Puranas

अव्यक्तोपनिषत्

उपनिषद् अव्यक्तोपनिषत् स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी । प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ । पुरा किलेदं न किंचन्नासीन्न द्यौर्नान्तरिक्षं न पृथिवी […]

अव्यक्तोपनिषत् Read More »

वासुदेवोपनिषत्

उपनिषद् वासुदेवोपनिषत् यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् । वस्तुतो यन्निराधारं वासुदेवपदं भजे ।। ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ।। सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम- स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।। ॐ शान्तिः शान्तिः शान्तिः ।। ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ अधीहि

वासुदेवोपनिषत् Read More »

मुद्गलोपनिषत्

मुद्गलोपनिषत् ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ॥प्रथम: खण्ड:॥ ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते । सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥ १॥ तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।

मुद्गलोपनिषत् Read More »

कौलोपनिषत्

॥ कौलोपनिषत् ॥ ॥ श्रीः ॥ कौलोपनिषत् । शन्नः कौलिकः शन्नो वारुणी शन्नः शुद्धिः शन्नो। आग्निश्शन्नः सर्वं समभवत् । नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो नमोऽग्नये नमो वायवे नमो गुरुभ्यः । त्वमेव प्रत्यक्षं सैवासि । त्वामेव प्रत्यक्षं तां वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।

कौलोपनिषत् Read More »

ईशावास्योपनिषद्भाष्यम्

ईशावास्योपनिषद्भाष्यम् श्रीशङ्करः ईशावास्योपनिषद् ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ओं शान्तिः शान्तिः शान्तिः । ईशा वास्यमित्यादयो मन्त्राः कर्मस्वविनियुक्ताः । तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्यं चात्मनः शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्येतेति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवं लक्षणमात्मनो याथात्म्यमुत्पाद्यं विकार्यमाप्यं संस्कार्यं कर्तृभोक्तृरूपं वा येन कर्मशेषता स्यात् । सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैव उपक्षयात् । गीतानां मोक्षधर्माणां चैवं

ईशावास्योपनिषद्भाष्यम् Read More »

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.