कलिसन्तरणोपनिषत्

कलिसन्तरणोपनिषत्

यद्दिव्यनाम स्मरतां संसारो गोष्पदायते ।

सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ।।

ॐ सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यंकरवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ।

हरिः ॐ । द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां
पर्यटन् कलिं सन्तरेयमिति ।
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं
तच्छृणु येन कलिसंसारं तरिष्यसि ।
भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण
निर्धूतकलिर्भवतीति ॥ १ ॥

नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः ।

हरे राम हरे राम राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥

इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।
नातः परतरोपायः सर्ववेदेषु दृश्यते ॥

षोडशकलावृतस्य जीवस्यावरणविनाशनम् ।
ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ॥ २ ॥

पुनर्नारदः पप्रच्च्ह भगवन् कोऽस्य विधिरिति ।
तं होवाच नास्य विधिरिति ।
सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां
सरूपतां सायुज्यमेति ।
यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति ।
तरति वीरहत्याम् ।
स्वर्णस्तेयात् पूतो भवति ।
वृषलीगमनात् पूतो भवति ।
पितृदेवमनुष्याणामपकारात् पूतो भवति ।
सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् ।
सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३ ॥

ॐ सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यंकरवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ।

अधिकाध्ययनाय




Let us know your thoughts on this post. If you want to talk to us, please send a mail to namaste@thevyasa.in

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.