शरभोपनिषत्
उपनिषद् ॥ शरभोपनिषत् ॥ सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः । तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ अथ हैनं पैप्पलादो ब्रह्माणमुवाच […]