निरुक्तोपनिषत्


निरुक्तोपनिषत्

स यद्यनुरुध्यते तद्भवति ।
यदि धर्मोऽनुरुध्यते तदेवोद्भवति ।
यदि ज्ञानमनुरुध्यते तदमृतो भवति ।
यदि काममनुरुध्यते संचरतां इमां योनिं संदध्यात्तदिदमत्र मनः श्लेष्मरेतसः संभवति । श्लेष्मणो रसः । रसाच्छोणितम् । शोणितान्मांसम् । मांसान्मेदः ।
मेदसः स्नावा । स्नावोऽस्थीनि । अस्थिभ्यो मज्जा । मज्जातो रेतः । तदिदं योनौ रेतः सिक्तं पुरुषः संभवति । शुक्रातिरेके पुमान् भवति । शोणितातिरेके स्त्री भवति । द्वाभ्यां समेन नपुंसको भवति । शुक्रभिन्नेन यमो भवति । शुक्रशोणित- संयोगान्मातृपितृसंयोगाच्च कथमिदं शरीरं परं संयम्यते । सौम्यो भवत्येकरात्रोषितं कललं भवति । पञ्चरात्राद्बुद्बुदः । सप्तरात्रात् पेशी । द्विसप्तरात्रादर्बुदः । पंचविंशतिरात्रस्थितो योनौ घनो भवति । मास- मात्रात् कठिनो भवति । द्विमासाभ्यन्तरे शिरः संपद्यते । मासत्रयेण ग्रीवाव्यादेशः । मासचतुष्केण त्वग्व्यादेशः । पञ्चमे मासे नखरोमव्यादेशः । षष्ठे मुखनासिकाक्षिश्रोत्रं च संभवति । सप्तमे चलनसमर्थो भवति । अष्टमे बुद्ध्याध्यवस्यते । नवमे सर्वाङ्गसंपूर्णो भवति ।।
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनिसहस्राणि मया यान्युषितानि वै ।।
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ।
मातरो विविधा दृष्टाः पितरः सुहृदस्तथा ।।
अवाङ्मुखः पीड्यमानो जन्तुश्चैव समन्वितः ।
सांख्यं योगं समभ्यस्ये पुरुषं पञ्चविंशकम् ।। इति ।।
ततश्च दशमे मासे प्रजायते । जातश्च वायुना स्पृष्टो न स्मरति जन्म मरणम् । अन्ते च शुभाशुभं कर्मैतच्छरीरस्य प्रामाण्यम् । ।

इति निरुक्तोपनिषदि विंशतितमोध्यायः।

अष्टोत्तरं सन्धिशतमष्टाकपालं शिरः संपद्यते । षोडश वपापलानि । नव स्नायुशतानि । सप्तशतं पुरुषस्य मर्माणि । अर्धचतस्रो रोमाणि कोटयः । हृदयं ह्यष्टकपलानि । द्वादशकपलानि जिह्वा । वृषणो हृष्टसुपणौ । तत उपस्थ- गुदयोन्येतन्मूत्रपुरीषं कस्मादाहारापानसिक्तत्वादनुपचति । कर्मणा अन्योन्यं जायत इति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञां च । महत्यज्ञानतमसि मग्नो जरामरणक्षुत्पिपासाशोकक्रोधद्रोहलोभमोहमदभयमत्सरहर्षविषादेर्ष्या- सूयात्मकैर्द्वन्द्रैरभिभूयमानः सोऽस्मादार्जवं जवीभावनान्तं निर्मुच्यते । सोऽस्मा- दान्तं महाभूभिकावत् शरीरान्निमेषमात्रैः प्रक्रम्य प्रकृतिभिरभिपरीत्य तैजसं शरीरं कृत्वा कर्मणानुरूपं फलमनुभूय तस्य संक्षये पुनरिमं लोकं प्रतिपद्यते ।।

इति निरुक्तोपनिषदि एकविंशोऽध्यायः।

इति निरुक्तोपनिषत्समाप्ता





Let us know your thoughts on this post. If you want to talk to us, please send a mail to namaste@thevyasa.in

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.