निरालम्बोपनिषद्
ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये।
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे।
निरालम्बं समाश्रित्य सालम्बं विजहाति यः।
स संन्यासी च योगी च कैवल्यं पदमश्नुते।। ||१||
एषामज्ञानजन्तूनां समस्तारिष्टशान्तये।
यद्यद्बोद्धव्यमखिलं तदाशङ्कय ब्रवीम्यहम्॥ ||२||
किं ब्रह्म। क ईश्वर ।
को जीवः।
का प्रकृतिः।
कः परमात्मा को ब्रह्मा।
को विष्णुः ।
को रुद्रः ।
क इन्द्रः ।
कः शमनः ।
कः सूर्यः।
कश्चन्द्रः।
के सुराः ।
के असुराः ।
के पिशाचाः ।
के मनुष्याः।
काः स्त्रियः।
के पश्वादयः।
किं स्थावरम्।
के ब्राह्मणादयः ।
का जातिः ।
किं कर्म।
किमकर्म।
किं ज्ञानम्।
किमज्ञानम्।
किं सुखम्।
किं दुःखम्।
कः स्वर्गः ।
को नरकः ।
को बन्धः।
को मोक्षः ।
क उपास्यः।
कः शिष्यः।
को विद्वान्।
को मूढः।
किमासुरम्।
किं तपः ।
किं परमं पदम्।
किं ग्राह्यम्।
किमग्राह्यम्।
कः संन्यासीत्याशङ्कयाह ब्रह्मेति॥ ||३||
स होवाच महदहंकारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं
तत्सकलशक्त्यु-पबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म।
ईश्वर इति च ।
ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः॥ ||४||
जीव इति च ब्रह्मविष्णवीशानेन्द्रादीनां नामरूपद्वारा स्थूलो ऽहमिति मिथ्याध्यासवशाज्जीवः।
सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः॥ ||५||
प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माणसामर्थ्यबुद्धिरूपा ब्रह्मश-क्तिरेव प्रकृतिः॥ ||६||
परमात्मेति च देहादेः परतरत्वाद् ब्रह्मैव परमात्मा ॥ ||७||
स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्तत्स्थावर ते ब्राह्मणादयः॥ ||८||
सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचन ॥ ||९||
जातिरिति च।
न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः।
न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता॥ ||१०||
कर्मेति च क्रियमाणेन्द्रियैः कर्माण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म।
अकर्मेति च कर्तृत्वभोत्त्कृत्वाद्यहंकारतया बन्धरूपं जन्मादिकारणां नित्यनैमित्तिकया-गव्रततपोदानादिषु फलाभिसंधानं यत्तदकर्म॥ ||११||
ज्ञानमिति देहेन्द्रियनिग्रहसद्गुरूपासनश्रवणमनननिदिध्यासनैर्यद्यद्दृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थमिवाविकारं विकारेषु चैतन्यं विना किंचिन्नास्तीति साक्षात्कारानुभवो ज्ञानम्॥ ||१२||
अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्- नरस्थावरस्त्रीपुरुषवर्णाश्रमबन्धमोक्षोपाधिनानात्मभेदकल्पितं ज्ञानमज्ञानम्॥ ||१३||
सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम्॥ ||१४||
दुःखमिति अनात्मरूपो विषयसंकल्प एव दुःखम्॥ ||१५||
स्वर्ग इति च सत्संसर्गः स्वर्गः।
नरक इति च असत्संसारविषयजनसंसर्ग एवं नरकः ॥ ||१६||
बन्ध इति च अनाद्यविद्यावासनया जातोऽहमित्यादिसंकल्पो बन्धः॥ ||१७||
पितृमातृसहोदरदारापत्यगृहारामक्षेत्रममतासंसारावरणसङ्कल्पो बन्धः॥ ||१८||
कर्तृत्वाद्यहंकारसंकल्पो बन्धः॥ ||१९||
अणिमाद्यष्टैश्वर्याशासिद्धसंकल्पो बन्धः॥ ||२०||
देवमनुष्याद्युपासनाकामसंकल्पो बन्धः॥ ||२१||
यमाद्यष्टाङ्योगसंकल्पो बन्धः॥ ||२२||
वर्णाश्रमधर्मकर्मसंकल्पो बन्धः॥ ||२३||
आज्ञाभयसंशयात्मगुणसंकल्पो बन्धः॥ ||२४||
यागव्रततपोदानविधिविधानज्ञानसंकल्पो बन्धः॥ ||२५||
केवलमोक्षापेक्षासंकल्पो बन्धः॥ ||२६||
संकल्पमात्रसंभवो बन्धः॥ ||२७||
मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःख विषयसमस्तक्षेत्र ममताबन्धक्षयो मोक्षः॥ ||२८||
उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः॥ ||२९||
शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः॥ ||३०||
विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपविद्विद्वान्॥ ||३१||
मूढ इति च कर्तृत्वाद्यहंकारभावारूढो मूढः॥ ||३२||
आसुरमिति च ब्रह्मविष्यवीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपाग्निहोत्रादि-ष्वन्तरात्मानं संतापयति चात्युग्ररागद्वेषविहिंसादम्भाद्यपेक्षितं तप आसुरम्॥ ||३३||
तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना।
ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प-बीजसन्तापं तपः॥ ||३४||
परमं पदमिति च प्राणेन्द्रियाद्यन्तः करणगुणादेः।
परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम्॥ ||३५||
ग्राह्यमिति च देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम्॥ ||३६||
अग्राह्यमिति च स्वस्वरूपव्यतिरिक्त मायामयबुद्धीन्द्रियगोचर जगत्स-त्यत्वचिन्तनमग्राह्यम्॥ ||३७||
संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहंकारो भूत्वा ब्रह्मेष्टशरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचनेत्यादिमहावाक्यार्थानुभवज्ञानाद् ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति।। ||३८||
इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत्॥ ||३९||