव्या एव रूपेणैतदेव
दृंहत्येतेनैव द्विषन्तं भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि
सजातवन्युपदधामि भ्रातृव्यस्य वधायेति बह्वी वै यजुःस्वाशीस्तद्ब्रह्म च
क्षत्रं चाशास्त उभे वीर्य सजातवनीति भूमा वै सजातास्तद्भूमानमाशास्त
उपदधामि भ्रातृव्यस्य बधायेति यदि नाभिचरेद्यद्य अभिचरेदमुष्य
बधायेति ब्रूयादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति ॥ १.२.१.
[७] ॥

अथाङ्गारमास्कौति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो हि
रक्षसामपहन्ता तस्मादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति ॥ १.२.१.
[८] ॥

अथाङ्गारमध्यूहति । अग्ने ब्रह्म गृभ्णीष्वेति नेदिह पुरा नाष्ट्रा
रक्षांस्याविशानित्यग्निर्हि रक्षसामपहन्ता तस्मादेनमध्यूहति ॥ १.२.१.
[९] ॥

अथ यत्पश्चात्तदुपदधाति । धरुणमस्यन्तरिक्षं दृंहेत्यन्तरिक्षस्यैव
रूपेणैतदेव दृंहत्येतेनैव द्विषन्तं भ्रातृव्यमवबाधते ब्रह्मवनि त्वा
क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य बधायेति
१.२.१[.१]१
अथ यत्पुरस्तात्तदुपदधाति । धर्त्रमसि दिवं दृंहेति दिव एव रूपेणैतदेव
दृंहत्येतेनैव … बधायेति ॥ १.२.१.
[१०] ॥

अथ यद्दक्षिणतस्तदुपपधाति । विश्वाभ्यस्त्वाशाभ्य उपदधामीति स
यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम्
भ्रातृव्यमवबाधतेऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न
वानद्धो तद्यद्विश्वा आशास्तस्मादाह विश्वाभ्यस्त्वाशाभ्य उपदधामीति तूष्णीं
वैवेतराणि कपालान्युपदधाति चित स्थोर्ध्वचित इति वा ॥ १.२.१.
[१२] ॥

अथाङ्गारैरभ्यूहति । भृगूणामङ्गिरसां तपसा तप्यध्वमित्येतद्वै तेजिष्ठं तेजो
यद्भृग्वङ्गिरसां सुतप्तान्यसन्निति तस्मादेनमभ्यूहति ॥ १.२.१.
[१३] ॥

अथ यो दृषदुपले उपदधाति । स कृष्णाजिनमादत्ते शर्मासीति तदवधूनोत्यवधूतं रक्षोऽवधूता अरातय इति सोऽसावेव बन्धुस्तत्प्रतीचीनग्रीवमुपस्तृणात्यदित्यास्त्वगसि प्रति त्वादितिर्वेत्त्विति सोऽसावेव बन्धुः ॥ १.२.१. [१४] ॥

अथ दृषदमुपदधाति । धिषणासि पर्वती प्रति त्वादित्यास्त्वग्वेत्त्विति धिषणा हि
पर्वती हि प्रति त्वादित्यास्त्वग्वेत्त्विति तत्संज्ञामेवैतत्कृष्णाजिनाय च वदति नेदन्यो
ऽन्यं हिनसाव इतीयमेवैषा पृथिवी रूपेण ॥ १.२.१.
[१५] ॥

अथ शम्यामुदीचीनाग्रामुपदधाति । दिव स्कम्भनीरसीत्यन्तरिक्षमेव रूपेणान्तरिक्षेण हीमे द्यावापृथिवी विष्टब्धे तस्मादाह दिव स्कम्भनीरसीति ॥ १.२.१. [१६] ॥

अथोपलामुपदधाति । धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्त्विति कनीयसी ह्येषा
दुहितेव भवति तस्मादाह पार्वतेयीति प्रति त्वा पर्वती वेत्त्विति प्रति हि स्वः संजानीते तत्संज्ञामेवैतद्दृषदुपलाभ्यां वदति नेदन्योऽन्यं हिनसात इति द्यौरेवैषा रूपेण हनू एव दृषदुपलेजिह्वैव शम्या तस्माच्छम्यया समाहन्ति जिह्वया हि वदति ॥ १.२.१.
[१७] ॥

अथ हविरधिवपति । धान्यमसि धिनुहि देवानिति धान्यं हि देवान्धिनवदित्यु हि
हविर्गृह्यते ॥ १.२.१.
[१८] ॥

अथ पिनष्टि । प्राणाय त्वोदानाय त्वा व्यानाय त्वा दीर्घामनु प्रसितिमायुषे धामिति
प्रोहति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वेति ॥ १.२.१.
[१९] ॥

तद्यदेवं पिनष्टि । जीवं वै देवानां हविरमृतममृतानामथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति ॥ १.२.१. [२०] ॥

स यदाह । प्राणाय त्वोदानाय त्वेति तत्प्राणोदानौ दधाति व्यानाय त्वेति तद्व्यानं
दधाति दीर्घामनु प्रसितिमायुषे धामिति तदायुर्दधाति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना सुप्रतिगृहीतान्यसन्निति चक्षुषे त्वेति तच्चक्षुर्दधात्येतानि वै जीवतो भवन्त्येवमु हैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानां तस्मादेवं पिनष्टि पिंषन्ति पिष्टान्यभीन्धते कपालानि ॥ १.२.१.
[२१] ॥

अथैक आज्यं निर्वपति । यद्वा आदिष्टं देवतायै हविर्गृह्यते यावद्देवत्यं तद्भवति तदितरेण यजुषा गृह्णाति न वा एतत्कस्यै चन देवतायै हविर्गृह्णन्नादिशति यदाज्यं तस्मादनिरुक्तेन यजुषा गृह्णाति महीनां पयोऽसीति मह्य इति ह वा एतासामेके नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनां पयोऽसीत्येवमु हास्यैतत्खलु यजुषैव गृहीतं भवति तस्माद्वेवाह महीनां पयोऽसीति ॥ १.२.१. [२२] ॥

पवित्रवति सम्वपति । पात्र्यां पवित्रे अवधाय देवस्य त्वासवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सम्वपामीति सोऽसावेवैतस्य यजुषो बन्धुः ॥ १.२.२. [१] ॥

अथान्तर्वेद्युपविशति । अथैक उपसर्जनीभिरैति ता आनयति ताः पवित्राभ्याम्
प्रतिगृह्णाति समाप ओषधीभिरिति सं ह्येतदाप ओषधीभिरेताभिः पिष्टाभिः
सङ्गच्छन्ते समोषधयो रसेनेति सं ह्येतदोषधयो रसेनैताः पिष्टा अद्भिः संगच्छन्त आपो ह्येतासां रसः सं रेवतीर्जगतीभिः पृच्यन्तामिति रेवत्य आपो जगत्य ओषधयस्ता उ ह्येतदुभय्यः सम्पृच्यन्ते सं मधुमतीर्मधुमतीभिः पृच्यन्तामिति सं रसवत्यो रसवतीभिः पृच्यन्तामित्येवैतदाह ॥ १.२.२.
[२] ॥

अथ संयौति । जनयत्यै त्वा संयौमीति यथा वा अधिवृक्तोऽग्नेरधि जायेतैवं वै
तत्संयौति ॥ १.२.२.
[३] ॥

अथ द्वेधा करोति । यदि द्वे हविषी भवतः पौर्णमास्यां वै द्वे हविषी
भवतः स यत्र पुनर्न
संहविष्यंत्स्यात्तदभिमृशतीदमग्नेरिदमग्नीषोमयोरिति नाना वा एतदग्रे
हविर्गृह्णन्ति तत्सहावघ्नन्ति तत्सह पिंषन्ति तत्पुनर्नाना करोति
तस्मादेवमभिमृशत्यधिवृणक्त्येवैष पुरोडाशमधिश्रयत्यसावाज्यम् ॥ १.२.२.
[४] ॥

तद्वा एतत् । उभयं सह क्रियते तद्यदेतदुभयं सह क्रियतेऽर्धो ह वा एष
आत्मनो यज्ञस्य यदाज्यमर्धो यदिह हविर्भवति स यश्चासावर्धो य उ
चायमर्धस्ता उभावग्निं गमयावेति तस्माद्वा एतदुभयं सह क्रियत एवमु
हैष आत्मा यज्ञस्य संधीयते ॥ १.२.२.
[५] ॥

सोऽसावाज्यमधिश्रयति । इषे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेति
तत्पुनरुद्वासयत्यूर्जे त्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह ॥ १.२.२.
[६] ॥

अथ पुरोडाशमधिवृणक्ति । धर्मोऽसीति यज्ञमेवैतत्करोति यथा घर्मम्
प्रवृंज्यादेवं प्रवृणक्ति विश्वायुरिति तदायुर्दधाति ॥ १.२.२.
[७] ॥

तं प्रथयति । उरुप्रथा उरु प्रथस्वेति प्रथयत्येवैनमेतदुर्!उ ते यज्ञपतिः
प्रथतामिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदाशिषमाशास्ते ॥ १.२.२.
[८] ॥

तं न सत्रा पृथु कुर्यात् । मानुषं ह कुर्याद्यत्पृथुं कुर्याद्व्यृद्धं वै
तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञो करवाणीति तस्मान्न सत्रा पृथुं
कुर्यात् ॥ १.२.२.
[९] ॥

अश्वशफमात्रं कुर्यादित्यु हैक आहुः । कस्तद्वेद यावानश्वशफो यावन्तमेव
स्वयं मनसा न सत्रा पृथुं मन्येतैवं कुर्यात् ॥ १.२.२.
[१०] ॥

तमद्भिरभिमृशति । सकृद्वा त्रिर्वा तद्यदेवास्यात्रावघ्नन्तो वा पिंषन्तो वा
क्षिण्वन्ति वा वि वा वृहन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति
तस्मादद्भिरभिमृशति ॥ १.२.२.
[११] ॥

सोऽभिमृशति । अग्निष्टे त्वचं मा हिं सीदित्यग्निना वा
एनमेतदभितप्स्यन्भवत्येष ते त्वचं मा हिंसीदित्येवैतदाह ॥ १.२.२.
[१२] ॥

तं पर्यग्निं करोति । अच्छिद्रमेवैनमेतदग्निना परिगृह्णाति नेदेनं नाष्ट्रा
रक्षांसि प्रमृशानित्यग्निर्हि रक्षसामपहन्ता तस्मात्पर्यग्निं करोति ॥ १.२.२.
[१३] ॥

तं श्रपयति । देवस्त्वा सविता श्रपयत्विति न वा एतस्य मनुष्यः श्रपयिता देवो
ह्येष तदेनं देव एव सविता श्रपयति वर्षिष्टेऽधि नाक इति देवत्रो एतदाह
यदाह वर्षिष्टेऽधि नाक इति तमभिमृशति पृतं वेदानीति तस्माद्वा अभिमृशति ॥ १.२.२.
[१४] ॥

सोऽभिमृशति । मा भेर्मा संविक्था इति मा त्वं भेषीर्मासंविक्था
यत्त्वाहममानुषं सन्तं मानुषोऽभिमृशामीत्येवैतदाह ॥ १.२.२.
[१५] ॥

यदा शृतोऽथाभिवासयति । नेदेनमुपरिष्टान्नाष्ट्रा रक्षांस्यवपश्यानिति नेद्वेव
नग्न इव मुषित इव शयाताइत्यु चैव तस्माद्वा अभिवासयति ॥ १.२.२.
[१६] ॥

सोऽभिवासयति । अतमेरुर्यज्ञोऽतमेरुर्यजमानस्य प्रजा भूयादिति नेदेतदनु
यज्ञो वा यजमानो वा ताम्याद्यदिदमभिवासयामीति तस्मादेवमभिवासयति ॥ १.२.२.
[१७] ॥

अथ पात्रीनिर्णेजनम् । अङ्गुलिप्रणेजनमाप्त्येभ्यो निनयति तद्यदाप्त्येभ्यो निनयति ॥ १.२.२. [१८] ॥

चतुर्धाविहितो ह वा अग्रेऽग्निरास । स यमग्रेऽग्निं होत्राय प्रावृणत स
प्राधन्वद्यं द्वितीयं प्रावृणत स प्रैवाधन्वद्यं तृतीयं प्रावृणत स
प्रैवाधन्वदथ योऽयमेतर्ह्यग्निं स भीषा निलिल्ये सोऽपः प्रविवेश तं देवा
अनुविद्य सहसैवाद्भ्य आनिन्युः सोऽपोऽभितिष्ठेवावष्ठ्यूता स्थ या अप्रपदनं
स्थ याभ्यो वो मामकामं नयन्तीति तत आप्त्याः सम्बभूवुस्त्रितो द्वित एकतः
१.२.३[[.]]२
त इन्द्रेण सह चेरुः । यथेदं ब्राह्मणो राजानमनुचरति स यत्र त्रिशीर्षाणं
त्वाष्ट्रं विश्वरूपं जघान तस्य हैतेऽपि बध्यस्य विदाञ्चक्रुः शश्वद्धैनं
त्रित एवजघानात्यह तदिन्द्रोऽमुच्यत देवो हि सः ॥ १.२.३.
[१] ॥

त उ हैत ऊचुः । उपैवेम एनो गच्छन्तु येऽस्य बध्यस्यावेदिषुरिति किमिति यज्ञ
एवैषु मृष्टामिति तदेष्वेतद्यज्ञोमृष्टे यदेभ्यः
पात्रीनिर्णेजनमङ्गुलिप्रणेजनं निनयन्ति ॥ १.२.३.
[३] ॥

त उ हाप्त्या ऊचुः । अत्येव वयमिदमस्मत्परो नयामेति कमभीति य एवादक्षिणेन
हविषा यजाताऽइति तस्मान्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्या उ
ह तस्मिन्मृजते योऽदक्षिणेन हविषा यजते ॥ १.२.३.
[४] ॥

ततो देवाः । एतां दर्शपूर्णमासयोर्दक्षिणामकल्पन्यदन्वाहार्यं नेददक्षिणं
हविरसदिति तन्नाना निनयति तथैभ्योऽसमदं करोति तदभितपति तथैषां
शृतं भवति स निनयति त्रिताय त्वा द्विताय त्वैकताय त्वेति पशुर्ह वा एष आलभ्यते
यत्पुरोडाशः ॥ १.२.३.
[५] ॥

पुरुषं ह वै देवाः । अग्रे पशुमालेभिरे तस्यालब्धस्य मेधोऽपचक्राम सोऽश्व
प्रविवेश तेऽश्वमालभन्त तस्यालब्धस्य मेधोऽपचक्राम स गां प्रविवेश ते
गामा … सोऽविं प्रविवेश तेऽविमा … म सोऽजं प्रविवेश तेऽजमालभन्त
तस्यालब्धस्य मेधोऽपचक्राम ॥ १.२.३.
[६] ॥

स इमं पृथिवीं प्रविवेश । तं खनन्तैवान्वीषुस्तमन्वविन्दंस्ताविमौ
व्रीहियवौ तस्मादप्येतावेतर्हि खनन्त इवैवानुविन्दन्ति स यावद्वीर्यवद्ध वा
अस्यैते सर्वे पशव आलब्धाः स्युस्तावद्वीर्यवद्धास्य हविरेव भवति य
एवमेतद्वेदात्रो सा सम्पद्यदाहुः पाङ्क्तः पशुरिति ॥ १.२.३.
[७] ॥

यदा पिष्टान्यथ लोमानि भवन्ति । यदाप आनयत्यथ त्वग्भवति यदा
संयौत्यथ मांसं भवति संतत इव हि स तर्हि भवति संततमिव हि मांसं
यदा शृतोऽथास्थि भवति दारुण इव हि स तर्हि भवति दारुणमित्यस्थ्यथ
यदुद्वासयिष्यन्नभिघारयति तं मज्जानं दधात्येषो सा सम्पद्यदाहुः
पाङ्क्तः पशुरिति ॥ १.२.३.
[८] ॥

स यं पुरुषमालभन्त । स किम्पुरुषोऽभवद्यावश्वं च गां च तौ गौरश्च
गवयश्चाभवतां यमविमालभन्त स उष्ट्रोऽभवद्यमजमालभन्त स शरभो
ऽभवत्तस्मादेतेषां पशूनां नाशितव्यमपक्रान्तमेधा हैते पशवः ॥ १.२.३.
[९] ॥

इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । स प्रहृतश्चतुर्धाऽभवत्तस्य
स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वायावद्वा रथस्तृतीयं वा यावद्वाथ यत्र
प्राहरत्तच्छकलोऽशीर्यत स पतित्वा शराऽभवत्तस्माच्छरो नाम यदर्शार्यतैवमु स
चतुर्धा वज्रोऽभवत् ॥ १.२.४.
[१] ॥

ततो द्वाभ्यां ब्राह्मणा यज्ञे चरन्ति द्वाभ्यां राजन्यबन्धवः संव्याधे यूपेन
च स्फ्येन च ब्राह्मणा रथेन च शरेण च राजन्यबन्धवः ॥ १.२.४.
[२] ॥

स यत्स्फ्यमादत्ते । यथैव तदिन्द्रो वृत्राय वज्रमुदयच्छदेवमेवैष एतम्
पाप्मने द्विषते भ्रातृव्याय वज्रमुद्यच्छति तस्माद्वै स्फ्यमादत्ते ॥ १.२.४.
[३] ॥

तमादत्ते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे
ऽध्वरकृतं देवेभ्य इति सविता वै देवानां प्रसविता तत्सवितृप्रसूत
एवैनमेतदादत्तेऽश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यूतत्तयोरेव बाहुभ्यामादत्ते
न स्वाभ्यां वज्रो वा एष तस्य न ममुष्यो भर्ता तमेताभिर्देवताभिरादत्ते ॥ १.२.४.
[४] ॥

आददेऽध्वरकृतं देवेभ्य इति । अध्वरो वै यज्ञो यज्ञकृतं देवेभ्य
इत्येवैतदाह तं सव्ये पाणौ कृत्वा दक्षिणेनाभिमृष्य जपति
संश्यत्येवैनमेतद्यज्जपति ॥ १.२.४.
[५] ॥

स जपति । इन्द्रस्य बाहुरसि दक्षिण इत्येष वै वीर्यवत्तमो य इन्द्रस्य
बाहुर्दक्षिणस्तस्मादाहेन्द्रस्य बाहुरसि दक्षिण इति सहस्रभृष्टिः शततेजा इति
सहस्रभृष्टिर्वै स वज्र आसीच्छततेजा यं तं वृत्राय प्राहरत्तमेवैतत्करोति ॥ १.२.४.
[६] ॥

वायुरसि तिग्मतेजा इति । एतद्वै तेजिष्ठं तेजो यदयं योऽयं पवत एष
हीमांल्लोकांस्तिर्यङ्ङनुपवते संश्यत्येवैनमेतद्द्विषतो बध इति यदि
नाभिचरेद्यद्यु अभिचरेदमुष्य बध इति ब्रूयात्तेन संशितेन
नात्मानमुपस्पृशति न पृथिवीं नेदनेन वज्रेण संशितेनात्मानं वा पृथिवीं वा
हिनसानीति तस्मान्नात्मानमुपस्पृशति न पृथिवीम् ॥ १.२.४.
[७] ॥

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ते ह स्म यद्देवा असुराञ्जयन्ति
ततो ह स्मैवैनान्पुनरुपोत्तिष्ठन्ति ॥ १.२.४.
[८] ॥

ते ह देवा ऊचुः । जयामो वा असुरांस्ततस्त्वेव नः पुनरुपोत्तिष्ठन्ति कथं
न्वेनाननपजय्यं जयेमेति ॥ १.२.४.
[९] ॥

स हाग्निरुवाच । उदञ्चो वै नः पलाय्य मुच्यन्त इत्युदञ्चो ह स्मैवैषां पलाय्य
मुच्यन्ते ॥ १.२.४.
[१०] ॥

स हाग्निरुवाच । अहमुत्तरतः पर्येष्याम्यथ यूयमित उपसंरोत्स्यथ
तान्त्संरुध्यैभिश्च लोकैरभिनिधास्यामो यदु चेमांल्लोकानति चतुर्थ ततः
पुनर्न संहास्यन्त इति ॥ १.२.४.
[११] ॥

सोऽग्निरुत्तरतः पर्यैत् । अथेम इत उपसमरुन्धंस्तान्त्संरुध्यैभिश्च
लोकैरभिन्यदधुर्यदु चेमांल्लोकानति चतुर्थ ततः पुनर्न समजिहत
तदेतन्निदानेन यत्स्तम्बयजुः ॥ १.२.४.
[१२] ॥

स योऽसावग्नीदुत्तरतः पर्येति । अग्निरेवैष निदानेन तानध्वर्युरेवेत
उपसंरुणद्धि तान्त्संरुध्यैभिश्च लोकैरभिनिदधाति यदु चेमांल्लोकानति
चतुर्थ ततः पुनर्न संजिहते तस्मादप्येतर्ह्यसुरा न संजिहते येन
ह्येवैनान्देवा अवाबाधन्त तेनैवैनानप्येतर्हि ब्रह्मणा यज्ञेऽवबाधन्ते ॥ १.२.४.
[१३] ॥

य उ एव यजमानायारातीयति । यश्चैनं द्वेष्टि तमेवैतदेभिश्च
लोकैरभिनिदधाति यदु चेमांल्लोकानति चतुर्थमस्या एव सर्वं हरत्यस्यां हीमे
सर्वे लोकाः प्रतिष्ठिताः किं हि हरद्यदन्तरिक्षं हरामि दिवं हरामीति
हरेत्तस्मादस्या एव सर्वं हरति ॥ १.२.४.
[१४] ॥

अथ तृणमन्तर्धाय प्रहरति । नेदनेन वज्रेण संशितेन पृथिवीं हिनसानीति
तस्मात्तृणमन्तर्धाय प्रहरति ॥ १.२.४.
[१५] ॥

स प्रहरति । पृथिवि देवयजन्योषध्यास्ते मूलं मा हिंसिषमित्युत्तरमूलामिव
वा एनामेतत्करोत्याददानस्तामेतदाहौषधीनां ते मूलानि मा हिंसिषमिति व्रजं
गच्छ गोष्ठानमित्यभिनिधास्यन्नेवैतदनपक्रमि कुरुते तद्ध्यनपक्रमि
यद्व्रजेऽन्तस्तस्मादाह व्रजं गच्छ गोष्ठानमिति वर्षतु ते द्यौरिति यत्र वा अस्यै
खनन्तः क्रूरीकुर्वन्त्यपघ्नन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः
संदधाति तस्मादाह वर्षतु ते द्यौरिति बधान देव सवितः परमस्याम्
पृथिव्यामिति देवमेवैतत्सवितारमाहान्धे तमसि बधानेति यदाह परमस्याम्
पृथिव्यामिति षतेन पाशैरित्यमुचे तदाह योऽस्मान्द्वेष्टि यं च वयं
द्विष्मस्तमतो मा मौगिति यदि नाभिचरेद्यद्यु अभिचरेदमुमतो मा मौगिति
ब्रूयात् ॥ १.२.४.
[१६] ॥

अथ द्वितीयं प्रहरति । अपाररुं पृथिव्यै देवयजनाद्बध्यासमित्यररुर्ह वै
नामासुररक्षसमास तं देवा अस्या अपाघ्नन्त तथो एवैनमेतदेषोऽस्या अपहते
व्रजं गच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवितः परमस्यां पृथिव्यां
शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति ॥ १.२.४.
[१७] ॥

तमग्नीदभिनिदधाति । अररो दिवं मा पप्त इति यत्र वै देवा
अररुमसुररक्षसमपाघ्नत स दिवमपिपतिषत्तमग्निरभिन्यदधादररो
दिवं मा पप्त इति स न दिवमपत्तथो एवैनमेतदध्वर्युरेवास्माल्लोकादन्तरेति
दिवोऽध्यग्नीत्तस्मादेवं करोति ॥ १.२.४.
[१८] ॥

अथ तृतीयं प्रहरति । द्रप्सस्ते द्यां मा स्कन्नित्ययं वाअस्यै द्रप्सो यमस्या
इमं रस प्रजा उपजीवन्त्येष ते दिवं मा पप्तदित्येवैतदाह व्रजं गच्छ गो …
मौगिति ॥ १.२.४.
[१९] ॥

स वै त्रिर्यजुषा हरति । त्रयो वा इमे लोका एभिरेवैनमे
तल्लोकैरभिनिदधात्यद्धा वै तद्यदिमे लोका अद्धो तद्यद्यजुस्तस्मात्त्रिर्यजुषा
हरति ॥ १.२.४.
[२०] ॥

तूष्णीं चतुर्थम् । स यदिमांल्लोकानति चतुर्थमस्ति वा न वा तेनैवैतद्द्विषन्तम्
भ्रातृव्यमवबाधतेऽनद्धा वै तद्यदिमांल्लोकानति चतुर्थमस्ति वा न
वानद्धो तद्यत्तूष्णीं तस्मात्तूष्णीं चतुर्थम् ॥ १.२.४.
[२१] ॥

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततो देवा अनुव्यमिवासुरथ
हासुरा मेनिरेऽस्माकमेवेदं खलु भुवनमिति ॥ १.२.५.
[१] ॥

ते होचुः । हन्तेमां पृथिवीं विभजामहै तां विभज्योपजीवामेति
तामौक्ष्णैश्चर्मभिः पश्चात्प्राञ्चो विभजमाना अभीयुः ॥ १.२.५.
[२] ॥

तद्वै देवाः शुश्रुवुः । विभजन्ते ह वा इमामसुराः पृथिवीं प्रेत तदेष्यामो
यत्रेमामसुरा विभजन्ते के ततः स्याम यदस्यै न भजेमहीति ते यज्ञमेव
विष्णुं पुरस्कृत्येयुः ॥ १.२.५.
[३] ॥

ते होचुः । अनु नोऽस्यां पृथिव्यामाभजतास्त्वेव नोऽप्यस्यां भाग इति ते हासुरा
असूयन्त इवोचुर्यावदेवैष विष्णुरभिशेते तावद्वो दद्म इति ॥ १.२.५.
[४] ॥

वामनो ह विष्नुरास । तद्देवा न जिहीडिरे महद्वै नोऽदुर्ये नो
यज्ञसंमितमदुरिति ॥ १.२.५.
[५] ॥

ते प्राञ्चं विष्णुं निपाद्य । च्छन्दोभिरभितः पर्यगृह्णन्गायत्रेण त्वा च्छन्दसा
परिगृह्णामीति दक्षिणतस्त्रैष्टुभेन त्वा च्छन्दसा परिगृह्णामीति पश्चाज्जागतेन त्वा
च्छन्दसा परिगृह्णामीत्युत्तरतः ॥ १.२.५.
[६] ॥

तं च्छन्दोभिरभितः परिगृह्य । अग्निं पुरस्तात्समाधाय तेनार्चन्तः
श्राम्यन्तश्चेरुस्तेनेमां सर्वां पृथिवीं समविन्दन्त तद्यदेनेनेमां सर्वां
समविन्दन्त तस्माद्वेदिर्नाम तस्मादाहुर्यावती वेदिस्तावती पृथिवीत्येतया हीमां
सर्वां समविन्दन्तैवं ह वा इमां सर्वां सपत्नानां सम्वृङ्क्ते निर्भजत्यस्यै
सपत्नान्य एवमेतद्वेद
१.२.५[[.]]८
सोऽयं विष्णुर्ग्लानः । च्छन्दोभिरभितः परिगृहीतोऽग्निःपुरस्तान्नापक्रमणमास स
तत एवौषधीनां मूलान्युपमुम्लोच ॥ १.२.५.
[७] ॥

ते ह देवा ऊचुः । क्व नु विष्णुरभूत्क्व नु यज्ञोऽभूदिति ते होचुश्छन्दोभिरभितः
परिगृहीतोऽग्निः पुरस्तान्नापक्रमणमस्त्यत्रैवान्विच्छतेति तं खनन्त
इवान्वीषुस्तंत्र्यङ्गुलेऽन्वविन्दंस्तम्मात्त्र्यङ्गुला वेदिः स्यात्तदु हापि
पाञ्चिस्त्र्यङ्गुलामेव सौम्यस्यध्वरस्य वेदिं चक्रे ॥ १.२.५.
[९] ॥

तदु तथ न कुर्यात् । ओषधीनां वै स मूलान्युपांलोचत्तस्मादोषधीनामेव
मूलान्युच्छेत्तवै ब्रूयाद्यन्न्वेवात्र विष्णुमन्वविन्दंस्तस्माद्वेदिर्नाम ॥ १.२.५.
[१०] ॥

तमनुविद्योत्तरेण परिग्रहेण पर्यगृह्णन् । सुक्ष्मा चासि शिवा चासीति दक्षिणत
इमामेवैतत्पृथिवीं संविद्य सुक्ष्मां शिवामकुर्वत स्योना चासि सुषदा चासीति
पश्चादिमामेवैतत्पृथिवीं संविद्य स्योनां सुषदामकुर्वतोर्जस्वती चासि पयस्वती
चेत्युत्तरत इमामेवैतत्पृथिवीं संविद्य रसवतीमुपजीवनीयामकुर्वत ॥ १.२.५.
[११] ॥

स वै त्रिः पूर्वं परिग्रहं परिगृह्णाति । त्रिरुत्तरं तत्षट्कृत्वः षड्वा ऋतवः
संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो यावत्यस्य मात्रा
तावतमेवैतत्परिगृह्णाति ॥ १.२.५.
[१२] ॥

षड्भिर्व्याहृतिभिः । पूर्वं परिग्रह परिगृह्णाति षड्भिरुत्तरं तद्द्वादश कृत्वो
द्वादश वै मासाः संवत्सरस्य संवत्सरो यज्ञः प्रजापतिः स यावानेव यज्ञो
यावत्यस्य मात्रा तावतमेवैतत्परिगृह्णाति ॥ १.२.५.
[१३] ॥

व्याममात्री पश्चात्स्यादित्याहुः । एतावान्वै पुरुषह्पुरुषसंमित हि त्र्यरत्निः
प्राची त्रिवृद्धि यज्ञो नात्र मात्रास्ति यावतीमेव स्वयं मनसा मन्येत तावतीं
कुर्यात् ॥ १.२.५.
[१४] ॥

अभितोऽग्निमंसा उन्नयति । योषा वै वेदिर्वृषाग्निः परिगृह्य वै योषा वृषाणं शेते
मिथुनमेवैतत्प्रजननं क्रियते तस्मादभितोऽग्निमंसा उन्नयति ॥ १.२.५.
[१५] ॥

सा वै पश्चाद्वरीयसी स्यात् । मध्ये संह्वारिता पुनः पुरस्तादुर्व्येवमिव हि योषाम्
प्रशंसन्ति पृथुश्रोणिर्विमृष्टान्तरांसा मध्ये संग्राःयेति
जुष्टामेवैनामेतद्देवेभ्यः करोति ॥ १.२.५.
[१६] ॥

सा वै प्राक्प्रवणा स्यात् । प्राची हि देवानां दिगथो उदक्प्रवणोदीची हि मनुष्याणां
दिग्दक्षिणतः पुरीषं प्रत्युदूहत्येषा वै दिक्पितॄणां सा यद्दक्षिणाप्रवणा स्यात्
क्षिप्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति तस्माद्दक्षिणतः
पुरीषं प्रत्युदूहति पुरीषवतीं कुर्वीत पशवो वै पुरीषम्
पशुमतीमेवैनामेतत्कुरुते ॥ १.२.५.
[१७] ॥

तां प्रतिमार्ष्टि । देवा ह वै संग्रामं संनिधास्यन्त स्ते होचुर्हन्त यदस्यै
पृथिव्या अनामृतं देवयजनं तच्चन्द्रमसि निदधामहै स यदि न इतोऽसुरा
जयेयुस्तत एवार्चन्तः श्राम्यन्तः पुनरभिभवेमेति स यदस्यै पृथिव्या अनामृतं
देवयजनमासीत्तच्चन्द्रमसि न्यदधत तदेतच्चन्द्रमसि कृष्णं
तस्मादाहुश्चन्द्रमस्यस्यै पृथिव्यै देवयजनमित्यपि ह वा
अस्यैतस्मिन्देवयजन इष्टं भवति तस्माद्वै प्रतिमार्ष्टि ॥ १.२.५.
[१८] ॥

स प्रतिमार्ष्टि । पुरा क्रूरस्य विसृपो विरप्शिन्निति संग्रामो वै क्रूरं संग्रामे हि
क्रूरं क्रियते हतः पुरुषो हतोऽश्वः शेते पुरा ह्येतत्संग्रामान्न्यदधत
तस्मादाह पुरा क्रूरस्य विसृपो विरप्शिन्नित्युदादाय पृथिवीं जीवदानुमित्युदादाय
हि यदस्यै पृथिव्यै जीवमासीत्तच्चन्द्रमसि न्यदधत तस्मादाहोदादाय पृथिवीं
जीवदानुमिति यामैरयंश्चन्द्रमसि स्वधाभिरिति यां चन्द्रमसि
ब्रह्मणादधुरित्येवैतदाह तामु धीरासो अनुदिश्य यजन्त इत्येतेनो ह
तामनुदिश्य यजन्तेऽपि ह वा अस्यैतास्मिन्देवयजन इष्टं भवति य एवमेतद्वेद ॥ १.२.५.
[१९] ॥

अथाह प्रोक्षणीरासादयेति । वज्रो वै स्फ्यो ब्राह्मणश्चेमं पुरा
यज्ञमभ्यजूगुपतां वज्रो वा आपस्तद्वज्रमेवैतदभिगुप्त्या आसादयति स वा
उपर्युपर्येव प्रोक्षणीषु धार्यमाणास्वथ स्फ्यमुद्यच्छत्यथ यन्निहित एव
स्फ्यो प्रोक्षणीरासादयेद्वज्रो ह समृच्छेयातां तथो ह वज्रो न समृच्छेते
तस्मादुपर्युपर्येव प्रोक्षनीषु धार्यमाणास्वथ स्फ्यमुद्यच्छति ॥ १.२.५.
[२०] ॥

अथैतां वाचं वदति । प्रोक्षणीरासादयेध्मं बर्हिरुपसादय स्रुचः सम्मृड्ढि
पत्नीं संनह्याज्येनोदेहीति संप्रैष एवैष स यदि कामयेत ब्रूयादेतद्यद्यु
कामयेतापि नाद्रियेत स्वयमु ह्येवैतद्वेदेदमतः कर्म कर्तव्यमिति ॥ १.२.५.
[२१] ॥

अथोदञ्चं स्फ्यं प्रहरति । अमुष्मै त्वा वज्रं प्रहरामीति यद्यभिचरेद्वज्रो
वै स्फ्य स्तृणुते हैवैनेन ॥ १.२.५.
[२२] ॥

अथ पाणी अवनेनिक्ते । यद्ध्यस्यै क्रूरमभूत्तद्ध्यस्या एतदहार्षीत्तस्मात्पाणी
अवनेनिक्ते ॥ १.२.५.
[२३] ॥

स ये हाग्र ईजिरे । ते ह स्मावमर्श यजन्ते ते पापीयांस आसुरथ ये नेजिरे ते
श्रेयांस आसुस्ततोऽश्रद्धा मनुष्यान्विवेद ये यजन्ते पापीयांसस्ते भवन्ति य उ न
यजन्ते श्रेयांसस्ते भवन्तीति तत इतो देवान्हविर्न जगामेतः प्रदानाद्धि देवा
उपजीवन्ति ॥ १.२.५.
[२४] ॥

ते ह देवा ऊचुः । बृहस्पतिमाङ्गिरसमश्रद्धा वै मनुष्यानबिदत्तेभ्यो विधेहि
यज्ञमिति स हेत्योवाच बृहस्पतिराङ्गिरसः कथा न यजध्व इति ते होचुः किं काम्या
यजेमहि ये यजन्ते पापीयांसस्ते भवन्ति य उ न यजन्ते श्रेयांसस्ते भवन्तीति ॥ १.२.५.
[२५] ॥

स होवाच । बृहस्पतिराङ्गिरसो यद्वै शुश्रुम देवानां परिषूतं तदेष यज्ञो
भवति यचूतानि हवींषि कॢप्ता वेदिस्तेनावमर्शमचारिष्ट तस्मात्पापीयांसोऽभूत्
तेनानवमर्श यजध्वं तथा श्रेयांसो भविष्यथेत्या कियत इत्या बर्हिष
स्तरणादिति बर्हिषा ह वै खल्वेषा शाम्यति स यदि पुरा बर्हिह्ष
स्तरणात्किंचिदापद्येत बर्हिरेव तत्स्तृणन्नपास्येदथ यदा बर्हि स्तृणन्त्यपि
पदाभितिष्ठन्ति स यो हैवं विद्वाननवमर्शं यजते श्रेयान्हैव भवति
तस्मादनवमर्शमेव यजेत
१.३.१अथ द्रव्यसंस्काराः ॥ १.२.५. [२६] ॥

स वै स्रुचः सम्मार्ष्टि । तद्यत्स्रुचः सम्मार्ष्टि यथा वै देवानां चरणं तद्वा
अनु मनुष्याणां तस्माद्यदामनुष्याणां परिवेषणमुपकॢप्तं भवति ॥ १.३.१.
[१] ॥

अथ पात्राणि निर्णेनिजति । तैर्निर्णित्य परिवेविषत्येवं वा एष देवानां यज्ञो भवति
यचूतानि हवींषि कॢप्तावेदिस्तेषामेतान्येव पात्राणि यत्स्रुचः ॥ १.३.१.
[२] ॥

स यत्सम्मार्ष्टि । निर्णेनेक्त्येवैना एतन्निर्णिक्ताभिः प्रचराणीति तद्वै द्वयेनैव
देवेभ्यो निर्णेनिजत्येकेन मनुष्येभ्योऽद्भिश्च ब्रह्मणा च देवेभ्य आपो हि
कुशा ब्रह्म यजुरेकेनैव मनुष्येभ्योऽद्भिरेवैवम्वेतन्नाना भवति ॥ १.३.१.
[३] ॥

अथ स्रुवमादत्ते । तं प्रतपति प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टप्तं
रक्षो निष्टप्ता अरातय इति वा ॥ १.३.१.
[४] ॥

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य
आसंगाद्बिभयांचक्रुस्तद्यज्ञमुखादेवैतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति ॥ १.३.१.
[५] ॥

स वा इत्यग्रैरन्तरतः सम्मार्ष्टि । अनिशितोऽसि सपत्नक्षिदिति यथानुपरतो
यजमानस्य सपत्नान्क्षिणुयादेवमेतदाह वाजिनं त्वा वाजेध्यायै सम्मार्ज्मीति
यज्ञियं त्वा यज्ञाय सम्मार्ज्मीत्येवैतदाहैतेनैव सर्वाः स्रुचः सम्मार्ष्टि
वाजिनीं त्वेति स्रुचं तूष्णीं प्राशित्रहरणं ॥ १.३.१.
[६] ॥

स वा इत्यग्रैरन्तरतः सम्मार्ष्टीति । मूलैर्बाह्यत इतीव वा अयं प्राण इतीवोदानः
प्राणोदानावेवैतद्दधाति तस्मादितीवेमानि लोमानीतीवेमानि ॥ १.३.१.
[७] ॥

स वै सम्मृज्यसम्मृज्य प्रतप्य प्रतप्य प्रयच्छति । यथावमर्शं
निर्णिज्यानवमर्शमुत्तमं परिक्षालयेदेवं तत्तस्मात्प्रतप्य प्रतप्य प्रयच्छति ॥ १.३.१.
[८] ॥

स वै स्रुवमेवाग्रे सम्मार्ष्टि । अथेतराः स्रुचो योषा वै स्रुग्वृषा
स्रुवस्तस्माद्यद्यपि बह्व्य इव स्त्रियः सार्धं यन्ति य एव तास्वपि कुमारक इव
पुमान्भवति स एव तत्र प्रथम एत्यनूच्य इतरास्तस्मात्स्रुवमेवाग्रे
सम्मार्ष्ट्यथेतराः स्रुचः ॥ १.३.१.
[९] ॥

स वै तथैव सम्मृज्यात् । यथाग्निं नाभिव्युक्षेद्यथा यस्मा
अशनमाहरिष्यन्त्स्यात्तं पात्रनिर्णेजनेनाभिव्युक्षेदेवं तत्तस्मादु तथैव
सम्मृज्याद्यथाग्निं नाभिव्युक्षेत्प्राङिवैवोत्क्रम्य ॥ १.३.१.
[१०] ॥

तद्धैके । स्रुक्षम्मार्जनान्यग्नावभ्यादधति वेदस्याहाभूवन्त्स्रुच एभिः
सममार्जिषुरिदं वै किंचिद्यज्ञस्य नेदिदं बह्मा अशनमाहरेत्तम्
पात्रनिर्णेजनं पाययेदेवं तत्तस्मादु परास्येदेवैतानि ॥ १.३.१.
[११] ॥

अथ पत्नीं संनह्यति । जघनार्धो वा एष यज्ञस्य यत्पत्नी प्राङ्मे
यज्ञस्तायमानो यादिति युनक्त्येवैनामेतद्युक्ता मे यज्ञमन्वासाता इति ॥ १.३.१.
[१२] ॥

योक्त्रेण संनह्यति । योक्त्रेण हि योग्यं युञ्जन्त्यस्ति वै पत्न्या अमेध्यं
यदवाचीनं नाभेरथैतदाज्यमवेक्षिष्यमाणा भवति तदेवास्या
एतद्योक्त्रेणान्तर्दधात्यथ मेध्येनैवोत्तरार्धनाज्यमवेक्षते तस्मात्पत्नीं
संनह्यति ॥ १.३.१.
[१३] ॥

स वा अभिवासः संनह्यति । ओषधयो वै वासो वरुण्या
रज्जुस्तदोषधीरेवैतदन्तर्दधाति तथो हैनामेषा वरुण्या रज्जुर्न हिनस्ति
तस्मादभिवासः संनह्यति ॥ १.३.१.
[१४] ॥

स संनह्यति । अदित्यै रास्नासीतीयं वै पृथिव्यदितिः सेयं देवानां पत्न्येसा वा
एतस्य पत्नी भवति तदस्या एतद्रास्नामेव करोति न रज्जुं हिरो वै रास्ना तामेवास्या
एतत्करोति ॥ १.३.१.
[१५] ॥

स वै न ग्रन्थिं कुर्यात् । वरुण्यो वै ग्रन्थिर्वरुणो ह पत्नीं
गृह्णीयाद्यद्ग्रन्थिं कुर्यात्तस्मान्न ग्रन्थिं करोति ॥ १.३.१.
[१६] ॥

ऊर्ध्वमेवोद्गूहति । विष्णोर्वेष्योऽसीति सा वै न पश्चात्प्राची देवानां
यज्ञमन्वासीतेयं वै पृथिव्यदितिः सेयं देवानां पत्नी सा पश्चात्प्राची देवानां
यज्ञमन्वास्ते तद्धेमामभ्यारोहेत्सा पत्नी क्षिप्रेऽमुं लोकमियात्तथो ह पत्नी
ज्योग्जीवति तदस्या एवैतन्निह्नुते तथो हैनामियं न हिनस्ति तस्मादु दक्षिणत
इवैवान्वासीत ॥ १.३.१.
[१७] ॥

अथाज्यमवेक्षते । योषा वै पत्नी रेत आज्यं मिथुनमेवैतत्प्रजननं क्रियते
तस्मादाज्यमवेक्षते ॥ १.३.१.
[१८] ॥

सावेक्षते ।ऽदब्धेन त्वा चक्षुषावपश्यामीत्यनार्त्तेन
त्वाचक्षुषावपश्यामीत्येवैतदाहाग्नेर्जिह्वासीति यदा वाएतदग्नौ
जुह्वत्यथाग्नेर्जिह्वा इवोत्तिष्ठन्ति तस्मादाहाग्नेर्जिह्वसीति सुहूर्देवेभ्य इति साधु
देवेभ्य इत्येवैतदाह धाम्ने धाम्ने मे भव यजुषे यजुष इति सर्वस्मै मे
यज्ञायैधीत्येवैतदाह ॥ १.३.१.
[१९] ॥

अथाज्यमादाय प्राङुदाहरति । तदाहवनीयेऽधिश्रयति यस्याहवनीये हवींषि
श्रपयन्ति सर्वो मे यज्ञ आहवनीये शृतोऽसदित्यथ यदमुत्राग्रेऽधिश्रयति
पत्नीं ह्यवकाशयिष्यन्भवति न हि तदवकल्पते यत्सामि
प्रत्य्ग्घरेत्पत्नीमवकाशयिष्यामीत्यथ यत्पत्नीं नावकाशयेदन्तरियाद्ध
यज्ञात्पत्नीं तथो ह यज्ञात्पत्नीं नान्तरेति तस्मादु सार्धमेव विलाप्य
प्रागुदाहरत्यवकाश्य पत्नीं यस्यो पत्नी न भवत्यग्र एव तस्याहवनीये
ऽधिश्रयति तत्तत आदत्ते तदन्तर्वेद्यासादयति ॥ १.३.१.
[२०] ॥

तदाहुः । नान्तर्वेद्यासादयेदतो वै देवानां पत्नीः सम्याजयन्त्यवसभा अह
देवानां पत्नीः करोति परःपुंसो हास्य पत्नी भवतीति तदु होवाच याज्ञवल्क्यो
यथादिष्टं पत्न्या अस्तु कस्तदाद्रियेत यत्परःपुंसा वा पत्नी स्याद्यथा वा यज्ञो
वेदिर्यज्ञ आज्यं यज्ञाद्यज्ञ निर्मिमा इति तस्मादन्तर्वेद्येवासादयेत् ॥ १.३.१.
[२१] ॥

प्रोक्षणीषु पवित्रे भवतः । ते तत आदत्ते ताभ्यामाज्यमुत्पुनात्येको वा
उत्पवनस्य बन्धुर्मेध्यमेवैतत्करोति ॥ १.३.१.
[२२] ॥

स उत्पुनाति । सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिरिति सो
सावेव बन्धुः ॥ १.३.१.
[२३] ॥

अथाज्यलिप्ताभ्यां पवित्राभ्यम् । प्रोक्षणीरुत्पुनाति सवितुर्वः प्रसव उत्पु …
बन्धुःतद्यदाज्यलिप्ताभ्यां पवित्राभ्याम् । प्रोक्षनीरुत्पुनाति तदप्सु पयो
दधाति तदिदमप्सु पयो हितमिदं हि यदा वर्षत्यथौषधयो जायन्त
ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति
तस्मादु रसस्यो चैव सर्वत्वाय ॥ १.३.१.
[२४] ॥

अथाज्यमवेक्षते । तद्धैके यजमानमवख्यापयन्ति तदु होवाच याज्ञवक्ल्यः
कथं नु न स्वयमध्वर्यवो भवन्ति कथं स्वयं नान्वाहुर्यत्र भूयस्य
इवाशिषः क्रियन्ते कथं न्वेषामत्रैव श्रद्धा भवतीति यां वै कां च यज्ञ
ऋत्विज आशिषमाशासते यजमानस्यैव सा तस्मादध्वर्युरेवावेक्षेत ॥ १.३.१.
[२५] ॥

सोऽवेक्षते । सत्यम् वै चक्षुः सत्यं हि वै चक्षुस्तस्माद्यदिदानीं द्वौ
विवदमानावेयातामहमदर्शमहमश्रौषमिति य एव ब्रूयादहमदर्शमिति
तस्मा एव श्रद्दध्याम तत्सत्येनैवैतत्समर्धयति ॥ १.३.१.
[२६] ॥

सोऽवेक्षते । तेजोऽसि शुक्रमस्यमृतमसीति स एष सत्य एव मन्त्रस्तेजा ह्येतच्छुक्रं
ह्येतदमृतं ह्येतत्तत्सत्येनैवैतत्समर्धयति ॥ १.३.१.
[२७] ॥

पुरुषो वै यज्ञः । पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुत एष वै तायमानो
यावानेव पुरुषस्तावान्विधीयते तस्मात्पुरुषो यज्ञः ॥ १.३.२.
[१] ॥

तस्येयमेव जुहूः । इयमुपभृदात्मैव ध्रुवा तद्वा आत्मन एवेमानि
सर्वाण्यङ्गानि प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति ॥ १.३.२.
[२] ॥

प्राण एव स्रुवः । सोऽयं प्राणः सर्वाण्यङ्गान्यनुसंचरति तस्मादु स्रुवः सर्वा
अनु स्रुचः संचरति ॥ १.३.२.
[३] ॥

तस्यासावेव द्यौर्जुहूः । अथेदमन्तरिक्षमुपभृदियमेवध्रुवा तद्वा अस्या
एवेमे सर्वे लोकाः प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति ॥ १.३.२.
[४] ॥

अयमेव स्रुवो योऽयं पवते । सोऽयमिमांत्सर्वांल्लोकाननुपवते तस्मादु स्रुवः
सर्वा अनु स्रुचः संचरति ॥ १.३.२.
[५] ॥

स एष यज्ञस्तायमानो । देवेभ्यस्तायत ऋतुभ्यश्छन्दोभ्यो यद्धविस्तद्देवानां
यत्सोमो राजा यत्पुरोडाशस्तत्तदादिश्य गृह्णात्यमुष्मे त्वा जुष्टं गृह्णामीत्येवमु
हैतेषाम् ॥ १.३.२.
[६] ॥

अथ यान्याज्यानि गृह्यन्ते । ऋतुभ्यश्चैव तानि च्छन्दोभ्यश्च गृह्यन्ते
तत्तदनादिश्याज्यस्यैव रूपेण गृह्णाति स वै चतुर्जुह्वां गृह्णात्यष्टौ कृत्व
उपभृति ॥ १.३.२.
[७] ॥

स यच्चतुर्जुह्वां गृह्णाति । ऋतुभ्यस्तद्गृह्णाति प्रयाजेभ्यो हि तद्गृह्णात्यृतवो हि
प्रयाजास्तत्तदनादिश्याज्यस्यैव रूपेण गृह्णात्यजामितायै जामि ह कुर्याद्यद्वसन्ताय
त्वा ग्रीष्माय त्वेति गृह्णीयात्तस्मादनादिश्याज्यस्यैव रूपेण गृह्णाति ॥ १.३.२.
[८] ॥

अथ यदष्टौ कृत्व उपभृति गृह्णाति । च्छन्दोभ्यस्तद्गृह्णात्यनुयाजेभ्यो हि
तद्गृह्णाति छन्दांसि ह्यनुयाजास्तत्तदनादिश्याज्यस्यैव रूपेण गृह्णात्यजामितायै जामि
ह कुर्याद्यद्गायत्र्यै त्वा त्रिष्टुभे त्वेति गृह्णीयात्तस्मादनादिश्याज्यस्यैव रूपेण
गृह्णाति ॥ १.३.२.
[९] ॥

अथ यच्चतुर्ध्रुवायां गृह्णाति । सर्वस्मै तद्यज्ञाय गृह्णाति तत्तदनादिश्याज्यस्यैव
रूपेण गृह्णाति कस्मा उ ह्यादिशेद्यतः सर्वाभ्य एव देवताभ्योऽवद्यति
तस्मादनादिश्याज्यस्यैव रूपेण गृह्णाति ॥ १.३.२.
[१०] ॥

यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमन्वत्तैव जुहूमन्वाद्य
उपभृतमन्वत्तैव जुहूराद्य उपभृत्स वै चतुर्जुह्वां गृह्णात्यष्टौ कृत्व
उपभृति ॥ १.३.२.
[११] ॥

स यच्चतुर्जुह्वां गृह्णाति । अत्तारमेवैतत्परिमिततरं कनीयांसं करोत्यथ
यदष्टौ कृत्व उपभृति गृह्णात्याद्यमेवैतदपरिमिततरं भूयांसं करोति
तद्धि समृद्धं यत्रात्ता कनीयानाद्यो भूयान् ॥ १.३.२.
[१२] ॥

स वै चतुर्जुह्वां गृह्णन् । भूय आज्यं गृह्णात्यष्टौ कृत्व उपभृति गृह्णन्कनीय
आज्यं गृह्णाति ॥ १.३.२.
[१३] ॥

स यच्चतुर्जुह्वां गृह्णन् । भूय आज्यं गृह्णात्यत्तारमेवैतत्परिमिततरं
कनीयांसं कुर्वंस्तस्मिन्वीर्यं बलं दधात्यथ यदष्टौ कृत्व उपभृति
गृह्णन्कनीय आज्यं गृह्णात्याद्यमेवैतदपरिमिततरं भूयांसं
कुर्वंस्तमवीर्यमबलीयांसं करोति तस्मादुत राजापारां विशम्
प्रावसायाप्येकवेश्मनैव जिनाति त्वद्यथा त्वत्कामयते तथा सचत एतेनो ह
तद्वीर्येण यज्जुह्वां भूय आज्यं गृह्णाति स यज्जुह्वां गृह्णाति जुह्वैव तज्जुहोति
यदुपभृति गृह्णाति जुह्वैव तज्जुहोति ॥ १.३.२.
[१४] ॥

तदाहुः । कस्मा उ तर्ह्युपभृति गृह्णीयाद्यदुपभृता न जुहोतीति स यद्धोपभृता
जुहुयात्पृथग्घैवेमाः प्रजाः स्युर्नैवात्ता स्यान्नाद्यः स्यादथ यत्तज्जुह्वेव
समानीय जुहोति तस्मादिमा विशः क्षत्रियस्यैव वशे सति वैश्यं पशव
उपतिष्टन्तेऽथ यत्तज्जुह्वेव समानीय जुहोति तस्माद्यदोत क्षत्रियः कामयते
ऽथाह वैश्य मयि यत्ते परो निहितं तदाहरेति तं जिनाति त्वद्यथा त्वत्कामयते
तथा सचत एतेनो हतद्वीर्येण ॥ १.३.२.
[१५] ॥

तानि वा एतानि । च्छन्दोभ्य आज्यानि गृह्यन्ते स यच्चतुर्जुह्वां गृह्णाति गायत्र्यै
तद्गृह्णात्यथ यदष्टौ कृत्व उपभृति गृह्णाति त्रिष्टुब्जगतीभ्यां तद्गृह्णात्यथ
यच्चतुर्ध्रुवायां गृह्णात्यनुष्टुभे तद्गृह्णाति वाग्वा अनुष्टुब्वाचो वा इदं सर्वम्
प्रभवति तस्मादु ध्रुवाय एव सर्वा यज्ञः प्रभवतीयं वा अनुष्टुबस्यै वा
इदं सर्वं प्रभवति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति ॥ १.३.२.
[१६] ॥

स गृह्णाति । धां नामासि प्रियं देवानामित्येतद्वै देवानां प्रियतमं धाम
यदाज्यं तस्मादाह धाम नामासि प्रियं देवानामित्यनाधृष्टं देवयजनमसीति
वज्रो ह्याज्यं तस्मादाहानाधृष्टं देवयजनमसीति ॥ १.३.२.
[१७] ॥

स एतेन यजुषा । सकृज्जुह्वां गृह्णाति त्रिस्तूष्णीमेतेनैव यजुषा सकृदुपभृति
गृह्णाति सप्त कृत्वस्तूष्णीमेतेनैव यजुषा सकृद्ध्रुवायां गृह्णाति त्रिस्तूस्णीं
तदाहुस्त्रिस्त्रिरेव यजुषा गृह्णीयात्रिवृद्धि यज्ञ इति तदु नु सकृत्सकृदेवात्रो ह्येव
त्रिर्गृहीतं सम्पद्यते
१.३.३इध्माबर्हिषोः प्रोक्षणस्तरणपूर्वकं परिधिपरिधानम्
इध्माबर्हिषोः प्रोक्षणस्तरणपूर्वक परिधिपरिधानम् — ॥ १.३.२.
[१८] ॥

प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये
त्वा जुष्टं प्रोक्षामीति तन्मेध्यमेवैतदग्नये करोति ॥ १.३.३.
[१] ॥

अथ वेदिं प्रोक्षति । वेदिरसि बर्हिषे त्वा जुष्टां प्रोक्षामि
तन्मेध्यामेवैतद्बर्हिषे करोति ॥ १.३.३.
[२] ॥

अथास्मै बर्हिः प्रयच्छति । तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्षति बर्हिरसि
स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामि तन्मेध्यमेवैतत्स्रुग्भ्यः करोति ॥ १.३.३.
[३] ॥

अथ याः प्रोक्षण्यः परिशिष्यन्ते । ताभिरोषधीनां मूलान्युपनिनयत्यदित्यै
व्युन्दनमसीतीयं वै पृथिव्यदितिस्तदस्या एवैतदोषधीनां मूलान्युपोनत्ति ता
इमा आर्द्रमूला ओषधयस्तस्माद्यद्यपि शुष्काण्यग्राणि भवन्त्यार्द्राण्येव मूलानि
भवन्ति ॥ १.३.३.
[४] ॥

अथ विस्रंस्य ग्रन्थिम् । पुरस्तात्प्रस्तरं गृह्णाति विष्णो स्तुपोऽसीति यज्ञो वै
विष्णुस्तस्येयमेव शिखा स्तुप एतामेवास्मिन्नेतद्दधाति पुरस्ताद्गृह्णाति
पुरस्ताद्ध्ययं स्तुपस्तस्मात्पुरस्ताद्गृह्णाति ॥ १.३.३.
[५] ॥

अथ संनहनं विस्रंसयति । प्रकॢप्तं हैवास्य स्त्री विजायत इति तस्मात्संनहनं
विस्रंसयति तद्दक्षिणायां श्रोणौ निदधाति नीविर्हैवास्यैषा दक्षिणत इव हीयं
नीविस्तस्माद्दक्षिणायां श्रोणौ निदधाति तत्पुनरभिच्छादयत्यभिच्छन्नेव हीयं
नीविस्तस्मात्पुनरभिच्छादयति ॥ १.३.३.
[६] ॥

अथ बर्हि स्तृणाति । अयं वै स्तुपः प्रस्तरोऽथ यान्यवाञ्चि लोमानि तान्येवास्य
यदितरं बर्हिस्तान्येवास्मिन्नेतद्दधाति तस्माद्बर्हि स्तृणाति ॥ १.३.३.
[७] ॥

योषा वै वेदिः । तामेतद्देवाश्च पर्यासते ये चेमे ब्राह्मणाः शुश्रुवांसो
ऽनूचानास्तेष्वेवैनामेतत्पर्यासीनेष्वनग्नां करोत्यनग्नताया एव तस्माद्बर्हि
स्तृणाति ॥ १.३.३.
[८] ॥

यावती वै वेदिः । तावती पृथिव्योषधयो
बर्हिस्तदस्यामेवैतत्पृथिव्यामोषधीर्दधाति ता इमा अस्यां पृथिव्यामोषधयः
प्रतिष्ठितास्तस्माद्बर्हि स्तृणाति ॥ १.३.३.
[९] ॥

तद्वै बहुलं स्तृणीयादित्याहुः यत्र वा अस्यै बहुलतमा ओषधयस्तदस्या
उपजीवनीयतमं तस्माद्बहुलं स्तृणीयादिति तद्वै तदाहर्तर्येवाधि त्रिवृत्स्तृणाति
त्रिवृद्धि यज्ञोऽथो अपि प्रवर्हं स्तृणीयात्स्तृणन्ति बर्हिरानुषगिति
तृषिणाभ्यनूक्तमधरमूलं स्तृणात्यधरमूला इव हीमा अस्याम्
पृथिव्यामोषधयः प्रतिष्ठितास्तस्मादधरमूलं स्तृणाति ॥ १.३.३.
[१०] ॥

स स्तृणाति । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्य इति साध्वीं देवेभ्य
इत्येवैतदाह यदाहोर्णम्रदसं त्वेति स्वासस्थां देवेभ्य इति स्वासदां देवेभ्य
इत्येवैतदाह ॥ १.३.३.
[११] ॥

अथाग्निं कल्पयति । शिरो वै यज्ञस्याहवनीयः पूर्वोऽर्धो वै शिरः
पूर्वार्धमेवैतद्यज्ञस्य कल्पयत्युपर्युपरि प्रस्तरं धारयङ्कल्पयत्ययं वै
स्तुपः प्रस्तर एतमेवास्मिन्नेतत्प्रतिदधाति तस्मादुपर्युपरि प्रस्तरं
धारयङ्कल्पयति ॥ १.३.३.
[१२] ॥

अथ परिधीन्परिदधाति । तद्यत्परिधीन्परिदधाति यत्र वै देवा अग्रेऽग्निं
होत्राय प्रावृणत तद्धोवाच न वा अहमिदमुत्सहे यद्वो होता स्यां यद्वो हव्यं
वहेयं त्रीन्पूर्वान्प्रावृढ्वं ते प्राधन्विषुस्तान्नु मेऽवकल्पयताथ
वाअहमेतदुत्साक्ष्ये यद्वो होता स्यां यद्वो हव्यं वहेयमिति तथेति तानस्मा
एतानवाकल्पयंस्त एते परिधयः ॥ १.३.३.
[१३] ॥

स होवाच । वज्रो वै तान्वषट्कारः प्रावृणग्वज्राद्वै वषट्काराद्बिभेमि यन्मा
वज्रो वषट्कारो न प्रवृञ्ज्यादेतैरेव मापरिधत्त तथा मा वज्रो वषट्कारो न
प्रवर्क्ष्यतीति तथेति तमेतैः पर्यदधुस्तं न वज्रो वषट्कारः
रावृणक्तद्वर्मैवैतदग्नये नह्यति यदेतैः परिदधाति ॥ १.३.३.
[१४] ॥

त उ हैत ऊचुः । इदमु चेदस्मान्यज्ञे युङ्क्थास्त्वेवास्माकमपि यज्ञे भाग इति ॥ १.३.३. [१५] ॥

तथेति देवा अब्रुवन् । यद्बहिष्परिधि स्कन्त्स्यति तद्युष्मासु हुतमथ यद्व
उपर्युपरि होष्यन्ति तद्वोऽविष्यतीति स यदग्नौ जुह्वति तदेनानवत्यथ
यदेनानुपर्युपरि जुह्वति तदेनानवत्यथं यद्बहिष्परिधि स्कन्दति तदेतेषु
हुतं तस्मादु ह नाग इव स्कन्नं स्यादिमां वै ते प्राविशन्यद्वा इदंकिंच
स्कन्दत्यस्यामेव तत्सर्वं प्रतितिष्ठति ॥ १.३.३.
[१६] ॥

स स्कन्नमभिमृशति । भुवपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये
स्वाहेत्येतानि वै तेषामग्नीनां नामानि यद्भुवपतिर्भुवनपतिर्भूतानाम्
पतिस्तद्यथा वषट्कृतं हुतमेवमस्यैतेष्वग्निषु भवति ॥ १.३.३.
[१७] ॥

तद्धैके । इध्मस्यैवैतान्परिधीन्परिदधाति तदु तथा न कुर्यादनवकॢप्ता ह
तस्यैते भवन्ति यानिध्मस्य परिदधात्यभ्याधानाय ह्येवेध्मः क्रियते तस्यो
हैवैतेऽवकॢप्ता भवन्ति यस्यैतानन्यानाहरन्ति परिधय इति
तस्मादन्यानेवाहरेयुः ॥ १.३.३.
[१८] ॥

ते वै पालाशाः स्युः । ब्रह्म वै पलाशो ब्रह्माग्निरग्नयो हि तस्मात्पालाशाः स्युः ॥ १.३.३. [१९] ॥

यदि पालाशान्न विन्देत् । अथो अपि वैकङ्कता स्युर्यदि वैकङ्कतान्न विन्देदथो अपि
कार्ष्मर्यमयाः स्युर्यदि कार्ष्मर्यमयान्न विन्देदथो अपि वैल्वाः स्युरथो
खादिरा अथो औदुम्बरा एते हि वृक्षा यज्ञियास्तस्मादेतेषां वृक्षाणां भवन्ति
परिधिपरिधानम् ॥ १.३.३.
[२०] ॥

ते वा आर्द्राः स्युः । एतद्ध्येषां जीवमेतेन सतेजस एतेन वीर्यवन्तस्तस्मादार्द्राः
स्युः ॥ १.३.४.
[१] ॥

स मध्यममेवाग्रे । परिधिं परिदधाति गन्धर्वस्त्वा विश्वावसुः परिदधातु
विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इति ॥ १.३.४.
[२] ॥

अथ दक्षिणां परिदधाति । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्य अरिष्ट्यै
यजमानस्य परिधिरस्यग्निरिड ईडित इति ॥ १.३.४.
[३] ॥

अथोत्तरं परिदधाति । मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा
विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्यग्निरिड ईडित इत्यग्नयो हि
तस्मादाहाग्निरिड ईडित इति ॥ १.३.४.
[४] ॥

अथ समिधमभ्यादधाति । स मध्यममेवाग्रे परिधिमुपस्पृषति
तेनैतानग्रे समिन्धेऽथाग्नावभ्यादधाति तेनो अग्निं प्रत्यक्षं समिन्धे ॥ १.३.४.
[५] ॥

सोऽभ्यादधाति । वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने
बृहन्तमध्वर इत्येतया गायत्र्या गायत्रीमेवैतत्समिन्धे सा गायत्री
समिद्धान्यानि छन्दांसि समिन्धे छन्दांसि समिद्धानिदेवेभ्यो यज्ञं वहन्ति ॥ १.३.४.
[६] ॥

अथ यां द्वितीयां समिधमभ्यादधाति । वसन्तमेव तया समिन्धे स वसन्तः
समिद्धोऽन्यानृतूंत्समिन्ध ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च
पचन्ति सोऽभ्यादधाति समिदसीति समिद्धि वसन्तः ॥ १.३.४.
[७] ॥

अथाभ्याधाय जपति । सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या इति गुप्त्यै वा
अभितः परिधयो भवन्त्यथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति
नेत्पुरस्तान्नाष्ट्रा रक्षांस्यभ्यवचरानिति सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता ॥ १.३.४.
[८] ॥

अथ यामेवामृं तृतीयां समिधमभ्यादधाति । अनुयाजेषु ब्राह्मणमेव तया
समिन्धे स ब्राह्मणः समिद्धो देवेभ्यो यज्ञंवहति ॥ १.३.४.
[९] ॥

अथ स्तीर्णां वेदिमुपावर्तते । स द्वे तृणे आदाय तिरश्ची निदधाति सवितुर्बाहू स्थ
इत्ययं वै स्तुपः प्रस्तरोऽथास्यैते भ्रुवावेव तिरश्ची निदधाति तस्मादिमे
तिरश्च्यौ भ्रुवौ क्षत्रं वै प्रस्तरो विश इतरं बर्हिः क्षत्रस्य चैव विशश्च
विधृत्यै तस्मात्तिरश्ची निदधाति तस्माद्वेव विधृती नाम ॥ १.३.४.
[१०] ॥

तत्प्रस्तरं स्तृणाति । ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति साधुं
देवेभ्य इत्येवैतदाह यदाहोर्णम्रदसं त्वेति स्वासस्थं देवेभ्य इति स्वासदं
देवेभ्य इत्येवैतदाह ॥ १.३.४.
[११] ॥

तमभिनिदधाति । आ त्वा वसवो रुद्रा आदित्याः सदन्त्वित्येते वै त्रया देवा यद्वसवो
रुद्रा आदित्या एते त्वासीदन्त्वित्येवैतदाहाभिनिहित एव सव्येन पाणिना भवति ॥ १.३.४.
[१२] ॥

अथ दक्षिणेन जुहूं प्रतिगृह्णाति । नेदिह पुरा नाष्ट्रारक्षांस्याविशानिति ब्राह्मणो
हि रक्षसामपहन्ता तस्मादभिनिहित एव सव्येन पाणिना भवति ॥ १.३.४.
[१३] ॥

अथ जुहूं प्रतिगृह्णाति । घृताच्यसि जुहूर्नाम्नेति घृताचीहि जुहूर्हि नाम्ना सेदम्
प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यस्युपभृन्नाम्नेत्युपभृतं घृताची
ह्युपभृद्धि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा
नाम्नेति ध्रुवां घृताची हि ध्रुवा हि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद
आसीदेति प्रियेण धाम्ना प्रियं सद आसीदेति यदन्यद्धविः ॥ १.३.४.
[१४] ॥

स वा उपरि जुहूं सादयति । अध इतराः स्रुचः क्षत्रंवै जुहूर्विश इतराः स्रुचः
क्षत्रमेवैतद्विश उत्तरं करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा
उपासते तस्मादुपरिजुहूं सादयत्यध इतराः स्रुचः ॥ १.३.४.
[१५] ॥

सोऽभिमृशति । ध्रुवा असदन्निति ध्रुवा ह्यसदन्नृतस्य योनाविति यज्ञो वा ऋतस्य
योनिर्यज्ञे ह्यसदंस्ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिमिति तद्यजमानमाह
पाहि मां यज्ञन्यमिति तदप्यात्मानं यज्ञान्नान्तरेति यज्ञो वै
विष्णोस्तद्यज्ञायैवैतत्सर्वं परिददाति गुप्त्यै तस्मादाह ता विष्णो पाहीति
१.३.५सामिधेन्यनुवचनम् ॥ १.३.४. [१६] ॥

इन्धे ह वा एतदध्वर्युः । इध्मेनाग्निं तस्मादिध्मो नाम
समिन्धेसामिधेनीभिर्होता तस्मात्सामिधेन्यो नाम ॥ १.३.५.
[१] ॥

स आह । अग्नये समिध्यमानायानुब्रूहीत्यग्नये ह्येतत्समि
ध्यमानायान्वाह ॥ १.३.५.
[२] ॥

तदु हैक आहुः । अग्नये समिध्यमानाय होतरनुब्रूहीति तदु तथा न ब्रूयादहोता
वा एष पुरा भवति यदैवैनं प्रवृणीतेऽथ होता तस्मादु ब्रूयादग्नये
समिध्यमानायानुब्रूहीत्येव ॥ १.३.५.
[३] ॥

आग्नेयीरन्वाह । स्वयैवैनमेताद्देवताया समिन्धे गायत्रीरन्वाह गायत्रं वा
अग्नेश्छन्दः स्वेनैवैनमेतच्छन्दसासमिन्धे वीर्यं गायत्री ब्रह्म गायत्री
वीर्येणैवैनमेतत्समिन्धे ॥ १.३.५.
[४] ॥

एकादशान्वाह । एकादशाक्षरा वै त्रिष्टुब्ब्रह्म गायत्री क्षत्रं
त्रिष्टुबेताभ्यामेवैनमेतदुभाभ्यां वीर्याभ्यां समिन्धे तस्मादेकादशान्वाह ॥ १.३.५.
[५] ॥

स वै त्रिः प्रथमामन्वाह । त्रिरुत्तमां त्रिवृत्प्रायणा हि
यज्ञास्त्रिवृदुदयनास्तस्मात्त्रिः प्रथमामन्वाह त्रिरुत्तमां ॥ १.३.५.
[६] ॥

ताः पञ्चदश सामिधेन्यः संपद्यन्ते पञ्चदशो वै वज्रो वीर्यं वज्रो
वीर्यमेवैतत्सामिधेनीरभिसंपादयति तस्मादेतास्वनूच्यमानासु यं
द्विष्यात्तमन्गुष्ठाभ्यामवबाधेतेदमहममुमवबाध इति तदेनमेतेन
वज्रेणावबाधते ॥ १.३.५.
[७] ॥

पञ्चदष वा अर्धमास्य रात्रयः । अर्धमासशो वै संवत्सरो भवन्नेति
तद्रात्रीराप्नोति ॥ १.३.५.
[८] ॥

पञ्चदशानामु वै गायत्रीणाम् । त्रीणि च शतानि षस्टिश्चाक्षराणि त्रीणि च वै शतानि
षष्टिष्च संवत्सरस्याहानि तदहान्याप्नोति तद्वेव संवत्सरमाप्नोति ॥ १.३.५.
[९] ॥

सप्तदश सामिधेनीः । इष्ट्य अनुब्रूयादुपांशु तस्यै देवतायै यजति यस्या इष्टं
निर्वपति द्वादश वै मासाः संवत्सरस्य पञ्चर्तव एष एव प्रजापतिः सप्तदशः
सर्वं वै प्रजापतिस्तत्सर्वेणैव तं काममनपराधं राध्नोति यस्मै
कामायेष्टिं निर्वपत्युपांशु देवतां यजत्यनिरुक्तं वा उपांशु सर्वं वा
अनिरुक्तं तत्सर्वेणैव तं काममनपराधं राध्नोति ष्वस्मै कामायेष्ठिं
निर्वपत्येष इष्टेरुपचारः ॥ १.३.५.
[१०] ॥

एकविंशतिं सामिधेनी । अपि दर्शपूर्णमासयोरनुब्रूयादित्याहुर्द्वादश वै मासाः
संवत्सरस्य पञ्चर्तवस्त्रयो लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा
गतिरेषा प्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति तस्मादेकविंशतिमनुब्रूयात् ॥ १.३.५.
[११] ॥

ता हैता गतश्रेरेवानुब्रूयात् । य इच्छेन्न श्रेयांत्स्यांन पापीयानिति यादृशाय हैव सते
ऽन्वाहुस्तादृङ्वा हैव भवति पापीयान्वा यस्यैवं विदुष एता अन्वाहुः सो एषा
मीमांसैव न त्वेवैता अनूच्यन्ते ॥ १.३.५.
[१२] ॥

त्रिरेव प्रथमां त्रिरुत्तमामनवानन्ननुब्रूयात् । त्रयो वा इमे
लोकास्तदिमानेवैतल्लोकांत्संतनोतीमांल्लोकांत्स्पृणुते त्रय इमे पुरुषे प्राणा
एतमेवास्मिन्नेतत्संततमव्यवच्छिन्नं दधात्येतदनुवचनम् ॥ १.३.५.
[१३] ॥

स यावदस्य वचः स्यात् । एवमेवानुविवक्षेत्तस्यैतस्य परिचक्षीत
साम्यवान्यादनवानन्ननुविवक्षंस्तत्कर्म विवृह्येत सा परिचक्षा ॥ १.३.५.
[१४] ॥

स यद्येतन्नोदाशंसेत ।
अप्येकैकामेवानवानन्ननुब्रूयात्तदेकैकयैवेमांल्लोकांत्संतनोत्येकैकयेमांल्लो
कांत्स्पृणुतेऽथ यत्प्राणं दधाति गायत्री वै प्राणः स यत्कृत्स्नां गायत्रीमन्वाह
तत्कृत्स्नं प्राणं दधाति तस्मादेकैकामेवानवानन्ननुब्रूयात् ॥ १.३.५.
[१५] ॥

ता वै संतता अव्यवच्छिन्ना अन्वाह । संवत्सरस्यैवैतदहोरात्राणि संतनोति तानीमानि
संवत्सरस्याहोरात्राणि संततान्यव्यवच्छिन्नानि परिप्लवन्ते द्विषत उ
चैवैतद्भ्रातृव्याय नोपस्थानं करोत्युपस्थानं ह
कुर्याद्यदसंतताअनुब्रूयात्तस्माद्वै संतता अव्यवच्छिन्ना अन्वाह ॥ १.३.५.
[१६] ॥

हिंकृत्यान्वाह । नासामा यज्ञोऽस्तीति वा आहुर्न वा अहिंकृत्य साम गीयते म
यद्धिंकरोति तद्धिंकारस्य रूपं क्रियते प्रणवेनैव साम्नो रूपमुपगच्छत्यो३ं
ओ३ इत्येतेनो हास्यैष सर्व एव ससामा यज्ञो भवति ॥ १.४.१.
[१] ॥

यद्वेव हिंकरोति । प्राणो वै हिंकारः प्राणो हि वै हिंकारस्तस्मादपिगृह्य नासिके न
हिंकर्तुं शक्नोति वाचा वा ऋचमन्वाह वाक्च वै प्राणश्च मिथुनं
तदेतत्पुरस्तान्मिथुनं प्रजननं क्रियते सामिधेनीनां तस्माद्वै हिंकृत्यान्वाह ॥ १.४.१.
[२] ॥

स वा उपांशु हिंकरोति । अथ यदुच्चैर्हिंकुर्यादन्यतरदेव कुर्याद्वाचमेव
तस्मादुपांशु हिंकरोति ॥ १.४.१.
[३] ॥

स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाचीं च पराचीं च युनक्ति पराच्यह
देवेभ्यो यज्ञं वहत्यर्वाची मनुष्यानवति तस्माद्वा एति च प्रेति चान्वाह ॥ १.४.१.
[४] ॥

यद्वेवेति च प्रेति चान्वाह । प्रेति वै प्राण एत्युदानः प्राणोदानावेवैतद्दधाति
तस्माद्वा एति च प्रेति चान्वाह
१.४.१[[.]]६
यद्वेवेति च प्रेति चान्वाह । प्रेति वै रेतः सिच्यत एति प्रजायते प्रेति पशवो
वितिष्टन्त एति समावर्तन्ते सर्वं वा इदमेति च प्रेति च तस्माद्वा एति च प्रेति
चान्वाह ॥ १.४.१.
[५] ॥

सोऽन्वाह । प्र वो वाजा अभिद्यव इति तन्नु प्रेति भवत्यग्न आयाहिवीतय इति तद्वेति
भवति ॥ १.४.१.
[७] ॥

तदु हैक आहुः । उभयं वा एतत्प्रेति सम्पद्यत इति तदु तदातिविज्ञान्यमिव प्र वो
वाजा अभिद्यव इति तन्नु प्रेत्यग्न आयाहि वीतय इति तद्वेति ॥ १.४.१.
[८] ॥

सोऽन्वाह । प्र वो वाजा अभिद्यव इति तन्नु प्रेति भवति वाजा इत्यन्नं वै वाजा
अन्नमेवैतदभ्यनूक्तमभिद्यव इत्यर्धमासा वा अभिद्यवो
ऽर्धमासानेवैतदभ्यनूक्तं हविष्मन्त इति पशवो वै हविष्मन्तः
पशूनेवैतदभ्यनूक्तम् ॥ १.४.१.
[९] ॥

घृताच्येति । विदेघो ह माथवोऽग्निं वैश्वानरं मुखे बभार तस्य गोतमो
राहूगण ऋषिः पुरोहित आस तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति नेन्मे
ऽग्निर्वैश्वानरो मुखान्निष्पद्याता इति ॥ १.४.१.
[१०] ॥

तमृग्भिर्ह्वयितुं दध्रे । वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि अग्ने
बृहन्तमध्वरे विदेघेति ॥ १.४.१.
[११] ॥

स न प्रतिशुश्राव । उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते तव ज्योतींष्यर्चयो
विदेघा३ इति ॥ १.४.१.
[१२] ॥

स ह नैव प्रतिशुश्राव । तं त्वा घृतस्नवीमह इत्येवाभिव्याहरदथास्य
घृतकीर्तावेवाग्निर्वैश्वानरो मुखादुज्जज्वाल तं न शशाक धारयितुं सोऽस्य
मुखान्निष्पेदे सैमां पृथिवीं प्रापादः ॥ १.४.१.
[१३] ॥

तर्हि विदेघो माथव आस । सरस्वत्यां स तत एव प्राङ्दहन्नभीयायेमां पृथिवीं
तं गोतमश्च राहूगणो विदेघश्च माथवः पश्चाद्दहन्तमन्वीयतुः स इमाः
सर्वा नदीरतिददाह सदानीरेत्युत्तराद्गिरेर्निर्घावति तां हैव नातिददाह तां ह
स्म तां पुरा ब्राह्मणा न तरन्त्यनतिदग्धाग्निना वैश्वानरेणेति ॥ १.४.१.
[१४] ॥

तत एतर्हि । प्राचीनं बहवो ब्राह्मणास्तद्धाक्षेत्रतरमिवास
स्रावितरमिवास्वदितमग्निना वैश्वानरेणेति ॥ १.४.१.
[१५] ॥

तदु हैतर्हि । क्षेत्रतरमिव ब्राह्मणा उ हि नूनमेनद्यज्ञैरसिष्वदंत्सापि
जघन्ये नैदाघे समिवैव कोपयति तावचीतानतिदग्धा ह्यग्निना वैश्वानरेण ॥ १.४.१.
[१६] ॥

स होवाच । विदेघो माथवः क्वाहं भवानीत्यत एव ते प्राचीनं भुवनमिति
होवाच सैषाप्येतर्हि कोसलविदेहानां मर्यादा ते हि माथवाः ॥ १.४.१.
[१७] ॥

अथ होवाच । गोतमो राहूगणः कथं नु न आमन्त्र्यमाणो न प्रत्यश्रौषीरिति स
होवाचाग्निर्मे वैश्वानरो मुखेऽभुत्स नेन्मे मुखान्निष्पद्यातै तस्मात्ते न
प्रतिश्रौषमिति ॥ १.४.१.
[१८] ॥

तदु कथमभूदिति । यत्रैव त्वं घृतस्नवीमह इत्यभिव्याहार्षीस्तदेव मे
घृतकीर्तावग्निर्वैश्वानरो मुखादुदज्वालीत्तं नाशकं धारयितुं स मे
मुखान्निरपादीति ॥ १.४.१.
[१९] ॥

स यत्सामिधेनीषु घृतवत् । सामिधेनमेव तत्समेवैनं तेनेन्धे
वीर्यमेवास्मिन्दधाति ॥ १.४.१.
[२०] ॥

तदु घृताच्येति । देवाञ्जिगाति सुम्नयुरिति यजमानो वै सुम्नयुः स हि देवाञ्जिगीषति स हि देवाञ्जिघांसति तस्मादाह देवाञ्जिगाति सुम्नयुरिति सैषाग्नेयी सत्यनिरुक्ता सर्वं वा अनिरुक्तं सर्वेणैवैतत्प्रतिपद्यते ॥ १.४.१. [२१] ॥

अग्न आयाहि वीतय इति । तद्वेति भवति वीतय इति समन्तिकमिव हवा इमेऽग्रे लोका
आसुरित्युन्मृश्या हैव द्यौरास ॥ १.४.१.
[२२] ॥

ते देवा अकामयन्त । कथं नु न इमे लोका वितरां स्युः कथं न इदं वरीय इव
स्यादिति तानेतैरेव त्रिभिरक्षरैर्व्यनयन्वीतय इति त इमे विटूरं लोकास्ततो
देवेभ्यो वरीयोऽभवद्वरीयो ह वा अस्य भवति यस्यैवं विदुष
एतामन्वाहुर्वीतय इति ॥ १.४.१.
[२३] ॥

गृणानो हव्यदातय इति । यजमानो वै हव्यदातिर्गृणानो यजमनायेत्येवैतदाह नि
होता सत्सि बर्हिषीत्यग्निर्वै होतायं लोको बर्हिरस्मिन्नेवैतल्लोकेऽग्निं दधाति सो
ऽयमस्मिंल्लोकेऽग्निर्हितः सैषेममेव लोकमभ्यनूक्तेममेवैतया लोकं जयति
यस्यैवं विदुष एतामन्वाहुः ॥ १.४.१.
[२४] ॥

तं त्वा समिद्भिरङ्गिर इति । समिद्भिर्ह्येतमङ्गिरस ऐन्धताङ्गिर इत्यङ्गिरा उ
ह्यग्निर्घृतेन वर्धयामसीति तत्सामिधेनं पदं समेवैनं तेनेन्धे
वीर्यमेवास्मिन्दधाति ॥ १.४.१.
[२५] ॥

बृहचोचा यविष्ट्येति । बृहदु ह्येष षोचति समिद्धो यविष्ट्येति यविष्ठो
ह्यग्निस्तस्मादाह यविष्ठ्येति सैषितमेव लोकमभ्यनूक्तान्तरिक्षलोकमेव
तस्मादाग्नेयी सत्यनिरुक्तानिरुक्तो ह्येष लोक एतमेवैतया लोकं जयति यस्यैवं
विदुष एतामन्वाहुः ॥ १.४.१.
[२६] ॥

स नः पृथु श्रवाय्यमिति । अदो वै पृथु यस्मिन्देवा एतच्रवाय्यं यस्मिन्देवा अच्छा
देव विवाससीत्यच्छ देव विवासस्येतन्नो गमयेत्येवैतदाह ॥ १.४.१.
[२७] ॥

बृहदग्ने सुवीर्यामिति । अदो वै बृहद्यस्मिन्देवा एतत्सुवीर्यं यस्मिन्देवाः
सैषितमेव लोकमभ्यनूक्ता दिवमेवैतमेवैतया लोकं जयति यस्यैवं विदुष
एतामन्वाहुः ॥ १.४.१.
[२८] ॥

सो न्वाह । इडेन्यो नमस्य इतीडेन्यो ह्येष नमस्यो ह्येषतिरस्तमांसि दर्षत इति
तिर इव ह्येष तमांसि समिद्धो ददृशे समग्निरिध्यते वृषेति सं हीध्यते वृषा
वृषो अग्निः समिध्यत इति सं हीध्यते ॥ १.४.१.
[२९] ॥

अश्वो न देववाहन इति । अश्वो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति यद्वै
नेत्यृच्योमिति तत्तस्मादाहाश्वो न देववाहन इति ॥ १.४.१.
[३०] ॥

तं हविष्मन्त ईदत इति । हविष्मन्तो ह्येतं मनुष्या ईदते तस्मादाह तं
हविष्मन्त ईडत इति ॥ १.४.१.
[३१] ॥

वृषणं त्वा वयं वृषन्वृषणः समिधीमहीति । सं ह्येनमिन्धतेऽग्ने दीद्यतं
बृहदिति दीदयेव ह्येष बृहत्समिद्धः ॥ १.४.१.
[३२] ॥

तं वा एतम् । वृषण्वन्तं त्रिचमन्वाहाग्नेय्यो वा एताः सर्वाः सामिधेन्यो
भवन्तीन्द्रो वै यज्ञस्य देवतेन्द्रो वृषैतेनो हास्यैताः सेन्द्राः सामिधेन्यो
भवन्ति तस्माद्वृषण्वन्तं त्रिचमन्वाह ॥ १.४.१.
[३३] ॥

सोऽन्वाह । अग्निं दूतं वृणीमह इति देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे
तांत्स्पर्धमानाङ्गायत्र्यन्तरा तस्थौ या वै सा गायत्र्यासीदियं वै सा पृथिवीयं
हैव तदन्तरा तस्थौ त उभय एव विदां चक्रुर्यतरान्वै न इयमुपावर्त्स्यति ते
भविष्यन्ति परेतरे भविष्यन्तीति तामुभय एवोपमन्त्रयां चक्रिरेऽग्निरेव
देवानां दूत आस सहरक्षा इत्यसुररक्शसमसुराणां साग्निमेवानुप्रेयाय
तस्मादन्वाहाग्निं दूतं वृणीमह इति स हि देवानां दूत आसीद्धोतारं
विश्ववेदसमिति ॥ १.४.१.
[३४] ॥

तदु हैकेऽन्वाहुः । होता यो विश्ववेदस इति नेदरमित्यात्मान ब्रवाणीति तदु तथा
न ब्रूयान्मानुषं ह ते यज्ञे कुर्वन्ति व्यृद्धं वै तद्यज्ञस्य यन्मानुषं
नेद्व्यृद्धं यज्ञे करवाणीति तस्माद्यथैवर्चानूक्तमेवानुब्रूयाद्धोतारं
विश्ववेदसमित्येवास्य यज्ञस्य सुक्रतुमित्येष
हियज्ञस्यसुक्रतुर्यदग्निस्तस्मादाहास्य यज्ञस्य सुक्रतुमिति सेयं देवानुपाववर्त
ततो देवा अभवन्परासुरा भवति ह वा आत्मना परास्य सपत्ना भवन्ति यस्यैवं
विदुष एतामन्वाहुः ॥ १.४.१.
[३५] ॥

तां वा अष्टमीमनुब्रूयात् । गायत्री वा एषा निदानेनाष्टाक्षरा वै गायत्री
तस्मादष्टमीमनुब्रूयात् ॥ १.४.१.
[३६] ॥

तद्धैके । पुरस्ताद्धाय्ये दधत्यन्नं धाय्ये मुखत इदमन्नाद्यं दध्म
इति वदन्तस्तदु तथा न कुर्यादनवकॢप्तातस्यैषा भवति यः पुरस्ताद्धाय्ये
दधाति दशमी वाहि तर्ह्येकादशी वा सम्पद्यते तस्यो हैवैषावकॢप्ता भवति
यस्यैतामष्टमीमन्वाहुस्तस्मादुपरिष्टादेव धाय्ये दध्यात् ॥ १.४.१.
[३७] ॥

समिध्यमानो अध्वर इति । अध्वरो वै यज्ञः समिध्यमानो यज्ञ
इत्येवैतदाहाग्निः पावक ईड्य इति पावको ह्येष ईड्यो ह्येष शोचिष्केशस्तमीमह इति
शोचन्तीव ह्येतस्य केशाः समिद्धस्य समिद्धो अग्न आहुतेत्यतः प्राचीनं
सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधोऽपवृङ्क्त इव ह्येतद्धोतायद्वा
अन्यत्समिध इध्मस्यातिरिच्यतेऽतिरिक्तं तद्यद्वै यज्ञस्यातिरिक्तं द्विषन्तं हास्य
तद्भ्रातृव्यमभ्यतिरिच्यते तस्मादतः प्राचीनं
सर्वमिध्ममभ्यादध्याद्यदन्यत्समिधः ॥ १.४.१.
[३८] ॥

देवान्यक्षि स्वध्वरेति । अध्वरो वै यज्ञो देवान्यक्षि सुयज्ञियेत्येवैतदाह त्वां
हि हव्यवाडसीत्येष हि हव्यवाड्यदग्निस्तस्मादाह त्वं हि हव्यवाडसीत्या जुहोता
दुवस्यताग्निं प्रयत्यध्वरे वृणीध्वं हव्यवाहनमिति
सम्प्रेष्यत्येवैतयाजुहुत च यजत च यस्मै कामाय समैन्धिढ्वं
तत्कुरुतेत्येवैतदाहाग्निं प्रयत्यध्वर इत्यध्वरो वै यज्ञोऽग्निं प्रयति यज्ञ
इत्येवैतदाह वृणीध्वं हव्यवाहनमित्येष हि हव्यवाहनो यदग्निस्तस्मादाह
वृणीध्वं हव्यवाहनमिति ॥ १.४.१.
[३९] ॥

तं वा एतम् । अध्वरवन्तं त्रिचमन्वाह देवान्ह वै यज्ञेन यजमानांत्सपत्ना
असुरा दुधूर्षां चक्रुस्ते दुधूर्षन्त एव न शेकुर्धूर्वितुं ते
पराबभूवुस्तस्माद्यज्ञोऽध्वरो नाम दुधूर्षन्ह वा एनं सपत्नः पराभवति
यस्यैवं विदुषोऽध्वरवन्तं त्रिचमन्वाहुर्यावद्वेव सौम्येनाध्वरेणेष्ट्वा
जयति तावज्जयति
१.४.२निगदानुवचनम् ॥ १.४.१. [४०] ॥

एतद्ध वै देवा अग्निं गरिष्ठेऽयुञ्जन् । यद्धोतृत्व इदं नो हव्यं वहेति
तमेतद्गरिष्ठे युक्त्वोपामदन्वीर्यवान्वै त्वमस्यलं वै त्वमेतस्मा असीति वीर्ये
समादधतो यथेदमष्येतर्हि ज्ञातीनां यं गरिष्ठे युञ्जन्ति तमुपमदन्ति
वीर्यवान्वै त्वमस्यलं वै त्वमेतस्मा असीति वीर्ये समादधतः स
यदमेवास्मिन्दधाति ॥ १.४.२.
[१] ॥

अग्ने महां असि ब्राह्मण भारतेति । ब्रह्म ह्यग्निस्तस्मादाह ब्राह्मणेति
भारतेत्येष हि देवेभ्यो हव्यं भरति तस्माद्भरतोऽग्निरित्याहुरेष उ वा इमाः
प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भारतेति ॥ १.४.२.
[२] ॥

अथार्षेयं प्रवणीते । ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययम्
महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते ॥ १.४.२.
[३] ॥

परस्तादर्वाक्प्रवृणीते । परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ
चैवैतं निह्नुत इदं हि पितैवाग्रेऽथ पुत्रोऽथ
पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणीते ॥ १.४.२.
[४] ॥

स आर्षेयमुक्त्वाह । देवेद्धो मन्विद्ध इति देवा ह्येतमग्र ऐन्धत तस्मादाह
देवेद्ध इति मन्विद्ध इति मनुर्ह्येतमग्र ऐन्द्ध तस्मादाह मन्विद्ध इति ॥ १.४.२.
[५] ॥

ऋषिष्टुत इति । ऋषयो ह्येतमग्रे स्तुवंस्तस्मादाहर्षिष्टुत इति ॥ १.४.२. [६] ॥

विप्रानुमदित इति । एते वै विप्रा यदृषय एते ह्येतमन्वमदंस्तस्मादाह
विप्रानुमदित इति ॥ १.४.२.
[७] ॥

कविशस्त इति । एते वै कवयो यदृषय एते ह्येतमशंसंस्तस्मादाह कविशस्त इति ॥ १.४.२. [८] ॥

ब्रह्मसंशित इति ब्रह्मसंशितो ह्येष घृताहवन इति घृताहवनो ह्येषः ॥ १.४.२. [९] ॥

प्रणीर्यज्ञानां रथीरध्वराणामिति । एतेन वै सर्वान्यज्ञान्प्रणयन्ति ये च
पाकयज्ञा ये चेतरे तस्मादाह प्रणीर्यज्ञानामिति ॥ १.४.२.
[१०] ॥

रथीरध्वराणामिति । रथो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति तस्मादाह
रथीरध्वराणामिति ॥ १.४.२.
[११] ॥

अतूर्तो होता तूर्णिर्हव्यवाडिति । न ह्येतं रक्षांसि तरन्ति तस्मादाहातूर्तो होतेति
तूर्णिर्हव्यवाडिति सर्वं ह्येष पाप्मानं तरति तस्मादाह तूर्णिर्हव्यवाडिति ॥ १.४.२.
[१२] ॥

आस्पात्रं जुहूर्देवानामिति । देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो
देवेभ्यो जुह्वति देवपात्रं ह्येष प्राप्नोति ह वै तस्य पात्रं यस्य पात्रम्
प्रेप्स्यति य एवमेतद्वेद ॥ १.४.२.
[१३] ॥

चमसो देवपान इति । चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति तस्मादाह
चमसो देवपान इति ॥ १.४.२.
[१४] ॥

अरां इवाग्ने नेमिर्देवांस्त्वं परिभूरसीति । यथारान्नेमिः सर्वतः परिभूरेवं
त्वं देवांत्सर्वतः परिभूरसीत्येवैतदाह ॥ १.४.२.
[१५] ॥

आवह देवान्यजमानायेति । तदस्मै यज्ञाय देवानावोढवा आहाग्निमग्न आवहेति
तदाग्नेयायाज्यभागायाग्निमावोढ्वा आह सोममावहेति तत्सौम्यायाज्यभागाय
सोममावोढवा आहाग्निमावहेति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो
भवति तस्मा अग्निमावोढवा आह ॥ १.४.२.
[१६] ॥

अथ यथादेवतम् । देवां आज्यपां आवहेति तत्प्रयाजानुयाजानावोढवा आह
प्रयाजानुयाजा वै देवा आज्यपा अग्निं होत्रायावहेति तदग्निं होत्रायावोढवा आह स्वं
महिमानमावहेति तत्स्वं महिमानमावोढवा आह वाग्वा अस्य स्वो महिमा
तद्वाचमावोढवा आहा च वह जातवेदः सुयजा च यजेति तद्या एवैतद्देवता
आवोढवा आह ता एवैतदाहा चैना वहानुष्ठ्या च यजेति यदाह सुयजा च यजेति ॥ १.४.२.
[१७] ॥

स वै तिष्ठन्नन्वाह । अन्वाह ह्येतदसौ ह्यनुवाक्या तदसावेवैतद्भूत्वान्वाह
तस्मात्तिष्ठन्नन्वाह ॥ १.४.२.
[१८] ॥

आसीनो याज्यां यजति । इयं हि याज्या तस्मन्न कश्चन तिष्ठन्याज्यां यजतीयं हि याज्या
तदियमेवैतद्भूत्वा यजति तस्मादासीना याज्यां यजति
१.४.३शान्तिकर्म ॥ १.४.२. [१९] ॥

यो ह वा अग्निः सामिधेनीभिः समिद्धः । अतितरां ह वै स
इतरस्मादग्नेस्तपत्यनवधृष्यो हि भवत्यनवमृश्यः ॥ १.४.३.
[१] ॥

स यथा हैवाग्निः । सामिधेनीभिः समिद्धस्तपत्येवं हैव ब्राह्मणः
सामिधेनीर्विद्वाननुब्रुवंस्तपत्यनवधृष्यो हि भवत्यनवमृश्यः
१.४.३[[.]]३
सोऽन्वाह । प्रव इति प्राणो वै प्रवान्प्राणमेवैतया समिन्द्धेऽग्न आयाहि वीतय
इत्यपानो वा एतवानपानमेवैत समिन्द्धे बृहचोचा यविष्ठ्येत्युदानो वै बृहचोचा
उदानमेवैतया समिन्द्धे ॥ १.४.३.
[२] ॥

स नः पृथु श्रवाय्यमिति । श्रोत्रं वै पृथु श्रवाय्यं श्रोत्रेण हीदमुरु पृथु
शृणोति श्रोत्रमेवैतया समिन्द्धे ॥ १.४.३.
[४] ॥

ईडेन्यो नमस्य इति । वाग्वा ईडेन्या वाग्घीदं सर्वमीट्टे वाचेदं सर्वमीडितं
वाचमेवैतया समिन्द्धे ॥ १.४.३.
[५] ॥

अश्वो न देववाहन इति । मनो वै देववाहनं मनो हीदं मनस्विनं
भूयिष्ठं वनीवाह्यते मन एवैतया समिन्द्धे ॥ १.४.३.
[६] ॥

अग्ने दीद्यतं बृहदिति । चक्षुर्वै दीदयेव चक्षुरेवैतया समिन्द्धे ॥ १.४.३. [७] ॥

अग्निं दूतं वृणीमह इति । य एवायं मध्यमः प्राणएतमेवैतया समिन्धे सा
हैषान्तस्था प्राणानामतो ह्यन्य ऊर्ध्वाःप्राणा अतोऽन्येऽवाञ्चोऽन्तस्था ह
भवत्यन्तस्तामेनं मन्यन्ते य एवमेतामन्तस्थां प्राणानां वेद ॥ १.४.३.
[८] ॥

शोचिष्केशस्तमीमह इति । शिश्नं वै शोचिष्केशं शिश्नं हीदं शिश्नं भूयिष्ठं
शोचयति शिश्नमेवैतयासमिन्द्धे
१.४.३[.१]०
समिद्धो अग्न आहुतेति । य एवायमवाङ्प्राण एतमेवैतया समिन्द्ध आ जुहोता
दुवस्यतेति सर्वमात्मानं समिन्द्ध आ नखेभ्योऽथो लोमभ्यः ॥ १.४.३.
[९] ॥

स यद्येनं प्रथमायां सामिधेन्यामनुव्याहरेत् । तं प्रति ब्रूयात्प्राणं वा
एतदात्मनोऽग्नावाधाः प्राणेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात् ॥ १.४.३.
[११] ॥

यदि द्वितीयस्यामनुव्याहरेत् । तं प्रति ब्रूयादपानं वा एतदात्मनोऽग्नावाधा
अपानेनात्मन आर्त्तिमारिष्यसीति तथा हैव स्यात् ॥ १.४.३.
[१२] ॥

यदि तृतीयस्यामनुव्याहरेत् । तं प्रति ब्रूयादुदानं वा … उदानेना … स्यात् ॥ १.४.३. [१३] ॥

यदि चतुर्थ्यामनुव्याहरेत् । तं प्रतिब्रूयाच्रोत्रं वा एतदात्मनोऽग्नावाधाः
श्रोत्रेणात्मन आर्त्तिमारिष्यसि बधिरो भविष्यसीति तथा हैव स्यात् ॥ १.४.३.
[१४] ॥

यदि पञ्चम्यामनुव्याहरेत् । तं प्रति ब्रूयाद्वाचं वा एतदात्मनोऽग्नावाधा
वाचात्मन आर्त्तिमारिष्यसि मूको भवि … स्यात् ॥ १.४.३.
[१५] ॥

यदि षष्ठ्यामनुव्याहरेत् । तं प्रति ब्रूयान्मनो वा एतदात्मनोऽग्नावाधा
मनसात्मन आर्त्तिमारिष्यसि मनोमुषिगृहीतो मोमुघश्चरिष्यसीति तथा हैव स्यात् ॥ १.४.३.
[१६] ॥

यदि सप्तम्यां … याच्चक्षुर्वा एतदात्मनोऽग्नावाधाश्चक्षुषात्मन
आर्त्तिमारिष्यस्यन्धो भवि … स्यात् ॥ १.४.३.
[१७] ॥

यद्यष्टम्याम् … यान्मध्यं वा एतत्प्राणमात्मनोऽग्नावाधा मध्येन
प्राणेनात्मन आर्त्तिमारिष्यस्युद्ध्माय मरिष्यसीति तथा हैव स्यात् ॥ १.४.३.
[१८] ॥

यदि नवम्यामनुव्याहरेत्। तं प्रतिब्रूयाच्छिश्नं वा एतदात्मनोऽग्नावाधाः शिश्नेनात्मन आर्त्तिमारिष्यसि क्लीबो भविष्यसीति तथा हैव स्यात् ॥ १.४.३. [१९] ॥

यदि दशम्यामनु … यादवाञ्चं वा एतत्प्राणमात्मनोऽग्नावाधा अवाचा
प्राणेनात्मन आर्त्तिमारिष्यस्यपिनद्धो मरिष्यसीति तथा हैव स्यात् ॥ १.४.३.
[२०] ॥

यद्येकादश्याम … । यात्सर्वं वा एतदात्मानमग्नावाधाः
सर्वेणात्मनार्त्तिर्मारिष्यसि क्षिप्रेऽमुं लोकमेष्यसीति तथा हैव स्यात् ॥ १.४.३.
[२१] ॥

स यथा हैवाग्निम् । सामिधेनीबिः समिद्धमापद्यार्त्तिं न्येत्येवं हैव
ब्राह्मणं सामिधेनीर्विद्वांसं समनुब्रुवन्तमनुव्याहृत्यार्त्तिं न्येति
१.४.४आघारयोर्निदानम् ॥ १.४.३. [२२] ॥

तं वा एतमग्निं समैन्धिषत । समिद्धे देवेभ्यो जुहवामेति तस्मिन्नेते एव
प्रथमे आहुती जुहोती मनसे चैव वाचे च मनश्च हैव वाक्च युजौ देवेभ्यो
यज्ञं वहतः
१.४.४[[.]]२
स यदुपांशु क्रियते । तन्मनो देवेभ्यो यज्ञं वहत्यथ यद्वाचा निरुक्तं
क्रियते तद्वाग्देवेभ्यो यज्ञं वहत्येतद्वा इदं द्वयं क्रियते तदेते
एवैतत्संतर्पयति तृप्ते प्रीते देवेभ्यो यज्ञं वहात इति ॥ १.४.४.
[१] ॥

स्रुवेण तमाघारयति । यं मनस आघारयति वृषा हि मनो वृषा हि स्रुवः ॥ १.४.४. [३] ॥

स्रुचा तमाघारयति । यं वाच आघारयति योषा हि वाग्योषा हि स्रुक् ॥ १.४.४. [४] ॥

तूष्णीं तमाघारयति । यं मनस आघारयति न स्वाहेति चनानिरुक्तं हि मनो
ऽनिरुक्तं ह्येतद्यत्तूष्णीम् ॥ १.४.४.
[५] ॥

मन्त्रेण तमाघारयति । यं वाच आघारयति निरुक्ता हि वाङ्निरुक्तो हि मन्त्रः ॥ १.४.४. [६] ॥

आसीनस्तमाघारयति । यं मनस आघारयति तिष्ठ्ंस्तं यं वाचे मनश्च ह वै
वाक्च युजौ देवेभ्यो यज्ञं वहतो यतरो वै युजोर्ह्रसीयान्भवत्युपवहं वै
तस्मै कुर्वन्ति वाग्वै मनसो ह्रसीयस्यपरिमिततरमिव हि मनः परिमिततरेव
हि वाक्तद्वाच एवैतदुपवहं करोति ते सयुजौ देवेभ्यो यज्ञं
वहतस्तस्मात्तिष्ठन्वाच आघारयति ॥ १.४.४.
[७] ॥

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्त
एतद्दक्षिणतः प्रत्युदश्रयन्नुच्रितमिव हि वीर्यं
तस्माद्दक्षिणतस्तिष्ठन्नाघारयति स यदुभयत आघारयति तस्मादिदं मनश्च
वाक्च समानमेव सन्नानेव शिरो ह वै यज्ञस्यैतयोरन्यतर
आघारयोर्मूलमन्यतरः ॥ १.४.४.
[८] ॥

स्रुवेण तमाघारयति । यो मूलं यज्ञस्य स्रुचा तमाघारयति यः शिरो यज्ञस्य ॥ १.४.४. [९] ॥

तूष्णीं तमाघारयति । यो मूलं यज्ञस्य तूष्णीमिव हीदंमूलं नो ह्यत्र
वाग्वदति ॥ १.४.४.
[१०] ॥

मन्त्रेण तमाघारयति । यः शिरो यज्ञस्य वाग्घि मन्त्रः शीर्ष्णो हीयमधि
वाग्वदति ॥ १.४.४.
[११] ॥

आसीनस्तमाघारयति । यो मूलं यज्ञस्य निषणमिव हीदं मूलं
तिष्ठंस्तमाघारयति यः शिरो यज्ञस्य तिष्ठतीव हीदं शिरः ॥ १.४.४.
[१२] ॥

स स्रुवेण पूर्वमाघारमाघार्याह । अग्निमग्नीत्सम्मृढीति यथा
धुरमध्यूहेदेवं तद्यत्पूर्वमाघारमाघारय्३ त्यध्युह्य हि धुरं
युञ्जन्ति ॥ १.४.४.
[१३] ॥

अथ सम्मार्ष्टि । युनक्त्येवैनमेतद्युक्तो देवेभ्यो यज्ञं वहादिति
तस्मात्सम्मार्ष्टि परिक्रामं सम्मार्ष्टि परिक्रामं हि योग्यं युञ्जन्ति त्रिस्त्रिः
सम्मार्ष्टि त्रिवृद्धि यज्ञः ॥ १.४.४.
[१४] ॥

स सम्मार्ष्टि । अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं त्वा वाजजितं सम्मार्ज्मीति यज्ञं
त्वा वक्ष्यन्तं यज्ञियं सम्मार्ज्मीत्येवैतदाहाथोपरिष्टात्तूष्णीं त्रिस्तद्यथा
युक्त्वा प्राजेत्प्रेहि वहेत्येवमेवैतत्कशयोपक्षिपति प्रेहि देवेभ्यो यज्ञं वहेति
तस्मादुपरिष्टात्तूष्णीं त्रिस्तद्यदेतदन्तरेण कर्म क्रियते तस्मादिदं मनश्च
वाक्च समानमेव सन्नानेव
१.४.५उत्तराघारः ॥ १.४.४. [१५] ॥

स स्रुचोत्तरमाघारमाघारयिष्यन् । पूर्वेण स्रुचावञ्जलिं निदधाति नमो
देवेभ्यः स्वधा पितृभ्य इति तद्देवेभ्यश्चैवैतत्पितृभ्यश्चार्त्विज्यं
करिष्यन्निह्नुते सुयमे मे भूयास्तमिति स्रुचावादत्ते सुभरे मे भुयास्तम्
भर्तुं वां शकेयमित्येवैतदाहास्कन्नमद्य देवेभ्य आज्यं
सम्भ्रियासमित्यविक्षुब्धमद्य देवेभ्यो यज्ञं तनवा इत्येवैतदाह ॥ १.४.५.
[१] ॥

अङ्घ्रणा विष्णो मा त्वावक्रमिषमिति । यज्ञो वै विष्णुस्तस्मा एवैतन्निह्नुते मा
त्वावक्रमिषमिति वसुमतीमग्ने ते च्छायामुपस्थेषमिति साध्वीमग्ने ते
च्छायामुपस्थेषमित्येवैतदाह ॥ १.४.५.
[२] ॥

विष्णो स्थानमसीति । यज्ञो वै विष्णुस्तस्येव ह्येतदन्तिक तिष्ठति तस्मादाह विष्णो
स्थानमसीतीत इन्द्रो वीर्यमकृणोदित्यतो हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा
रक्षांस्यपाहंस्तस्मादाहेत इन्द्रो वीर्यमकृणोदित्यूर्ध्वोऽध्वर आस्थादित्यध्वरो
वै यज्ञ ऊर्ध्वो यज्ञ आस्थादित्येवैतदाह ॥ १.४.५.
[३] ॥

अग्ने वेर्होत्रं वेर्दूत्यमिति । उभयं वा एतदग्निर्देवानां होता च दूतश्च
तदुभयं विद्धि यद्देवानामसीत्येवैतदाहावतां त्वां द्यावापृथिवी अव त्वं
द्यावापृथिवी इति नात्र तिरोहितमिवास्ति स्विष्टकृद्देवेभ्य इन्द्र आज्येन
हविषाभूत्स्वाहेतीन्द्रो वै यज्ञस्य देवता तस्मादाहेन्द्र आज्येनेति वाचे वा
एतमाघारमाघारयतीन्द्रो वागित्यु वा आहुस्तस्माद्वेवाहेन्द्र आज्येनेति ॥ १.४.५.
[४] ॥

अथासंस्पर्शयन्त्स्रुचौ पर्येत्य । ध्रुवया समनक्ति शिरो वै यज्ञस्योत्तर आघार
आत्मा वै ध्रुवा तदात्मन्येवैतच्छिरः प्रतिदधाति शिरो वै यज्ञस्योत्तर आघारः
श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्माद्योऽर्धस्य श्रेष्ठो भवत्यसावमुष्यार्धस्य
शिर इत्याहुः ॥ १.४.५.
[५] ॥

यजमान एव ध्रुवामनु । योऽस्मा अरातीयति स उपभृतमनु स यद्धोपभृता
समण्ज्याद्यो यजमानायारातीयति तस्मिंच्रियं दध्यात्तद्यजमान एवैतच्रियं
दधाति तस्माद्ध्रुवया समनक्ति ॥ १.४.५.
[६] ॥

स समनक्ति । सं ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्यामाज्यं भवति ज्योतिरितरस्यां ते
ह्येतदुभे ज्योतिषी संगच्छेते तस्मादेवं समनक्ति ॥ १.४.५.
[७] ॥

अथातो मनसश्चैव वाचश्च । अहम्भद्र उदितं मनश्च ह वै वाक्चाहम्भद्र
ऊदाते ॥ १.४.५.
[८] ॥

तद्ध मन उवाच । अहमेव त्वच्रेयोऽस्मि न वै मया त्वं किं चनानभिगतं
वदसि सा यन्मम त्वं कृतानुकरानुवर्त्मास्यहमेव त्वच्रेयोऽस्मीति ॥ १.४.५.
[९] ॥

अथ ह वागुवाच । अहमेव त्वच्रेयस्यस्मि यद्वै त्वं वेत्थाहं
तद्विज्ञपयाम्यहं संज्ञपयामीति ॥ १.४.५.
[१०] ॥

ते प्रजापतिं प्रतिप्रश्नमेयतुः । स प्रजापतिर्मनस एवानूवाच मन एव त्वच्रेयो
मनसो वै त्वं कृतानुकरानुवर्त्मासि श्रेयसो वै पापीयाङ्कृतानुकरोऽनुवर्त्मा
भवतीति ॥ १.४.५.
[११] ॥

सा ह वाक्परोक्ता विसिष्मिये । तस्यै गर्भः पपात सा ह
वाक्प्रजापतिमुवाचाहव्यवाडेवाहं तुभ्यं भूयासं यां मा परावोच इति
तस्माद्यत्किं च प्राजापत्यं यज्ञे क्रियत उपांश्वेव तत्क्रियते हव्यवाढि
वाक्प्रजापतय आसीत् ॥ १.४.५.
[१२] ॥

तद्धैतद्देवाः । रेतश्चर्मन्वा यस्मिन्वा बभ्रुस्तद्ध स्मपृच्छन्त्यत्रेव त्यादिति
ततो त्रिः सम्बभूव तस्मादप्यात्रेय्या योषितैनस्व्येतस्यै हि योषायै वाचो देवताया
एते सम्भूताः
१.५.१होतृप्रवरणम् ॥ १.४.५. [१३] ॥

स वै प्रवरायाश्रावयति । तद्यत्प्रवरायाश्रावयति यज्ञो वा आश्रावणं
यज्ञमभिव्याहृत्याथ होतारं प्रवृणा इति तस्मात्प्रवरायाश्रावयति ॥ १.५.१.
[१] ॥

स इध्मसंनहनान्येवाभिपद्याश्रावयति । स यद्वानारभ्य्
अ यज्ञमध्वर्युराश्रावयेद्वेपनो वा ह स्यादन्यां वार्त्तिमार्च्छेत् ॥ १.५.१.
[२] ॥

तद्धैके । वेदे स्तीर्णायै बर्हिरभिपद्याश्रावयन्तीध्मस्य वा
शकलमपच्छिद्याभिपद्याश्रावयन्तीदं वै किंचिद्यज्ञस्येदं
यज्ञमभिपद्याश्रावयाम इति वदन्तस्तदु तथा न कुर्यादेतद्वै किंचिद्यज्ञस्य
यैरिध्मः संनद्धो भवत्यग्निं सम्मृजन्ति तद्वेव खलु
यज्ञमभिपद्याश्रावयति तस्मादिध्मसंनहनान्येवाभिपद्याश्रावयेत् ॥ १.५.१.
[३] ॥

स आश्राव्य । य एव देवानां होता तमेवाग्रे प्रवृणितेऽग्निमेव तदग्नये
चैवैतद्देवेभ्यश्च निह्नुते यदहाग्रेऽग्निं प्रवृणीते तदग्नये निह्नुतेऽथ यो
देवानां होता तमग्रे प्रवृणीते तदुदेवेभ्यो निह्नुते ॥ १.५.१.
[४] ॥

स आह । अग्निर्देवो दैव्यो होतेत्यग्निर्हि देवानां होता तस्मादाहाग्निर्देवो दैव्यो
होतेति तदग्नये चैव देवेभ्यश्च निह्नुते यदहाग्रेऽग्निमाह तदग्नये निह्नुते
ऽथ यो देवानांहोता तमग्र आह तदु देवेभ्यो निह्नुते ॥ १.५.१.
[५] ॥

देवान्यक्षद्विद्वांश्चिकित्वानिति । एष वै देवाननुविद्वान्यदग्निः स
एनाननुविद्वाननुष्ठ्या यक्षदित्येवैतदाह ॥ १.५.१.
[६] ॥

मनुष्वद्भरतवदिति । मनुर्ह वा अग्रे यज्ञेनेजे तदनुकृत्येमाः प्रजा यजन्ते
तस्मादाह मनुष्वदिति मनोर्यज्ञ इत्यु वा आहुस्तस्माद्वेवाह मनुष्वदिति ॥ १.५.१.
[७] ॥

भरतवदिति । एष हि देवेभ्यो हव्यं भरति तस्माद्भरतोऽग्निरित्याहुरेष उ वा
इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्माद्वेवाह भरतवदिति ॥ १.५.१.
[८] ॥

अथार्षेयं प्रवृणीते । ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययम्
महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते ॥ १.५.१.
[९] ॥

परस्तादर्वाक्प्रवृणीते । परस्ताद्ध्यर्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ
चैवैतन्निह्नुत इदं हि पितैवाग्रेऽथ पुत्रोऽथ
पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणिते ॥ १.५.१.
[१०] ॥

स आर्षेयमुक्त्वाह । ब्रह्मण्वदिति ब्रह्म ह्यग्निस्तस्मादाह ब्रह्मण्वदित्या च
वक्षदिति तद्या एवैतद्देवता आवोढवा आह ता एवैतदाहा च वक्षदिति
१.५.१[.१]२
ब्राह्मणा अस्य यज्ञस्य प्रावितार इति । एते वै ब्राह्मणा यज्ञस्यप्रावितारो येऽनूचाना
एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते तस्मादाह ब्राह्मणा अस्य
यज्ञस्य प्रावितार इति ॥ १.५.१.
[११] ॥

असौ मानुष इति । तदिमं मानुषं होतारं प्रवृणीते होता हैष पुराथैतर्हि
होता ॥ १.५.१.
[१३] ॥

स प्रवृतो होता । जपति देवता उपधावति यथानुष्ठ्या देवेभ्यो
वषट्कुर्याद्यथानुष्ठ्या देवेभ्यो हव्यं वहेद्यथा न ह्वलेदेवं देवता
उपधावति ॥ १.५.१.
[१४] ॥

तत्र जपति एततत्त्वा देव सवितर्वृणत इति तत्सवितारं प्रसवायोपधावति स हि
देवानां प्रसविताग्निं होत्रायेति तदग्नये चैवैतद्देवेभ्यश्च निह्नुते यदहाग्रे
ऽग्निमाह तदग्नये निह्नुतेऽथ यो देवानां होता तमग्र आह तदु देवेभ्यो
निह्नुते ॥ १.५.१.
[१५] ॥

सह पित्रा वैश्वानरेणेति । सम्वत्सरो वै पिता वैश्वानरः
प्रजापतिस्तत्संवत्सरायैवैतत्प्रजापतये निह्नुतेऽग्ने पूषन्बृहस्पते प्र च वद
प्र च यजेत्यनुवक्ष्यन्वा एतद्यक्ष्यन्भवति तदैताभ्य एवैतद्देवताभ्यो
निह्नुते यूयमनुब्रूत यूयं यजतेति ॥ १.५.१.
[१६] ॥

वसूनां रातौ स्याम । रुद्राणामुर्व्यायां स्वादित्या अदितये स्यामानेहस इत्येते वै
त्रया देवा यद्वसवो रुद्रा आदित्या एतेषामभिगुप्तौ स्यामेत्येवैतदाह
१.५.१[.१]८
जुष्टामद्य देवेभ्यो वाचमुद्यासमिति । जुष्टमद्य देवेभ्यो
ऽनूच्यासमित्येवैतदाह तद्धि समृद्धं यो जुष्टं देवेभ्योऽनुब्रवत् ॥ १.५.१.
[१७] ॥

जुष्टां ब्रह्मभ्य इति । जुष्टमद्य ब्राह्मणेभ्योऽनूच्यासमित्येवैतदाह तद्धि
समृद्धं यो जुष्टं ब्राह्मणेभ्योऽनुब्रवत् ॥ १.५.१.
[१९] ॥

जुष्टां नराशंसायेति । प्रजा वै नरस्तत्सर्वाभ्यः प्रजाभ्य आह तद्धि समृद्धं
यश्च वेद यश्च न साध्वन्ववोचत्साध्वन्ववोचदित्येव विसृज्यन्ते यदद्य
होतृवर्ये जिह्मंचक्षुः परापतत् अग्निष्टत्पुनराभ्रियाज्जातवेदा विचर्षणिरिति यथा
यानग्रेऽग्नीन्होत्राय प्रावृणत ते प्राधन्वन्नेवं यन्मेऽत्र प्रवरेणामायि तन्मे
पुनराप्याययेत्येवैतदाह तथो हास्यैतत्पुनराप्यायते ॥ १.५.१.
[२०] ॥

अथाध्वर्युं चाग्नीधं च सम्मृशति । मनो वा अध्वर्युर्वाग्घोता
तन्मनश्चैवैतद्वाचं च संदधाति ॥ १.५.१.
[२१] ॥

तत्र जपति । षण्मोर्वीरंहसस्पान्त्वग्निश्च पृथिवी चापश्च वाजश्चाहश्च रात्रिश्चेत्येता
मा देवता आर्त्तेर्गोपायन्त्वित्येवैतदाह तस्यो हि न ह्वलास्ति यमेता देवता
आर्त्तेर्गोपायेयुः ॥ १.५.१.
[२२] ॥

अथ होतृषदनमुपावर्तते । स होतृषदनादेकं तृणं निरस्यति निरस्तः
परावसुरिति पुरावसुर्ह वै नामासुराणां होता स तमेवैतद्धोतृषदनान्निरस्यति ॥ १.५.१.
[२३] ॥

अथ होतृषदन उपविशति । इदमहमर्वावसोः सदने सीदामीत्यर्वावसुर्वै नाम
देवानां होता तस्यैवैतत्सदने सीदति ॥ १.५.१.
[२४] ॥

तत्र जपति विश्वकर्मस्तनूपा असि मा मो दोषिष्टं मा मा हिंसिष्टमेष वां लोक
इत्युदङ्ङेजत्यन्तरा वा एतदाहवनियं च गार्हपत्यं चास्ते तदु ताभ्यां निह्नुते मा
मो दोषिष्टं मा मा हिंसिष्टमिति तथा हैनमेतौ न हिंस्तः ॥ १.५.१.
[२५] ॥

अथाग्निमीक्षमाणो जपति । विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै
यन्निषद्य प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानीति
यथा येभ्यः पक्वं स्यात्तान्ब्रूयाद्वनु मा शास्त यथा व आहरिष्यामि यथा वः
परिवेक्ष्यामीत्येवमेवैतद्देवेषु प्रशासनमिच्छतेऽनु मा शास्त यथा वोऽनुष्ठ्या
वषट्कुर्यामनुष्ट्या हव्यं वहेयमिति तस्मादेवं जपति
१.५.२पञ्चप्रयाजयागाः। तत्र स्रुगादापननिगदः ॥ १.५.१. [२६] ॥

अग्निर्होता वेत्त्वग्नेर्होत्रमिति अग्निरिदं होता वेत्त्वित्येवैतदाहाग्नेर्होत्रमिति तस्यो
हि होत्रं वेत्तु प्रावित्रमिति यज्ञो वै प्रावित्रं वेत्तु यज्ञमित्येवैतदाह साधु ते
यजमान देवतेति साधु ते यजमान देवता यस्य तेऽग्निर्होतेत्येवैतदाह
घृतवतीमध्वर्यो स्रुचमास्यस्वेति तदध्वर्यु प्रसौति स यदेकामिवाह ॥ १.५.२.
[१] ॥

यजमान एव जुहूमनु । यो स्मा अरातीयति स उपभृतमनु स यद्द्वे इव
ब्रूयाद्यजमानाय द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्यादत्तैव
जुहूमन्वाद्य उपभृतमनु स यद्द्वे इव ब्रूयादत्त्र आद्यं प्रत्युद्यामिनं
कुर्यात्तस्मादेकामिवैवाह ॥ १.५.२.
[२] ॥

देवयुवं विश्ववारामिति । उपस्तौत्येवैनामेतन्महयत्येव यदाह देवयुवं
विश्ववारामितीडामहै देवां ईडेन्यान्नमस्याम नमस्यान्यजाम
यज्ञियानितीडामहै तान्देवान्य ईडेन्या नमस्याम तान्ये नमस्या यजाम यज्ञियानिति
मनुष्या वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ॥ १.५.२.
[३] ॥

या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा
अपराभूतत्स्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो
वनस्पतयो यदिदं किञ्चैवमु तत्सर्वं यज्ञ आभक्तम् ॥ १.५.२.
[४] ॥

ता वा एताः । नव व्याहृतयो भवन्ति नवेमे पुरुषे प्राणा एतानेवास्मिन्नेतद्दधाति
तस्मान्नव व्याहृतयो भवन्ति ॥ १.५.२.
[५] ॥

यज्ञो ह देवेभ्योऽपचक्राम । तं देवा अन्वमन्त्रयन्ता नःशृणूप न आवर्तस्वेति
सोऽस्तु तथेत्येव देवानुपाववर्त तेनोपावृत्तेन देवा अयजन्त
तेनेष्ट्वैतदभवन्यदिदं देवाः ॥ १.५.२.
[६] ॥

स यदाश्रावयति । यज्ञमेवैतदनुमन्त्रयत आ नः शृनूप न आवर्तस्वेत्यथ
यत्प्रत्याश्रावयति यज्ञ एवैतदुपावर्ततेऽस्तु तथेति तेनोपावृत्तेन रेतसा
भूतेनर्त्विजः सम्प्रदायं चरन्ति यजमानेन परोऽक्ष्ं यथा पूर्णपात्रेण
सम्प्रदायं चरेयुरेवमनेनर्त्विजः सम्प्रदायं चरन्ति
तद्वाचैवैतत्सम्प्रदायं चरन्ति वाग्घि यज्ञो वागु हि
रेतस्तदेतेनैवैतत्सम्प्रदायं चरन्ति ॥ १.५.२.
[७] ॥

सोऽनुब्रूहीत्येवोक्त्वाध्वर्युः । नापव्याहरेन्नो एव
होतापव्याहरेदाश्रावयत्यध्वर्युस्तदग्नीधं यज्ञ उपावर्तते ॥ १.५.२.
[८] ॥

सोऽग्निन्नापव्याहरेत् । आ प्रत्याश्रावणात्प्रत्याश्रावयत्यग्नीत्तत्पुनरध्वर्युं यज्ञ
उपावर्तते ॥ १.५.२.
[९] ॥

सोऽध्वर्युर्नापव्याहरेत् । आ यजेति वक्तोर्यजेत्येवाध्वर्युर्होत्रे यज्ञं
सम्प्रयच्छति ॥ १.५.२.
[१०] ॥

स होता नापव्याहरेत् । आ वषट्कारात्तं वषट्कारेणाग्नावेव योनौ रेतो भूतं
सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायत इति नु हविर्यज्ञेऽथ सौम्येऽध्वरे ॥ १.५.२.
[११] ॥

स वै ग्रहं गृहीत्वाध्वर्युः ।
नापव्याहरेदोपाकरणादुपावर्तध्वमित्येवाध्वर्युरुद्गातृभ्यो यज्ञं
सम्प्रयच्छति ॥ १.५.२.
[१२] ॥

त उद्गातारो नापव्याहरेयुः । ओत्तमाया एषोत्तमेत्येवोद्गातारो होत्रे यज्ञं
सम्प्रयच्छन्ति ॥ १.५.२.
[१३] ॥

स होता नापव्याहरेत् । आ वषट्कारात्तं वषट्कारेणाग्नावेव योनौ रेतो भूतं
सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायते ॥ १.५.२.
[१४] ॥

स यद्ध सोऽपव्याहरेत् । यं यज्ञ उपावर्तते यथा पूर्णपात्रं परासिञ्चेदेवं ह
स यजमानं परासिञ्चेत्स यत्र हैवमृत्विजः संविदाना यज्ञेन चरन्ति सर्वमेव
तत्र कल्पते न मुह्यति तस्मादेवमेव यज्ञो भर्तव्यः ॥ १.५.२.
[१५] ॥

ता वा एताः । पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे
वौषडिति पाङ्क्तो यज्ञः पाङ्क्तःपशुः पञ्चर्तवः संवत्सरस्यैषैका यज्ञस्य
मात्रैषा सम्पत् ॥ १.५.२.
[१६] ॥

तासां सप्तदशाक्षराणि । सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञ एषैका यज्ञस्य
मात्रैषा सम्पत् ॥ १.५.२.
[१७] ॥

ओ श्रावयेति वै देवाः । पुरोवातं ससृजिरेऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति
विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन् ॥ १.५.२.
[१८] ॥

स यदि वृष्टिकामः स्यात् । यदीष्ट्या वा यजेत दर्शपूर्णमासयोर्वैव
ब्रूयाद्वृष्टिकामो वा अस्मीति तत्रो अध्वर्युं ब्रूयात्पुरोवातं च विद्युतं च मनसा
ध्यायेत्यभ्राणि मनसा ध्यायेत्यग्नीधं स्तनयित्नुं च वर्षं च मनसा
ध्यायेति होतारं सर्वाण्येतानि मनसा ध्यायेति ब्रह्माणं वर्षति हैव तत्र
यत्रैवमृत्विजः संविदाना यज्ञेन चरन्ति ॥ १.५.२.
[१९] ॥

ओ श्रावयेति वै देवाः । विराजमभ्याजुहुवुरस्तु श्रौषडिति
वत्समुपावासृजन्यजेत्युदजयन्ये यजामह इत्युपासीदन्वषट्कारेणैव
विराजमदुहतेयं वै विराडस्यै वा एष दोह एवं ह वा अस्मा इयं
विराट्सर्वाङ्कामान्दुहे य एवमेतं विराजो दोहं वेद
१.५.३प्रयाजबन्धुः ॥ १.५.२. [२०] ॥

ऋतवो ह वै प्रयाजाः । तस्मात्पञ्च भवन्ति पञ्च ह्यृतवः ॥ १.५.३. [१] ॥

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि
संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति ॥ १.५.३.
[२] ॥

ततो देवाः । अर्चन्तः श्राम्यन्तश्चेरुरस्त एतान्प्रयाजान्ददृशुस्तैरयजन्त
तैर्ऋतून्त्संवत्सरं प्राजयन्नृतुभ्यः संवत्सरात्सपत्नानन्तरायंस्तस्मात्प्रजयाः
प्रजया ह वै नामैतद्यत्प्रयाजा इति तथो एवैष एतैर्ऋतून्त्संवत्सरम्
प्रयजत्यृतुभ्यः संवत्सरात्सपत्नानन्तरेति तस्मात्प्रयाजैर्यजते ॥ १.५.३.
[३] ॥

ते वा आज्यहविषो भवन्ति । वज्रो वा आज्यमेतेन वै देवा
वज्रेणाज्येनर्तून्त्संवत्सरं प्राजयन्नृतुभ्यः संवत्सरात्सपत्नानन्तरायंस्तथो
एवैष एतेन वज्रेणाज्येनर्तून्त्संवत्सरं प्रजयत्यृतुभ्यः
संवत्सरात्सपत्नानन्तरेति तस्मादाज्यहविषो भवन्ति ॥ १.५.३.
[४] ॥

एतद्वै संवत्सरस्य स्वं पयः । यदाज्यं तत्स्वेनैवैनमेतत्पयसा देवाः
स्व्यकुर्वत तथो एवैनमेष एतत्स्वेनैव पयसा स्वीकुरुते तस्मादाज्यहविषो
भवन्ति ॥ १.५.३.
[५] ॥

स यत्रैव तिष्ठन्प्रयाजेभ्य आश्रावयेत् । तत एव नापक्रामेत्संग्रामो वा एष
संनिधीयते यः प्रयाजैर्यजते यतरो वै संयत्तयोः पराजयतेऽप वै
संक्रामत्यभितरामु वै जयङ्क्रामति तस्मादभितरामभितरामेव
क्रामेदभितरामभितरामाहुतीर्जुहुयात् ॥ १.५.३.
[६] ॥

तदु तथा न कुर्यात् । यत्रैव तिष्ठन्प्रयाजेभ्य आश्रावयेत्तत एव
नापक्रामेद्यत्रो एव समिद्धतमं मन्येत तदाहुतीर्जुहुयात्समिद्धहोमेन
ह्येव समृद्धा आहुतयः ॥ १.५.३.
[७] ॥

स आश्राव्याह । समिधो यजेति तद्वसन्तं समिन्द्धे स वसन्तः समिद्धो
ऽन्यानृतून्त्समिन्द्ध ऋतवः समिद्धाः प्रजाश्च प्रजनायन्त्योषधीश्च पचन्ति
तद्वेव खलु सर्वानृतून्निराहाथ यजयजेत्येवोत्तरानाहाजामितायै जामि ह
कुर्याद्यत्तनूनपातं यजेडो यजेति ब्रूयात्तस्माद्यजयजेत्येवोत्तरानाह
प्रयाजब्राह्मणम् ॥ १.५.३.
[८] ॥

स वै समिधो यजति । वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत
वसन्तात्सपत्नानन्तरायन्वसन्तमेवैष एतद्वृङ्क्ते वसन्तात्सपत्नानन्तरेति
तस्मात्समिधो यजति ॥ १.५.३.
[९] ॥

अथ तनूनपातं यजति । ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासां प्रजानां तनूस्तपति
ग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात्सपत्नानन्तरायङ्ग्रीष्ममेवैष एतद्वृङ्क्ते
ग्रीष्मात्सपत्नानन्तरेति तस्मात्तनूनपातं यजति ॥ १.५.३.
[१०] ॥

अथेडो यजति । वर्षा वा इड इति हि वर्षा इडो यदिदं क्षुद्रं सरीसृपं
ग्रीष्महेमन्ताभ्यां नित्यक्तं भवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति
तस्माद्वर्षा इडो वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन्वर्षा उ
एवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति तस्मादिडो यजति ॥ १.५.३.
[११] ॥

अथ बर्हिर्यजति । शरद्वै बर्हिरिति हि शरद्बर्हिर्या इमाओषधयो
ग्रीष्महेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपं
प्रस्तीर्णाः शेरे त!स्माच्छरद्बर्हिः शरदमेव तद्देवा अवृञ्जत शरदः
सपत्नान्तरायञ्छरदमेवैष एतद्वृङ्क्ते शरदः सपत्नानन्तरेति
तस्माद्बर्हिर्यजति ॥ १.५.३.
[१२] ॥

अथ स्वाहास्वाहेति यजति । अन्तो वै यज्ञस्य स्वाहाकारोऽन्त ऋतूनां हेमन्तो
वसन्ताद्धि परार्द्ध्योऽन्तेनैव तदन्तं देवा
अवृञ्जतान्तेनान्तात्सपत्नानन्तरायन्नन्तेनो एवैष एतदन्तं वृङ्क्ते
ऽन्तेनान्तात्सपत्नानन्तरेति तस्मात्स्वाहेति यजति ॥ १.५.३.
[१३] ॥

तद्वा एतत् । वसन्त एव हेमन्तात्पुनरसुरेतस्माद्ध्येष पुन्र्भवति पुनर्ह वा
अस्मिंलोके भवति य एवमेतद्वेद ॥ १.५.३.
[१४] ॥

स वै व्यत्तु वेत्विति यजति । अजामितायै जामि ह कुर्याद्यद्व्यन्तुव्य्न्त्विति वैव
यजेद्वेतुवेत्त्विति वा व्यन्त्विति वै योषा वेत्विति वृषा मिथुनमेवैतत्प्रजननं
क्रियते तस्माद्व्यन्तु वेत्विति यजति ॥ १.५.३.
[१५] ॥

अथ चतुर्थे प्रयाजे समानयति बर्हिषि । प्रजा वै ब्रहीरेत आज्यं
तत्प्रजास्वेवैतद्रेतः सिच्यते तेन रेतसा सिक्तेनेमाः प्रजाः पुनरभ्यावर्तम्
प्रजायन्ते तस्माच्चतुर्थेप्रयाजे समानयति बर्हिषि ॥ १.५.३.
[१६] ॥

संग्रामो वा एष संनिधीयते । यः प्रयाजैर्यजते यतरं वै
संयत्तयोर्मित्रमागच्छति स जयति तदेतदुपभृतोऽधि जुहूं मित्रमागच्छति तेन
प्रजयति तस्माच्चतुर्थे प्रयाजे समानयति बर्हिषि ॥ १.५.३.
[१७] ॥

यजमान एव जुहूमनु । यो स्मा अरातीयति स
उपभृतमनुयजमानायैवैतद्द्विषन्तं भ्रातृव्यं बलिं हारयत्यत्तैव
जुहूमन्वाद्य उपभृतमन्वत्त्र एवैतदाद्यं बलिं हारयति तस्माच्चतुर्थे
प्रयाजे समानयति ॥ १.५.३.
[१८] ॥

स वा अनवमृशन्त्समानयति । स यद्धावमृषेद्यजमानं द्विषता
भ्रातृव्येनावमृशेदत्तारमाद्येनावमृशेत्तस्मादनवमृशन्त्समानयति ॥ १.५.३.
[१९] ॥

अथोत्तरां जुहूमध्यूहति । यजमानमेवैतद्विषति भ्रातृव्येऽध्यूहत्यत्तारमाद्ये
ऽध्यूहति तस्मादुत्तरां जुहूमध्यूहति
१.५.३[.२]१
देवा ह वा ऊचुः । हन्त विजितमेवानु सर्वं यज्ञं संस्थापयाम यदि नो
ऽसुररक्षसान्यासजेयुः संस्थित एव नो यज्ञं स्यादिति ॥ १.५.३.
[२०] ॥

त उत्तमे प्रयाजे । स्वाहाकारेणैव सर्वं यज्ञं समस्थापयन्त्स्वाहाग्निमिति
तदाग्नेयमाज्यभागं समस्थापयन्त्स्वाहा सोममिति तत्सौम्यमाज्यभागं
समस्थापयन्त्स्वाहाग्निमिति तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तं
समस्थापयन् ॥ १.५.३.
[२२] ॥

अथ यथादेवतम् । स्वाहा देवा आज्यपा इति
तत्प्रयाजानुयाजान्त्समस्थापयन्प्रयाजानुयाजा वै देवा आज्यपा जुषाणो अग्निराज्यस्य
वेत्विति तदग्निं स्विष्टकृतं समस्थापयन्नग्निर्हि स्विष्टकृत्स एषोऽव्येतर्हि
तथैव यज्ञं संतिष्टते यथैवैनं देवाः समस्थापयंस्तस्मादुत्तमे प्रयाजे
स्वाहास्वाहेति यजति यावन्ति हवींषि भवन्ति विजितमेवैतदनु सर्वं यज्ञं
संस्थापयति तस्माद्यदत ऊर्ध्वं विलोम यज्ञे क्रियेत न तदाद्रियेत संस्थितो मे
यज्ञ इति ह विद्यात्स हैष यज्ञो यातयामेवास यथा वषट्कृतं हुतं स्वाहाकृतं ॥ १.५.३.
[२३] ॥

ते देवा अकामयन्त । कथं न्विमं यज्ञं पुनराप्याययेमायातयामानं कुर्याम
तेनायातयाम्ना प्रचरेमेति ॥ १.५.३.
[२४] ॥

स यज्जुह्वामाज्यं परिशिष्टमासीत् । येन यज्ञं समस्थापयंस्तेनैव यथापूर्वं
हवींष्यभ्यघारयन्पुनरेवैनानि तदाप्याययन्नयातयामान्यकुर्वन्नयातयाम
ह्याज्यं तस्मादुत्तमं प्रयाजमिष्ट्वा यथापूर्वं हवींष्यभिघारयति
पुनरेवैनानि तदाप्याययत्ययातयामानि करोत्ययातयाम ह्याज्यं तस्माद्यस्य कस्य
च हविषोऽवद्यति पुनरेव तदभिघारयति स्विष्टकृत एव
तत्पुनराप्यायत्ययातयाम करोत्यथ यदा स्विष्टकृतेऽवद्यति न ततः
पुनरभिघारयति नो हि ततः कां चन हविषोऽग्नावाहुतिं होष्यन्भवति
१.५.४प्रयाजावृत् ॥ १.५.३. [२५] ॥

स वै समिधो यजति । प्राणा वै समिधः प्राणानेवैतत्समिन्द्धे प्राणैर्ह्ययम्
पुरुषः समिद्धस्तस्मादभिमृषेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादैव
तावचंसेत समिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत
तत्प्राणानेवास्मिन्नेतद्दधाति तस्मात्समिधो यजति ॥ १.५.४.
[१] ॥

अथ तनूनपातं यजति । रेतो वै तनूनपाद्रेत एवैतत्सिञ्चति तस्मात्तनूनपातं
यजति ॥ १.५.४.
[२] ॥

अथेडो यजति । प्रजा घा इडो यदा वै रेतः सिक्तं प्रजायतेऽथ
तदीडितमिवान्नमिच्छमानं चरति तत्प्रैवैतज्जनयति तस्मादिडो यजति ॥ १.५.४.
[३] ॥

अथ बर्हिर्यजति । भूमा वै बर्हिर्भूमानमेवैतत्प्रजनयति तस्माद्बर्हिर्यजति ॥ १.५.४. [४] ॥

अथ स्वाहास्वाहेति यजति । हेमन्तो वा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वं
वशमुपनयते तस्माद्धेमन्म्लायन्त्योषधयः प्र वनस्पतीनां पलाशानि
मुच्यन्ते प्रतितिरामिव वयांसि भवन्त्यधस्तरामिव वयांसि पतन्ति
विपतितलोमेव पापः पुरुषो भवति हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते
स्वाह वै तमर्धं कुरुते श्रियेऽन्नाद्याय यस्मिन्नर्धे भवति य एवमेतद्वेद ॥ १.५.४.
[५] ॥

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ते दण्डैर्धनुर्भिर्न
व्यजयन्त ते हाविजयमाना ऊचुर्हन्त वाच्येव ब्रह्मन्विजिगीषामहै स यो नो वाचं
व्याहृतां मिथुनेन नानुनिक्रामात्स सर्वं पराजयाता अथ सर्वमितरे जयानिति
तथेति देवा अब्रुवंस्ते देवा इन्द्रमब्रुवन्व्याहरेति ॥ १.५.४.
[६] ॥

स इन्द्रोऽब्रवीत् । एको ममत्यथास्माकमेकेतीतरेऽब्रुवंस्तदु
तन्मिथुनमेवाविन्दन्मिथुनं ह्येकश्चैका च ॥ १.५.४.
[७] ॥

द्वौ ममेतीन्द्रोऽब्रवीत् । अथास्माकं द्वे इतीतरेऽब्रुवंस्तदु
तन्मिथुनमेवाविन्दन्मिथुनंहि द्वौ च द्वे च ॥ १.५.४.
[८] ॥

त्रयो ममेतीन्द्रोऽब्रवीत् । अथास्माकं तिस्र इतीतरेऽब्रुवंस्तदु
तन्मिथुनमेवाविन्दन्मिथुनं हि त्रयश्च तिस्रश्च ॥ १.५.४.
[९] ॥

चत्वारो ममेतीन्द्रोऽब्रवीत् । अथास्माकं चतस्र इतीतरेऽब्रुवंस्तदु
तन्मिथुनमेवाविन्दन्मिथुनं हि चत्वारश्च चतस्रश्च ॥ १.५.४.
[१०] ॥

पञ्च ममेतीन्द्रोऽब्रवीत् । तत इतरे मिथुनं नाविन्दन्नो ह्
यत ऊर्ध्वं मिथुनमस्ति पञ्च पञ्चेति ह्येवैतदुभयम्
भवति ततोऽसुराः सर्वं पराजयन्त सर्वस्माद्देवा
असुरानजयन्त्सर्वस्मात्सपत्नानसुरान्निरभजन् ॥ १.५.४.
[११] ॥

तस्मात्प्रथमे प्रयाज इष्टे ब्रूयात् । एको ममेत्येका तस्य यमहं द्वेष्मीति
यद्यु न द्विष्याद्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति ब्रूयात् ॥ १.५.४.
[१२] ॥

द्वौ ममेति द्वितीये प्रयाजे । द्वे तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति ॥ १.५.४. [१३] ॥

त्रयो ममेति तृतीये प्रयाजे । तिस्रस्तस्य योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति ॥ १.५.४. [१४] ॥

चत्वारो ममेति चतुर्थे प्रयाजे । चतस्रस्तस्य योऽस्मान्द्वेस्टि यंच वयं द्विष्म
इति ॥ १.५.४.
[१५] ॥

पञ्च ममेति पञ्चमे प्रयाजे । न तस्य किं चन योऽस्मान्द्वेष्टि यं च वयं
द्विष्म इति स पञ्च पञ्चेत्येव भवन्पराभवति तथास्य सर्वं संवृङ्क्ते
सर्वस्मात्सपत्नान्निर्भजति य एवमेतद्वेद
१.६.१प्रयाजानामिष्टौ प्राथम्यम् ॥ १.५.४. [१६] ॥

ऋतवो ह वै देवेषु यज्ञे भागमीषिरे । आ नो यज्ञे भजत मा नो
यज्ञादन्तर्गतास्त्वेव नोऽपि यज्ञे भाग इति ॥ १.६.१.
[१] ॥

तद्वै देवा न जज्ञुः । त ऋतवो देवेष्वजानत्स्वसुरानुपावर्तन्ताप्रियान्देवानां
द्विषतो भ्रातृव्यान् ॥ १.६.१.
[२] ॥

ते हैतामेधतुमेधां चक्रिरे । यामेषामेतामनुशृण्वन्ति कृषन्तो ह स्मैव पूर्वे
वपन्तो यन्ति लुनन्तोऽपरे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः
पेचिरे ॥ १.६.१.
[३] ॥

तद्वै देवानामाग आस । कनीय इन्न्वतो द्विषन्द्विषतेऽरातीयति
किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथासदिति ॥ १.६.१.
[४] ॥

ते होचुः ऋतूनेवानुमन्त्रयामहा इति केनेति प्रथमानेवैनान्यज्ञे यजामेति ॥ १.६.१. [५] ॥

स हाग्निरुवाच । अथ यन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न
त्वामायतनाच्च्यावयाम इति ते यदृतूनभिह्वयमाना
अथाग्निमायतनान्नाच्यावयंस्तस्मादग्निरच्युतो न ह वा आयतनाच्च्यवते
यस्मिन्नायतने भवति य एवमेतमग्निमच्युतं वेद ॥ १.६.१.
[६] ॥

ते देवा अग्निमब्रुवन् परेह्येनांस्त्वमेवानुमन्त्रयस्वेति स हेत्याग्निरुवाचऽर्तेवो
ऽविदं वै वो देवेषु यज्ञे भागमिति कथं नोऽविद इति प्रथमानेव वो यज्ञे
यक्ष्यन्तीति ॥ १.६.१.
[७] ॥

त ऋतवोऽग्निमब्रुवन् । आ वयं त्वामस्मासु भजामो यो नो देवेषु यज्ञे
भागमविद इति स एषोऽग्निर्ऋतुष्वाभक्तः समिधो अग्ने तनूनपादग्न इडो अग्ने
बर्हिरग्ने स्वाहाग्निमित्याभक्तो ह वै तस्यां पुण्यकृत्यायां भवति यामस्य
समानोब्रुवाणः करोत्यग्निमते ह वा अस्मा अग्निमन्त ऋतव ओषधीः पचन्तीदं
सर्वं य एवमेतमग्निमृतुष्वाभक्तं वेद ॥ १.६.१.
[८] ॥

तदाहुः । यदुत्तमान्प्रयाजानावाहयन्त्यथ
कस्मादेनान्प्रथमान्यजन्तीत्युत्तमान्ह्येनान्यज्ञेऽवाकल्पयन्प्रथमान्वो
यजामेत्यब्रुवंस्तस्मादुत्तमानावाहयन्ति प्रथमान्यजन्ति ॥ १.६.१.
[९] ॥

चतुर्थेन वै प्रयाजेन देवाः । यज्ञमाप्नुवंस्तं पञ्चमेन
समस्थापयन्नथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं
समाश्नुवत ॥ १.६.१.
[१०] ॥

ते स्वर्गं लोकं यन्तः । असुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्तेऽग्निम्
पुरस्तादकुर्वत रक्षोहणं रक्षसामपहन्तारमग्निं मध्यतोऽकुर्वत
रक्षोहणं रक्षसामपहन्तारमग्निं पश्चादकुर्वत रक्षोहणं
रक्षसामपहन्तारं ॥ १.६.१.
[११] ॥

स यद्येनान्पुरस्तात् । असुररक्षसान्यासिसंक्षन्नग्निरेव तान्यपाहन्रक्षोहा
रक्षसामपहन्ता यदि मध्यत आसिसंक्षन्नग्निरेव तान्यपाहन्रक्षोहा
रक्षसामपहन्ता यदि पश्चादासिसंक्षन्नग्निरेव तान्यपाहन्रक्षोहा
रक्षसामपहन्तात एवं सर्वतोऽग्निभिर्गुप्यमानाः स्वर्गं लोकं समाश्नुवत ॥ १.६.१.
[१२] ॥

तथो एवैष एतत् । चतुर्थेनैव प्रयाजेन यज्ञमाप्नोति तं पञ्चमेन
संस्थापयत्यथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं
समश्नुते ॥ १.६.१.
[१३] ॥

स यदाग्नेयमाज्यभागं यजति । अग्निमेवैतत्पुरस्तात्कुरुते रक्षोहणं
रक्षसामपहन्तारमथ यदाग्नेयः पुरोडाषो भवत्यग्निमेवैतन्मध्यतः
कुरुते रक्षोहणं रक्षसामपहन्तारमथ यदग्निं स्विष्टकृतं
यजत्यग्निमेवैतत्पश्चात्कुरुते रक्षोहणं रक्षसामपहन्तारं ॥ १.६.१.
[१४] ॥

स यद्येनं पुरस्तात् । असुररक्षसान्यासिसंक्षन्त्याग्नेरेव तान्यपहन्ति रक्षोहा
रक्षसामपहन्ता यदि मध्यत असुररक्षसान्यासिसंक्षन्त्यग्निरेव तान्यपहन्ति
रक्षोहा रक्षसामपहन्ता यदि पश्चादसुररक्षसान्यासिसंक्षन्त्यग्निरेव
तान्यपहन्ति रक्षोहा रक्षसामपहन्ता स एवं सर्वतोऽग्निभिर्गुप्यमानः
स्वर्गं लोकं समश्नुते ॥ १.६.१.
[१५] ॥

स यद्येनं पुरस्तात् । यज्ञस्यानुव्याहरेत्तं प्रति
ब्रूयान्मुख्यामार्त्तिमारिष्यस्यन्धो वा बधिरो वा भविष्यसीत्येता वै मुख्या
आर्त्तयस्तथा हैव स्यात् ॥ १.६.१.
[१६] ॥

यदि मध्यतो यज्ञस्यानुव्याहरेत् । तं प्रति ब्रूयादप्रजा अपशुर्भविष्यसीति प्रजा
वै पशवो मध्यं तथा हैव स्यात् ॥ १.६.१.
[१७] ॥

यद्यन्ततो यज्ञस्यानुव्याहरेत् । तं प्रति ब्रूयादप्रतिष्ठितो दरिद्रः क्षिप्रेऽमुं
लोकमेष्यसीति तथा हैव स्यात्तस्मादुह नानुव्याहारीव स्यादुत ह्येवंवित्परो
भवति ॥ १.६.१.
[१८] ॥

संवत्सरं ह वै प्रयाजैर्जयञ्जयति । स ह न्वेवैनं जयति योऽस्य द्वाराणि वेद
किं हि स तैर्गृहैः कुर्याद्यानन्तरतो न व्यवविद्याद्यथास्य ते भवन्ति तस्य
वसन्त एव द्वारं हेमन्तो द्वारं तं वा एतं संवत्सरं स्वर्गं लोकम्
प्रपद्यते सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेन हास्याक्षय्यं सुकृतम्
भवत्यक्षय्यो लोकः ॥ १.६.१.
[१९] ॥

तदाहुः । किंदेवत्यान्याज्यानीति प्राजापत्यानीति ह ब्रूयादनिरुक्तो वै
प्रजापतिरनिरुक्तान्याज्यानि तानि हैतानि यजमानदेवत्यान्येव यजमानो ह्येव स्वे
यज्ञे प्रजापतिरेतेन ह्युक्ता ऋत्विजस्तन्वते तं जनयन्ति ॥ १.६.१.
[२०] ॥

स आज्यस्योपस्तीर्य । द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति सैषाज्येन
मिश्राहुतिर्हूयते यजमानेन हैवैषैतन्मिश्रा हूयते यदि ह वा अपि दूरे सन्यजते
यद्यन्तिके यथा हैवान्ते सत इष्टं स्यादेवं हैवैवं विदुष इष्टं भवति
यद्यु हापि बह्विव पापं करोति नो हैव बहिर्धा यज्ञाद्भवति य एवमेतद्वेद
१.६.२आवाप-प्रदेशः ॥ १.६.१. [२१] ॥

यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम्
मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो
निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ
यदेनेनायोपयंस्तस्मद्द्यूपो नाम तद्वा ऋषीणामनुश्रुतमास ॥ १.६.२.
[१] ॥

यज्ञेन ह वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम्
मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो
निर्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्निति तमन्वेष्टुं दध्रिरे ॥ १.६.२.
[२] ॥

तेर्चन्तः श्राम्यन्तश्चेरुः । श्रमेण ह स्म वै तद्देवा जयन्ति यदेषां
जय्यमासर्षयश्च तेभ्यो देवा वैव प्ररोचयां चक्रुः स्वयं वैव दध्रिरे प्रेत
तदेष्यामो यतो देवाः स्वर्गं लोकं समाश्नुवतेति ते किं प्ररोचते किं प्ररोचत
इति चेरुरेत्पुरोडाशमेव कूर्मं भूत्वा सर्पन्तं तेह सर्व एव मेनिरे यं वै
यज्ञ इति ॥ १.६.२.
[३] ॥

ते होचुः । अश्विभ्यां तिष्ठ सरस्वत्यै तिष्ठेन्द्राय तिष्ठेति स ससर्पैवाग्नये
तिष्ठेति ततस्तस्थावग्नये वाअस्थादिति तमग्नावेव परिगृह्य
सर्वहुतमजुहवुराहुतिर्हिदेवानां तत एभ्यो यज्ञः प्रारोचत तमसृजन्त
तमतन्वत सोऽयं परोऽवरं यज्ञोऽनूच्यते पितैव पुत्राय ब्रह्मचारिणे ॥ १.६.२.
[४] ॥

स वा एभ्यस्तत्पुरोऽदाशयत् । य एभ्यो यज्ञं प्रारोचयत्तस्मात्पुरोदाशः पुरोदाशो
ह वै नामैतद्यत्पुरोडाश इति स एष उभयत्राच्युत आग्नेयोऽष्टाकपालः पुरोडाशो
भवति ॥ १.६.२.
[५] ॥

स न पौर्णमासं हविः । नामावास्यमग्नीषोमीय एव पौर्णमासं हविः
सांनाय्यमामावास्यं यज्ञ एवैष उभयत्रावकॢप्तो नेद्यज्ञादयानीति न्वेव
पुरस्तात्पौर्णमासस्य क्रियत एवम्वामावास्यस्यैतन्नु तद्यस्मादत्र क्रियते ॥ १.६.२.
[६] ॥

यद्यु एनमुपधावेत् । इष्ट्या मा याजयेत्येतयैव याजयेद्यत्कामा वा एतमृषयो
ऽजुहवुः स एभ्यः कामः समर्ध्यत यत्कामो ह वा एतेन यज्ञेन यजते सोऽस्मै
कामः समृध्यते यस्यै वै कस्यै च देवतायै हविर्गृह्यतेऽग्नौ वै तस्यै
युह्वत्यग्ना उ चेद्धोष्यन्त्स्यात्किमन्यस्यै देवताया आदिशेत्तस्मादग्नय एव ॥ १.६.२.
[७] ॥

अग्निर्वै सर्वा देवताः । अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति तद्यथा सर्वा देवता
उपधावेदेवं तत्तस्मादग्नय एव ॥ १.६.२.
[८] ॥

अग्निर्वै देवानामद्धातमाम् । यं वा अद्धातमां मन्येत
तमुपधावेत्तस्मादग्नय एव ॥ १.६.२.
[९] ॥

अग्निर्वै देवानां मृदुहृदयतमः । यं वै मृदुहृदयतमं मन्येत
तमुपधावेत्तस्मादग्नय एव ॥ १.६.२.
[१०] ॥

अग्निर्वै देवानां नेदिष्ठम् । यं वै नेदिष्ठमुपसर्तव्यानां मन्येत
तमुपधावेत्तस्मादग्नय एव ॥ १.६.२.
[११] ॥

स यदीष्टिं कुर्वीत । सप्तदश सामिधेनीरनुब्रूयादुपांशु देवतां यजति
तद्धीष्टिरूपं मूर्धन्वत्यौ याज्यानुवाक्ये स्यातां वार्त्रघ्नावाज्यभागौ विराजौ
संयाज्ये ॥ १.६.२.
[१२] ॥

त्वष्टुर्ह वै पुत्रः । त्रिशीर्षा षडक्ष आस तस्य त्रीण्येव
मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम ॥ १.६.३.
[१] ॥

तस्य सोमपानमेवैकं मुखमास । सुरापाणमेकमन्यस्मा अ
!शनायैकं तमिन्द्रो दिद्वेष तस्य तानि शीर्षाणि प्रचिच्छेद ॥ १.६.३.
[२] ॥

स यत्सोमपानमास । ततः कपिञ्जलः समभवत्तस्मात्सबभ्रुक इव बभ्रुरिव
हि सोमो राजा ॥ १.६.३.
[३] ॥

अथ यत्सुरापाणमास । ततः कलविङ्कः समभवत्तस्मात्सोऽभिमाद्यत्क इव
वदत्यभिमाद्यन्निव हि सुरां पीत्वा वदति ॥ १.६.३.
[४] ॥

अथ यदन्यस्मा अशनायास । ततस्तित्तिरिः समभवत्तस्मात्स विश्वरूपतम इव
सन्त्येव घृस्तोका इव त्वन्मधुस्तोका इव त्वत्पर्णेष्वाश्चुतिता एवं रूपं हि स
तेनाशनमावयत् ॥ १.६.३.
[५] ॥

स त्वष्टा चुक्रोध । कुविन्मे पुत्रमवधीदिति सोऽपेन्द्रमेव सोममाजह्रे स
यथायं सोमः प्रसुत एवमपेन्द्र एवास ॥ १.६.३.
[६] ॥

इन्द्रो ह वा ईक्षां चक्रे । इदं वै मा सोमादन्तर्यन्तीति स यथा बलीयानबलीयस
एवमनुपहूत एव यो द्रोणकलशे शुक्र आस तं भक्षयां चकार स हैनं
जिहिंस सोऽस्य विष्वङ्ङेव प्राणेभ्यो दुद्राव मुखाद्धैवास्य न दुद्रावाथ
सर्वेभ्योऽन्येभ्यः प्राणेभ्योऽद्रवत्तददः सौत्रामणीतीष्टिस्तस्यां
तद्व्याख्यायते यथैनं देवा अभिषज्यन् ॥ १.६.३.
[७] ॥

स त्वष्टा चुक्रोध कुविन्मेऽनुपहूतः सोममबभक्षदिति सस्वयमेव
यज्ञवेशस चक्रे स यो द्रोणकलशे शुक्रः परिशिष्ट आस त प्रवर्तयां
चकारेन्द्रशत्रुर्वर्धस्वेति सोऽग्निमेव प्राप्य सम्बभूवान्तरैव सम्बभूवेत्यु
हैक आहुः सोऽग्नीषोमावेवाभिसम्बभूव सर्वा विद्याः सर्वं यशः
सर्वमन्नाद्यं सर्वां श्रीं ॥ १.६.३.
[८] ॥

स यद्वर्तमानः समभवत् । तस्माद्वृत्रोऽथ यदपात्समभवत्तस्मादहिस्तं
दनुश्च दनायूश्च मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः ॥ १.६.३.
[९] ॥

अथ यदब्रवीदिन्द्रशत्रुर्वर्धस्वेति । तस्मादु हैनमिन्द्र एव जघानाथ
यद्ध शश्वदवक्ष्यदिन्द्रस्य शत्रुर्वर्धस्वेति शश्वदु ह स
एवेन्द्रमहनिष्यत् ॥ १.६.३.
[१०] ॥

अथ यदब्रवीद्वर्धस्वेति । तस्मादु ह स्मेषुमात्रमेव तिर्यङ्वर्धत
इशुमात्रं प्राङ्क्षो वैवावरं समुद्रं दधावव पूर्वं स यावत्स आस सहैव
तावदन्नाद आस ॥ १.६.३.
[११] ॥

तस्मै ह स्म पूर्वाह्णे देवाः । अशनमभिहरन्ति मध्यन्दिने मनुष्या अपराह्णे
पितरः ॥ १.६.३.
[१२] ॥

स वा इन्द्रस्तथैव नुत्तश्चरन् । अग्नीषोमा उपमन्त्रयां चक्रेऽग्नीषोमौ युवं
वै मम स्थो युवयोरहमस्मि न युवयोरेष किं चन कं म इमं दस्युं
वर्धयथ उप मावर्तेथामिति ॥ १.६.३.
[१३] ॥

तौ होचतुः । किमावयोस्ततः स्यादिति ताभ्यामेतमग्नीषोमीयमेकादशकपालम्
पुरोडाशं निरवपत्तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति ॥ १.६.३.
[१४] ॥

तावेनमुपाववृततुः । तावनु सर्वे देवाः प्रेयुः सर्वा विद्याः सर्वं यशः
सर्वमन्नाद्यं सर्वा श्रीस्तेनेष्ट्वेन्द्र एतदभवद्यदिदमिन्द्र एष उ
पौर्णमासस्य बन्धुः स यो हैवं विद्वान्पौर्णमासेन यजत एतां हैव श्रियं
गच्छत्येवं यशो भवत्येवमन्नादो भवति ॥ १.६.३.
[१५] ॥

तद्वेव खलु हतो वृत्रः । स यथा दृतिर्निष्पीत एवं संलीनः शिश्ये यथा
निर्धूतसक्तुर्भस्त्रैवं संलीनः शिश्ये तमिन्द्रोऽभ्यादुद्राव हनिष्यन् ॥ १.६.३.
[१६] ॥

स होवाच । मा नु मे प्रहार्षीस्त्वं वै तदेतर्ह्यसि यदहं व्येव मा कुरु
मामुया भूवमिति स वै मेऽन्नमेधीति तथेति तं द्वेधान्वभिनत्तस्य
यत्सौम्यं न्यक्तमास तं चन्द्रमसं चकाराथ यदस्यासुर्यमास तेनेमाः प्रजा
उदरेणाविध्यत्तस्मादाहुर्वृत्र एव तर्ह्यन्नाद आसीद्वृत्र एतर्हीतीदं हि
यदसावापूर्यतेऽस्मादेवैतल्लोकादाप्यायतेऽथ यदिमाः प्रजा अशनमिच्छन्तेऽस्मा
एवैतद्वृत्रायोदराय बलिं हरन्ति स यो हैवमेतं वृत्रमन्नादं वेदानादो हैव
भवति ॥ १.६.३.
[१७] ॥

ता उ हैता देवता ऊचुः । या इमा अग्नीषोमावन्वाजग्मुरग्नीषोमौ युवं वै नो
भूयिष्ठभाजौ स्थो ययोर्वामिदं युवयोरस्मानन्वाभजतमिति ॥ १.६.३.
[१८] ॥

तौ होचतुः । किमावयोस्ततः स्यादिति यस्यै कस्यै च देवतायै हविर्निर्वपांस्तद्वाम्
पुरस्तादाज्यस्य यजानिति तस्माद्यस्यै कस्यै च देवतायै हविर्निर्वपन्ति
तत्पुरस्तादाज्यभागावग्नीषोमाभ्यां यजन्ति तन्न सौम्येऽध्वरे न पशौ यस्यै
कस्यै च देवतायै निर्वपानिति ह्यब्रुवन् ॥ १.६.३.
[१९] ॥

स हाग्निरुवाच । मय्येव वः सर्वेभ्यो जुह्वतु तद्वोऽहं मय्याभजामीति
तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुरग्निः सर्वा देवता इति ॥ १.६.३.
[२०] ॥

अथ ह सोम उवाच । मामेव वः सर्वेभ्यो जुह्वतु तद्वोऽहं मय्याभजामीति
तस्मात्सोमं सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा देवता इति ॥ १.६.३.
[२१] ॥

अथ यदिन्द्रे सर्वे देवास्तस्थानाः । तस्मादाहुरिन्द्रः सर्वा देवता इन्द्रश्रेष्ठा
देवा इत्येतद्ध वै देवास्त्रेधैकदेवत्या अभवन्त्स यो हैवमेतद्वेदैकधा
हैव स्वानां श्रेष्ठो भवति ॥ १.६.३.
[२२] ॥

द्वयं वा इदं न तृतीयमस्ति । आर्द्रं चैव शुष्कं च यच्छुष्कं तदाग्नेयं
यदार्द्रं तत्सौम्यमथ यदिदं द्वयमेवाप्य किमेतावत्क्रियत
इत्यग्नीषोमयोरेवाज्यभागावग्नीषोमयोरुपांशुयाजोऽग्नीषोमयोः पुरोडाशो यदत
एकतमेनैवेदं सर्वमाप्नोत्यथ किमेतावत्क्रियत इत्यग्नीषोमयोर्हैवैतावती
विभूतिः प्रजातिः ॥ १.६.३.
[२३] ॥

सूर्य एवाग्नेयः । चन्द्रमाः सौम्योऽहरेवाग्नेयं रात्रिः सौम्या य एवापूर्यते
ऽर्धमासः स आग्नेयो योऽपक्षीयते स सौम्यः ॥ १.६.३.
[२४] ॥

आज्यभागाभ्यामेव । सूर्याचन्द्रमसावाप्नोत्युपांशुयाजेनैवाहोरात्रे आप्नोति
पुरोडाशेनैवार्धमासावाप्नोतीत्यु हैक आहुः ॥ १.६.३.
[२५] ॥

तदु होवाचासुरिः । आज्यभागाभ्यामेवातो यतमे वा यतमे वा द्वे
आप्नोत्युपांशुयाजेनैवातोऽहोरात्रे आप्नोति पुरोडाशेनैवातोऽर्धमासावाप्नोति सर्वं
म आप्तमसत्सर्वं जितं सर्वेण वृत्रं हनानि सर्वेण द्विषन्तं भ्रातृव्यं
हनानीति तस्माद्वा एतावत्क्रियत इति ॥ १.६.३.
[२६] ॥

तदाहुः । किमिदं जामि क्रियतेऽग्नीषोमयोरेवाज्यस्याग्नीषोमयोः पुरोडाशस्य
यदनन्तर्हितं तेन जामीत्यनेन ह त्वेवाजाम्याज्यस्येतरं पुरोडाशस्येतरं
तदन्यदिवेतरमन्यदिवेतरं भवत्यृचमनूच्य जुषाणेन यजत्यृचमनूच्यर्चा
यजति तदन्यदिवेतरमन्यदिवेतरं भवत्यनेन ह त्वेवाजाम्युपांश्वाज्यस्य
यजत्युच्चैः पुरोडाशस्य स यदुपांशु तत्प्राजापत्यं रूपं
तस्मात्तस्यानुष्टुभमनुवाक्यामन्वाह वाग्घ्यनुष्टुब्वाग्घि प्रजापतिः ॥ १.६.३.
[२७] ॥

एतेन वै देवाः । उपांशुयाजेन यंयमसुराणामकामयन्त तमुपत्सर्य वज्रेण
वषट्कारेणाघ्नंस्तथो एवैष एतेनोपांशुयाजेन पाप्मानं द्विषन्तम्
भ्रातृव्यमुपत्सर्य वज्रेण वषट्कारेण हन्ति तस्मादुपांशुयाजं यजति ॥ १.६.३.
[२८] ॥

स वा ऋचमनूच्य जुषाणेन यजति तदन्विमा अन्यतरतोदन्ताः प्रजाः प्रजायन्तेऽस्थि
ह्यृगस्थि हि दन्तोऽन्यतरतो ह्येतदस्थि करोति ॥ १.६.३.
[२९] ॥

अथर्चमनूच्यर्चा यजति । तदन्विमा उभयतोदन्ताः प्रजाः प्रजायन्तेऽस्थि
ह्यृगस्थि हि दन्त उभयतो ह्येतदस्थि करोत्येता वा इमा द्वय्यः प्रजा
अन्यतरतोदन्ताश्चैवोभयतोदन्ताश्च स यो हैवं विद्वानग्नीषोमयोः प्रजातिं
यजति बहुर्हैव प्रजया पशुभिर्भवति ॥ १.६.३.
[३०] ॥

स वै पौर्णमासेनोपवत्स्यन् । न सत्रा सुहित इव स्यात्तेनेदमुदरमसुर्यं
व्लिनात्याहुतिभिः प्रातर्दैवमेष उ पौर्णमासस्योपचारः ॥ १.६.३.
[३१] ॥

स वै संप्रत्येवोपवसेत् । संप्रति वृत्रं हनानि संप्रति द्विषन्तं भ्रातृव्यं
हनानीति ॥ १.६.३.
[३२] ॥

स वा उत्तरामेवोपवसेत् । समिव वा एष क्रमते यः संप्रत्युपवसत्यनद्धा वै
संक्रान्तयोर्यदीतरो वेतरमभिभवतीतरो वेतरमथ य उत्तरामुपवसति यथा
पराञ्चमावृत्तं संपिंष्यादप्रत्यालभमानं सोऽन्यतोघात्येव स्यादेवं तद्य
उत्तरामुपवसति ॥ १.६.३.
[३३] ॥

स वै संप्रत्येवोपवसेत् । यथा वा अन्यस्य हतं संपिंष्यादेवं तद्य
उत्तरामुपवसति सोऽन्यस्यैव कृतानुकरोऽन्यस्योपावसायी भवति तस्मादु
संप्रत्येवोपवसेत् ॥ १.६.३.
[३४] ॥

प्रजापतेर्ह वै प्रजाः ससृजानस्य । पर्वाणि विसस्रंसुः स वै संवत्सर एव
प्रजापतिस्तस्यैतानि पर्वाण्यहोरात्रयोः संधी पौर्णमासी चामावास्या चर्तुमुखानि ॥ १.६.३.
[३५] ॥

स विस्रस्तैः पर्वभिः । न शशाक संहातुं तमेतैर्हविर्यज्ञैर्देवा
अभिषज्यन्नग्निहोत्रेणैवाहोरात्रयोः संधी तत्पर्वाभिषज्यंस्तत्समदधुः
पौर्णमासेन चैवामावास्येन च पौर्णमासीं चामावास्यां च
तत्पर्वाभिषज्यंस्तत्समदधुश्चातुर्मास्यैरेवर्तुमुखानि
तत्पर्वाभिषज्यंस्तत्समदधुः ॥ १.६.३.
[३६] ॥

स संहितैः पर्वाभिः । इदमन्नाद्यमभ्युत्तस्थौ यदिदं प्रजापतेरन्नाद्यं स
यो हैवं विद्वान्त्संप्रत्युपवसति संप्रति हैव प्रजापतेः पर्व भिषज्यत्यवति
हैनं प्रजापतिः स एवमेवान्नादो भवति य एवं विद्वान्त्संप्रत्युपवसति
तस्मादु संप्रत्येवोपवसेत् ॥ १.६.३.
[३७] ॥

चक्षुषी ह वा एते यज्ञस्य यदाज्यभागौ । तस्मात्पुरस्ताज्जुहोति पुरस्ताद्धीमे
चक्षुषी तत्पुरस्तादेवैतच्चक्षुषी दधाति तस्मादिमे पुरस्ताच्चक्षुषी ॥ १.६.३.
[३८] ॥

उत्तरार्धपूर्वार्धे हैके । आग्नेयमाज्यभागं जुह्वति दक्षिणार्धपूर्वार्धे
सौम्यमाज्यभागमेतत्पुरस्ताच्चक्षुषी दध्म इति वदन्तस्तदु तदाविज्ञान्यमिव
हवींषि ह वा आत्मा यज्ञस्य स यदेव पुरस्ताद्धविषां जुहोति तत्पुरस्ताच्चक्षुषी
दधाति यत्रो एव समिद्धतं मन्येत तदाहुतीर्जुहुयात्समिद्धहोमेन ह्येव
समृद्धा आहुतयः ॥ १.६.३.
[३९] ॥

स वा ऋचमनूच्य जुषाणेन यजति । तस्मादिमे अस्थन्त्सत्यनस्थिके चक्षुषी आश्लिष्टे
अथ यदृचमनूच्यर्चा यजेदस्थि हैव कुर्यान्न चक्षुः ॥ १.६.३.
[४०] ॥

ते वा एते । अग्नीषोमयोरेव रूपमन्वायत्ते यच्छुक्लं तदाग्नेयं यत्कृष्णं
तत्सौम्यं यदि वेतरथा यदेव कृष्णं तदाग्नेयं यच्छुक्लं तत्सौम्यं यदेव
वीक्षते तदाग्नेयं रूपं शुष्के इव हि वीक्षमाणस्याक्षिणी भवतः शुष्कमिव
ह्याग्नेयंयदेव स्वपिति तत्सौम्यं रूपमार्द्रे इव हि सुषुपुषोऽक्षिणी भवत
आर्द्र इव हि सोम आजरसं ह वा अस्मिं लोके चक्षुष्मान्भवति
सचक्षुरमुष्मिंलोके सम्भवति य एवमेतौ चक्षुषी आज्यभागौ वेद
१.६.४दर्शोपचारः ॥ १.६.३. [४१] ॥

इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार । सोऽबलीयान्मन्यमानो नास्तृषीतीव
बिभ्यन्निलयां चक्रे स पराः परावतो जगाम देवा ह वै विदां चक्रुर्हतो वै
वृत्रोऽथेन्द्रो न्यलेष्टेति ॥ १.६.४.
[१] ॥

तमन्वेष्टुं दध्रिरे । अग्निर्देवतानां हिरण्यस्तूप ऋषीणां बृहती च्छन्दसां
तमग्निरनुविवेद तेनैतां रात्रिं सहाजगाम स वै देवानां वसुर्वीरो ह्येषाम् ॥ १.६.४.
[२] ॥

ते देवा अब्रुवन् । अमा वै नोऽद्य वसुर्वसति यो नः प्रावात्सीदिति ताभ्यामेतद्यथा
ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्यां समानमोदनं पचेदजं वा तदह
मानुषं हविर्देवानामेवमाभ्यामेतत्समानं हविर्निरवपन्नैन्द्राग्नं
द्वादशकपालं पुरोडाशं तस्मादैन्द्राग्नो द्वादशकपालं पुरोडाशो भवति ॥ १.६.४.
[३] ॥

स इन्द्रोऽब्रवीत् । यत्र वै वृत्राय वज्रं प्राहरं तद्व्यस्मये स कृश इवास्मि न
वै मेदं धिनोति यन्मा धिनवत्तन्मे कुरुतेति तथेति देवा अब्रुवन् ॥ १.६.४.
[४] ॥

ते देवा अब्रुवन् । न वा इममन्यत्सोमाद्धिनुयात्सोममेवास्मै सम्भरामेति
तस्मै सोमं समभरन्नेष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स
यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति स
इहैवापश्चौषधीश्च प्रविशति स वै देवानां वस्वन्नं ह्येषां तद्यदेष एतां
रात्रिमिहामा वसति तस्मादमावास्या नाम ॥ १.६.४.
[५] ॥

तं गोभिरनुविष्ठाप्य समभरन् । यदोषधीराश्नंस्तदोषधिभ्यो यदपो
ऽपिबंस्तदद्भ्यस्तमेवं संभृत्यातच्य तीव्रीकृत्य तमस्मै प्रायच्छन् ॥ १.६.४.
[६] ॥

सोऽब्रवीत् । धिनोत्येव मेदं नेव तु मयि श्रयते यथेदं मयि श्रयातै
तथोपजानीतेति तं शृतेनैवाश्रयन् ॥ १.६.४.
[७] ॥

तद्वा एतत् समानमेव सत्पय एव सदिन्द्रस्यैव सत्तत्पुनर्नानेवाचक्षते
यदब्रवीद्धिनोति मेति तस्माद्दध्यथ यदेनं शृतेनैवाश्रयंस्तस्माचूतं ॥ १.६.४.
[८] ॥

स यथांशुराप्यायेत् । एवमाप्यायताप पाप्मानं हरिमाणमहतैष उ आमावास्यसा
बन्धुः स यो हैवं विद्वान्त्संनयत्येवं हैव प्रजया पशुभिराप्यायतेऽप
पाप्मानं हते तस्माद्वै संनयेत् ॥ १.६.४.
[९] ॥

तदाहुः । नासोमयाजी संनयेत्सोमाहुतिर्वा एषा
सानवरुद्धासोमयाजिनस्तस्मान्नासोमयाजी सनयेदिति ॥ १.६.४.
[१०] ॥

तदु समेव नयेत् । नन्वत्रान्तरेण शुश्रुम सोमेन नु मा याजयताथ म
एतदाप्यायनं संभरिष्यथेत्यब्रवीदिति न वै मेदं धिनोति यन्मा
धिनवत्तन्मे कुरुतेति तस्मा एतदाप्यायनं समभरंस्तस्मादप्यसोमयाजी
समेव नयेत् ॥ १.६.४.
[११] ॥

वार्त्रघ्नं वै पौर्णमासम् । इन्द्रो ह्येतेन वृत्रमहन्नथैतदेव वृत्रहत्यं
यदामावास्यं वृत्रं ह्यस्मा एतज्जघ्नुष आप्यायनमकुर्वन् ॥ १.६.४.
[१२] ॥

तद्वा एतदेव वार्त्रघ्नम् । यत्पौर्णमासमथैष एव वृत्रो यच्चन्द्रमाः स
यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदेनमेतेन सर्वं हन्ति नास्य
किं चन परिशिनष्टि सर्वं ह वै पाप्मानं हन्ति न पाप्मनः किं चन
परिशिनष्टि य एवमेतद्वेद ॥ १.६.४.
[१३] ॥

तद्धैके । दृष्ट्वोपवसन्ति श्वो नोदेतेत्यदो हैव देवानामविक्षीणमन्नम्
भवत्यथैभ्यो वयमित उपप्रदास्याम इति तद्धि समृद्धं यदक्षीण एव
पूर्वस्मिन्नन्नेऽथापरमन्नमागच्छति स ह बह्वन्न एव भवत्यसोमयाजी तु
क्षीरयाज्यदो हैव सोमो राजा भवति ॥ १.६.४.
[१४] ॥

अथ यथैव पुरा । केवलीरोषधीरश्नन्ति केवलीरपः पिबन्ति ताः केवलमेव पयो
दुह्र एव तदेष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं
न पुरस्तान्न पश्चाद्ददृशे तदिमं लोकमागच्छति स इहापश्चौषधीश्च प्रविशति
तदेनमद्भ्य ओषधिभ्यः संभृत्याहुतिभ्योऽधि जनयति स एष आहुतिभ्यो जातः
पश्चाद्ददृशे ॥ १.६.४.
[१५] ॥

तद्वा एतत् । अविक्षीणमेव देवानामन्नाद्यं परिप्लवतेऽविक्षीणं ह वा
अस्यास्मिंलोकेऽन्नं भवत्यक्षय्यममुष्मिंलोके सुकृतं य एवमेतद्वेद ॥ १.६.४.
[१६] ॥

तद्वा एतां रात्रिम् । देवेभ्योऽन्नाद्यं प्रच्यवते तदिमं लोकमागच्छति ते देवा
अकामयन्त कथं नु न इदं पुनरागच्छेत्कथं न इदं परागेव न प्रणश्येदिति
तद्य एव संनयन्ति तेष्वाशंसन्त एत एव नः संभृत्य प्रदास्यन्तीत्या ह वा
अस्मिन्त्स्व!श्च निष्ट्याश्च शंसन्ते य एवमेतद्वेद यो वै परमतां गच्छति
तस्मिन्नाशंसन्ते ॥ १.६.४.
[१७] ॥

तद्वा एष एवेन्द्रः । य एष तपत्यथैष एव वृत्रो यच्चन्द्रमाः मोऽस्यैष
भ्रातृव्यजन्मेव तस्माद्यद्यपि पुरा विदूरमिवोदितोऽथैनमेतां रात्रिमुपैव
न्याप्लवते सोऽस्य व्यात्तमापद्यते ॥ १.६.४.
[१८] ॥

तं ग्रसित्वोदेति । स न पुरस्तान्न पश्चाद्ददृशे ग्रसते ह वै द्विषन्तम्
भ्रातृव्यमयमेवास्ति नास्य सपत्नाः सन्तीत्याहुर्य एवमेतद्वेद ॥ १.६.४.
[१९] ॥

तं निर्धीय निरस्यति । स एष धीतः पश्चाद्ददृशे स पुनराप्यायते स
एतस्यैवान्नाद्याय पुनराप्यायते यदि ह वा अस्य द्विषन्भ्रातृव्यो वणिज्यया वा
केनचिद्वा सम्भवत्येतस्य हैवान्नाद्याय पुनः सम्भवति य एवमेतद्वेद ॥ १.६.४.
[२०] ॥

तद्धैके । महेन्द्रायेति कुर्वन्तीन्द्रो वा एष पुरा वृत्रस्य वधादथ वृत्रं
हत्वा यथा महाराजो विजिग्यान एवं महेन्द्रोऽभवत्तस्मान्महेन्द्रायेति
तद्विन्द्राये=त्येव कुर्यादिन्द्रो वा एष पुरा वृत्रस्य वधादिन्द्रो वृत्रं
जघ्निवांस्तस्माद्विन्द्रायेत्येव कुर्यात्
१.७.१सान्नाय्यसंपादनम् ॥ १.६.४. [२१] ॥

स वै पर्णशाखया वत्सानपाकरोति । तद्यत्पर्णशाखया वत्सानपाकरोति यत्र वै
गायत्री सोममच्छापतत्तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णं प्रचिच्छेद
गायत्र्यै वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णोऽभवत्तस्मात्पर्णो नाम तद्यदेवात्र
सोमस्य न्यक्तं तदिहाप्यसदिति तस्मात्पर्णशाखया वत्सानपाकरोति ॥ १.७.१.
[१] ॥

तमाच्छिनत्ति । इषे त्वोर्जे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेत्यूर्जे त्वेति यो
वृष्टादूर्ग्रसो जायते तस्मै तदाह ॥ १.७.१.
[२] ॥

अथ मातृभिर्वत्सान्त्समवार्जन्ति । स वत्सं शाखयोपस्पृशति वायव स्थेत्ययं वै
वायुर्योऽयं पवत एष वा इदं सर्वं प्रप्यायति यदिदं किं च वर्षत्येष वा
एतासां प्रप्याययिता तस्मादाह वायव स्थेत्युपायव स्थेत्यु हैक आहुरूप हि
द्वितीयोऽयतीति तदु तथा न ब्रूयात् ॥ १.७.१.
[३] ॥

अथ मातृणामेकां शाखयोपस्पृशति । वत्सेन व्याकृत्य देवो वः सविता प्रार्पयत्विति
सविता वै देवानां प्रसविता सवितृप्रसूता यज्ञं सम्भरानिति तस्मादाह देवो वः
सविता प्रार्पयत्विति ॥ १.७.१.
[४] ॥

श्रेष्ठतमाय कर्मण इति । यज्ञो वै श्रेष्ठतमं कर्म यज्ञाय हि तस्मादाह
श्रेष्ठतमाय कर्मण इति ॥ १.७.१.
[५] ॥

आप्यायध्वमघ्न्या इन्द्राय भागमिति । तद्यथैवादो देवतायै
हविर्गृह्णन्नादिशत्येवमेवैतद्देवताया आदिशति यदाहाप्यायध्वमघ्न्या इन्द्राय
भागमिति ॥ १.७.१.
[६] ॥

प्रजावतीरनमीवा अयक्ष्मा इति । नात्र तिरोहितमिवास्ति मा व स्तेन ईशत माघशंस
इति मा वो नाष्ट्रा रक्षांसीशतेत्येवैतदाह ध्रुवा अस्मिन्गोपतौ स्यात
बह्वीरित्यनपक्रमिण्योऽस्मिन्यजमाने बह्व्यः स्यातेत्येवैतदाह ॥ १.७.१.
[७] ॥

अथाहवनीयागारस्य वा पुरस्तात् । गार्हपत्यागारस्य वा शाखामुपगूहति
यजमानस्य पशून्पाहीति तद्ब्रह्मणैवैतद्यजमानस्य पशून्परिददाति गुप्त्यै ॥ १.७.१.
[८] ॥

तस्यां पवित्रं करोति । वसोः पवित्रमसीति यज्ञो वै वसुस्तस्मादाह वसोः
पवित्रमसीति ॥ १.७.१.
[९] ॥

अथ यवाग्वैतां रात्रिमग्निहोत्रं जुहोति । आदिष्टं वा एतद्देवतायै हविर्भवति
यत्पयः स यत्पयसा जुहुयाद्यथान्यस्यै देवतायै हविर्गृहीतं तदन्यस्यै
जुहुयादेवं तत्तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति
जुह्वत्यग्निहोत्रमुपकॢप्तोखा भवत्यथाहोपसृष्टां प्रब्रूतादेति यदा
प्राहोपसृष्टेति ॥ १.७.१.
[१०] ॥

अथोखामादत्ते द्यौरसि पृथिव्यसीत्युपस्तौत्येवैनामेतन्यहयत्येव यदाह
द्यौरसि पृथिव्यसीति मातरिश्वनो घर्मोऽसीति यज्ञमेवैतत्करोति यथा घर्मम्
प्रवृञ्ज्यादेवं प्रवृणक्ति विश्वधा असि परमेण धाम्ना दृंहस्व मा ह्वारिति
दृंहत्येवैनामेतदशिथिलां करोति मा ते यज्ञपतिर्ह्वार्षीदिति यजमानो वै
यज्ञपतिस्तद्यजमानायैवैतदह्वलामाशास्ते ॥ १.७.१.
[११] ॥

अथ पवित्रं निदधति । तद्वै प्राङ्निदध्यात्प्राची हि देवानां दिगथो उदगुदीची हि
मनुष्याणां दिगयं वै पवित्रं योऽयं पवते सो
ऽयमिमांल्लोकांस्तिर्यङ्ङनुपवते तस्मादुदङ्निदध्यात् ॥ १.७.१.
[१२] ॥

तद्यथैवादः । सोमं राजानं पवित्रेण
सम्पावयन्त्येवमेवैतत्सम्पावयत्युदीचीनदशं वै तत्पवित्रं भवति येन
तत्सोमं राजानं सम्पावयन्ति तस्मादुदङ्निदध्यात् ॥ १.७.१.
[१३] ॥

तन्निदधाति । वसोः पवित्रमसीति यज्ञो वै वसुस्तस्मादाह वसोः पवित्रमसीति
शतधारं सहस्रधारमित्युपस्तौत्येवैनदेतन्महयत्येव यदाह शतधारं
सहस्रधारमिति ॥ १.७.१.
[१४] ॥

अथ वाचंयमो भवति आ तिसृणां दोग्धोर्वाग्वै यज्ञोऽविक्षुब्धो यज्ञं तनवा इति ॥ १.७.१. [१५] ॥

तदानीयमानमभिमन्त्रयते । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण
सुप्वेति तद्यथैवादः सोमं राजानं पवित्रेण
सम्पावयन्त्येवमेवैतत्सम्पावयति ॥ १.७.१.
[१६] ॥

अथाह कामधुक्ष इति अमूमिति सा विश्वायुरित्यथ द्वितीयां पृच्छति कामधुक्ष
इत्यमूमिति सा विश्वकर्मेत्यथ तृतीयां पृच्छति कामधुक्ष इत्यमूमिति सा विश्वधाया
इति तद्यत्पृच्छति वीर्याण्येवास्वेतद्दधाति तिस्रो दोग्धि त्रयो वा इमे लोका एभ्य
एवैनदेतल्लोकेभ्यः सम्भरत्यथ कामं वदति ॥ १.७.१.
[१७] ॥

अथोत्तमां दोहयित्वा । येन दोहयति पात्रेण तस्मिन्नुदस्तोकमानीय पल्यङ्य
प्रत्यानयति यदत्र पयसोऽहायि तदिहाप्यसदिति रसस्यो चैव सर्वत्वायेदं हि यदा
वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति
तस्मादु रसस्यो चैव सर्वत्वाय तदुद्वास्यातनक्ति
तीव्रीकरोत्येवैनदेतत्तस्मादुद्वास्यातनक्ति ॥ १.७.१.
[१८] ॥

आतनक्ति । इन्द्रस्य त्वा भागं सोमेनातनच्मीति तद्यथैवादो देवतायै
हविर्गृह्णन्नादिशत्येवमेवैतद्देवताया आदिशति यदाहेन्द्रस्य त्वा भागमिति
सोमेनातनच्मीति स्वदयत्येवैनदेतद्देवेभ्यः ॥ १.७.१.
[१९] ॥

अथोदकवतोत्तानेन पात्रेणापिदधाति । नेदेनदुपरिष्टान्नाष्ट्रा
रक्षांस्यवमृशानिति वज्रो वा आपस्तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति
तस्मादुदकवतोत्तानेन पात्रेणापिदधाति ॥ १.७.१.
[२०] ॥

सोऽपिदधाति । विष्णो हव्यं रक्षेति यज्ञो वै विष्णुस्तद्यज्ञायैवैतद्धविः
परिददाति गुप्त्यै तस्मादाह विष्णो हव्यं रक्षेति
१.७.२अवदानक्लृप्तिः ॥ १.७.१. [२१] ॥

ऋणं ह वै जायते योऽस्ति । स जायमान एव देवेभ्य ऋषिभ्यः पितृभ्यो
मनुष्येभ्यः ॥ १.७.२.
[१] ॥

स यदेव यजेत । तेन देवेभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेनान्यजते
यदेभ्यो जुहोति ॥ १.७.२.
[२] ॥

अथ यदेवानुब्रुवीत । तेनऽर्षिभ्य ऋणं जायते तद्ध्येभ्य एतत्करोत्यृषीणां
निधिगोप इति ह्यनूचानमाहुः ॥ १.७.२.
[३] ॥

अथ यदेव प्रजामिच्छेत । तेन पितृभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति यदेषां
संतताव्यवच्छिन्ना प्रजा भवति ॥ १.७.२.
[४] ॥

अथ यदेव वासयते । तेन मनुष्येभ्य ऋणं जायते तद्ध्येभ्य एतत्करोति
यदेनान्वासयते यदेभ्योऽशनं ददाति स य एतानि सर्वाणि करोति स कृतकर्मा तस्य
सर्वमाप्तं सर्वं जितं ॥ १.७.२.
[५] ॥

स येन देवेभ्य ऋणं जायते । तदेनांस्तदवदयते यद्यजतेऽथ यदग्नौ जुहोति
तदेनांस्तदवदयते तस्माद्यत्किं चाग्नौ जुह्वति तदवदानं नाम ॥ १.७.२.
[६] ॥

तद्वै चतुरवत्तं भवति । इदं वा अनुवाक्याथ याज्याथ वषट्कारोऽथ सा देवता
चतुर्थी यस्यै देवतायै हविर्भवत्येवं हि देवता अवदानान्यन्वायत्ता अवदानानि
वा देवता अन्वायत्तान्यतिरिक्तं ह तदवदानं यत्पञ्चमं कस्मा उ हि
तदवद्येत्तस्माच्चतुरवत्तं भवति ॥ १.७.२.
[७] ॥

उतो पञ्चावत्तमेव भवति । पाङ्क्तो यज्ञं पाङ्क्तः पशुः पञ्चऽर्तवः
संवत्सरस्यैषो पञ्चावत्तस्य सम्पद्बहुर्हैव प्रजया पशुभिर्भवति यस्यैवं
विदुषः पञ्चावत्तं क्रियत एतद्ध न्वेव प्रज्ञातं कौरुपाञ्चालं यच्चतुरवत्तं
तस्माच्चतुरवत्तं भवति ॥ १.७.२.
[८] ॥

स वै यावन्मात्रमिवैवावद्येत् मानुषं ह कुर्याद्यन्महदवद्येद्व्यृद्धं वै
तद्यज्ञस्य यन्मानुषं नेद्व्यृद्धं यज्ञे करवाणीति
तस्माद्यावन्मात्रमिवैवावद्येत् ॥ १.७.२.
[९] ॥

स आज्यस्योपस्तीर्य । द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति द्वे वा आहुती
सोमाहुतिरेवान्याज्याहुतिरन्या तत एषा केवली
यत्सोमाहुतिरथैषाज्याहुतिर्यद्धविर्यज्ञो यत्पशुस्तदाज्यमेवैतत्करोति
तस्मादुभयत आज्यं भवत्येतद्वै जुष्टं देवानां यदाज्यं
तज्जुष्टमेवैतद्देवेभ्यः करोति तस्मादुभयत आज्यं भवति ॥ १.७.२.
[१०] ॥

असौ वा अनुवाक्येयं याज्या । ते उभे योषे तयोर्मिथुनमस्ति वषट्कार एव तद्वा
एष एव वषट्कारो य एष तपति स उद्यन्नेवामूमाधेद्रवत्यस्तं
यन्निमामधिद्रवति तदेतेन वृष्णेमां प्रजातिं प्रजायेते यैनयोरियं प्रजातिः ॥ १.७.२.
[११] ॥

सोऽनुवाक्यामनूच्य । याज्यामनुद्रुत्य पश्चाद्वषट्करोति पश्चाद्वै परीत्य वृषा
योषामधिद्रवति तदेने उभे पुरस्तात्कृत्वा वृष्णा वषट्कारेणाधिद्रावयति तस्मादु
सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा ॥ १.७.२.
[१२] ॥

देवपात्रं वा एष यद्वषट्कारः । तद्यथा पात्र उद्धृत्य प्रयच्छेदेवं तदथ
यत्पुरा वषट्काराज्जुहुयाद्यथाधो भूमौ निदिग्धं तदमुया स्यादेवं
तत्तस्मादु सह वैव वषट्कारेण जुहुयाद्वषट्कृते वा ॥ १.७.२.
[१३] ॥

तद्यथा योनौ रेतः सिञ्चेत् । एवं तदथ यत्पुरा वषट्काराज्जुहुयाद्यथा योनौ
रेतः सिक्तं तदमुया स्यादेवं तत्तस्मादु सह वैव वषट्कारेण
जुहुयाद्वषट्कृते वा ॥ १.७.२.
[१४] ॥

असौ वा अनवाक्येयं याज्या । सा वै गायत्रीयं त्रिष्टुबसौ स वै गायत्रीमन्वाह
तदमूमनुब्रुवन्नसौ ह्यनुवाक्येमामन्वाहेयं हि गायत्री ॥ १.७.२.
[१५] ॥

अथ त्रिष्टुभा यजति । तदनया यजन्नियं हि याज्यामुष्या अधि वषट्करोत्यसा उ हि
त्रिष्टुप्तदेने सयुजौ करोति तस्मादिमे सम्भुञ्जाते अनयोरनु सम्भोगमिमाः
सर्वाः प्रजा अनु सम्भुञ्जते ॥ १.७.२.
[१६] ॥

स वा अङ्खयन्निवैवानुवाक्यामनुब्रूयात् । असौ ह्यनुवाक्या बृहद्ध्यसौ बार्हतं
हि तद्रूपं क्षिप्र एव याज्यया त्वरेतेयं हि याज्या रथन्तरं हीयं राथन्तरं हि
तद्रूपं ह्वयति वा अनुवाक्यया प्रयच्छति याज्यया तस्मादनुवाक्यायै रूपं हुवे
हवामह आगच्छेदं बर्हिः सीदेति यद्ध्वयति हि तया प्रयच्छति याज्यया
तस्माद्याज्यायै रूपं वीहि हविर्जुषस्व हविरावृषाय स्वाद्धि पिब प्रेति यत्प्र हि
तया यच्छति ॥ १.७.२.
[१७] ॥

सा या पुरस्ताल्लक्षणा । सानुवाक्या स्यादसौ ह्यनुवाक्या तस्या अमुष्या अवस्ताल्लक्ष्म
चन्द्रमा नक्षत्राणि सूर्यः ॥ १.७.२.
[१८] ॥

अथ योपरिष्टाल्लक्षणा । सा याज्या स्यादियं हि याज्या तस्या अस्या
उपरिष्टाल्लक्ष्मौषधयो वनस्पतय आपोऽग्निरिमाः प्रजाः ॥ १.७.२.
[१९] ॥

सा ह न्वेव समृद्धानुवाक्या । यस्यै प्रथमात्पदाद्देवतामभिव्याहरति सो एव
समृद्धा याज्या यस्या उत्तमात्पदाद्देवताया अधि वषट्करोति वीर्यं वै देवत
ऽर्चस्तदुभयत एवैतद्वीर्येण परिगृह्य यस्यै देवतायै हविर्भवति तस्यै
प्रयच्छति ॥ १.७.२.
[२०] ॥

स वै वौगिति करोति । वाग्वै वषट्कारो वाग्रेतो रेत एवैतत्सिञ्चति षडित्यृतवो वै
षट्तदृतुष्वेवैतद्रेतः सिच्यते तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति
तस्मादेवं वषट्करोति
दर्शपूर्णमासनिर्वचनम् ॥ १.७.२.
[२१] ॥

देवाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः
पितुर्दायमुपेयुरेतावेवार्धमासौ य एवापूर्यते तं देवा उपायन्योऽपक्षीयते
तमसुराः ॥ १.७.२.
[२२] ॥

ते देवा अकामयन्त । कथं न्विममपि संवृञ्जीमहि योऽयमसुराणामिति तेऽर्चन्तः
श्राम्यन्तश्चेरुस्त एतं हविर्यज्ञं ददृशुर्यद्दर्शपूर्णमासौ ताभ्यामयजन्त
ताभ्यामिष्ट्वैतमपि समवृञ्जत ॥ १.७.२.
[२३] ॥

य एषोऽसुराणामासीत् । यदा वा एता उभौ परिप्लवेते अथ मासो भवति मासशः
संवत्सरः सर्वं वै संवत्सरः सर्वमेव तद्देवा असुराणां समवृञ्जत
सर्वस्मात्सपत्नानसुरान्निरभजन्त्सर्वम्वेवैष एतत्सपत्नानां संवृङ्क्ते
सर्वस्मात्सपत्नान्निर्भजति य एवमेतद्वेद ॥ १.७.२.
[२४] ॥

स यो देवानामासीत् । स यवायुवत हि तेन देवा योऽसुराणां सोऽयवा न हि तेनासुरा
अयुवत ॥ १.७.२.
[२५] ॥

अथो इतरथाहुः य एव देवानामासीत्सोऽयवा न हि तमसुरा अयुवत योऽसुराणां स
यवायुवत हि तं देवाः सब्दमहः सगरा रात्रिर्यव्या मासाः सुमेकः संवत्सरः
स्वेको ह वै नामैतद्यत्सुमेक इति यवा च हि वा अयवा यवेतीवाथ येनैतेषां होता
भवति तद्याविहोत्रमित्याचक्षते
१.७.३स्विष्टकृदाहुतिः ॥ १.७.२. [२६] ॥

यज्ञेन वै देवाः । दिवमुपोदक्रामन्नथ योऽयं देवः पशूनामीष्टे स
इहाहीयत तस्माद्वास्तव्य इत्याहुर्वास्तौ हि तदहीयत ॥ १.७.३.
[१] ॥

स येनैव देवा दिवमुपोदक्रामन् । तेनो एवार्चन्तः श्राम्यन्तश्चेरुरथ योऽयं
देवः पशूनामीष्टे य इहाहीयत
१.७.३[[.]]३
स ऐक्षत । अहास्य हान्तर्यन्त्यु मा यज्ञादिति सोऽनूच्चक्राम स आयतयोत्तरत
उपोत्पेदे स एष स्विष्टकृतः कालः ॥ १.७.३.
[२] ॥

ते देवा अब्रुवन् । मा विस्रक्षीरिति ते वै मा यज्ञान्मान्तर्गताहुतिं मे कल्पयतेति
तथेति स समबृहत्स नास्यत्स न कं चनाहिनत् ॥ १.७.३.
[४] ॥

ते देवा अब्रुवन् । यावन्ति नो हवींषि गृहीतान्यभूवन्त्सर्वेषां तेषां
हुतमुपजानीत यथास्मा आहुतिं कल्पयामेति ॥ १.७.३.
[५] ॥

तेऽध्वर्युमब्रुवन् । यथापूर्वं हवींष्यभिघारयैकस्मा अवदानाय
पुनराप्याययायातयामानि कुरु तत एकैकमवदानमवद्येति ॥ १.७.३.
[६] ॥

सोऽध्वर्युः । यथापूर्वं हवींष्यभ्यघारयदेकस्मा अवदानाय
पुनराप्याययदयातयामान्यकरोत्तत एकैकमवदानमवाद्यत्तस्माद्वास्तव्य
इत्याहुर्वास्तु हि तद्यज्ञस्य यद्धुतेषु हविःषु तस्माद्यस्यै कस्यै च देवतायै
हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तः सर्वत्र ह्येवैनं देवा अन्वाभजन् ॥ १.७.३.
[७] ॥

तद्वा अग्नय इति क्रियते । अग्निर्वै स देवस्तस्यैतानि नामानि शर्व इति यथा प्राच्या
आचक्षते भव इति यथा बाहीकाः पशूनां पती रुद्रोऽग्निरिति
तान्यस्याशान्तान्येवेतराणि नामान्यग्निरित्येव शान्ततमं तस्मादग्नय इति क्रियते
स्विष्टकृत इति ॥ १.७.३.
[८] ॥

ते होचुः । यत्त्वय्यमुत्र सत्ययक्ष्महि तन्नः स्विष्टं कुर्विति तदेभ्यः
स्विष्टमकरोत्तस्मात्स्विष्टकृत इति ॥ १.७.३.
[९] ॥

सोऽनुवाक्यामनूच्य सम्पश्यति । ये तथाग्निं स्विष्टकृतमयाडग्निरग्नेः प्रिया
धामानीति तदाग्नेयमाज्यभागमाहायाट्सोमस्य प्रिया धामानीति
तत्सौम्यमाज्यभागमाहायाडग्नेः प्रिया धामानीति तद्य एष उभयत्राच्युत
आग्नेयः पुरोडाशो भवति तमाह ॥ १.७.३.
[१०] ॥

अथ यथादेवतम् । अयाड्देवानामाज्यपानां प्रिया धामानीति तत्प्रयाजानुयाजानाह
प्रयाजानुयाजा वै देवा आज्यपा यक्षदग्नेर्होतुः प्रिया धामानीति तदग्निं
होतारमाह तदस्मा एतां देवा आहुतिं कल्पयित्वाथैनेनैतद्भूयः समशाम्यन्प्रिय
एनं धामन्नुपाह्वयन्त तस्मादेवं संपश्यति ॥ १.७.३.
[११] ॥

तद्धैके । देवतां पूर्वां कुर्वन्त्ययाट्कारादग्नेरयाट्सोमस्यायाडिति तदु तथा न
कुर्याद्विलोम ह ते यज्ञे कुर्वन्ति ये देवतां पूर्वां कुर्वन्त्ययाट्कारादिदं हि
प्रथममभिव्याहरन्नयाट्कारमेवाभिव्याहरति तस्मादयाट्कारमेव पूर्वं
कुर्यात् ॥ १.७.३.
[१२] ॥

यक्षत्स्वं महिमानमिति । यत्र वा अदो देवता आवाहयति तदपि स्वम्
महिमानमावाहयति तदतः प्राङ्न्यै किं चन स्वाय महिम्न इति क्रियते तदत्र
तं प्रीणाति तथो हास्यैषोऽमोघायावाहितो भवति तस्मादाह यक्षत्स्वम्
महिमानमिति ॥ १.७.३.
[१३] ॥

आ यजतामेज्या इष इति । प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना
अर्चन्त्यः श्राम्यन्त्यश्चरन्ति ॥ १.७.३.
[१४] ॥

सो अध्वरा जातवेदा जुषतां हविरिति । तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा
हविर्जुषन्ते तेन हि महज्जयति तस्मादाह जुषतां हविरिति ॥ १.७.३.
[१५] ॥

तद्यदेते अत्र । याज्यानुवाक्ये अवकॢप्ततमे भवतस्तृतीयसवनं वै
स्विष्टकृद्वैश्वदेवं वै तृतीयसवनं पिप्रीहि देवां उशतो यविष्ठेति
तदनुवाक्यायै वैश्वदेवमग्ने यदद्य विशो अध्वरस्य होतरिति तद्याज्यायै
वैश्वदेवं तद्यदेते एवंरूपे भवतस्तेनो एते तृतीयसवनस्य रूपं तस्माद्वा एते
अत्र याज्यानुवाक्ये अवकॢप्ततमे भवतः ॥ १.७.३.
[१६] ॥

ते वै त्रिष्टुभौ भवतः । वास्तु वा एतद्यज्ञस्य यत्स्विष्टकृदवीर्यं वै
वास्त्विन्द्रियं वीर्यं त्रिष्टुबिन्द्रियमेवैतद्वीर्यं वास्तौ स्विष्टकृति दधाति
तस्मात्त्रिष्टुभौ भवतः ॥ १.७.३.
[१७] ॥

उतो अनुष्टुभावेव भवतः । वास्त्वनुष्टुब्वास्तु स्विष्टकृद्वास्तावेवैतद्वास्तु
दधाति पेसुकं वै वास्तु पिस्यति ह प्रजया पशुभिर्यस्यैवं विदुषोऽनुष्टुभौ
भवतः ॥ १.७.३.
[१८] ॥

तदु ह भाल्लवेयः । अनुष्टुभमनुवाक्यां चक्रे त्रिष्टुभं याज्यामेतदुभयम्
परिगृह्णामीति सरथात्पपात स पतित्वा बाहुमपि शश्रे स परिममृशे यत्किमकरं
तस्मादिदमापदिति स हैतदेव मेने यद्विलोम यज्ञेऽकरमिति तस्मान्न विलोम
कुर्यात्सच्छन्दसावेव स्यातामुभे वैवानुष्टुभा उभे वा त्रिष्टुभौ ॥ १.७.३.
[१९] ॥

स वा उत्तरार्धादवद्यति । उत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य
दिक्तस्मादुत्तरार्धादवद्यत्युत्तरार्धे जुहोत्येतस्यै वै दिश उदपद्यत तं तत
एवाशमयंस्तस्मादुत्तरार्धादवद्यत्युत्तरार्धे जुहोति ॥ १.७.३.
[२०] ॥

स वा अभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति । इतरा आहुतीः पशवोऽनुप्रजायन्ते
रुद्रियः स्विष्टकृद्रुद्रियेण पशून्प्रसजेद्यदितराभिराहुतिभिः संसृजेत्तेऽस्य गृहाः
पशव उपमूर्यमाणा ईयुस्तस्मादभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति
यज्ञपरिशिष्टम् ॥ १.७.३.
[२१] ॥

एष वै स यज्ञः । येन तद्देवा दिवमुपोदक्रामन्नेष आहवनीयोऽथ य
इहाहीयत स गार्हपत्यस्तस्मादेतं गार्हपत्यात्प्राञ्चमुद्धरन्ति ॥ १.७.३.
[२२] ॥

तं वा अष्टासु विक्रमेष्वादधीत । अष्टाक्षरा वै गायत्री
गायत्र्यैवैतद्दिवमुपोत्क्रामति ॥ १.७.३.
[२३] ॥

एकादशस्वादधीत । एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभैवैतद्दिवमुपोत्क्रामति ॥ १.७.३. [२४] ॥

द्वादशस्वादधित । द्वादशाक्षरा वै जगती जगत्यैवैतद्दिवमुपोत्क्रामति नात्र
मात्रास्ति यत्रैव स्वयं मनसा मन्येत तदादधीत स यद्वा अप्यल्पकमिव
प्राञ्चमुद्धरति तेनैव दिवमुपोत्क्रामति ॥ १.७.३.
[२५] ॥

तदाहुः । आहवनीये हवींषि श्रपयेयुरतो वै देवा दिवमुपोदक्रामंस्तेनो
एवार्चन्तः श्राम्यन्तश्चेरुस्तस्मिन्हवींषि श्रपयाम तस्मिन्यज्ञं तनवामहा
इत्यपस्खल इव ह स हविषां यद्गार्हपत्ये श्रपयेयुर्यज्ञ आहवनीयो यज्ञे
यज्ञं तनवामहा इति ॥ १.७.३.
[२६] ॥

उतो गार्हपत्य एव श्रपयन्ति । आहवनीयो वा एष न वा एष तस्मै यदस्मिन्नशृतं
श्रपयेयुस्तस्मै वा एष यदस्मिंचूतं जुहुयुरित्यतो यतरथा कामयेत तथा
कुर्यात् ॥ १.७.३.
[२७] ॥

स हैष यज्ञ उवाच । नग्नताय वै बिभेमीति का तेऽनग्नतेत्यभित एव मा
परिस्तृणीयुरिति तस्मादेतदग्निमभितः परिस्तृणन्ति तृष्णाया वै बिभेमीति का ते
तृप्तिरिति ब्राह्मणस्यैव तृप्तिमनुतृप्येयमिति तस्मात्संस्थिते यज्ञे ब्राह्मणं
तर्पयितवै ब्रूयाद्यज्ञमेवैतत्तर्पयति
१.७.४ब्रह्मणः प्राशित्रहरणम् ॥ १.७.३. [२८] ॥

प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ । दिवं ओषसं वा मिथुन्येनया
स्यामिति तां सम्बभूव
१.७.४.२ ॥ १.७.४. [१] ॥

तद्वै देवानामाग आस । य इत्थं स्वां दुहितरमस्माकं स्वसारं करोतीति ॥ १.७.४. [३] ॥

ते ह देवा ऊचुः । योऽयं देवः पशूनामीष्टेऽतिसंधं वा अयं चरति य इत्थं स्वां
दुहितरमस्माकं स्वसारं करोति विध्येममिति तं रुद्रोऽभ्यायत्य विव्याध
तस्य सामि रेतः प्रचस्कन्द तथेन्नूनं तदास ॥ १.७.४.
[४] ॥

तस्मादेतदृषिणाभ्यनूक्तम् । पिता यत्स्वां दुहितरमधिष्कन् क्ष्मया रेतः
संजग्मानो निषिञ्चदिति तदाग्निमारुतमित्युक्थं तस्मिंस्तद्व्याख्यायते यथा
तद्देवा रेतः प्राजनयंस्तेषां यदा देवानां क्रोधो व्यैदथ
प्रजापतिमभिषज्यंस्तस्य तं शल्पं निरकृन्तन्त्स वै यज्ञ एव प्रजापतिः ॥ १.७.४.
[५] ॥

ते होचुः । उपजानीत यथेदं नामुयासत्कनीयो हाहुतेर्यथेदं स्यादिति ॥ १.७.४. [६] ॥

ते होचुः । भगायैनद्दक्षिणत आसीनाय परिहरत तद्भगः प्राशिष्यति
तद्यथाहुतमेवं भविष्यतीति तद्भगाय दक्षिणत आसीनाय पर्याजह्रुस्तद्भगो
ऽवेक्षां चक्रे तस्याक्षिणी निर्ददाह तथेन्नूनं तदास तस्मादाहुरन्धो भग इति ॥ १.७.४.
[७] ॥

ते होचुः । नो न्वेवात्राशमत्पूष्ण एनत्परिहरतेति तत्पूष्णे पर्याजह्रुस्तत्पूषा प्राश
तस्य दतो निर्जघान तथेन्नूनं तदास तस्मादाहुरदन्तकः पूषेति तस्माद्यम्
पूष्णे चरुं कुर्वन्ति प्रपिष्टानामेव कुर्वन्ति यथादन्तकायैवम् ॥ १.७.४.
[८] ॥

ते होचुः । नो न्वेवात्राशमद्बृहस्पतय एनत्परिहरतेति तद्बृहस्पतये पर्याजह्रुः
स बृहस्पतिः सवितारमेव प्रसवायोपाधावत्सविता वै देवानां प्रसवितेदं मे
प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेनं सवितृप्रसूतं नाहिनत्ततो
ऽर्वाचीनं शान्तं तदेतन्निदानेन यत्प्राशित्रम् ॥ १.७.४.
[९] ॥

स यत्प्राशित्रमवद्यति । यदेवात्राविद्धं यज्ञस्य यद्रुद्रियं
तदेवैतन्निर्मिमीतेऽथाप उपस्पृशति शान्तिरापस्तदद्भिः शमयत्यथेडाम्
पशून्त्समवद्यति
१.७.४.इडाकर्म
१.७.४.(९)
अथेडां पशून् समवद्यति। ॥ १.७.४.
[१०] ॥

स वै यावन्मात्रमिवैवावद्येत् । तथा शल्पः प्रच्यवते
तस्माद्यावन्मात्रमिवैवावद्येदन्यतरत आज्यं कुर्यादधस्ताद्वोपरिष्टाद्वा तथा
खदन्निःसरणवद्भवति तथा निस्रवति तस्मादन्यतरत आज्यं
कुर्यादधस्ताद्वोपरिष्टाद्वा ॥ १.७.४.
[११] ॥

स आज्यस्योपस्तीर्य । द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति तद्यथैव
यज्ञस्यावदानमेवमेतत् ॥ १.७.४.
[१२] ॥

तन्न पूर्वेण परिहरेत् । पूर्वेण हैके परिहरन्ति पुरस्ताद्वै प्रत्यञ्चो यजमानम्
पशव उपतिष्ठन्ते रुद्रियेण ह पशून्प्रसजेद्यत्पूर्वेण परिहरेत्तेऽस्य गृहाः
पशव उपमूर्यमाणा ईयुस्तस्मादित्येव तिर्यक्प्रजिहीत तथा ह रुद्रियेण पशून्न
प्रसजति तिर्यगेवैनं निर्मिमीते ॥ १.७.४.
[१३] ॥

तत्प्रतिगृह्णाति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्
प्रतिगृह्णामीति ॥ १.७.४.
[१४] ॥

तद्यथैवादो बृहस्पतिः सवितारम् । प्रसवायोपाधावत्सविता वै देवानाम्
प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेनं सवितृप्रसूतं
नाहिनदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानाम्
प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसविता प्रसौति तदेनं सवितृप्रसूतं
न हिनस्ति ॥ १.७.४.
[१५] ॥

तत्प्राश्नाति । अग्नेष्ट्वास्येन प्राश्नामीति न वा अग्निं किं चन हिनस्ति तथो
हैनमेतन्न हिनस्ति ॥ १.७.४.
[१६] ॥

तन्न दद्भिः खादेत् । नेन्म इदं रुद्रियं दतो हिनसदिति तस्मान्न दद्भिः
खादेत् ॥ १.७.४.
[१७] ॥

अथाप आचामति । शान्तिरापस्तदद्भिः शान्त्या शमयतेऽथ परिक्षाल्य पात्रं ॥ १.७.४. [१८] ॥

अथास्मै ब्रह्मभागं पर्याहरन्ति । ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता
स एतं भागं प्रतिविदान आस्ते यत्प्राशित्रं तदस्मै पर्याहार्षुस्तत्प्राशीदथ
यमस्मै ब्रह्मभागं पर्याहरन्ति तेन भागी स यदत ऊर्ध्वमसंस्थितं
यज्ञस्य तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति ॥ १.७.४.
[१९] ॥

स वै वाचंयम एव स्यात् । ब्रह्मन्प्रस्थास्यामीत्यैतस्माद्वचसो विवृहन्ति वा एते
यज्णं क्षण्वन्ति ये मध्ये यज्ञस्य पाकयज्ञिययेडया चरन्ति ब्रह्मा वा ऋत्विजाम्
भिषक्तमस्तद्ब्रह्मा संदधाति न ह संदध्याद्यद्वावद्यमान आसीत
तस्माद्वाचंयम एव स्यात् ॥ १.७.४.
[२०] ॥

स यदि पुरा मानुषीं वाचं व्याहरेत् । तत्रो वैष्णवीमृचंवा यजुर्वा जपेद्यज्ञो
वै विष्णुस्तद्यज्ञं पुनरारभते तस्यो हैषा प्रायश्चित्तिः ॥ १.७.४.
[२१] ॥

स यत्राह ब्रह्मन्प्रस्थास्यामीति तद्ब्रह्मा जपत्येतं ते देवा सवितर्यज्ञम्
प्राहुरिति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविता बृहस्पतये
ब्रह्मण इति बृहस्पतिर्वै देवानां ब्रह्मा तद्य एव देवानां ब्रह्मा तस्मा
एवैतत्प्राह तस्मादाह बृहस्पतये ब्रह्मण इति तेन यज्ञमव तेन यज्ञपतिं
तेन मामवेति नात्र तिरोहितमिवास्ति ॥ १.७.४.
[२२] ॥

मनो जूतिर्जुषतामाज्यस्येति । मनसा वा इदं सर्वमाप्तं
तन्मनसैवैतत्सर्वामाप्नोति बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं
दधात्विति यद्विवृढं तत्संदधाति विश्वे देवास इह मादयन्तामिति सर्वं वै
विश्वे देवाः सर्वेणैवैतत्संदधाति स यदि कामयेत ब्रूयात्प्रतिष्ठेति यद्यु
कामयेतापि नाद्रियेत ॥ १.७.४.
[२३] ॥

मनवे ह वै प्रातः । अवनेग्यमुदकमाजह्रुर्यथेदम्
पाणिभ्यामवनेजनायाहरन्त्येवं तस्यावनेनिजानस्य मत्स्यः पाणी आपेदे ॥ १.८.१.
[१] ॥

स हास्मै वाचमुवाद । बिभृहि मा पारयिष्यामि त्वेति कस्मान्मा पारयिष्यसीत्यौघ
इमाः सर्वाः प्रजा निर्वोढा ततस्त्वा पारयितास्मीति कथं ते भृतिरिति
१.८.१[[.]]३
स होवाच । यावद्वै क्षुल्लका भवामो बह्वी वै नस्तावन्नाष्ट्रा भवत्युत मत्स्य
एव मत्स्यं गिलति कुम्भ्यां माग्रे बिभरासि स यदा तामतिवर्धा अथ कर्षूं
खात्वा तस्यां मा बिभरासि स यदा तामतिवर्धा अथ मा समुद्रमभ्यवहरासि
तर्हि वा अतिनाष्ट्रो भवितास्मीति ॥ १.८.१.
[२] ॥

शश्वद्ध कष आस । स हि ज्येष्ठं वर्धतेऽथेतिथीं समां तदौघ आगन्ता
तन्मा नावमुपकल्प्योपासासै स औघ उत्थिते नावमापद्यासै ततस्त्वा पारयितास्मीति ॥ १.८.१.
[४] ॥

तमेवं भृत्वा समुद्रमभ्यवजहार । स यतिथीं तत्समां परिदिदेष ततिथीं
समां नावमुपकल्प्योपासां चक्रे स औघ उत्थिते नावमापेदे तं स मत्स्य
उपन्यापुप्लुवे तस्य शृङ्गे नावः पाशं प्रतिमुमोच तेनैतमुत्तरं
गिरिमतिदुद्राव ॥ १.८.१.
[५] ॥

स होवाच । अपीपरं वै त्वा वृक्षे नावं प्रतिबघ्नीष्व तं तु त्वा मा गिरौ
सन्तमुदकमन्तश्चैत्सीद्यावदुदकं समवायात्तावत्तावदन्ववसर्पासीति स ह
तावत्तावदेवान्ववससर्प तदप्येतदुत्तरस्य गिरेर्मनोरवसर्पणमित्यौघो ह
ताः सर्वाः प्रजा निरुवाहाथेह मनुरेवैकः परिशिशिषे ॥ १.८.१.
[६] ॥

सोर्चंच्राम्यंश्चचार प्रजाकामः । तत्रापि पाकयज्ञेनेजे स घृतं दधि
मस्त्वामिक्षामित्यप्सु जुहवां चकार ततः संवत्सरे योषित्सम्बभूव सा ह
पिब्दमानेवोदेयाय तस्यै ह स्म घृतं पदे संतिष्ठते तया मित्रावरुणौ
संजग्माते ॥ १.८.१.
[७] ॥

तां होचतुः कासीति । मनोर्दुहितेत्यावयोर्ब्रूष्वेति नेति होवाच य एव मामजीजनत
तस्यैवाहमस्मीति तस्यामपित्वमीषाते तद्वा जज्ञौ तद्वा न जज्ञावति त्वेवेयाय सा
मनुमाजगाम ॥ १.८.१.
[८] ॥

तां ह मनुरुवाच कासीति । तव दुहितेति कथं भगवति मम दुहितेति या
अमूरप्स्वाहुतीरहौषीर्घृतं दधि मस्त्वामिक्षां ततो मामजीजनथाः साशीरस्मि
तां मा यज्ञेऽवकल्पय यज्ञे चेद्वै मावकल्पयिष्यसि बहुः प्रजया
पशुभिर्भविष्यसि याममुया कां चाशिषमाशासिष्यसे सा ते सर्वा समर्धिष्यत इति
तामेतन्मध्ये यज्ञस्यावाकल्पयन्मध्यं ह्येतद्यज्ञस्य यदन्तरा
प्रयाजानुयाजान् ॥ १.८.१.
[९] ॥

तयार्चंच्राम्यंश्चचार प्रजाकामः । तयेमां प्रजातिं प्रजज्ञे येयं मनोः
प्रजातिर्याम्वेनया कां चाशिषमाशास्त सास्मै सर्वा समार्ध्यत ॥ १.८.१.
[१०] ॥

सैषा निदानेना यदिडा । स यो हैवं विद्वानिडया चरत्येतां हैव प्रजातिं प्रजायते
यां मनुः प्राजायत याम्वेनया कां चाशिषमाशास्ते सास्मै सर्वा समृध्यते ॥ १.८.१.
[११] ॥

सा वै पञ्चावत्ता भवति । पशवो वा इडा पाङ्ता वै पशवस्तस्मात्पञ्चावत्ता भवति ॥ १.८.१. [१२] ॥

स समवदायेडाम् । पूर्वार्धं पुरोडाशस्य प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति
तां होत्रे प्रदाय दक्षिणात्येति ॥ १.८.१.
[१३] ॥

स होतुरिह निलिम्पति । तद्धोतौष्ठयोर्निलिम्पते मनसस्पतिना ते हुतस्याश्नामीषे
प्राणायेति ॥ १.८.१.
[१४] ॥

अथ होतुरिह निलिम्पति । तद्धोतौष्ठयोर्निलिम्पते वाचस्पतिना ते हुतस्याश्नाम्यूर्ज
उदानायेति ॥ १.८.१.
[१५] ॥

एतद्ध वै मनुर्बिभयां चकार । इदं वै मे तनिष्ठं यज्ञस्य यदियमिडा
पाकयज्ञिया यद्वै म इह रक्षांसि यज्ञं न हिंस्युरिति तामेतत्पुरा रक्षोभ्यः
पुरा रक्षोभ्य इत्येव प्रापयत तथो एवैनामेष एतत्पुरा रक्षोभ्यः पुरा
रक्षोभ्य इत्येव प्रापयतेऽथ यत्प्रत्यक्षं न प्राश्नाति नेदनुपहूताम्
प्राश्नामीत्येतदेवैनां प्रापयते यदोष्ठयोर्निलिम्पते ॥ १.८.१.
[१६] ॥

अथ होतुः पाणौ समवद्यति । समवत्तमेव सतीं तदेनां प्रत्यक्षं होतरि
श्रयति तयात्मंचूतया होता यजमानायाशिषमाशास्ते तस्माद्धोतुः पाणौ समवद्यति ॥ १.८.१.
[१७] ॥

अथोपांशूपह्वयते । एतद्ध वै मनुर्बिभयां चकारेदं वै मे तनिष्ठं
यज्ञस्य यदियमिडा पाकयज्ञिया यद्वै म इह रक्षांसि यज्ञं न हन्युरिति
तामेतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येवोपांशूपाह्वयत तथो एवैनामेष
एतत्पुरा रक्षोभ्यः पुरा रक्षोभ्य इत्येवोपांशूपह्वयते ॥ १.८.१.
[१८] ॥

स उपह्वयते । उपहूतं रथन्तरं सह पृथिव्योप मां रथन्तरं सह पृथिव्या
ह्वयतामुपहूतं वामदेव्यं सहान्तरिक्षेणोप मां वामदेव्यं सहान्तरिक्षेण
ह्वयतामुपहूतं बृहत्सह दिवोप मां बृहत्सह दिवा ह्वयतामिति
तदेतामेवैतदुपह्वयमान इमांश्च लोकानुपह्वयत एतानि च सामानि ॥ १.८.१.
[१९] ॥

उपहूता गावः सहर्षभा इति । पशवो वा इडा तदेनां परोऽक्षमुपह्वयते
सहर्षभा इति समिथुनामेवैनामेतदुपह्वयते ॥ १.८.१.
[२०] ॥

उपहूता सप्तहोत्रेति । तदेनां सप्तहोत्रा सौम्येनाध्वरेणोपह्वयते ॥ १.८.१. [२१] ॥

उपहूतेडा ततुरिरिति । तदेनां प्रत्यक्षमुपह्वयते ततुरिरिति सर्वं ह्येषा
पाप्मानं तरति तस्मादाह ततुरिरिति ॥ १.८.१.
[२२] ॥

उपहूतः सखा भक्ष इति । प्राणौ वै सखा भक्षस्तत्प्राणमुपह्वयत उपहूतं
हेगिति तच्छरीरमुपह्वयते तत्सर्वामुपह्वयते ॥ १.८.१.
[२३] ॥

अथ प्रतिपद्यते । इडोपहूतोपहूतेडोपो अस्मां इडा ह्वयतामिडोपहूतेति
तदुपहूतामेवैनामेतत्सतीं प्रत्यक्षमुपह्वयते या वै सासीद्गोर्वै
सासीच्चतुष्पदी वै गौस्तस्माच्चतुरुपह्वयते ॥ १.८.१.
[२४] ॥

स वै चतुरुपह्वयमानः । अथ नानेवोपह्वयतेऽजामितायै जामि ह
कुर्याद्यदिडोपहूतेडोपहूतेत्येवोपह्वयेतोपहूतेडेति वेडोपहूतेति
तदर्वाचीमुपह्वयत उपहूतेडेति तत्पराचीमुपो अस्मां इडा ह्वयतामिति
तदात्मानं चैवैतन्नान्तरेत्यन्यथेव च भवतीडोपहूतेति
तत्पुनरर्वाचीमुपह्वयते तदर्वाचीं चैवैनामेतत्पराचीं चोपह्वयते ॥ १.८.१.
[२५] ॥

मानवी घृतपदीति । मनुर्ह्येतामग्रेऽजनयत तस्मादाह मानवीति घृतपदीति
यदेवास्यै गृतं पदे समतिष्ठत तस्मादाह घृतपदीति ॥ १.८.१.
[२६] ॥

उत मैत्रावरुणीति । यदेव मित्रावरुणाभ्यां समगच्छत स एव मैत्रावरुणो न्यङ्गो
ब्रह्मा देवकृतोपहूतेति ब्रह्मा ह्येषां देवकृतोपहूतोपहूता दैव्या अध्वर्यव
उपहूता मनुष्या इति तद्दैवांश्चैवाध्वर्यूनुपह्वयते ये च मानुषा वत्सा वै
दैव्या अध्वर्यवोऽथ य इतरे ते मानुषाः
१.८.१[.२]८
य इमं यज्ञमवान्ये च यज्ञपतिं वर्धानिति । एते वै यज्ञमवन्ति ये ब्राह्मणाः
शुश्रुवांसोऽनूचाना एते ह्येनं तन्वत एत एनं जनयन्ति तदु तेभ्यो निह्नुते वत्सा
उ वै यज्ञपतिं वर्धन्ति यस्य ह्येते भूयिष्ठा भवन्ति स हि यज्ञपतिर्वर्धते
तस्मादाह ये च यज्ञपतिं वर्धानिति ॥ १.८.१.
[२७] ॥

उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे इति तदिमे द्यावापृथिवी
उपह्वयते ययोरिदं सर्वमध्युपहूतोऽयं यजमान इति
तद्यजमानमुपह्वयते तद्यदत्र नाम न गृह्णाति प्रोऽक्ष्ं ह्यत्राशीर्यदिडायाम्
मानुषं ह कुर्याद्यन्नाम गृह्णीयाद्व्यृद्धं वै तद्यज्ञस्य यन्मानुषं
नेद्व्यृद्धं यज्ञे करवाणीति तस्मान्न नाम गृह्णाति ॥ १.८.१.
[२९] ॥

उत्तरस्यां देवयज्यायामुपहूत इति । तदस्मा एतज्जीवातुमेव परोऽक्षमाशास्ते
जीवन्हि पूर्वमिष्ट्वाथापरं यजते ॥ १.८.१.
[३०] ॥

तदस्मा एतत्प्रजामेव परोऽक्षमाशास्ते । यस्य हि प्रजा भवत्यमुं
लोकमात्मनैत्यथास्मिंलोके प्रजा यजते तस्मात्प्रजोत्तरा देवयज्या ॥ १.८.१.
[३१] ॥

तदस्मा एतत्पशूनेव परोऽक्षमाशास्ते यस्य हि पशवो भवन्ति स
पूर्वमिष्ट्वाथापरं यजते ॥ १.८.१.
[३२] ॥

भूयसि हविष्करण उपहूत इति । तदस्मा एतज्जीवातुमेव परोऽक्षमाशास्ते जीवन्हि
पूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति ॥ १.८.१.
[३३] ॥

तदस्मा एतत्प्रजामेव परोऽक्षमाशास्ते यस्य हि प्रजा भवत्येक आत्मना
भवत्यथोत दशधा प्रजया हविष्क्रियते तस्मात्प्रजा भूयो हविष्करणम् ॥ १.८.१.
[३४] ॥

तदस्मा एतत्पशूनेव परोऽक्षमाशास्ते । यस्य हि पशवो भवन्ति स
पूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति ॥ १.८.१.
[३५] ॥

एषा वा आशीः जीवेयं प्रजा मे स्याच्रियं गच्छेयमिति तद्यत्पशूनाशास्ते तच्रियमाशास्ते
श्रीर्हि पशवस्तदेताभ्यामेवैतदाशीर्भ्यां सर्वमाप्तं तस्माद्वा एते अत्र द्वे
आशिषौ क्रियते ॥ १.८.१.
[३६] ॥

देवा म इदं हविर्जुषन्तामिति । तस्मिन्नुपहूत इति
तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति
तस्मादाह जुषन्तामिति ॥ १.८.१.
[३७] ॥

तां वै प्राश्नन्त्येव । नाग्नौ जुह्वति पशवो वा इडा नेत्पशूनग्नौ प्रवृणजामेति
तस्मान्नाग्नौ जुह्वति ॥ १.८.१.
[३८] ॥

प्राणेष्वेव हूयते । होतरि त्वद्यजमाने त्वदध्वर्यौ त्वदथ यत्पूर्वार्धम्
पुरोडाशस्य प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति यजमानो वै ध्रुवा
तद्यजमानस्य प्राशितं भवत्यथ यत्प्रत्यक्षं न प्राश्नाति नेदसंस्थिते यज्ञे
प्राश्नानीत्येतदेवास्य प्राशितं भवति सर्वे प्राश्नन्ति सर्वेषु मे हुतासदिति पञ्च
प्राश्नन्ति पशवो वा इडा पाङ्क्ता वै पशवस्तस्मात्पञ्च प्राश्नन्ति ॥ १.८.१.
[३९] ॥

अथ यत्र प्रतिपद्यते । तच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति तदत्र
पितृणां भाजनेन चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्माच्चतुर्धा
पुरोडाशं कृत्वा बर्हिषदं करोति ॥ १.८.१.
[४०] ॥

अथ यत्राहोपहूते द्यावापृथिवी इति । तदग्नीध आदधाति तदग्नीत्प्राश्नात्युपहूता
पृथिवी मातोप मां पृथिवी माता ह्वयतामग्निराग्नीध्रात्स्वाहोपहूतो द्यौष्पितोप
मां द्यौष्पिता ह्वयतामग्निराग्नीध्रात्स्वाहेति द्यावापृथिव्यो वा एष
यदाग्नीध्रस्तस्मादेवं प्राश्नाति ॥ १.८.१.
[४१] ॥

अथ यत्राशिषमाशास्ते । तज्जपति मयीदमिन्द्र इन्द्रियं दधात्वस्मान्रायो
मघवानः सचन्तामस्माकं सन्त्वाशिषः सत्या नः सन्त्वाशिष इत्याशिषामेवैष
प्रतिग्रहस्तद्या एवात्रर्त्विजो यजमानायाशिष आशासते ता एवैतत्प्रतिगृह्यात्मन्कुरुते ॥ १.८.१.
[४२] ॥

अथ पवित्रयोर्मार्जयन्ते । पाकयज्ञिययेव वा एतदिडयाचारिषुः पवित्रपूता यदत
ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्पवित्रयोर्मार्जयन्ते ॥ १.८.१.
[४३] ॥

अथ ते पवित्रे प्रस्तरेऽपिसृजति । यजमानो वै प्रस्तरः प्राणोदानौ पवित्रे
यजमाने तत्प्राणोदानौ दधाति तस्मात्ते पवित्रे प्रस्तरेऽपिसृजति
१.८.२अथानुयाजकर्म ॥ १.८.१. [४४] ॥

ते वा एते उल्मुके उदूहन्ति । अनुयाजेभ्यो यातयामेव वा एतदग्निर्भवति देवेभ्यो
हि यज्ञमूहिवान्भवत्ययातयाम्न्यनुयाजांस्तनवामहा इति तस्माद्वा एते उल्मुके
उदूहन्ति ॥ १.८.२.
[१] ॥

ते पुनरनुसंस्पर्शयन्ति । पुनरेवैतदग्निमाप्याययन्त्ययातयामानं
कुर्वन्त्ययातयाम्नि यदत उर्ध्वमसंस्थितं यज्ञस्य तत्तनवामा इति
तस्मात्पुनरनुसंस्पर्शयन्ति
१.८.२[[.]]३
अथ समिधमभ्यादधाति । समिन्द्ध एवैनमेतत्समिद्धे यदत
ऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहा इति तस्मात्समिधमभ्यादधाति ॥ १.८.२.
[२] ॥

तां होतानुमन्त्रयते । एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व
वर्धिषीमहि च वयमा च प्यासिषीमहीति तद्यथैवादः
समिध्यमानायान्वाहैवमेवैतदन्वाह तदेतद्धोतुः कर्म स यदि मन्येत न
होता वेदेत्यपि स्वयमेव यजमानोऽनुमन्त्रयेत ॥ १.८.२.
[४] ॥

अथ सम्मार्ष्टि । युनक्त्येवैनमेतद्युक्तो यदत ऊर्ध्वमसंस्थितं यज्ञस्य
तद्वहादिति तस्मात्सम्मार्ष्टि सकृत्सकृत्सम्मार्ष्टि त्रिस्त्रिर्वा अग्रे देवेभ्यः
सम्मृजन्ति नेत्तथा करवाम यथा देवेभ्य इति
तस्मात्सकृत्सकृत्सम्मार्ष्ट्यजामितायै जामि ह कुर्याद्यत्त्रिः पूर्वं त्रिरपरं
तस्मात्सकृत्सकृत्सम्मार्ष्टि ॥ १.८.२.
[५] ॥

स सम्मार्ष्टि । अग्ने वाजजिद्वाजं त्वा ससृवांसं वाजजितं सम्मार्ज्मीति
सरिष्यन्तमिति वा अग्र आह सरिष्यन्निव हि तर्हि भवत्यथात्र ससृवांसमिति
ससृवेव ह्यत्र भवति तस्मादाह ससृवांसमिति ॥ १.८.२.
[६] ॥

अथानुयाजान्यजति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष यज्ञस्तायते सर्वा
वै तत्ता इष्टा भवन्ति तद्यत्तासु सर्वास्विष्टास्वथैतत्पश्चेवानुयजति तस्मादनुयाजा
नाम ॥ १.८.२.
[७] ॥

अथ यदनुयाजान्यजति । छन्दांसि वा अनुयाजाः पशवो वै देवानां छन्दांसि
तद्यथेदं पशवो युक्ता मनुष्येभ्यो वहन्त्येवं छन्दांसि युक्तानि देवेभ्यो
यज्ञं वहन्ति तद्यत्र छन्दांसि देवान्त्समतर्पयन्नथ छन्दांसि देवाः
समतर्पयंस्तदतस्तत्प्रागभूद्यच्चन्दांसि युक्तानि देवेभ्यो
यज्ञमवाक्षुर्यदेनान्त्समतीतृपन् ॥ १.८.२.
[८] ॥

अथ यदनुयाजान्यजति । छन्दांसि वा अनुयाजाश्चन्दांस्येवैतत्संतर्पयति
तस्मादनुयाजान्यजति तस्माद्येन वाहनेन धावयेत्तद्विमुच्य
ब्रूयात्पाययतैनत्सुहितं कुरुतेत्येष उ वाहनस्यापह्नवः ॥ १.८.२.
[९] ॥

स वै खलु बर्हिः प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद्गायत्री प्रथमा
च्छन्दसां युज्यते तदु तद्वीर्येणैव यच्येनो भूत्वा दिवः
सोममाहरत्तदयथायथं मन्यन्ते यत्कनिष्ठं छन्दः सद्गायत्री प्रथमा
च्छन्दसां युज्यतेऽथात्र यथायथं देवाश्चन्दांस्यकल्पयन्ननुयाजेषु
नेत्पापवस्यसमसदिति ॥ १.८.२.
[१०] ॥

स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिरोषधयो
बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधाति ता इमा अस्मिंलोक ओषधयः
प्रतिष्ठितास्तदिदं सर्वं जगदस्यां तेनेयं जगती तज्जगतीं प्रथमामकुर्वन् ॥ १.८.२.
[११] ॥

अथ नराशंसं द्वितीयं यजति । अन्तरिक्षं वै नराशंसः प्रजा वै नरस्ता इमा
अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति शंसतीति वै
तदाहुस्तस्मादन्तरिक्षं नराशंसोऽन्तरिक्षमु वै त्रिष्टुप्तत्त्रिष्टुभं
द्वितीयामकुर्वन् ॥ १.८.२.
[१२] ॥

अथाग्निरुत्तमः । गायत्री वा अग्निस्तद्गायत्रीमुत्तमामकुर्वन्नेवं यथायथेन
कॢप्तेन छन्दांसि प्रत्यतिष्ठंस्तस्मादिदमपापवस्यसम् ॥ १.८.२.
[१३] ॥

देवान्यजेत्येवाध्वर्युराह । देवंदेवमिति सर्वेषु होता देवानां वै देवाः सन्ति
छन्दांस्येव पशवो ह्येषां गृहा हि पशवः प्रतिष्ठो हि गृहाश्चन्दांसि वा
अनुयाजास्तस्माद्देवान्यजेत्येवाध्वर्युराह देवंदेवमिति सर्वेषु होता ॥ १.८.२.
[१४] ॥

वसुवने वसुधेयस्येति । देवताया एव वषट्क्रियते देवतायै हूयते न वा अत्र
देवतास्त्यनुयाजेषु देवं बर्हिरिति तत्र नाग्निर्नेन्द्रो न सोमो देवो नराशंस इति
ऋत एकं चन यो वा अत्राग्निर्गायत्री स निदानेन ॥ १.८.२.
[१५] ॥

अथ यद्वसुवने वसुधेयस्येति यजति । अग्निर्वै वसुवनिरिन्द्रो वसुधेयोऽस्ति वै
च्छन्दसां देवतेन्द्राग्नी एवैवमु हैतद्देवताया एव वषट्क्रियते देवतायै हूयते ॥ १.८.२.
[१६] ॥

अथोत्तममनुयाजमिष्ट्वा समानीय जुहोति । प्रयाजानुयाजा वा एते तद्यथैवादः
प्रयाजेषु यजमानाय द्विषन्तं भ्रातृव्यं बलिं हारयत्यत्त्र आद्यं बलिं
हारयत्येवमेवैतदनुयाजेषु बलिं हारयति
१.८.३सूक्तवाक-शंयुवाक-कर्मारम्भः ॥ १.८.२. [१७] ॥

स वै स्रुचौ व्यूहति । अग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन
प्रोहामीति जुहूं प्राचीं दक्षिणेन पाणिनाग्नीषोमौ तमपनुदतां यो स्मान्द्वेष्टि
यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीत्युपभृतं प्रतीचीं सव्येन
पाणिना यदि स्वयं यजमानः ॥ १.८.३.
[१] ॥

यद्यु अध्वर्युः । अग्नीषोमयोरुज्जितिमनूज्जयत्वयं यजमानो वाजस्यैनम्
प्रसवेन प्रोहाम्यग्नीषोमौ तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं
द्वेष्टि वाजस्यैनं प्रसवेनापोहामीति पौर्णमास्यामग्नीषोमीयं हि पौर्णमासं
हविर्भवति ॥ १.८.३.
[२] ॥

अथामावास्यायाम् । इन्द्राग्न्योरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीन्द्राग्नी
तमपनुदतां योऽस्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनम्
प्रसवेनापोहामीति यदि स्वयं यजमानः ॥ १.८.३.
[३] ॥

यद्यु अध्वर्युः । इन्द्राग्न्योरुज्जितिमनूज्जयत्वयं यजमानो वाजस्यैनं प्रसवेन
प्रोहामीन्द्राग्नी तमपनुदतां यमयं यजमानो द्वेष्टि यश्चैनं द्वेष्टि
वाजस्यैनं प्रसवेनापोहामीत्यमावास्यायामैन्द्राग्नं ह्यामावास्यं
हविर्भवत्येवं यथादेवतं व्यूहति तद्यदेवं व्यूहति ॥ १.८.३.
[४] ॥

यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमनु
प्राञ्चमेवैतद्यजमानमुदूहत्यपाञ्चं तमपोहति योऽस्मा अरातीयत्यत्तैव
जुहूमन्वाद्य उपभृतमनु प्राञ्चमेवैतदत्तारमुदूहत्यपाञ्चमाद्यमपोहति ॥ १.८.३.
[५] ॥

तद्वा एतत् । समान एव कर्मन्व्याक्रियते तस्मादु समानादेव पुरुषादत्ता चाद्यश्च
जायते इदं हि चतुर्थे पुरुषे तृतीये संगच्छामह इति विदेवं दीव्यमाना जात्या आसत
एतस्मादु तत् ॥ १.८.३.
[६] ॥

अथ जुह्वा परिधीन्त्समनक्ति । यया देवेभ्योऽहौषीद्यया यज्ञं
समतिष्ठपत्तयैवैतत्परिधीन्प्रीणाति तस्माज्जुह्वा परिधीन्त्समनक्ति ॥ १.८.३.
[७] ॥

स समनक्ति वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वेत्येते वै त्रया देवा यद्वसवो
रुद्रा आदित्या एतेभ्यस्त्वेत्येवैतदाह ॥ १.८.३.
[८] ॥

अथ परिधिमभिपद्याश्रावयति । परिधिभ्यो ह्येतदाश्रावयति यज्ञो वा आश्रावणं
यज्ञेनैवैतत्प्रत्यक्षं परिधीन्प्रीणाति तस्मात्परिधिमभिपद्याश्रावयति ॥ १.८.३.
[९] ॥

स आश्राव्याह । इषिता दैव्या होतार इति दैव्या वा एते होतारो यत्परिधयोऽग्नयो हीष्टा
दैव्या होतार इत्येवैतदाह यदाहेषिता दैव्या होतार इति भद्रवाच्यायेति स्वयं वा
एतस्मै देवा युक्ता भवन्ति यत्साधु वदेयुर्यत्साधु कुर्युस्तस्मादाह
भद्रवाच्यायेति प्रेषितो मानुषः सूक्तवाकायेति तदिमं मानुषं होतारं
सूक्तवाकाय प्रसौति ॥ १.८.३.
[१०] ॥

अथ प्रस्तरमादत्ते । यजमानो वै प्रस्तरस्तद्यत्रास्य यज्ञो
ऽगंस्तदेवैतद्यजमानं स्वगाकरोति देवलोकं वा अस्य यज्ञो
ऽगन्देवलोकमेवैतद्यजमानमपिनयति ॥ १.८.३.
[११] ॥

स यदि वृष्टिकामः स्यात् । एतेनैवाददीत संजानाथां द्यावापृथिवी इति यदा वै
द्यावापृथिवी संजानाथे अथ वर्षति तस्मादाह संजानाथां द्यावापृथिवी इति
मित्रावरुणौ त्वा वृष्ट्यावतामिति तद्यो वर्षस्येष्टे स त्वा
वृष्ट्यावत्वित्येवैतदाहायं वै वर्षस्येष्टे योऽयं पवते सोऽयमेक इवैव पवते
सोऽयं पुरुषेऽन्तः प्रविष्टः प्राञ्च प्रत्यञ्च ताविमौ प्राणोदानौ प्राणोदानौ
वै मित्रावरुणौ तद्य एव वर्षस्येष्टे स त्वा वृष्ट्यावत्वित्येवैतदाह
तमेतेनैवाददीत यदा ह्येव कदा च वृष्टिः समिव
तमनक्त्याहुतिमेवैतत्करोत्याहुतिर्भूत्वा देवलोकंगच्छादिति ॥ १.८.३.
[१२] ॥

स वा अग्रं जुह्वामनक्ति । मध्यमुपभृति मूलं ध्रुवायामग्रमिव हि
जुहूर्मध्यमिवोपभृन्मूलमिव ध्रुवा ॥ १.८.३.
[१३] ॥

सोऽनक्ति । व्यन्तु वयोऽक्तं रिहाणा इति वय
एवैनमेतद्भूतमस्मान्मनुष्यलोकाद्देवलोकमभ्युत्पातयति तन्नीचैरिव हरति
द्वयं तद्यस्मान्नीचैरिव हरेद्यजमानो वै प्रस्तरोऽस्या एवैनमेतत्प्रतिष्ठायै
नोद्धन्तीहो एव वृष्टिं नियच्छति ॥ १.८.३.
[१४] ॥

स हरति । मरुतां पृषतीर्गच्छेति देवलोकं गच्छेत्येवैतदाह यदाह मरुताम्
पृषतीर्गच्छेति वशा पृश्निर्भूत्वा दिवं गच्छ ततो नो वृष्टिमावहेतीयं वै वशा
पृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशा पृश्निरियम्
भूत्वा दिवं गच्छेत्येवैतदाह ततो नो वृष्टिमावहेति वृष्टाद्वा ऊर्ग्रसः सुभूतं
जायते तस्मादाह ततो नो वृष्टिमावहेति ॥ १.८.३.
[१५] ॥

अथैकं तृणमपगृह्णाति । यजमानो वै प्रस्तरः स यत्कृत्स्नम्
प्रस्तरमनुप्रहरेत्क्षिप्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो
ज्योग्जीवति यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदपगृह्णाति ॥ १.८.३.
[१६] ॥

तन्मुहूर्तं धारयित्वानुप्रहरति । तद्यत्रास्येतर
आत्मागंस्तदेवास्यैतद्गमयत्यथ यन्नानुप्रहरेदन्तरियाद्ध यजमानं
लोकात्तथो ह यजमानं लोकान्नान्तरेति ॥ १.८.३.
[१७] ॥

तं प्राञ्चमनुसमस्यति । प्राची हि देवानां दिगथो उदञ्चमुदीची हि मनुष्याणां
दिक्तमङ्गुलिभिरेव योयुप्येरन्न काष्ठैर्दारुभिर्वा इतरं शवं व्यृषन्ति
नेत्तथा करवाम यथेतरं शवमिति तस्मादङ्गुलिभिरेव योयुप्येरन्न
काष्ठैर्यदा होता सूक्तवाकमाह ॥ १.८.३.
[१८] ॥

अथाग्नीदाहानुप्रहरेति । तद्यत्रास्येतर आत्मागंस्तदेवास्यैतद्गमयेत्येवैतदाह
तूष्णीमेवानुप्रहृत्य चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्यात्मानमुपस्पृशति तेनो
अप्यात्मानं नानुप्रवृणक्ति ॥ १.८.३.
[१९] ॥

अथाह संवदस्वेति । संवादयैनं
देवैरित्येवैतदाहागानग्नीदित्यगङ्खल्वित्येवैतदाहागन्नितीतरः प्रत्याह श्रावयेति
तं वै देवैः श्रावय तमनुबोधयेत्येवैतदाह श्रौषडिति विदुर्वा एनमनु वा
एनमभुत्सतेत्येवैतदाहैवमध्वर्युश्चाग्नीच्च देवलोकं यजमानमपिनयतः
१.८.३[.२]१
अथाह स्वगा दैव्या होतृभ्य इति दैव्या वा एते होतारो यत्परिधयोऽग्नयो हि
तानेवैतत्स्वगाकरोति तस्मादाह स्वगा दैव्या होतृभ्य इति स्वस्तिर्मानुषेभ्य इति
तदस्मै मानुषाय होत्रे ह्वलामाशास्ते ॥ १.८.३.
[२०] ॥

अथ परिधीननुप्रहरति स मध्यममेवाग्रे परिधिमनुप्रहरति यम्
परिधिं पर्यधत्था अग्ने देव पणिभिर्गुह्यमानः तं त एतमनु जोषं
भराम्येष नेत्त्वदपचेतयाता इत्यग्नेः प्रियं पाथोऽपीतमितीतरावनुसमस्यति ॥ १.८.३.
[२२] ॥

अथ जुहूं चोपभृतं च सम्प्रगृह्णाति । अदो हैवाहुतिं करोति
यदनक्त्याहुतिर्भूत्वा देवलोकं गच्छादिति तस्माज्जुहूं चोपभृतं च सम्प्रगृह्णाति ॥ १.८.३.
[२३] ॥

स वै विश्वेभ्यो देवेभ्यः सम्प्रगृह्णाति । यद्वा अनादिष्टं देवतायै हविर्गृह्यते
सर्वा वै तस्मिन्देवता अपित्विन्यो मन्यन्ते न वा एतत्कस्यै चन देवतायै
हविर्गृह्णन्नादिषति यदाज्यं तस्माद्विश्वेभ्यो देवेभ्यः सम्प्रगृह्णात्येतदु
वैश्वदेवं हविर्यज्ञे ॥ १.८.३.
[२४] ॥

स सम्प्रगृह्णाति । संस्रवभागा स्थेषा बृहन्त इति संस्रवो ह्येव खलु परिशिष्टो
भवति प्रस्तरेष्ठाः परिधेयाश्च देवा इति प्रस्तरश्च हि परिधयश्चानुप्रहृता
भवन्तीमां वाचमभि विश्वे गृणन्त इत्येतदु वैश्वदेवं करोत्यासद्यास्मिन्बर्हिषि
मादयध्वं स्वाहा वाडिति तद्यथा वष्ट्कृतं हुतमेवमस्यैतद्भवति ॥ १.८.३.
[२५] ॥

स यस्यानसो हविर्गृह्णन्ति । अनसस्तस्य धुरि विमुञ्चन्ति यतो युनजाम ततो
विमुञ्चामेति यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति यस्यो पात्र्यै स्फ्ये तस्य यतो
युनजाम ततो विमुञ्चामेति यतो ह्येवं युञ्जन्ति ततो विमुञ्चन्ति ॥ १.८.३.
[२६] ॥

युजौ ह वा एते यज्ञस्य यत्स्रुचौ । ते एतद्युङ्क्ते यत्प्रचरति स यं
निधायावद्येद्यथा वाहनमवार्च्छेदेवं तत्ते एतत्स्विष्टकृति विमोचनमागच्छतस्ते
तत्सादयति तद्विमुञ्चति ते एतत्पुनः प्रयुङ्क्तेऽनुयाजेषु सो
ऽनुयाजैश्चरित्वैतद्विमोचनमागच्छति ते तत्सादयति तद्विमुञ्चति ते एतत्पुनः
प्रयुङ्क्ते यत्सम्प्रगृह्णाति तद्यां गतिमभियुङ्क्ते तां गतिं गत्वा विमुञ्चते
यज्ञं वा अनु प्रजास्तस्मादयं पुरुषो युङ्क्तेऽथ विमुञ्चतेऽथ युङ्क्ते तद्यां
गतिमभियुङ्क्ते तां गतिं गत्वान्ततो विमुञ्चते स सादयति घृताची स्थो धुर्यौ
पातंसुम्ने स्थः सुम्ने मा धत्तमिति साध्व्यौ स्थः साधौ मा
धत्तमित्येवैतदाह ॥ १.८.३.
[२७] ॥

स यत्राह । इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति यदतो
होतान्वाह सूक्त इव तदाह यजमानायैवैतदाशिषमाशास्ते तद्वा
एतदुपरिष्टाद्यज्ञस्याशिषमाशास्ते द्वयं तद्यस्मादुपरिष्टाद्यज्ञस्याशिषमाशास्ते ॥ १.९.१.
[१] ॥

यज्ञं वा एष जनयति । यो यजत एतेन ह्युक्ता ऋत्विजस्तन्वते तं
जनयन्त्यथाशिषमाशास्ते तामस्मै यज्ञ आशिषं संनमयति यामाशिषमाशास्ते यो
माजीजनतेति तस्माद्वा उपरिष्टाद्यज्ञस्याशिषमाशास्ते ॥ १.९.१.
[२] ॥

देवान्वा एष प्रीणाति । यो यजत एतेन यज्ञेनर्ग्भिरिव त्वद्यजुर्भिरिव
त्वदाहुतिभिरिव त्वत्स देवान्प्रीत्वा तेष्वपित्वी भवति तेष्वपित्वी
भूत्वाथाशिषमाशास्ते तामस्मै देवा आशिषं संनमयन्ति यामाशिषमाशास्ते यो नो
ऽप्रैषीदिति तस्माद्वा उपरिष्टाद्यज्ञस्याशिषमाशास्ते ॥ १.९.१.
[३] ॥

अथ प्रतिपद्यते । इदं द्यावापृथिवी भद्रमभूदिति भद्रं ह्यभूद्यो यज्ञस्य
संस्थामगन्नार्ध्म सूक्तवाकमुत नमोवाकमित्युभयं वा एतद्यज्ञ एव
यत्सूक्तवाकश्च नमोवाकश्चारात्स्म यज्ञमविदाम यज्ञमित्येवैतदाहाग्ने त्वं
सूक्तवागस्युपश्रुती दिवस्पृथिव्योरित्यग्निमेवैतदाह त्वं
सूक्तवागस्युपशृण्वत्योरनयोर्द्यावापृथिव्योरित्योमन्वती तेऽस्मिन्यज्ञे यजमान
द्यावापृथिवी स्तामित्यन्नवत्यौ ते ’स्मिन्यज्ञे यजमान द्यावापृथिवी
स्तामित्येवैतदाह ॥ १.९.१.
[४] ॥

शंगवी जीवदानू इति । शंगवी ते जीवदानू स्तामित्येवैतदाहात्रस्नू अप्रवेदे इति माह
कस्माच्चन प्रत्रासीर्मो त इदं पुष्टं कश्चन प्रविदतेत्येवैतदाह ॥ १.९.१.
[५] ॥

उरुगव्यूती अभयंकृताविति । उरुगयूती तेऽभये स्तामित्येवैतदाह वृष्टिद्यावा
रीत्यापेति वृष्टिमत्यौ ते स्तामित्येवैतदाह ॥ १.९.१.
[६] ॥

शम्भुवौ मयोभुवाविति । शम्भुवौ ते मयोभुवौ स्तामित्येवैतदाहोर्जस्वती च
पयस्वती चेति रसवत्यौ त उपजीवनीये स्तामित्येवैतदाह ॥ १.९.१.
[७] ॥

सूपचरणा च स्वधिचरणाचेति । सूपचरणाह तेऽसावस्तु यामधस्तादुपचरसि
स्वधिचरणो त इयमस्तु यामुपरिष्टादधिचरसीत्येवैतदाह तयोराविदीति
तयोरनोमन्यमानयोरित्येवैतदाह ॥ १.९.१.
[८] ॥

अग्निरिदं हविः अजुषतावीवृधत महो ज्यायोऽकृतेति तदाग्नेयमाज्यभागमाह
सोम इदं हविरजुषतावीवृधत महो ज्यायोऽकृतेति
तत्सौम्यमाज्यभागमाहाग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृतेति तद्य
एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह ॥ १.९.१.
[९] ॥

अथ यथादेवतम् । देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायोऽक्रतेति
तत्प्रयाजानुयाजानाह प्रयाजानुयाजा वै देवा आज्यपा अग्निर्होत्रेणेदं
हविरजुषतावीवृधत महो ज्यायोऽकृतेति तदग्निं होत्रेणाहाजुषतेत्येवं या इष्टा
देवता भवन्ति ताः सम्पश्यत्यसौ हविरजुषतासौ हविरजुषतेति
तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति
तस्मादाहाजुषतेत्यवीवृधतेति यद्वै देवा हविर्जोषयन्ते तदपि गिरिमात्रं कुर्वते
तस्मादाहावीवृधतेति ॥ १.९.१.
[१०] ॥

महो ज्यायोऽक्रतेति । यज्ञो वै देवानां महस्तं ह्येतज्ज्यायांसमिव कुर्वते
तस्मादाह महो ज्यायोऽक्रतेति ॥ १.९.१.
[११] ॥

अस्यामृधेद्धोत्रायां देवंगमायामिति । अस्यां राध्नोतु होत्रायां
देवंगमायामित्येवैतदाहाशास्तेऽयं यजमानोऽसाविति नाम गृह्णाति तदेनम्
प्रत्यक्षमाशिषा सम्पादयति ॥ १.९.१.
[१२] ॥

दीर्घायुत्वमाशास्त इति । सा यामुत्रोत्तरा देवयज्या तदिह प्रत्यक्ष्ं दीर्घायुत्वम् ॥ १.९.१. [१३] ॥

सुप्रजास्त्वमाशास्त इति । तद्यदमुत्र भूयो हविष्करणं तदिह प्रत्यक्ष्ं
सुप्रजास्त्वं प्रशासनं स कुर्याद्य एवं कुर्यादुत्तरां देवयज्यामाशास्त इति त्वेव
ब्रूयात्तदेव जीवातुं तत्प्रजां तत्पशून् ॥ १.९.१.
[१४] ॥

भूयो हविष्करणमाशास्त इति तद्वेव तत्सजातवनस्यामाशास्त इति प्राणा वै सजाताः
प्राणौर्हि सह जायते तत्प्राणानाशास्ते ॥ १.९.१.
[१५] ॥

दिव्यं धामाशास्त इति । देवलोके मेऽप्यसदिति वै यजते यो यजते तद्देवलोक
एवैनमेतदपित्विनं करोति यदनेन हविषाशास्ते तदश्यात्तदृध्यादिति यदनेन
हविषाशास्ते तदस्मै सर्वं समृध्यतामित्येवैतदाह ॥ १.९.१.
[१६] ॥

ता वा एताः । पञ्चाशिषः करोति तिस्र इडायां ता अष्टावष्टाक्षरा वै गायत्री वीर्यं
गायत्री वीर्यमेवैतदाशिषोऽभिसंपादयति ॥ १.९.१.
[१७] ॥

नातो भूयसीः कुर्यात् । अतिरिक्तं ह कुर्याद्यदतो भूयसीः कुर्याद्यद्वै
यज्ञस्यातिरिक्तं द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते तस्मान्नातो भूयसीः
कुर्यात् ॥ १.९.१.
[१८] ॥

अपीद्वै कनीयसीः सप्त । तदस्मै देवा रासन्तामिति तदस्मै देवा
अनुमन्यन्तामित्येवैतदाह तदाग्निर्देवो देवेभ्यो वनुतां वयमग्नेः परि
मानुषा इति तदग्निर्देवो देवेभ्यो वनुतां वयमग्नेरध्यस्मा एतद्वनवामहा
इत्येवैतदाह ॥ १.९.१.
[१९] ॥

इष्टं च वित्तं चेति । ऐषिषुरिव वा एतद्यज्ञं तमविदंस्तस्मादाहेष्टं च वित्तं
चेत्युभे चैनं द्यावापृथिवी अंहसस्पातामित्युभे चैनं द्यावापृथिवी
आत्तेर्गोपायतामित्येवैतदाह ॥ १.९.१.
[२०] ॥

तदु हैक आहुः । उभे च मेति तथा होताशिष आत्मानं नान्तरेतीति तदु तथा न
ब्रूयाद्यजमानस्य वै यज्ञ आशीः किं नु तत्रर्त्विजां यां वै कां च यज्ञ ऋत्विज
आशिषमाशासते यजमानस्यैव सा न ह स एतां क्व चनाशिषं प्रतिष्ठापयति य
आहोभे च मेति तस्मादु ब्रूयादुभे चैनमित्येव ॥ १.९.१.
[२१] ॥

इह गतिर्वामस्येति । तद्यदेव यज्ञस्य साधु तदेवास्मिन्नेतद्दधाति तस्मादाहेह
गतिर्वामस्येति ॥ १.९.१.
[२२] ॥

इदं च नमो देवेभ्य इति तद्यज्ञस्यैवैतत्संस्थां गत्वा नमो देवेभ्यः करोति
तस्मादाहेदं च नमो देवेभ्य इति ॥ १.९.१.
[२३] ॥

अथ शम्योराह । शम्युर्ह वै बार्हस्पत्योऽञ्जसा यज्ञस्य संस्थां विदां चकार स
देवलोकमपीयाय तत्तदन्तर्हितमिव मनुष्येभ्य आस ॥ १.९.१.
[२४] ॥

तद्वा ऋषीणामनुश्रुतमास । शम्युर्ह वै बार्हस्पत्योऽञ्जसा यज्ञस्य संस्थां
विदां चकार स देवलोकमपीयायेति ते तामेव यज्ञस्य संस्थामुपायन्यां
शम्युर्बार्हस्पत्योऽवेद्यच्छम्योरब्रुवंस्ताम्वेवैष एतद्यज्ञस्य संस्थामुपैति
यां शम्युर्बार्हस्पत्योऽवेद्यच्छम्योराह तस्माद्वै शम्योराह ॥ १.९.१.
[२५] ॥

स प्रतिपद्यते । तचंयोरावृणीमह इति तां यज्ञस्य संस्थामावृणीमहे यां
शम्युर्बार्हस्पत्योऽवेदित्येवैतदाह ॥ १.९.१.
[२६] ॥

गातुं यज्ञाय गातुं यज्ञपतय इति । गातुं ह्येष यज्ञायेच्छति गातुं यज्ञपतये यो
यज्ञस्य संस्थां दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्य इति स्वस्ति नो देवत्रास्तु
स्वस्ति मनुष्यत्रेत्येवैतदाहोर्ध्वं जिगातु भेषजमित्यूर्ध्वं नोऽयं यज्ञो
देवलोकं जयत्वित्येवैतदाह ॥ १.९.१.
[२७] ॥

शं नो अस्तु द्विपदे शं चतुष्पद इति । एतावद्वा इदं सर्वं यावद्द्विपाच्चैव
चतुष्पाच्च तस्मा एवैतद्यज्ञस्य संस्थां गत्वा शं करोति तस्मादाह शं नो अस्तु
द्विपदे शं चतुष्पद इति ॥ १.९.१.
[२८] ॥

अथानयेत्युपस्पृशति । अमानुष इव वा एतद्भवति यदार्त्विज्ये प्रवृत इयं वै
पृथिवी प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां प्रतिष्ठति तदु खलु
पुनर्मानुषो भवति तस्मादनयेत्युपस्पृशति
१.९.२अथ पत्नीसंयाजः ॥ १.९.१. [२९] ॥

ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति । जुहूं च स्रुवं चाध्वर्युरादत्ते
वेदं होताज्यविलापनीमग्नीत् ॥ १.९.२.
[१] ॥

तद्धैकेषामध्वर्युः । पूर्वेणाहवनीयं पर्येति तदु तथा न कुर्याद्बहिर्धा
ह यज्ञात्स्याद्यत्तेनेयात् ॥ १.९.२.
[२] ॥

जघनेनो हैव पत्नीम् । एकेषामध्वर्युरेति नो एव तथा कुर्यात्पूर्वार्धो वै
यज्ञस्याध्वर्युर्जघनार्धः पत्नी यथा भसत्तः शिरः प्रतिदध्यादेवं
तद्बहिर्धा हैव यज्ञात्स्याद्यत्तेनेयात् ॥ १.९.२.
[३] ॥

अन्तरेणो हैव पत्नीम् । एकेषामध्वर्युरेति नो एव तथा कुर्यादन्तरियाद्ध
यज्ञात्पत्नीं यत्तेनेयात्तस्मादु पूर्वेणैव गार्हपत्यमन्तरेणाहवनीयं चैति तथा
ह न बहिर्धा यज्ञाद्भवति यथो एवादः प्रचरन्नन्तरेण संचरति स उ
एवास्यैष संचरो भवति ॥ १.९.२.
[४] ॥

अथ पत्नीः संयाजयन्ति । यज्ञाद्वै प्रजाः प्रजायन्ते यज्ञात्प्रजायमाना
मिथुनात्प्रजायन्ते मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते तदेना
एतदन्ततो यज्ञस्य मिथुनात्प्रजननात्प्रजनयति तस्मान्मिथुनात्प्रजननादन्ततो
यज्ञस्येमाः प्रजाः प्रजायन्ते तस्मात्पत्नीः संयाजयन्ति ॥ १.९.२.
[५] ॥

चतस्रो देवता यजति । चतस्रो वै मिथुनं द्वन्द्वं वै मिथुनं द्वे द्वे हि खलु
भवतो मिथुनमेवैतत्प्रजनने क्रियते तस्माच्चतस्रो देवता यजति ॥ १.९.२.
[६] ॥

ता वा आज्यहविषो भवन्ति । रेतो वा आज्यं रेत एवैतत्सिञ्चति तस्मादाज्यहविषो
भवन्ति ॥ १.९.२.
[७] ॥

तेनोपांशु चरन्ति । तिर इव वै मिथुनेन चर्यते तिर इवैतद्यदुपांशु
तस्मादुपांशु चरन्ति ॥ १.९.२.
[८] ॥

अथ सोमं यजति । रेतो वै सोमो रेत एवैतत्सिञ्चति तस्मात्सोमं यजति ॥ १.९.२. [९] ॥

अथ त्वष्टारं यजति । त्वष्टा वै सिक्तं रेतो विकरोति तस्मात्त्वष्टारं यजति ॥ १.९.२. [१०] ॥

अथ देवानां पत्नीर्यजति । पत्नीषु वै योनौ रेतः प्रतिष्ठितं तत्ततः प्रजायते
तत्पत्नीष्वैवैतद्योनौ रेतः सिक्तं प्रतिष्ठापयति तत्ततः प्रजायते
तस्माद्देवानां पत्नीर्यजति ॥ १.९.२.
[११] ॥

स यत्र देवानां पत्नीर्यजति । तत्पुरस्तात्तिरः करोत्युप ह वै तावद्देवता आसते
यावन्न समिष्टयजुर्जुह्वतीदं नु नो जुह्वत्विति ताभ्य एवैतत्तिरः करोति
तस्मादिमा मानुष्य स्त्रियस्तिर इवैव पुंसो जिघत्मन्ति या इव तु ता इवेति ह स्माह
याज्ञवल्क्यः ॥ १.९.२.
[१२] ॥

अथाग्निं गृहपतिं यजति । अयं वा अग्निर्लोक इममेवैतल्लोकमिमाः प्रजा
अभिप्रजनयति ता इमं लोकमिमाः प्रजा अभिप्रजायन्ते तस्मादग्निं गृहपतिं
यजति ॥ १.९.२.
[१३] ॥

तदिडान्तं भवति । न ह्यत्र परिधयो भवन्ति न प्रस्तरो यत्र वा अदः
प्रस्तरेण यजमानं स्वगाकरोति पतिं वा अनु जाया तदेवास्यापि पत्नी स्वगाकृता
भवतीयसि तं ह कुर्याद्यत्प्रस्तरस्य रूपं कुर्यात्तस्मादिडान्तमेव स्यादुतो
प्रस्तरस्यैव रूपं क्रियते ॥ १.९.२.
[१४] ॥

स यदि प्रस्तरस्य रूपं कुर्यात् । यथैवादः प्रस्तरेण यजमानं
स्वगाकरोत्येवमेवैतत्पत्नीं स्वगाकरोति ॥ १.९.२.
[१५] ॥

स यदि प्रस्तरस्य रूपं कुर्यात् । वेदस्यैकं तृणमाच्छिद्याग्रं जुह्वामनक्ति
मध्यं स्रुवे बुध्नं स्थाल्याम् ॥ १.९.२.
[१६] ॥

अथाग्नीदाहानुप्रहरेति । तूष्णीमेवानुप्रहृत्य चक्षुष्पा अग्नेऽसि चक्षुर्मे
पाहीत्यात्मानमुपस्पृशाते तनो अप्यात्मानं नानुप्रवृणक्ति ॥ १.९.२.
[१७] ॥

अथाह संवदस्वेति । अगानग्नीदगंच्रावय औषट्स्वगा दैव्या होतृभ्यः
स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति ॥ १.९.२.
[१८] ॥

अथ जुहूं च स्रुवं च सम्प्रगृह्णाति । अदो हैवाहुतिं करोति यदनक्त्याहुतिर्भूत्वा
देवलोकं गच्छादिति तस्माज्जुहूं च स्रुवं च सम्प्रगृह्णाति ॥ १.९.२.
[१९] ॥

स वा अग्नये सम्प्रगृह्णाति । अग्नेऽदब्धायोऽशीतमेत्यमृतो
ह्यग्निस्तस्मादाहादब्धायवित्यशीतमेत्यशिष्ठो ह्यग्निस्तस्मादाहाशीतमेति पाहि मा
दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्या इति सर्वाभ्यो मार्त्तिभ्यो
गोपायेत्येवैतदाहाविषं नः पितुं कृण्वित्यन्नं वै पितुरनमीवं न
इदमकिल्विषमन्नं कुर्वित्येवैतदाह सुषदा योनावित्यात्मन्येतदाह स्वाहा वाडिति
तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति ॥ १.९.२.
[२०] ॥

अथ वेदं पत्नी विस्रंसयति । योषा वै वेदिर्वृषा वेदो मिथुनाय वै वेद्!अः
क्रियतेऽथ यदेनेन यज्ञ उपालभते मिथुनमेवैतत्प्रजननं क्रियते ॥ १.९.२.
[२१] ॥

अथ यत्पत्नी विस्रंसयति । योषा वै पत्नी वृषा वेदो मिथुनमेवैतत्प्रजननं
क्रियते तस्माद्वेदं पत्नी विस्रंसयति ॥ १.९.२.
[२२] ॥

सा विस्रंसयति । वेदोऽसि येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेन मह्यं
वेदो भूया इति यदि यजुषा चिकीर्षेदेतेनैव कुर्यात् ॥ १.९.२.
[२३] ॥

तमा वेदेः संस्तृणाति । योषा वै वेदिर्वृषा वेदः पश्चाद्वै परीत्य वृषा
योषामधिद्रवति पश्चादेवैनामेतत्परीत्य वृष्णा वेदेनाधिद्रावयति तस्मादा
वेदेः संस्तृणाति ॥ १.९.२.
[२४] ॥

अथ समिष्टयजुर्जुहोति । प्राङ्ने यज्ञोऽनुसंतिष्ठाता इत्यथ यद्धुत्वा
समिष्टयजुः पत्नीः संयाजयेत्प्रत्यङ्ङु हैवास्यैष यज्ञः संतिष्ठेत तस्माद्वा
एतर्हि समिष्टयजुर्जुहोति प्राङ्ने यज्ञोऽनुसंतिष्ठाता इति ॥ १.९.२.
[२५] ॥

अथ यस्मात्समिष्टयजुर्नाम । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष
यज्ञस्तायते सर्वा वै तत्ताः समिष्टा भवन्ति तद्यत्तासु सर्वासु
समिष्टास्वथैतज्जुहोति तस्मात्समिष्टयजुर्नाम ॥ १.९.२.
[२६] ॥

अथ यस्मात्समिष्टयजुर्जुहोति । या वा एतेन यज्ञेन देवता ह्वयति याभ्य एष
यज्ञस्तायत उप ह वै ता आसते यावन्न समिष्टयजुर्जुह्वतीदं नु नो जुह्वत्विति ता
एवैतद्यथायथं व्यवसृजति यत्र यत्रासां चरणं तदनु यज्ञं वा एतदजीजनत
यदेनमतत तं जनयित्वा यत्रास्य प्रतिष्ठा तत्प्रतिष्ठापयति
तस्मात्समिष्टयजुर्जुहोति ॥ १.९.२.
[२७] ॥

स जुहोति । देवा गातुविद इति गातुविदो हि देवा गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह
गातुमितेति तदेतेन यथायथं व्यवसृजति मनसस्पत इमं देव यज्ञं स्वाहा
वात्ते धा इत्ययं वै यज्ञो योऽयं पवते तदिमं यज्ञं सम्भृत्यैतस्मिन्यज्ञे
प्रतिष्ठापयति यज्ञेन यज्ञं संदधाति तस्मादाह स्वाहा वाते धा इति ॥ १.९.२.
[२८] ॥

अथ बर्हिर्जुहोति । अयं वै लोको बर्हिरोषधयो बर्हिरस्मिन्नेवैतल्लोक
ओषधीर्दधति ता इमा अस्मिंलोक ओषधयः प्रतिष्ठितास्तस्माद्बर्हिर्जुहोति ॥ १.९.२.
[२९] ॥

तां वा अतिरिक्तां जुहोति । समिष्टयजुर्ह्येवान्तो यज्ञस्य यद्ध्यूर्ध्वं
समिष्टयजुषोऽतिरिक्तं तद्यदा हि समिष्टयजुर्जुहोत्यथैताभ्यो जुहोति तस्मादिमा
अतिरिक्ता असम्मिता ओषधयः प्रजायन्ते ॥ १.९.२.
[३०] ॥

स जुहोति । सं बर्हिरङ्क्तां हविषा घृतेन समादित्यैर्व!सुभिः सं मरुद्भिः
समिन्द्रो विश्वदेवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहेति ॥ १.९.२.
[३१] ॥

अथ प्रणीता दक्षिणतः परीत्य निनयति । युङ्क्ते वा एतद्यज्ञं यदेनं तनुते स
यन्न निनयेत्पराङु हाविमुक्त एव यज्ञो यजमानं प्रक्षिणीयात्तथो ह यज्ञो
यजमानं न प्रक्षिणाति तस्मात्प्रणीता दक्षिणतः परीत्य निनयति ॥ १.९.२.
[३२] ॥

स निनयति । कस्त्वा विमुञ्चति स त्वा विमुञ्चति कस्मै त्वा विमुञ्चति तस्मै त्वा
विमुञ्चति पोषायेति तत्पुष्टिमुत्तमां यजमानाया निराह स येनैव प्रणयति तेन
निनयति येन ह्येव योग्यं युञ्जन्ति तेन विमुञ्चन्ति योक्त्रेण हि योग्यं युञ्जन्ति
योक्त्रेण विमुञ्चन्त्यथ फलीकरणाङ्कपालेनाधोऽधः कृष्णाजिनमुपास्यति
रक्षसां भागोऽसीति ॥ १.९.२.
[३३] ॥

देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिर एतस्मिन्यज्ञे प्रजापतौ पितरि
संवत्सरेऽस्माकमयं भविष्यत्यस्माकमयं भविष्यतीति ॥ १.९.२.
[३४] ॥

ततो देवाः । सर्वं यज्ञं संवृज्याथ यत्पापिष्ठं यज्ञस्य
भागधेयमासीत्तेनैनान्निरभजन्नस्ना पशोः फलीकरणैर्हविर्यज्ञात्सुनिर्भक्ता
असन्नित्येष वै सुनिर्भक्तो यं भागिनं निर्भजन्त्यथ यमभागं
निर्भजन्त्यैव स तावचंसत उत हि वशो लब्ध्वाह किं मा बभक्थेति स
यमेवैभ्यो देवा भागमकल्पयंस्तमेवैभ्य एष एतद्भागं करोत्यथ
यदधोऽधः कृष्णाजिनमुपास्यत्यनग्नावेवैभ्य एतदन्धे तमसि प्रवेशयति
तथो एवासृक्पशो रक्षसां भागोऽसीत्यनग्नावन्धे तमसि प्रवेशयति
तस्मात्पशोस्तेदनीं न कुर्वन्ति रक्षसां हि स भगः
१.९.३अथ याजमानो विष्णुक्रमः ॥ १.९.२. [३५] ॥

संस्थिते यज्ञे । दक्षिणतः परीत्य पूर्णपात्रं निनयति तथा ह्युदग्भवति
तस्माद्दक्षिणतः परीत्य पूर्णपात्रं निनयति देवलोके मेऽप्यसदिति वै यजते यो
यजते सोऽस्यैष यज्ञो देवलोकमेवाभिप्रैति तदनूची दक्षिणा यां ददाति सैति
दक्षिणामन्वारभ्य यजमानः ॥ १.९.३.
[१] ॥

स एष देवयानो वा पितृयाणो वा पन्थाः । तदुभयतोऽग्निशिखे समोषन्त्यौ
तिष्ठतः प्रति तमोषतो यः प्रत्युष्योऽत्यु तं सृजते योऽतिसृंज्यः
शान्तिरापस्तदेतमेवैतत्पन्थानं शमयति
१.९.३[[.]]३
पूर्णं निनयति सर्वं वै पूर्णं सर्वेणैवैनमेतच्छमयति संततमव्यवच्छिन्नं
निनयति संततेनैवैनमेतदव्यवच्छिन्नेन षमयति ॥ १.९.३.
[२] ॥

यद्वेव पूर्णपात्रं निनयति । यद्वै यज्ञस्य मिथ्या क्रियते व्यस्य तद्वृहन्ति
क्षण्वन्ति शान्तिरापस्तदद्भिः शान्त्या शमयति तदद्भिः संदधाति ॥ १.९.३.
[४] ॥

पूर्णं निनयति । सर्वं वै पूर्णं सर्वेणैवैतत्संदधाति संततमव्यवच्छिन्नं
निनयति संततेनैवैतदव्यवच्छिन्नेन संदधाति ॥ १.९.३.
[५] ॥

तदञ्जलिना प्रतिगृह्णाति । सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन
त्वष्टा सुदत्रो विदधातु रायोऽनुमार्ष्टु तन्नो यद्विलिष्टमिति यद्विवृढं
तत्संदधाति ॥ १.९.३.
[६] ॥

अथ मुखमुपस्पृशते । द्वयं तद्यस्मान्मुखमुपस्पृशतेऽमृतं वा आपो
ऽमृतेनैवैतत्संस्पृशत एतदु चैवैतत्कर्मात्मङ्कुरुते तस्मान्मुखमुपस्पृशते ॥ १.९.३.
[७] ॥

अथ विष्णुक्रमान् क्रमते । देवान्वा एष प्रीणाति यो यजत एतेन यज्ञेनऽर्ग्भिरिव
त्वद्यजुर्भिरिव त्वदाहुतिभिरिव त्वत्स देवान्प्रीत्वा तेष्वपित्वी भवति तेष्वपित्वी
भूत्वा तानेवाभिप्रक्रामति ॥ १.९.३.
[८] ॥

यद्वेव विष्णुक्रमान् क्रमते । यज्ञो वै विष्णुः स देवेभ्य इमां विक्रान्तिं
विचक्रमे यैषामियं विक्रान्तिरिदमेव प्रथमेन पदेन
पस्पाराथेदमन्तरिक्षं द्वितीयेन दिवमुत्तमेनैताम्वेवैष एतस्मै
विष्णुर्यज्ञो विक्रान्तिं विक्रमते तस्माद्विष्णुक्रमान् क्रमते तद्वा इत एव
पराचीनं भूयिष्ठा इव क्रमन्ते ॥ १.९.३.
[९] ॥

तदु तत्पृथिव्यां विष्णुर्व्यक्रंस्त । गायत्रेण च्छन्दसा ततो निर्भक्तो यो
ऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन च्छन्दसा
ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मो दिवि विष्णुर्व्यक्रंस्त जागतेन
च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्म
इत्येवमिमांल्लोकान्त्समारुह्याथैषा गतिरेषा प्रतिष्ठा य एष तपति तस्य ये
रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा
लोकस्तदेवमिमांल्लोकान्त्समारुह्याथैतां गतिमेतां प्रतिष्ठां गच्छति
परस्तात्त्वेवार्वाङ्क्रमेत य इतोऽनुशासनं चिकीर्षेद्दूयं तद्यस्मात्परस्तादर्वाङ्
क्रमते १.९.३ऽपसरणतो ह वा अग्रे देवा जयन्तोऽजयन् । दिवमेवाग्रे
ऽथेदमन्तरिक्षमथेतोऽनपसरणात्सपत्नाननुदन्त तथो एवैष
एतदपसरणत एवाग्रे जयञ्जयति दिवमेवाग्रेऽथेदमन्तरिक्षमथेतो
ऽनपसरणात्सपत्नान्नुदत इयं वै पृथिवी प्रतिष्ठा तदस्यामेवैतत्प्रतिष्ठायां
प्रतितिष्ठति ॥ १.९.३.
[१०] ॥

तदु तद्दिवि विष्णुर्व्यक्रंस्त । जागतेन च्छन्दसा ततो निर्भक्तो योऽस्मान्द्वेष्टि यं
च वयं द्विष्मोऽन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन च्छन्दसा ततो निर्भक्तो
योऽस्मान्द्वेष्टि यं च वयं द्विष्मः पृथिव्यां विष्णुर्व्यक्रंस्त गायत्रेण च्छन्दसा
ततो निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मोऽस्मादन्नादस्यै प्रतिष्ठाया
इत्यस्यां हीदं सर्वमन्नाद्यं प्रतिष्ठित तस्मादाहास्मादन्नादस्यै प्रतिष्ठाया
इति ॥ १.९.३.
[११] ॥

अथ प्राङ्प्रेक्षते । प्राची हि देवानां दिक्तस्मात्प्राङ्प्रेक्षते ॥ १.९.३. [१२] ॥

स प्रेक्षते । अगन्म स्वरिति देवा वै स्वरगन्म देवानित्येवैतदाह सं
ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह ॥ १.९.३.
[१३] ॥

अथ सूर्यमुदीक्षते । सैषा गतिरेषाप्रतिष्ठा तदेतां गतिमेतां प्रतिष्ठां गच्छति
तस्मात्सूर्यमुदीक्षते ॥ १.९.३.
[१४] ॥

स उदीक्षते । स्वयम्भूरसि श्रेष्ठो रश्मिरित्येष वै श्रेष्ठो
रश्मिर्यत्सूर्यस्तस्मादाह स्वयम्भूरसि श्रेष्ठो रश्मिरिति वर्चोदा असि वर्चो मे
देहीति त्वेवाहं ब्रवीमीति ह स्माह याज्ञवल्क्यस्तद्ध्येव ब्राह्मणेनैष्ठव्यं
यद्ब्रह्मवर्चसी स्यादित्युतो ह स्माहौपोदितेय एष वाव मह्यं गा दास्यति गोदा
गा मे देहीत्येवं यं कामं कामयते सोऽस्मै कामः समृध्यते ॥ १.९.३.
[१५] ॥

अथावर्तते । सूर्यस्यावृतमनवावर्त इति तदेतां गतिमेतां प्रतिष्ठां
गत्वैतस्यैवावृतमन्वावर्तते ॥ १.९.३.
[१६] ॥

अथ गार्हपत्यमुपतिष्ठते । द्वयं तद्यस्माद्गार्हपत्यमुपतिष्ठते गृहा वै
गार्हपत्यो गृहा वै प्रतिष्ठा तद्गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति
यावद्वेवास्येह मानुषमायुस्तस्मा एवैतदुपतिष्ठते
तस्माद्गार्हपत्यमुपतिष्ठते ॥ १.९.३.
[१७] ॥

स उपतिष्ठते । अग्ने गृहपते सुगृहपतिस्त्वयाग्नेऽहं गृहपतिना भूयासं
सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूया इति नात्र तिरोहितमिवास्त्यस्थूरि नौ
गार्हपत्यानि सन्त्वित्यनार्त्तानि नौ गार्हपत्यानि सन्त्वित्येवैतदाह शतं हिमा इति
शतं वर्षाणि जीव्यासमित्येवैतदाह तदप्येतद्ब्रुवन्नाद्रियेतापि हि भूयांसि
शताद्वर्षेभ्यः पुरुषो जीवति तस्मादप्येतद्ब्रुवन्नाद्रियेत ॥ १.९.३.
[१८] ॥

अथावर्तते । सूर्यस्यावृतमन्वावर्त इति तदेतां गतिमेतां प्रतिष्ठां
गत्वैतस्यैवावृतमन्वावर्तते ॥ १.९.३.
[१९] ॥

अथ पुत्रस्य नाम गृह्णाति । इदं मेऽयं वीर्यं पुत्रोऽनुसंतनवदिति यदि पुत्रो
न स्यादप्यात्मन एव नाम गृह्णीयात् ॥ १.९.३.
[२०] ॥

अथाहवनीयमुपतिष्ठते । प्राङ्ने यज्ञोऽनुसंतिष्ठाता इति तूष्णीमुपतिष्ठतेअथ
व्रतं विसृजते । इदमहं य एवास्मि सोऽस्मीत्यमानुष इव वा एतद्भवति
यद्व्रतमुपैति न हि तदवकल्पते यद्ब्रूयादिदमहं सत्यादनृतमुपैमीति तदु
खलु पुनर्मानुषो भवति तस्मादिदमहं य एवास्मि साऽस्मीत्येवं व्रतं
विसृजेत। ॥ १.९.३.
[२१] ॥

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.