| ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् । ॐ ॐ ॐ इति त्रिरुक्त्वा चतुर्थः शान्त आत्माप्लुतप्रणवप्रयोगेण समस्तमोमिति प्रयुक्त आत्मज्योतिः सकृदावर्तते सकृदुच्चारितमात्रः स एष ऊर्ध्वमन्नमयतीत्योङ्कारः । देवाश्चेति संधत्तां सर्वेभ्यो दुःखभयेभ्यः संतारयतीति तारणात्तारः । सर्वे देवाः संविशन्तीति विष्णुः । सर्वाणि बृहयतीति ब्रह्मा । सर्वेभ्योऽन्तस्थानेभ्यो ध्येयेभ्यः प्रदीपवत्प्रकाशयतीति प्रकाशः । प्रकाशेभ्यः सदोमित्यन्तः शरीरे विद्युद्वद्द्योतयति मुहुर्मुहुरिति विद्युद्वत्प्रतीयाद्दिशं दिशं भित्त्वा सर्वांल्लोकान्व्याप्नोति व्यापयतीति व्यापनाद्व्यापी महादेवः ॥ 2॥ |
अधिकाध्ययनाय