प्रश्नोपनिषत्/तृतीयः प्रश्नः

प्रथमः प्रश्नः

द्वितीयः प्रश्नः

तृतीयः प्रश्नः

चतुर्थः प्रश्नः

पञ्चमः प्रश्नः

षष्ठः प्रश्नः

॥तृतीयः प्रश्नः॥

अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ । भगवन् कुत
एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा
प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते
कथमध्यात्ममिति ॥ १ ॥

तस्मै स होवाचातिप्रष्नान् पृच्छसि ब्रह्मिष्ठोऽसीति
तस्मात्तेऽहं ब्रवीमि ॥२ ॥

आत्मन एष प्राणो जायते । यथैषा पुरुषे
छायैतस्मिन्नेतदाततं
मनोकृतेनायात्यस्मिञ्शरीरे ॥३ ॥

यथा सम्रादेवाधिकृतान् विनियुङ्क्ते । एतन् ग्रामानोतान्
ग्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्
पृथगेव सन्निधत्ते

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः
स्वयं
प्रातिष्टते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं
नयति
तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥

हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनं तासां शतं
शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः
प्रतिशाखानाडीसहस्राणि
भवन्त्यासु व्यानश्चरति ॥ ६ ॥

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन
पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७ ॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं
प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्य
अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥

तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ९ ॥

यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना
तथासङ्कल्पितं लोकं नयति ॥ १० ॥

य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो
भवति तदेषः श्लोकः ॥ ११ ॥

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते
विज्ञायामृतमश्नुत इति ॥ १२ ॥

इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥




Let us know your thoughts on this post. If you want to talk to us, please send a mail to namaste@thevyasa.in

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.