ऐतरेयोपनिषद्
उपनिषद् ॥ ऐतरेय उपनिषत् ॥ ॥ शान्तिपाठः ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः॥ ॥ अथ ऐतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः ॥ आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चचन । स […]