निरालम्बोपनिषद्
निरालम्बोपनिषद् ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये। निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे। निरालम्बं समाश्रित्य सालम्बं विजहाति यः। स संन्यासी च योगी च कैवल्यं पदमश्नुते।। ||१|| एषामज्ञानजन्तूनां समस्तारिष्टशान्तये। यद्यद्बोद्धव्यमखिलं तदाशङ्कय ब्रवीम्यहम्॥ ||२|| किं ब्रह्म। क ईश्वर । को जीवः। का प्रकृतिः। कः परमात्मा को ब्रह्मा। को विष्णुः । को रुद्रः । क इन्द्रः । कः शमनः । कः […]