इतिहासोपनिषत्
इतिहासोपनिषत् ॐ वृषादर्विकुलँ ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुल- विद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स किंचित्प्राप्यान्तर्हितः । सोऽब्रवीत । यो मामितिहासं ग्राहयेत् । वरमस्मै दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति । तस्माद्य इममितिहासमधीते […]