पञ्चब्रह्मोपनिषत्
उपनिषद् पञ्चब्रह्मोपनिषत् ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः । तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । सद्यो जातमिति । किं भगव इति । अघोर इति । किं भगव इति । […]