शाण्डिल्योपनिषत्
उपनिषद् शाण्डिल्योपनिषत् शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः । यद्बोधाद्यान्ति कैवल्यं स रामो मे परा गतिः ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा{म्+}सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ शाण्डिल्यो ह वा अथर्वाणं पप्रच्छात्मलाभोपायभूतमष्टाङ्गयोगमनुब्रूहीति । स होवाचाथर्वा यमनियमासन- प्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि […]