एकाक्षरोपनिषत्
उपनिषद् एकाक्षरोपनिषत् एकाक्षरपदारूढं सर्वात्मकमखण्डितम् । सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ एकाक्षरं त्वक्षरेऽत्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः । त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥ १॥ विश्वे निमग्नपदवीः कवीनां त्वं जातवेदो भुवनस्य […]