महानारायणोपनिषत्
उपनिषद् महानारायणोपनिषत् श्रव्य सञ्चिका ॥ हरिः ॐ ॥ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । […]