मुद्गलोपनिषत्

मुद्गलोपनिषत्

ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥
वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥

॥प्रथम: खण्ड:॥

ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः
पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।
सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।
अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥ १॥

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।
द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥ २॥

विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।
एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ ३॥

एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥ ४॥

तस्माद्विराडित्यनया पादनारायणाद्धरेः ।
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥ ५॥

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥ ६॥

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ।
अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥ ७॥

तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ ८॥

यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः ।
य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥ ९॥

॥द्वितिय: खण्ड:॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् ।
वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् ॥१॥

द्वौ खण्डावुच्येते ।
योऽय मुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे ।
तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् ॥२॥

पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् ।
स एष सर्वेषा मोक्षदस्चासीत् ।
स च सर्वस्मान्महिम्नो ज्यायान् ।
तस्मान्न कोऽपि ज्यायान् ॥३॥

महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् ।
इतरेण चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् ॥४॥

स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् ।
स समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् ।
सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।
ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्गस्पर्शात्कलेवरो वज्रं हीष्यते ।
ततः स्वकार्यान्सर्वप्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति ।
ततः स्थावरजङ्गमात्मकं जगद्भविष्यति ॥५॥

एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् ॥६॥

य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥७॥

॥तृतीय: खण्ड:॥

एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते ॥१॥

तमेतमग्निरित्यध्वर्यव उपासते ।
यजुरित्येष हीदं सर्वं युनक्ति ।
सामेति छ्न्दोगाः ।
एतस्मिन्हीदं सर्वं प्रतिष्ठितम् ।
विषमिति सर्पाः ।
सर्प इति सर्पविदः ।
ऊर्गिति देवाः ।
रयिरिति मनुष्याः ।
मायेत्यसुराः ।
स्वधेति पितरः ।
देवजन इति देवजनविदः ।
रूपमिति गन्धर्वाः ।
गन्धर्व इत्यप्सरसः ॥२॥

तं यथायथोपासते तथैव भवति ।
तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् ।
तद्रूपो भवति ।
य एवं वेद ॥ ३॥

॥चतुर्थ: खण्ड:॥

तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि सर्वविलक्षणं भवति ॥१॥

तापत्रयं त्वाध्यात्मिकाधिभौतिकाधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय भोक्तृभोगभोग्यमिति त्रिविधम् ॥२॥

त्वङ्मांसशोणितास्थि स्नायुमज्जाः षट्कोशाः ॥३॥

कामक्रोधलोभमोहमदमात्सर्यमित्यरिषड्वर्गः ॥४॥

अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्चकोशाः ॥५॥

प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः ॥६॥

अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः ॥७॥

कुलगोत्रजातिवर्णाश्रमरूपाणि षड्भ्रमाः ॥८॥

एतद्योगेन परमपुरुषो जीवो भवति नान्यः ॥९॥

य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति ।
स वायुपूतो भवति ।
स आदित्यपूतो भवति ।
अरोगी भवति ।
श्रीमांश्च भवति ।
पुत्रपौत्रादिभिः समृद्धो भवति ।
विद्वांश्च भवति ।
महापातकात्पूतो भवति ।
सुरापानात्पूतो भवति ।
अगम्यागमनात्पूतो भवति ।
मातृगमनात्पूतो भवति ।
दुहितृस्नुषाभिगमनात्पूतो भवति ।
स्वर्णस्तेयात्पूतो भवति ।
वेदिजन्महानात्पूतो भवति ।
गुरोरशुश्रूषणात्पूतो भवति ।
अयाज्ययाजनात्पूतो भवति ।
अभक्ष्यभक्षणात्पूतो भवति ।
उग्रप्रतिग्रहात्पूतो भवति ।
परदारगमनात्पूतो भवति ।
कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति ।
सर्वेभ्यः पापेभ्यो मुक्तो भवति ।
इह जन्मनि पुरुषो भवति ॥१०॥

तस्मादेत त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् ।
नानूचानाय ।
नायज्ञशीलाय ।
नावैष्णवाय ।
नायोगिने ।
न बहुभाषिणे ।
नाप्रियवादिने ।
नासंवत्सरवेदिने ।
नातुष्टाय ।
नानधीतवेदायोपदिशेत् ॥११॥

गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् ।
न बहुशो वदेत् ।
यातयामो भवति ।
असकृत्कर्णमुपदिशेत् ।
एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् ॥१२॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित माविरावीर्म एधि ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

॥इति मुद्गलोपनिषत्समाप्ता॥

अधिकाध्ययनाय




Let us know your thoughts on this post. If you want to talk to us, please send a mail to namaste@thevyasa.in

Vyasa Sewaka
Namaskara! Ask me anything about this website's content.